भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र · अध्याय 1.1

1.1.1

वैशेषिकसूत्रम्
अथातो धर्मं व्याख्यास्यामः

1.1.2

यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः

1.1.3

तद्वचनाद् आम्नायप्रामाण्यम् (उ,व्,भ्व् आम्नायस्य प्रामाण्यम्)

1.1.4

पृथिव्य् आपस् तेजो वायुर् आकाशं कालो दिग् आत्मा मन इति द्रव्याणि

1.1.5

रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् च गुणाः

1.1.6

उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं गमनम् इति कर्माणि

1.1.7

सद् अनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवद् इति द्रव्यगुणकर्मणाम् अविशेषः

1.1.8

द्रव्याणि द्रव्यान्तरम् आरभन्ते

1.1.9

गुणाश् च गुणान्तरम्

1.1.10

कर्म कर्मसाध्यं न विद्यते

1.1.11

कार्याविरोधि द्रव्यं कारणाविरोधि च

1.1.12

उभय्तथा गुणः

1.1.13

कार्यविरोधि कर्म

1.1.14

क्रियावद् गुणवत् समवायिकारणम् इति द्रव्यलक्षणम्

1.1.15

द्रव्याश्रय्य् अगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष इति गुणलक्षणम्

1.1.16

एकद्रव्यम् अगुणं संयोगविभागेष्व् अनपेक्षं कारणम् इति कर्मलक्षणम्

1.1.17

द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्

1.1.18

तथा गुणः

1.1.19

संयोगविभागानां कर्म

1.1.20

न द्रव्याणां व्यतिरेकात्

1.1.21

गुणवैधर्म्यान् न कर्मणां

1.1.22

द्रव्याणां द्रव्यं कार्यं सामान्यम्

1.1.23

द्वित्वप्रभृतयश् च संख्याः पृथक्त्वं संयोगविभागाश् च

1.1.24

असमवायात् सामान्यं कर्म कार्यं न विद्यते

1.1.25

संयोगानां द्रव्यम्

1.1.26

रूपानां रूपम्

1.1.27

गुरुत्वप्रयत्नसंयोगानाम् उत्क्षेपणम्

1.1.28

संयोगविभागाः कर्मणाम्

1.1.29

कारणसामान्ये द्रव्यकर्मणां कर्माकारणम् उक्तम्

मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc