भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 2.2

2.2.1

पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम्

2.2.2

एतेनाप्सूष्णता व्याख्याता

2.2.3

व्यवस्थितः पृथिव्यां गन्धः

2.2.4

तेजस्य् उष्णता

2.2.5

अप्सु शीतता

2.2.6

अपरस्मिन् परं युगपद् अयुगपच् चिरं क्षिप्रम् इति काललिङ्गानि

2.2.7

द्रव्यत्वनित्यत्वे वायुना व्याख्याते

2.2.8

तत्त्वं भावेन

2.2.9

कार्यविशेषेण नानात्वम्

2.2.10

नित्येष्व् अभावाद् अनित्येषु भावात्

2.2.11

कारणे कालाख्या

2.2.12

इत इदम् इति यतस् तद् दिशो लिङ्गम्

2.2.13

द्रव्यत्वनित्यत्वे वायुना व्याख्याते

2.2.14

तत्त्वं भावेन

2.2.15

कार्यविशेषेण नानात्वम्

2.2.16

आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच् च प्राची

2.2.17

तथा दक्षिणा प्रतीच्य् उदीचि च

2.2.18

एतेन दिगन्तराणि व्याख्यातानि

2.2.19

सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश् च संशयः

2.2.20

दृष्टम् अदृष्टाम्

2.2.21

दृष्टं च दृष्टावत्

2.2.22

दृष्टं यथादृष्टाम् अयथादृष्टाम् उभयथादृष्टत्वात्

2.2.23

विद्याविद्यातश् च संशयः

2.2.24

श्रोत्रग्रहणो यो ऽर्थः स शब्दः

2.2.25

तस्मिन् द्रव्यं कर्म गुण इति संशयः

2.2.26

तुल्यजातीयेष्व् अर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात्

2.2.27

एकद्रव्यवत्त्वान् न द्रव्यम्

2.2.28

अचाक्षुषत्वान् न कर्म

2.2.29

गुणस्य सतो ऽपवर्गः कर्मभिः साधर्म्यम्

2.2.30

सतो लिङ्गाभावात्

2.2.31

नित्यवैधर्म्यात्

2.2.32

कार्यत्वात्

2.2.33

अभावात्

2.2.34

कारणो विकारात्

2.2.35

दोषात्

2.2.36

संयोगाद् विभागाच् छब्दाच् च शब्दनिष्पत्तेः

2.2.37

लिङ्गाच् चानित्यः

2.2.38

द्वयोस् तु प्रवृत्त्योर् अभावात्

2.2.39

संख्याभावात्

2.2.40

प्रथमाशब्दात्

2.2.41

सम्प्रतिपत्तिभावाच् च

2.2.42

सन्दिग्धाः सतिबहुत्वे

2.2.43

संख्याभावः सामान्यतः

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc