वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 5.1
आत्मसंयोग प्रयत्नाभ्यां हस्ते कर्म
तथा हस्तसंयोगाच्च मुसले कर्म
अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः
तथात्मसंयोगो हस्तकर्मणि
अभिघातान्मुसलसंयोगाद्धस्ते कर्म
आत्मकर्म हस्तसंयोगाच्च
संयोगाभावे गुरुत्वात् पतनम्
नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम्
प्रयत्नविशेषान्नोदन विशेषः
नोदनविशेषादुदसनविशेषः
हस्तकर्मणा दारककर्म व्याख्यातम्
तथा दग्धस्य विस्फोटने
यत्नाभावे प्रसुप्तस्य चलनम्
तृणे कर्म वायुसंयोगात्
मणिगमनं सूच्यभिसर्पणमदृष्टकारणम्
इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः
नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च
संस्काराभावे गुरुत्वात् पतनम्
मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0