वैशेषिकसूत्र · अध्याय 2.1
रूपरसगन्धस्पर्शवती पृथिवी
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश् च
तेजो रूपस्पर्शवत्
वायुः स्पर्शवान्
त आकाशे न विद्यन्ते
सर्पिर्जतुमधूच्छिष्टानां पार्थिवानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम्
त्रपुसीसलोहरजतसुवर्णानां तैजसानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम्
विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम्
स्पर्शश् च
न च दृष्टानां स्पर्श इत्य् अदृष्टलिङ्गो वायुः
अद्रव्यवत्त्वाद् द्रव्यम् (च्,व्,भ्व् उ अद्रव्यवत्त्वेन)
क्रियावत्त्वाद् गुणवत्त्वाच् च (व् ओमित्स्)
अद्रव्यवत्त्वेन नित्यत्वम् उक्तम् (च्,भ्व्) (व् अद्रव्यत्वेनानित्यम्, उ अद्रव्यत्वेन)
वायोर् वायुसंमूर्च्छनं नानात्वे लिङ्गम्
वायोर् इति सति स्न्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते
सामान्यतोदृष्टाच् चाविशेषः
तस्माद् आगमिकम्
संज्ञाकर्म त्व् अस्मद्विशिष्तानां लिङ्गम्
प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः
निष्क्रमणं प्रवेशनम् इत्य् आकाशस्य लिङ्गम्
तद् अलिङ्गम् एकद्रव्यवत्त्वात् कर्मणः
कारणान्तरानुकॄप्तिवैधर्म्याच् च
संयोगाद् अभावः कर्मणः
कारणगुणपूर्वः कार्ये गुणो दृष्टः कार्यान्तराप्रादुर्भावाच् च शब्दः स्पर्शवताम् अगुणः
परत्र समवायात् प्रत्यक्षत्वाच् च नात्मगुणो न मनोगुणः
लिङ्गम् आकाशस्य
द्रव्यत्वनित्यत्वे वायुना व्याख्याते
मूल पाठ: Vaiśeṣikasūtra · Data entry Nozawa Masanobu · GRETIL (Göttingen) · CC BY-NC-SA 4.0