वज्रसूची · श्लोक 1-20
वज्रसूची (व्स्)
जगद्गुरुं मञ्जुघोषं नत्वा वाक्कायचेतसा ।
अश्वघोषो वज्रसूचीं सूत्रयामि यथामतम्
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्
सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे
ते ऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः
अधीत्य चतुरो वेदान् साङ्गोपाङ्गेन तवत्त्तः ।
शूद्रात्प्रतिग्रहग्राही ब्राह्मणो जायते खरः
खरो द्वादशजन्मानि षष्ठिजन्मानि शूकरः ।
श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत्
हस्तिन्यामचलो जात उलूक्यां केशपिङ्गलः ।
अगस्त्यो ऽगस्तिपुष्पाच्च कौशिकः कुशसम्भवः
कपिलः कपिलाज्जातः शरगुल्माच्च गौतमः ।
द्रोणाचार्यस्तु कलशात्तित्तिरिस्तित्तिरीसुतः
रेणुकाजनयद्राममृष्यशृङ्गमुनिं मृगी ।
कैवर्तिन्यजनयद् व्यासं कुशिकं चैव शूद्रिका
विश्वामित्रं च चण्डाली वसिष्ठं चैव उर्वशी ।
न तेषां ब्राह्मणी माता लोकाचाराच्च ब्राह्मणाः
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहाच्छूद्रश्च भवति ब्राह्मणः क्षीरविक्रयी
आकाशगामिनो विप्राः पतन्ति मांसभक्षणात् ।
विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत्
ब्राह्मणत्वं न शास्त्रेण न संस्कारैर्न जातिभिः ।
न कुलेन न वेदेन न कर्मणा भवेत्ततः
निर्ममो निरहङ्कारो निःसङ्गो निष्परिग्रहः ।
रागद्वेषविनिर्मुक्तस्तं देवा ब्राह्मणं विदुः
सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः ।
सर्वभूते दया ब्रह्म एतद् ब्राह्मण लक्षणम्
सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः ।
सर्वभूते दया नास्ति एतच्चाण्डाललक्षणम्
देवमानुषनारीणां तिर्यग्योनिगतेष्वपि ।
मैथुनं नाधिगच्छन्ति ते विप्रास्ते च ब्राह्मणाः
न जातिर्दृश्यते तावद् गुणाः कल्याणकारकाः ।
चण्डालो ऽपि हि तत्रस्थस्तं देवा ब्राह्मणं विदुः
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तत्रैव च प्रसूतस्य निष्कृतिर्नोपलभ्यते
शूद्रीहस्तेन यो भुंक्ते मासमेकं निरन्तरम् ।
जीवमानो भवेच्छूद्रो मृतः श्वानश्च जायते
मूल पाठ: Vajrasūcī · Edition: Ramayana Prasad Dvivedi: Vajrasuchi. Varanasi : Chaukhamba Amarbharati Prakasan, 1985. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0