भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 1.2

1.2.1

कारणाभावात् कार्याभावः

1.2.2

न तु कार्याभवात् कारणाभावः

1.2.3

सामान्यं विशेष इति बुद्ध्यपेक्षम्

1.2.4

भावः सामान्यम् एव

1.2.5

द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश् च

1.2.6

अन्यत्रान्त्येभ्यो विशेषेभ्यः

1.2.7

सद् इति यतो द्रव्यगुणकर्मसु

1.2.8

द्रव्यगुणकर्मभ्यो ऽर्थान्तरं सत्ता

1.2.9

एकद्रव्यवत्त्वान् न द्रव्यम्

1.2.10

गुणकर्मसु च भावान् न कर्म न गुणः

1.2.11

सामान्यविशेषाभावाच् च

1.2.12

एकद्रव्यवत्त्वेन द्रव्यत्वम् उक्तम्

1.2.13

सामान्यविशेषाभावेन च

1.2.14

गुणे भावाद् गुणत्वम् उक्तम्

1.2.15

सामान्यविशेषाभावाच् च

1.2.16

कर्मणि भावात् कर्मत्वम् उक्तम्

1.2.17

सामान्यविशेषाभावाच् च

1.2.18

सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच् चैको भावः

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc