भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 4.2

4.2.1

तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम्

4.2.2

प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते

4.2.3

गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम्

4.2.4

अणुसंयोगस्त्वप्रतिषिद्धः

4.2.5

तत्र शरीरं द्विविधं योनिजमयोनिजं च

4.2.6

अनियतदिग्देशपूर्वकत्वात्

4.2.7

धर्मविशेषाच्च

4.2.8

समाख्याभावाच्च

4.2.9

संज्ञाया आदित्वात्

4.2.10

सन्त्ययोनिजाः

4.2.11

वेदलिङ्गाच्च

मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc