भाषा

ENहिગુ
ग्रंथ पाठ

वादन्याय · भाग 2134

03614 यत् तु विरुद्धम् उत्तरं पर-पक्षे स्व-सिद्धेन गोत्व-आदिना
03615 अनैकान्तिक-चोदना इति, तद् असम्बद्धम् एव. यदि हि स्व-सिद्धेन
03616 गोत्व-आदिना परस्य व्यभिचार-सिद्धिम् आकाङ्क्षेत,
03617 तस्य तत् स्व-पक्ष-विरुद्धं न अभिमतम् इति विरोध
03618 युज्येत. स हि स्वयं प्रतिपन्ने गोत्वे हेतु-वृत्तेः संशयानो
03619 अप्रतिपत्तिम् आत्मनस् तथा ख्यापयति. स च हेतुः
03620 सत्य् असति गोत्वे अप्रसाधित-साधन-सामर्थ्यः संशय-हेतुत्वाद्
03701 अनैकान्तिक एव प्रसाधिते तु सामर्थ्ये गोत्वे
03702 अवृत्त्या हेतोर् न संशय एव सर्व-संशय-प्रकाराणां
03703 परिहारेण समर्थनात्. एतेन स्व-पक्ष-अनपेक्ष-हेतु-प्रयोगस्य
03704 अनैकान्तिकता व्याख्याता, सो अपि स्व-अभिमत-नित्य-गोत्व-
03705 वृत्तिं हेतुम् अनित्यत्वे ब्रुवाणो असमर्थित-साधन-अङ्गतया
03706 संशय-हेतुम् एव आह इति. यत् पुनर् उक्तम् उभय-पक्ष-सम्प्रतिपन्नेन
03707 वस्तुना अनैकान्तिक-चोदना इति, तत्र अप्य् अवश्यं
03708 संशय-हेतुत्व-मुखेन एव अनैकान्तिको वक्तव्यः. तद्
03709 असमर्थिते अन्यत्र अपि तुल्यम् इति न उभय-सिद्ध-इतरयोर् अनैकान्तिकत्वैर्
03710 विशेषः.
03711 यद् अप्य् उक्तम्, दृष्टान्त-आभास-हेत्व्-आभास-पूर्वकत्वात्
03712 तद्-अभिधानेन एव उक्ता इति न पृथग् निग्रहस्थानेषु उक्ता इति,
03713 तद् अप्य् अवयव-अन्तर-वादिनो अयुक्तम्. यो अवयव-अन्तरं
03714 दृष्टान्तं हेतोर् आह, तस्य न हेत्व्-आभास-उक्त्या दृष्टान्त-आभास-
03715 उक्तिर् व्याप्या तद्-वचनेन गम्यमानस्य तस्मात् साधन-अन्तर-
03716 अभाव-प्रसङ्गात्. दृष्टान्त-आभासानां हेत्व्-आभासेष्व्
03717 अन्तर्भावाद् दृष्टान्तस्य अपि हेताव् अन्तर्भाव इष्टो भवति,
03718 तथा च न दृष्टान्तः पृथक् साधन-अवयवः स्याद् अपृथग्-वृत्तेः.
03719 यो दृष्टान्त-साध्यो अर्थस् तस्य हेताव् अन्तर्भावाद्
03720 हेतुना एव साधित इति न दृष्टान्तस्य पृथक् किंचित् सामर्थ्यम्.
03801 अपि च न किंचित् पूर्व-पक्ष-वादिनो हेत्व्-आभास-असंस्पर्षे
03802 न्याय्यं निग्रहस्थानम् अस्ति इति तत्-सम्बन्धीनि सर्वाण्य्
03803 एव हेत्व्-आभास-वचनेन एव उक्तानि इति न पृथग् वाच्यानि
03804 स्युः. अर्थ-अन्तर-गमन-आदेर् अपि हेतोर् असामर्थ्य एव सम्भवात्.
03805 न हि समर्थे हेतौ साध्ये च सिद्धे अर्थ-अन्तर-
03806 गमनं कश्चिद् आरभते असमर्थस्य मिथ्या-प्रवृत्तेर् इति.
03807 पक्ष-प्रतिषेधे प्रतिज्ञाता-अर्थ-अपनयनं प्रतिज्ञा-संन्यासः.
03808 यः प्रतिज्ञातम् अर्थम् अनित्यः शब्द ऐन्द्रियकत्वाद्
03809 इति सामान्य-वृत्त्या हेतोर् व्यभिचार-प्रदर्शनेन
03810 प्रतिषेधे कृते क एवम् आह अनित्यः शब्द इति परित्यजति,
03811 तस्य प्रतिज्ञा-संन्यासो नाम निग्रहस्थानम् इति.
03812 अत्र अपि यद्य् उद्भाविते अपि हेतोर् व्यभिचारे न स पक्षं
03813 परित्यजति, किं न गृह्येत. निगृहीत एव हेत्व्-आभास-अभिधानाद्

03814 इति चेत्, किम् इदानीम् उत्तर-प्रतिज्ञा-सांन्यास-अपेक्षया,
03815 तस्य तद् एव अद्यं निग्रहस्थानम् इति किम् अन्यैर्
03816 अशक्य-परिच्छेदैः क्लीब-प्रलाप-चेष्टितैर्. उपन्यस्तैर् एवं
03817 ह्य् अतिप्रसङ्गः स्यात्. पक्ष-प्रतिषेधे तूष्णींभवतस्
03818 तूष्णींभावो नाम निग्रहस्थानम् प्रपलायमानस्य
03901 प्रपलायित्वं नाम निग्रहस्थानम् इत्य् एवम् आद्य् अपि वाच्यं
03902 स्यात्, तस्माद् एतद् अप्य् असम्बद्धम् इति.
03903 अविशेष-उक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्व्-अन्तरम्.
03904 निदर्शनम् एक-प्रकृति इदं व्यक्तं परिमाणात्, मृत्-पूर्वकाणां
03905 शराव-प्रभृतीनां दृष्टं परिमाणम् इति. अस्य
03906 व्यभिचारेण प्रत्यवस्थानं नाना-प्राकृतीनाम् एक-प्रकृतीनां
03907 च दृष्टं परिमाणम् इति एवं प्रत्यवस्थित आह
03908 एक-प्रकृति-समन्वय-विकाराणां परिमाण-दर्शनात् सुख-
03909 दुःख-मोह-समन्वितं हि इदं सर्वं व्यक्तं परिमितं
03910 गृह्यते. तस्य प्रकृत्य्-अन्तर-रूप-समन्वय-अभावे सत्य् एक-
04001 प्रकृतिकत्वम् इति. तद् इदम् अविशेष-उक्ते हेतौ प्रतिषिद्धे विशेषं
04002 ब्रुवतो हेत्व्-अन्तरं भवति. सति च हेत्व्-अन्तर-भावे
04003 पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम्.
04004 अत्र अपि पूर्वस्य एव हेतोर् अनैकान्तिकस्य अभिधानान् निगृहीते
04005 हेत्व्-अन्तर-चिन्ता क्व उपयुज्यते. यदि प्राक्-साधन-वादी
04006 हेतुम् अनैकान्तिकम् उक्त्वा दत्त-उत्तर-अवसरः, तेन एव निगृह्यते
04007 अदत्त-उत्तर-अवसरः, हेत्व्-अन्तर-अभिधाने अपि न निग्रहम्
04008 अर्हत्य् अविरामात्.
04009 प्रकृताद् अर्थाद् अप्रतिबद्ध-अर्थम् अर्थ-अन्तरम्. यथोक्त-
04010 लक्षणे पक्ष-प्रतिपक्ष-परिग्रहे हेतुतः साध्य-सिद्धौ
04011 प्रकृत्यायां कुर्यान् नित्यः शब्दो अस्पर्शत्वाद् इति हेतुः,
04012 हेतुश् च नाम हिनोतेर् धातोस् तु-शब्दे प्रत्यये कृद्-अन्तं
04013 पदम्. पदं च नाम-आख्यात-उपसर्ग-निपाता इति प्रस्तुत्य
04014 नाम-आदीनि व्याचष्टे, इदम् अर्थ-अन्तरं नाम निग्रहस्थानम्
04015 अभ्युपगत-अर्थ-असंगतत्वाद् इति.
04016 न्याय्यम् एतन् निग्रहस्थानम्, पूर्व-उत्तर-पक्ष-वादिनोः
04017 प्रतिपादिते दोषे प्रकृतं परित्यज्या-साधन-अङ्ग-वचनम्
04018 अदोष-उद्भावनं च. साधन-वादिनो ह्य् उपन्यस्त-साधनस्य
04101 समर्थने कर्तव्ये तद् अकृत्वा अपरस्य प्रसङ्गेन अप्रसङ्गेन
04102 वा अतन्-नान्तरीयकस्य अप्य् अभिधानं पराजय-
04103 स्थानम् उत्तर-वादिनो अपि दोष-उद्भावन-मात्राद् अपरस्य उपक्षेप
04104 इति.
04105 वर्ण-क्रम-निर्देशवन् निरर्थकम्. यथा नित्यः शब्दो
04106 जबगडदशत्वात् झभञ्घढधषवद् इति. साधन-अनुपादानान्
04107 निगृह्यत इति.

04108 इदम् अप्य् असम्बद्धम्, न हि वर्ण-क्रम-निर्देशाद् एव इष्ट-
04109 अर्थ-सिद्धाव् आनर्थक्यम्. यद् एव किंचिद् असाधन-अङ्गस्य
04110 वचनम्, तद् एव अनर्थकं साध्य-सिद्ध्य्-उपयोगिनो
04111 अभिधेयस्य अभावात् निष्प्रयोजनत्वाच् च इति, प्रकार-विशेष-उपादानम्
04112 असम्बद्धम्.
04113 वतेर् उपादानाद् अदोष इति चेत्, स्याद् एतत्, वर्ण-क्रम-निर्देशवद्
04114 इति वतिर् अत्र उपात्तः सो अन्यदा अप्य् अननुरूपं गृह्नति इत्य्
04115 अदोष इति. न, अर्थ-अन्तर-आदेर् निग्रहस्थानस्य अवचन-प्रसङ्गात्,
04116 एवं हि ता न पृथग् वाच्या निरर्थकेन एव अभिधानात्.
04201 न साध्य-सिद्धाव् अनर्थकं निरर्थकम्, यस्य न एव
04202 कश्चिद् अर्थः, तन् निरर्थकम् इष्टम् इति चेत्, यस्य कस्यचिद्
04203 अवादिनो अपि हि निरर्थक-अभिधाने किं न निग्रहो निग्रह-
04204 निमित्त-अविशेषात्.
04205 न, तस्य इह अप्रस्तावाद् इति चेत्, आयातम् इह यो निरर्थकं
04206 ब्रवीति, तस्य तेन एव निग्रह इति. तत् तुल्यं सर्वस्य असाधन-
04207 अङ्ग-वादिन इति. स सर्वो निरर्थक-अभिधाय्य् अनेन एव
04208 निग्रहस्थानेन निग्रह-अर्हः.
04209 न च वर्ण-क्रम-निर्देशः सर्वत्र निरर्थकः क्वचित्-
04210 प्रकरणे तस्य अपि अर्थवत्त्वात्. तस्माद् अत्र एव अस्य आनर्थक्यात्
04211 निग्रहस्थानत्वम्.
04212 अपि च अत्यल्पम् इदम् उच्यते वर्ण-क्रम-निर्देशो निग्रहस्थानम्
04213 इति कपोल-वादित-कक्ष-घट्टितकम् इत्य् एवम्-आदीनाम्
04214 अपि वाच्यत्वात्.
04215 पर्षत्-प्रतिवादिभ्यां त्रिर्-अभिहितम् अप्य् अविज्ञातम्
04216 अविज्ञात-अर्थम्. यद् वाक्यं पर्षदा प्रतिवादिना च त्रिर्-अभिहितं
04217 न विज्ञायते श्लिष्ट-शब्दम् अप्रतीत-प्रयोगम् अतिद्रुत-
04218 उच्चारितम् इत्य् एवम् आदिना कारणेन, तद् अविज्ञात-अर्थम्, असामर्थ्य-
04301 संवरणाय प्रयुक्तं निग्रहस्थानम् इति.
04302 न इदं निरर्थकाद् भिद्यते. स यदि प्रकृत-अर्थ-सम्बद्धं
04303 गमकम् एव कुर्यात्, न अस्य-असामर्थ्यम्, तत्र
04304 जाड्यात् पर्षद्-आदयो न प्रतिपद्यन्त इति न विद्वान् निग्रहम्
04305 अर्हति.
04306 पर्षत्-प्रज्ञाम् अपरिकल्प्य वचनान् निग्रह-अर्ह एव इति चेत्,
04307 न्यायवादिनो जाड्याद् उक्तम् अजानन् किं न प्रतिवादी निगृह्यते.
04308 जाड्यात् पर्षद्-आदेर् अविज्ञात-प्रतिपादन-असामर्थ्य इति विजेता न
04309 स्यान् न निग्रह-अर्हः. असम्बद्ध-अभिधाने निरर्थकम्
04310 एव इति न पृथग् अविज्ञात-अर्थं नाम निग्रहस्थानम् इति.
04311 पौर्वापर्य-अयोगाद् अप्रतिबद्ध-अर्थम् अपार्थकम्. यत्र
04312 अनेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो
04313 न अस्ति इत्य् असम्बद्ध-अर्थता गृह्यते, तत् समुदाय-अर्थस्य अपायाद्

04314 अपार्थकम्, दश-दाडिम-आदि-वाक्य-वत्.
04401 इदं किल पदानाम् असम्बन्धाद् असम्बद्ध-वर्णान्
04402 निरर्थकात् पृथग् उक्तम् नन्व् एवम् असम्बद्ध-वाक्यम्
04403 अपि पृथग् वाच्यं स्यात्. न उभय-संग्रहात् अपार्थकम्,
04404 निरर्थकस्य अपि संग्रह-प्रसङ्गात्. एवंविधाच् च विशेष-
04405 समाश्रयात् पृथग्-निग्रहस्थान-लक्षण-प्रलपने अतिप्रसङ्गो
04406 अप्य् उक्तः. न च संग्रह-निर्देशे किंचिद् दोषं पश्यामः
04407 प्रभेदे वा गुण-अन्तरम् इति यत् किंचिद् एतत्.
04408 अवयव-विपर्यास-वचनम् अप्राप्तकालम्. प्रतिज्ञा-आदीनां
04409 यथालक्षणम् अर्थ-वशात् क्रमः, तत्र अवयवानां विपर्ययेण
04410 अभिधानं निग्रहस्थानम्.
04411 न, एवम् अपि सिद्धेर् इति चेत्, न प्रयोग-अपेत-शब्द-तुल्यत्वात्.
04412 यथा गौर् इत्य् अस्य पदस्य अर्थे गोणी इति प्रयुज्यमानं
04413 पदं ककुद-आदिमन्तम् अर्थं प्रतिपाद्यति इति. न शब्द-अन्वाख्यानं
04414 व्यर्थम्, अनेन पदेन गो-शब्दम् एव प्रतिपद्यते,
04415 गो-शब्दात् ककुद-आदिमन्तम् अर्थम्; तथा प्रतिज्ञा-आद्य्-
04416 अवयव-विपर्ययेण अनुपूर्वीं प्रतिपद्यते, आनुपूर्व्या
04501 च अर्थम् इति, तथा हि पूर्वं कर्म-उपादीयते ततः करणं
04502 मृत्-पिण्ड-आदिकं लोक इति.
04503 तद् एतद् उन्मत्तस्य उन्मत्त-संवर्णनम् इव प्रयोग-अपेत-
04504 शब्द-वद् एतद् इति. यदि गोणी-शब्दात् ककुद-आदिमत्य्
04505 अर्थे प्रतीतिः, शब्द-अन्वाख्यान-प्रयत्नेन अर्थं न पश्यामः.
04507 गोणी-शब्दस्य अर्थ-प्रतिपादने असामर्थ्यात् प्रतिपादक-
04508 व्युत्पत्त्य्-अर्थम् अन्वाख्यानम् इति चेत्, ननु गोणी-शब्दाद् अपि
04509 लोके प्रतीतिर् दृष्टा. सत्यं दृष्टा, न तु साक्षाद् इत्य् उक्तम्.
04510 उक्तम् एतन् न पुनर् युक्तम्, स्त्री-शूद्राणाम् उभय-प्रतीतेर्
04511 अभावात्. यः खलु उभयं वेत्ति शब्दम् अपशब्दं च, स
04512 एवं प्रतिपद्यते. यस् तु नक्क-शब्दं मुक्क-शब्दम् एव
04513 वा वेत्ति, न नासा-शब्दम्, स कथम् अपशब्दाच् शब्दं प्रतिपद्य
04514 ततो अर्थं प्रतिपद्येत. दृष्टा च अनुभय-वेदिनो अपि
04515 प्रतीतिर् इति न परंपरया प्रतीतिः.
04516 अर्थे असमर्थस्य शब्दे अपि प्रतीति-जनन-असामर्थ्याच् च.
04517 न ह्य् अर्थे अपि वाचकत्वं नाम अन्यद् एव तद्-विषय-प्रतीति-
04518 जननात्. अपशब्दश् चेच् शब्दे प्रतीतिं जनयेत्, अर्थ एव
04519 किं न जनयति. न ह्य् एतस्य अर्थात् किंचिद् भयं पश्यामो
04520 येन तं परिहरेत्.
04601 अकृत-समयस्य शब्दे अप्य् अप्रतीति-जननाच् च. न ह्य्
04602 अयम् अपशब्दः शब्दे अपि स्वभावतः प्रतीतिं जनयत्य्
04603 अदर्शनात्, समयत एव तु जनयेत्. समय-वशाद् वर्तमानो
04604 अर्थ एव किं न प्रवर्तते. एवं हि प्रतिपत्ति-परंपरा-

04605 परिश्रमः परिहृतो भवति.
04606 विपर्यय-दर्शनाच् च. शब्दाद् अर्थम् अप्रतिपद्यमानाः
04607 अपशब्दैर् एव बहुलं व्युत्पद्यमाना लोके दृश्यन्ते
04608 इति व्यर्थं शब्द-अनुशासनम्.
04609 न व्यर्थं संस्कृत-शब्द-व्युत्पत्त्य्-अर्थत्वाद् इति चेत्,
04610 को अयं शब्दानां संस्कारः. न ह्य् एषां प्रज्ञा-बाहु-श्रुत्य्-
04611 आदिकं संस्कारं पश्यामः, न अप्य् एषाम् एकान्तेन
04612 श्रव्यता, न अप्य् अर्थ-प्रत्यायने कश्चिद् अतिशयः. न
04613 धर्म-साधनता मिथ्या-वृत्ति-चोदनेभ्यः संस्कृतेभ्यो
04614 अप्य् अधर्म-उत्पत्तेः, अन्येभ्यो अपि विपर्यये धर्म-उत्पत्तेः.
04615 शब्दस्य सुप्रयोगाद् एव स्वर्ग-मोदन-घोषणा वचन-मात्रम्.
04616 न च एवंविधान् आगमान् आद्रियन्ते युक्तिज्ञाः. न च
04617 दान-आदि-धर्म-साधन-चोदना-शून्य-केवल-शब्द-सुप्रयोगान्
04618 नरक-पातम् इति ब्रुवाणस्य कस्यचिन् मुखं वक्रीभवति.
04619 तस्मान् न संस्कृतो नाम कश्चिच् शब्दः.
04701 शिष्ट-प्रयोगः संस्कार इति चेत्, के शिष्टाः. ये विदित-वेद्यता-
04702 आदि-गुण-युक्ताः. कः पुनर् एषां गुण-उत्कर्ष-अनपेक्षो अलीक-निर्बन्धः,
04703 यत् ते अमून् एव शब्दान् प्रयुञ्जते, न अपरान्. न
04704 च अत्र कश्चिच् शब्दे परोक्षः साक्षी, यत इदम् एवं निश्चिनुमः
04705 प्रयुञ्जते नाम शिष्टाः. नन्व् एवं वयं गुण-अतिशयम्
04706 अपश्यन्तः संस्कारं केषांचिच् शब्दानाम्
04707 अनुमन्यामहे, तद्-अन्वाख्यान-यत्नं वा, गुण-अतिशय-अभावात्.
04708 वेद-रक्ष-आदिकं च अप्रयोजनम् एव अतत्-समय-स्थायिनः.
04709 सत्य् अपि गुण अतिशये न करणीय एव अन्वाख्याने यत्नः
04710 तत्-स्वभावस्य अन्यतो अपि सिद्धेः, प्राकृत-अपभ्रंश-
04711 द्रमिड-अन्ध्र-आदि-भाषा-वत्. न हि प्रतिदेशं भाषाणां
04712 किंचिल् लक्षणम् अस्ति, अथ च सम्प्रदाय-वशात् ता लोकस्
04713 तथा एव प्रतिपद्यते तासां च प्रयोग-भ्रंशम् तथा
04714 संस्कृतानां शब्दानां प्रतीतिर् भविष्यति इति. जड-प्रवृत्तिर्
04715 एव एषा, या शब्दानां लक्षणे प्रवृत्तिः.
04801 अवयव-विपर्यये अपि यदि तेषां वचनानां सम्बन्ध-प्रतीतिर्, न
04802 विपर्ययो न अप्य् अर्थ-अप्रतीतिः सामर्थ्यात्. न ह्य् अत्र कश्चित्
04803 समयः प्रत्यायन-अविशेषे अप्य् एवम् एव अवयवाः प्रयोक्तव्या
04804 इति.
04805 स एव तेषां क्रमो यथावस्थितेभ्यो अर्थ-प्रतीतिर् भवति इति
04806 न विपर्ययात् प्रतीतिः, तत आनुपूर्वी-प्रतिपत्त्या प्रतीतिर्
04807 इति चेत्, न अप्रतीयमान-सम्बन्धेभ्य आनुपूर्वी-प्रतिपत्तिः.
04808 येषां शब्दानां कश्चित् सम्बन्धो जायते, इदम् इह
04809 सम्बध्यत इति तेषु विदित-सम्बन्धेषु कः कस्य पूर्वो
04810 अपरो वा क्रमः, येन क्रमेण व्यवस्थाप्येरन्. सम्बन्ध-

04811 प्रतिपत्तौ स एव तेषां क्रमः, यो यथावस्थितानां
04812 सम्बन्धः प्रतीयते. न हि वाक्येषु पदानां क्रम-नियमः
04813 कश्चित्, यथा राज्ञः पुरुषः, पुरुषो रज्ञ इति. यावद्भिः
04814 पदैर् अर्थ-परिसमाप्तिः तदा एकं वाक्यम्, यथा
04815 देवदत्त गाम् आनय कृष्णाम् इति. अत्र पदानां यथाकामं
04816 प्रयोगे अपि न अर्थ-प्रतीतौ विशेष इति कश्चित् क्रम-अभिनिवेशः.
04818 प्रतिपादितं च प्रतिज्ञा-वचन-अन्तरेण अपि यथार्थं
04819 प्रतीतिर् भविष्यति इति प्रतीयमान-अर्थस्य च शब्दस्य प्रयोगे
04820 अतिप्रसङ्गः. परिशिष्टेषु च सम्बन्धं प्रदर्श्य
04901 धर्मिणि भावः प्रदर्श्येत, धर्मिणि भावं प्रदर्श्य
04902 सम्बन्धः प्रदर्श्येत इति न नियमः कश्चिद् उभयथा अपि
04903 प्रतीत्य्-उत्पत्तेर् इत्य् उक्तम्. अप्रतीयमान-सम्बन्धेषु च पदेषु
04904 न तेभ्य आनुपूर्व्या अपि प्रतीतिर् इति न इदम् अपार्थकाद्
04905 भिद्यत इति; न अप्राप्तकालं पृथग् वाच्यं स्याद् इति.
04906 हीनम् अन्यतमेन अप्य् अवयवेन न्यूनम्. यस्मिन् वाक्ये
04907 प्रतिज्ञा-आदीनाम् अन्यतमो अवयवो न भवति, तद् वाक्यं
04908 हीनं साधन-अभावे साध्या-सिद्धेः.
04909 न प्रतिज्ञा-न्यूनं हीनं तद्-अभावे प्रतीति-भावाद् इति
04910 प्रतिपादितम्. हीनम् एव तत् न्यूनतायाम् अपि निग्रहाद् इत्य्
04911 अपरः. यः प्रतीयमान-अर्थम् अनर्थकं शब्दं प्रयुङ्क्ते,
04912 स निग्रहम् अर्हेत्. न अर्थ-उपसंहितस्य अभिधाता इत्य्
04913 असमीक्षित-अभिधानम् एतत्. अत एव च प्रतिज्ञाया न साधन-
04914 अङ्ग-भाव इति.
04915 हेतु-उदाहरण-अधिकम् अधिकम्. एकेन कृतत्वाद् अन्यतरस्य
04916 आनर्थक्यम् इति तद् एतन् नियम-अभ्युपगमे वेदितव्यम्.
04918 यत्र एक-साधन-वाक्य-प्रयोग-पूर्वको विचारः, तत्र अधिक-
04919 अभिधानम् अनर्थकम् इति निग्रहस्थानम्. प्रपञ्च-कथायां
04920 तु न कश्चिद् दोषो नियम-अभावाद् इति.
05001 शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्.
05002 शब्द-पुनरुक्तम् अनित्यः शब्दो अनित्यः शब्द इति.
05003 अर्थ-पुनरुक्तम् अनित्यः शब्दो निरोध-धर्मको ध्वान
05004 इति.
05005 अत्र न शब्द-पुनरुक्तं पृथग् वाच्यम् अर्थ-पुनरुक्त-
05006 वचनेन एव गतत्वात्. न ह्य् अर्थ-भेदे शब्द-साम्ये अपि
05007 कश्चिद् दोषः, यथा
05008 हसति हसति स्वामिन्य् उच्चै रुदत्य् अतिरोदिति ।
05009 कृत-परिकरं स्वेद-उद्गारं प्रधावति धावति ।
05010 गुण-समुदितं दोष-अपेतं प्रणिन्दति निन्दति ।
05011 धन-लव-परिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥2॥
05012 यथा वा यद् यस्मिन् भवति भवति, न भवति न भवति,

05013 तत् तस्य कार्यम्, इतरत् कारणम् इति.
05014 गम्यमान-अर्थं पुनर्वचनम् अपि पुनरुक्तं नियत-
05015 पद-प्रयोगे साधन-वाक्ये यथा प्रतिज्ञा-वचनम् इति.
05016 अर्थ-पुनरुक्तेन एव गत-अर्थत्वात् न पृथग् वाच्यम्. अयम्
05017 अपि नियत-साधन वाक्य एव दोषो वक्तव्यः, न विस्तर-कथायाम्,
05018 व्याचक्षाणो हि कदाचिद् असम्यक्-श्रवण-प्रतिपत्ति-
05019 शङ्कया साक्षि-प्रभृतीनां पुनः पुनर् ब्रूयात्, अपि न तत्र
05020 किंचिच् छलम्.
05021 न अविषयत्वाद् इति चेत्, न अयं गुरुर् न शिष्य इति न यत्नतः
05101 प्रतिपादनियः, येन पुनः पुनर् उच्यत इति पुनर्वचने
05102 निग्रह एव इति चेत्, न, साक्षिणां यत्नेन प्रतिपाद्यत्वात्,
05103 तद्-अप्रतिपादने दोष-अभिधानात्, प्रतिपाद्यस्य शिष्यत्वात्,
05104 विजिगीषु-वाद-प्रतिषेधत्वात्, त्रिर्-अभिधान-वचनात्, पुनर्वचन-
05105 प्रसङ्गे समय-नियम-अभावाच् च.
05106 न च इदम् अधिकाद् भिद्यत इति न पृथग् वाच्यम्. विनियत-
05107 पद-प्रयोगे हि साधन-वाक्ये आधिक्य-दोष इति पुनर्वचने
05108 अपि गत-अर्थस्य-आधिक्यम् एव पदस्य इति.
05109 प्रपञ्च-कथायाम् अप्य् अकथित-एक-अर्थ-साधन-अधिकरणायां
05110 नाना-अर्थ-साधन-ईप्सायां नाना-साधन-ईप्सायां वा
05111 श्रोतुर् हेत्व्-आदि-बाहुलस्य पुनर्वचनस्य अदोषत्वात् प्रतीत-
05112 प्रत्यय-अभावाद् हेत्व्-आदि-बाहुल्यं वचन-बाहुल्यं च साधन-
05113 दोष इति आधिक्य-पुनर्वचनयोस् तुल्य-दोष इति संग्रह-
05114 वचनं न्याय्यम्, दोष-अभावाद् एव गुण-अभावात्, एवंप्रकारानां
05115 भेदानां वचने च अतिप्रसङ्गाद् इत्य् उक्तम्.
05116 पर्याय-शब्द-कल्पो ह्य् अपरो हेतुर् एक-हेतु-प्रतिपादिते विषये
05117 वर्तमानः प्रतिपाद्यस्य विशेष-अभावात्. अर्थः पुनः-
05118 प्रतिपादनान् न भिद्यते.
05201 यत् पुनर् उक्तम्, अनुवादे त्व् अपुनरुक्तं शब्द-अभ्यासाद्
05202 अर्थ-विशेष-उपपत्तेः, यथा हेत्व्-अपदेशात् प्रतिज्ञायाः
05203 पुनर्वचनं निगमनम् इति, प्रतिज्ञाया एव गम्यमान-अर्थाया
05204 वचनं पुनर्वचनम्, किं पुनर् अस्याः पुनर्वचनम्
05205 इत्य् अयुक्तं निगमनम्.
05206 विज्ञातस्य पर्षदा त्रिर्-अभिहितस्य अप्रत्युच्चारणम् अननुभाषणम्.
05207 विज्ञात-वाक्य-अर्थस्य पर्षदा प्रतिवादिना
05208 त्रिर्-अभिहितस्य यद् अप्रत्युच्चारणम्, तद् अननुभाषणं
05209 नाम निग्रहस्थानम्. अप्रत्युच्चारयन् किम्-आश्रयं पर-
05210 पक्ष-प्रतिषेधं कुर्याद् इति.
05211 उत्तरेण अवसानान् न इदं निग्रहस्थानम् इति चेत्, स्याद्
05212 एतत्, उत्तरेण गुण-दोषवता मूढ-अमूढत्वं गम्यत इति
05213 किं पुनर्-उच्चारितेन. अस्ति हि कश्चिद् उत्तरे समर्थो न प्रत्युच्चारणे,

05214 न असौ तावता निग्रहम् अर्हेद् इति.
05215 न, उत्तर-विषय-अपरिज्ञानात्. यद्य् अयं न प्रत्युच्चारयति,
05216 निर्विषयम् उत्तरं प्रसज्येत. अथ उत्तरं ब्रवीति,
05217 कथं न उच्चारयति. तद् इदं व्याहतम् उच्यते, न उच्चारयत्य्
05301 उत्तरं च ब्रवीति इति. अप्रतिज्ञानाच् च. न च इदं प्रतिज्ञायते,
05302 पूर्वं सर्वम् उच्चारयितव्यम्, पश्चाद् उत्तरम्
05303 अभिधातव्यम् इति, अपि तु यथाकथंचिद् उत्तरं वाच्यम्,
05304 उत्तरं च आश्रय-अभावे अयुक्तम् इति, युक्तम् अप्रत्युच्चारणं
05305 निग्रहस्थानम् इति.
05306 यदि नाम वादी स्व-साधन-अर्थ-विवरण-व्याजेन प्रसङ्गाद्
05307 अपरापरं घोषयेत्, विवाद-आस्पदं च जिज्ञासितम्
05308 अर्थ-मात्रम् उक्त्वा प्रतिज्ञा-आदिष्व् अर्थ-विशेष-परंपरया अपरान्
05309 अर्थान् उपक्षिप्य कथां विस्तारयेत्, तच् च सर्वं यदा
05310 न अनुवक्तुं शक्नुयात्, कस् तस्य विवाद-आश्रय-अर्थ-मात्र-उत्तर-
05311 वचने सामर्थ्य-विघातः, येन वादि-वचन-अननुभाषणं
05312 निग्रहस्थानम् उच्यते. तस्माद् सर्वां वादि-कथाम्
05313 अननुभाषमाणो न उत्तरे असमर्थः.
05314 यद्-वचन-नान्तरीयका जिज्ञासित-अर्थ-सिद्धिः यथा पक्षधर्मता-
05315 व्याप्ति-प्रसाधन-मात्रं न तत्र अपि प्रसङ्ग-अन्तर-
05316 उपक्षेपः, तद् अवश्यं साधन-अङ्ग-विषयत्वाद् दूषणेन उपदर्श्यत
05317 एव. तत्र अपि न सर्वं प्राग् अनुक्रमेण उच्चारितव्यम्,
05318 पश्चाद् दूषणं वाच्यं द्विर् उच्चारण-प्रसङ्गात्. दूषण-
05401 विषय-उपदर्शन-अर्थे अनुभाषणे वादि-वचन-अनुक्रम-
05402 घोषणं व्यर्थम् इति, न कार्यम् एव दूषयता अस्य अयं दोष
05403 इति नान्तरीयत्वात् प्रतिदोष-वचनं विषय-उपदर्शनं
05404 क्रियत एव. न हि सर्व-विषय-उपदर्शनं कृत्वा युगपद्
05405 दोषः शक्यते अभिधातुम्, प्रत्यर्थं दोष-भेदात्. तस्माद्
05406 यं पदार्थं दूषयति, स एव तद्-दूषण-विषयस् तदा
05407 प्रदर्शनीयो न अपरः, तद्-दूषणे अपर-उपदर्शनस्य असम्भवात्.
05408 तस्मिन् दूषिते पुनर् अन्यो अर्थो अपर-दोष-विषय इत्य्
05409 अयम् अनुभाषणे दूषणे च न्यायः. सकृत्-सर्व-अनुभाषणे
05410 अपि दोष-वचन-काले पुनर् विषयः प्रदर्शनीय एव, अप्रदर्शिते
05411 दोषस्य वक्तुम् अशक्यत्वात्. तथा च द्विर्-अनुभाषणं
05412 कृतं स्यात्. तत्र प्रथमं सर्व-अनुक्रम-अनुभाषणं निष्प्रयोजनम्.
05413 दूषण-वादिना दूषणे वक्तव्ये यन् न तत्र उपयुज्यते,
05414 तस्य अभिधानम् अदोष-उद्भावनं द्विर्-उक्तिश् च इति
05415 सकृत्-सर्व-अनुभाषणं पराजय-अधिकरणं वाच्यम्.
05416 तथा अस्त्व् इति चेत्, स्याद् एतत्, उक्तं एतद् अर्थ-अन्तरं निग्रहस्थानम्
05417 इति. तत्र साधने यतः कुतश्चित् प्रसङ्ग-आदिना
05418 अनान्तरीयका-अभिधानं वादिनो अर्थ-अन्तर-गमनम् एव इति

05419 स निग्रहा-अर्हः. न कश्चित् तत्-कथित-क्रियमाण-प्रसङ्गो
05420 न प्रसज्यते. न अपि तत् तस्य अनुभाषणीयम्, न च इदम् अप्य्
05421 अस्माभिर् अनुज्ञायते, सर्वं प्राक् सकृद् वक्तव्यं पश्चाद्
05422 दूषणम् इति, किं तु दूषयता अवश्यं विषयो दर्शनीयो
05423 अन्यथा दूषणा-वृत्तेर् इति.
05501 एवं तर्हि न अननुभाषणं पृथग् निग्रहस्थानं
05502 वाच्यम् अप्रतिभया गतत्वात्, उत्तरस्य ह्य् अप्रतिपत्तिर्
05503 अप्रतिभा. न च उत्तर-विषयम् अप्रदर्शयन्न् उत्तरं प्रतिपत्तुं
05504 समर्थः. न ह्य् अनाक्षिप्त-अनुत्तर-प्रतिपत्तिकम्
05505 अननुभाषणम्. तेन अननुभाषणस्य व्यापिकायाम् अप्रतिभायां
05506 विहितं निग्रहस्थानत्वम् अननुभाषणे लब्धम्
05507 एव, गवि विहितम् इव सास्ना-आदिमत्त्वं बाहुलेये अपि. तस्माद्
05508 अप्रतिभा एव निग्रह-अधिकरणत्वेन वाच्या, न अननुभाषणम्.
05510 कश् च अयं समय-नियमस् त्रिर्-अभिहितस्य अननुभाषणम्
05511 इति. यदि तावत् पर-प्रतिपादन-अर्था प्रवृत्तिः, किं
05512 त्रिर् अभिधीयेत. तथा तथा स ग्राहणीयः, यथा अस्य प्रतिपत्तिर्
05513 भवति. अथ पर-उपतापन-अर्था, तदा अपि किं त्रिर्
05514 अभिधीयते, साक्षिणां कर्णे निवेद्य प्रतिवादी कष्ट-प्रतीत-
05515 द्रुत-संक्षिप्त-आदिभिर् उपद्रोतव्यः, यथा-उत्तर-प्रतिपत्ति-
05601 विमूढस् तूष्णींभवति. न हि पर-उपतापन-क्रमे कश्चिन्
05602 न्यायः, येन कष्ट-प्रतीत-प्रयोग-द्रुत-उच्चारितानि निवार्यन्ते
05603 त्रिर्-अभिधानं वा विधीयते. न च पर-उपतापाय सन्तः प्रवर्तन्ते
05604 शास्त्राणि वा प्रणीयन्ते इत्य् अदो वक्तव्यम्. तस्मात्
05605 तावद् वक्तव्यम्, यावद् अनेन न गृहीतम्, न त्रिर् एव. अग्रहण-
05606 सामर्थ्ये प्राग् एव परिच्छिन्न-सामर्थ्येन परिहर्तव्यः
05607 परान् अनुप्रतिबोध्येति.
05608 अविज्ञातं च अज्ञानम्. विज्ञातं पर्षदा प्रतिवादिना यद्
05609 अविज्ञातम्, तद् अज्ञानं नाम निग्रहस्थानम्. अर्थे खल्व्
05610 अविज्ञाते न तस्य प्रतिषेधं ब्रूयाद् इति.
05611 एतद् अप्य् अननुभाषण-वद् अप्रतिभया एव गम्यत्वाद्
05612 अवाच्यम्. यथा अननुभाषणे अप्रदर्शित-विषयत्वाद् उत्तर-
05613 प्रतिपत्तिर् अशक्या इति अनुत्तर-प्रतिपत्त्या एव निग्रहस्थानत्वम्
05614 उत्तर-विषय-प्रदर्शन-प्रसङ्गम् अन्तरेण अनुभाषणस्य
05615 वैयर्थ्यात्, तथा-ज्ञाने अप्य् उत्तर-अप्रतिपत्त्या एव
05616 निग्रहस्थानत्वम्, अजानानः कथम् उत्तरम् उत्तर-विषयं
05701 च उत्तरं ब्रूयाद् इति विषय-अज्ञानम् उत्तर-ज्ञानं
05702 च निग्रहस्थानम्, अन्यथा-प्रतिभाया निर्विषयत्वात्. अनवधारित-
05703 अर्थो हि न अनुभाषेत्. अननुभाषमाणो विषयम्
05704 अप्रदर्श्य-उत्तरं प्रतिपत्तुं न शक्नुयाद् इति उत्तरं
05705 न प्रतिपद्येत ज्ञात-उत्तर-तद्-विषयस्य उत्तर-अप्रतिपत्तेर् असम्भवात्.

05706 उभयम् एतद् उत्तर-अप्रतिपत्तेः कारणम् इति.
05707 तद्-अभावे प्रतिपत्तिर् भवत्य् एव इति तयोः पृथग् वचने
05708 अप्रतिभायाः को विषय इति वक्तव्यम्, निर्विषयत्वाद् अवाच्या
05709 एव स्यात्.
05710 न उत्तर-अज्ञानम् अज्ञानं किं तर्हि विषय-अज्ञानम्, अज्ञाते
05711 हि विषये उत्तर-अज्ञानात् तन् न प्रतिपद्येत इति अस्ति विषयो अप्रतिभाया
05712 इति चेत्, एवं तर्ह्य् अननुभाषणं निर्विषयम्,
05713 अज्ञानेन आक्षेपात्. न हि विषयं सम्यक् प्रतिपद्यमानः
05714 कश्चिन् न अनुभाषेत इति न अननुभाषणं पृथग् वाच्यम्.
05715 उत्तर-अज्ञानस्य च आक्षेपात्. विषय-अज्ञानेन उत्तर-अज्ञानम् अप्य्
05716 आक्षिप्तम् एव. न हि विषयम् अजानन्न् उत्तरं जानाति इति न एव अप्रतिभाया
05717 विषयो अस्ति.
05801 ज्ञाते अपि विषये पुनर् उत्तर-अज्ञानम् अप्रतिभाया विषय
05802 इति चेत्, एवं तर्हि विषय-उत्तर-अज्ञानयोर् अपि प्रभेदान् निग्रहस्थान-
05803 अन्तराणि वाच्यानि. यथा अज्ञानस्य विषय-अज्ञानम् उत्तर-
05804 अज्ञानम् इति प्रभेदाद् असत्य् अपि गुण-अतिशये निग्रहस्थान-
05805 अन्तर-व्यवस्था क्रियते, तथा अज्ञानयोर् अपि सर्वा-ज्ञान-अर्ध-
05806 अज्ञानम् इत्य् आदि-प्रभेदान् निग्रहस्थान-अन्तराणि किं न उच्यन्ते.
05807 न च उभयस्य अप्य् अज्ञानस्य संग्रह-वचने कश्चिद्
05808 दोषः, गुणस् तु स्याद् इति संग्रह-वचनं न्याय्यम्.
05809 तस्माद् अननुभाषण-ज्ञानयोर् अप्रतिभा-विषयत्वान् न
05810 पृथग्-वचनम्. अपि च न पूर्व-उत्तर-वादिनो हेत्व्-आभासा-प्रतिभाभ्याम्
05811 अन्यन् निग्रहस्थानं न्याय्यम् अस्ति तद्-उभय-
05812 वचनेन एव सर्वम् उक्तम् इति. तद्-उभय-आक्षिप्तेषु प्रभेदेषु
05813 गुण-अतिशयम् अन्तरेण वचन-आदेर् अतिप्रसङ्गाद् व्यर्थः
05814 प्रपञ्च इति.
05815 उत्तरस्य अप्रतिपत्तिर् अप्रतिभा. पर-पक्ष-प्रतिषेध
05816 उत्तरं यदा न प्रतिपद्यते, तदा निगृहीतो वक्तव्यः.
05817 साधन-वचन-अनन्तरं प्रतिविषयम् उत्तरे व्यर्थं
05818 तद्-अज्ञान-क्रम-घोषण-श्लोक-पाठ-आदिना कालं गमयन् कर्तव्य-
05819 अप्रतिपत्त्या निग्रह-अर्ह इति न्याय्यं निग्रहस्थानम्
05820 इति.
05901 कार्य-व्यासङ्गात् कथा-विच्छेदो विक्षेपः. यत् किंचित् कर्तव्यं
05902 व्यासज्य कथां विच्छिनत्ति, इदं मे करणीयं
05903 परिहीयते, अस्मिन्न् अवसिते पश्चात् करिष्यामि, प्रतिश्यायकला
05904 मे कण्ठं क्षिणोत्य् एवम्-आदिना कथां विच्छिनत्ति, स विक्षेपो
05905 नाम निग्रहस्थानम्. एकतर-निग्रह-अन्तायां कथायां
05906 स्वयम् एव कथा-अन्तं प्रतिपद्यत इति.
05907 इदम् अप्य् यदि पूर्वपक्ष-वादी कुर्याद् व्याज-उपक्षेप-मात्रेण,
05908 न पुनर् भूतस्य तथाविध-कथा-उपरोधिनः कार्यस्य

05909 भावे, तस्य स्व-साधन-असामर्थ्य-परिच्छेदाद् एव
05910 विक्षेपः स्यात्. तथा च इदम् अर्थ-अन्तर-गमन एव अन्तर्भवेद्
05911 असमर्थ-साधन-अभिधानाद् हेत्व्-आभासेषु वा. प्रकृत-
05912 साधन-असम्बद्ध-प्रतिपत्तेश् च निरर्थक-अपार्थकाभ्यां
05913 न भिद्यते. अतिप्रसङ्गश् च एवंप्रकाराणाम् असम्बद्ध-
06001 साधन-वाक्य-प्रतिपत्ति-भेदानां पृथग्-निग्रहस्थान-
06002 व्यवस्थापने प्रोक्तः. अथ उत्तरपक्ष-वाद्य् एवं विक्षिपेत्,
06003 तस्य अपि साधन-अनन्तरम् उत्तरे प्रतिपत्तव्ये तद्-अप्रतिपत्त्या
06004 विक्षेप-प्रतिपत्तिर् अप्रतिभायाम् अर्थ-अन्तरे वा अन्तर्भवति.
06006 ननु न अवश्यं साधन-दूषणाभ्याम् एव सर्वस्य प्रतिपत्तिर्,
06007 येन सर्वा वादि-प्रतिवादिनोर् न असम्यक्-प्रतिपत्तिर्
06008 हेत्व्-आभासेष्व् अप्रतिभायां वा अन्तर्भवेत्. भवति हि अनिबद्धेन
06009 अपि कथा-प्रपञ्चेन विवाद इति, न, असम्भवात्.
06010 एकत्र अधिकरणे विरुद्ध-अभ्युपगमयोर् विवादः स्यात्, अविरुद्ध-
06011 अभ्युपगमयोर् अनभ्युपगमयोर् वा विवादा-अभावात्.
06012 तत्र अवश्यम् एकस्य प्राग्-वचन-प्रवृत्तिः, युगपत्-प्रवृत्तौ
06013 परस्पर-वचन-श्रवण-अवधारण-उत्तराणाम् असम्भवेन
06014 प्रवृत्ति-वैफल्यात् स्वस्थ-आत्मनाम् अप्रवृत्तेः. तेन
06015 च स्व-उपगम-उपन्यासे अवश्यं साधनं वक्तव्यम्,
06016 अन्यथा परेषाम् अप्रतिपत्तेः, अपरेण च तत्-सम्बन्धि दूषणम्.
06017 उभयोर् असम्यक्-प्रतिपत्तौ हेत्व्-आभास-अप्रतिभयोः
06018 प्रसङ्ग इति. सर्वो न्याय-प्रवृत्तः पूर्व-उत्तरपक्ष-उपन्यासो
06101 द्वयं न अतिपतति. एतेन एव वितण्डा प्रत्युक्त-अभ्युपगम-
06102 अभावे विवाद-अभावात्.
06103 यदा तर्ह्य् अभ्युपगम्य वादं विफलतया न किंचिद्
06104 वक्ति, अन्यद् वा यत् किंचित् प्रलपति, तदा कथं हेत्व्-आभास-
06105 अन्तर्भावः. असमर्थित-साधन-अभिधान एवम् उक्तम्,
06106 अनभिधान अन्य-अभिधानयोर् अपि पराजय एव इत्य् उक्तम्
06107 अभ्युपगम्य वादम् असाधन-अङ्ग-वचनात्. एतेन अधिकस्य
06108 पुनरुक्तस्य च प्रतिज्ञा-आदेर् वचनस्य च निग्रहस्थानत्वं
06109 व्याख्यातम्, तद् अपि हि प्रतिपादित-अर्थ-विपर्ययत्वात्
06110 साधन-सामर्थ्य-अनभिधानम्. अप्रतीत-प्रत्ययतया लक्षणात्
06111 साधनस्य असाधन-अङ्ग-वचनम् इति निग्रहस्थानम्
06112 इति.
06113 स्व-पक्ष-दोष-अभ्युपगमात् पर-पक्षे दोष-प्रसङ्गो मत-अनुज्ञा.
06114 यः परेण चोदितं दोषम् अनुद्धृत्य, भवतो
06115 अप्य् अयं दोष इति ब्रवीति, यथा भवांश् चौरः पुरुषत्वाद्
06116 इत्य् उक्ते स तं प्रतिब्रूयाद्, भवान् अपि इति, स स्व-पक्षे दोष-अभ्युपगमात्
06117 पर-पक्षे तं दोषं प्रसञ्जयन् पर-मतम्
06118 अनुजानाति इति मत-अनुज्ञा निग्रहस्थानम् इति.

06201 अत्र अपि यदि पुरुषत्वाच् चौरो भवान् अपि स्यात्, न च भवता
06202 आत्मा एवम् इष्टः, तस्मान् न अयं चौर्य-हेतुर् इति यद्य्
06203 अयम् अभिप्रायः, तदा न कश्चिद् दोषः, अनभिमते तद्-आत्मनि
06204 चौरत्वेन हेतु-दर्शनेन दूषणात्.
06205 प्रसङ्गम् अन्तरेण आञ्जसेन एव किं न व्यभिचारित इति
06206 चेत्, यत् किंचिद् एतत्, सन्ति ह्य् एवंप्रकारा अपि व्यवहारा लोक
06207 इति. अथ तद् उपक्षेपम् अभ्युपगच्छत्य् एव, तदा अप्य्
06208 असाव् उत्तर-अप्रतिपत्त्या एव तत्-साधने निग्रह-अर्हः, न अपरत्र
06209 स्व-दोष-उपक्षेपात्, तत्-साधन-निर्दोषतायां हि तद्-अभ्युपगम
06210 एव उत्तर-अप्रतिपत्तिर् इति तावता एव पूर्वम् आपन्न-निग्रहस्य
06211 पर-दोष-उपक्षेपस्य अनपेक्षणीयत्वाद् इति.
06212 निग्रह-प्राप्तस्य अनिग्रहः पर्यनुयोज्य-उपेक्षणम्. पर्यनुयोज्यो
06213 नाम निग्रह-उपपत्त्या चोदनीयः, तस्य उपेक्षणं
06214 निग्रह-प्राप्तो असि इत्य् अननुयोगः. एतच् च कस्य पराजय
06215 इत्य् अनुयुक्तया पर्षदा वक्तव्यम्, न खलु निग्रह-प्राप्तः
06216 स्व-कौपीनं विवृणुयाद् इति.
06301 अत्र अपि यदि साधन-वादिनं निग्रह-प्राप्तम् उत्तर-वादी
06302 न पर्यनुयुङ्क्ते, अप्रतिभा एव अस्य उत्तर-अप्रतिपत्तेर् इति न
06303 पर्यनुयोज्य-उपेक्षणं पृथग् निग्रहस्थानम्. न्याय-चिन्तायां
06304 पुनर् न द्वयोर् एकस्य अपि अत्र जय-पराजयौ, साधन-
06305 आभासेन अर्थ-अप्रतिपादनाद् भूत-दोष-अनभिधानाच् च.
06306 अथ कंचिद् दोषम् उद्भावयति, कंचिन् न, न तदा
06307 निग्रहम् अर्हति उत्तर-प्रतिपत्तेः.
06308 अर्हति एव, सर्वस्य सतो दोषस्य अनुद्भावनाद् इति चेत्, न
06309 सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्या अवचने वा
06310 निग्रहः, एकेन अपि तत्-साधन-विघाताद्, एक-साधन-वचन-वत्.
06311 यथा एकस्य अर्थ-अस्य अनेक-साधन-सद्भावे अप्य् एकेन एव
06312 तत्-सिद्धेर् न सर्व-उपादानम् इति न दोषम् उद्भावयन्न् एव अपरस्य
06313 अनुद्भावनान् निग्रह-अर्हः.
06401 अथ पूर्व-पक्ष-वादी उत्तर-पक्ष-वादिनं निग्रह-प्राप्तं
06402 न निगृह्णाति, तदा तयोर् न्यायेन न एकस्य अपि पूर्ववज्
06403 जय-पराजयौ. दोष-आभासं ब्रूवानम् उत्तर-वादिनं स्व-
06404 साधनाद् अनुत्सारयतो असमर्थित-साधन-अङ्गत्वान् न जयो
06405 वादिनः, सर्व-दोष-असम्भव-प्रदर्शनेन साधन-अङ्ग-समर्थनात्.
06406 न अप्य् उत्तर-वादिनो भूत-दोष-अप्रतिपादनात्. तस्माद्
06407 एवम् अपि न पर्यनुयोज्य-उपेक्षणं नाम पराजय-अधिकरणम्
06408 इति.
06409 अस्थाने निग्रहस्थान-अनुयोगो निरनुयोज्य-अनुयोगः. निग्रहस्थान-
06410 लक्षणस्य मिथ्या-अवसायाद् अनिग्रहस्थाने निगृहीतो
06411 असि इति ब्रुवन् निरनुयोज्य-अनुयोगान् निगृहीतो वक्तव्यः.

06412 अत्र अपि यदि तत्-साधन-वादिनम् अभूतैर् दोषैर् उत्तर-
06413 वाद्य् अभियुञ्जीत, सो अस्थाने निर्दोषे निग्रहस्थानस्य अभियोक्त-
06414 उद्भावयिता न भवति. तथा च भूत-दोष-उद्भावन-लक्षणस्य
06415 उत्तरस्य अप्रतिपत्तेर् इतरेण उत्तर-आभासत्वे प्रतिपादिते
06501 अप्रतिभया एव निगृहीत इति न इदम् अतो निग्रहस्थान-अन्तरम्.
06503 अथ उत्तर-वादिनं भूतं साधन-दोषम् उद्भावयन्तम्
06504 अपरो दोष-आभास-वचनेन अभियुञ्जीत, तस्य तेन भूत-
06505 दोषत्वे प्रतिपादिते साधन-आभास-वचनेन एव निगृहीत इति.
06506 एवम् अपि न इदं हेत्व्-आभासेभ्यो भिद्यते. अवश्यं हि
06507 विषय-अन्तर-व्याप्त्य्-अर्थं हेत्व्-आभासा निग्रहस्थानत्वेन
06508 वक्तव्याः, तद्-उक्ताव् अपर-उक्तिर् अनर्थका इति.
06509 सिद्धान्तम् अभ्युपेत्या-नियमात् कथा-प्रसङ्गो अपसिद्धान्तः.
06510 कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञाता-
06511 अर्थ-विपर्ययात् कथा-प्रसङ्गं कुर्वतो अपसिद्धान्तो
06512 विज्ञेयः. यथा न सतो विनाशः, न असद् उत्पद्यत इति सिद्धान्तम्
06513 अभ्युपेत्य पक्षम् अवस्थापयति एका प्रकृतिर्
06514 व्यक्तस्य, विकाराणाम् अन्वय-दर्शनात्. मृद्-अन्वयानां शराव-
06515 आदीनां दृष्टम् एक-प्रकृतिकत्वम्, तथा च अयं व्यक्त-
06601 भेदस् सुख-दुःख-मोह-समन्वितो गृह्यते. तत् सुख-आदिभिर्
06602 एक-प्रकृतिर् इति. स एवम् उक्तवान् पर्यनुयुज्यते.
06603 अथ प्रकृतिर् विकार इति कथं लक्षयितव्यम् इति. यस्य अवस्थितस्य
06604 धर्म-अन्तर-निवृत्तौ धर्म-अन्तरं प्रवर्तते,
06605 सा प्रकृतिः. यत् तद् धर्म-अन्तरम्, स विकार इति. सो अयं
06606 प्रकृत-अर्थ-विपर्ययाद् अनियमात् कथां प्रसञ्जयति. प्रतिज्ञातं
06607 खल्व् अनेन न असद् आविर्भवति, न सत् तिरोभवति इति.
06608 सद्-असतोश् च तिरोभाव-आविर्भावाव् अन्तरेण न कस्यचित् प्रवृत्त्य्-
06609 उपरमः प्रवृत्तिर् वा इति एवं प्रत्यवस्थितो यदि सत
06610 आत्म-हानम् असतश् च आत्म-लाभम् अभ्युपैति, अपसिद्धान्तो
06611 भवति अथ न अभ्युपैति, पक्षो अस्य न सिध्यति इति.
06612 इह अपि न कश्चिद् अनियमात् कथा-प्रसङ्गः यत् तेन उपगतन्
06613 न असद् उत्पद्यते, न सद् विनश्यति इति तस्य समर्थनाय
06614 इदम् उक्तम् एक-प्रकृतिकम् इदं व्यक्तम् अन्वय-दर्शनाद्
06615 इति. तत्र एका प्रकृतिः सुख-दुःख-मोहः. तद्-अविभक्त-
06616 योनिकम् इदं व्यक्तं तद्-अन्वय-दर्शनात्. व्यक्तस्य
06701 तत्-स्वभावता-भेद-उपलब्धेर् इति सुख-आदीनाम् उत्पत्ति-
06702 विनाश-अभ्युपगम-अभावात् सर्वस्य तद्-आत्मकस्य न उत्पत्ति-
06703 विनाशाव् इति सिद्धं भवति. अत्र तद्-उक्तस्य हेतोर् दोषम्
06704 अनुद्भाव्य विकार-प्रकृति-लक्षणं पृच्छन् स्वयम् अयं
06705 प्रकृत-असम्बन्धेन अनियमात् कथां प्रवर्तयति.
06706 तत्र इदं स्याद् वाच्यम्, व्यक्तं नाम प्रवृत्ति-निवृत्ति-

06707 धर्मकम्, न तथा सुख-आदयः. व्यक्तस्य सुख-आद्य्-अन्वये
06708 सुख-आदि-स्वभावतायां प्रवृत्ति-निवृत्ति-धर्मता-लक्षणम्
06701 अवहीयत इति. न तद्-रहित-सुख-आदि-स्वभावता व्यक्त-लक्षण-
06709 विरोधाद् इति. सुख-आद्य्-अन्वय-दर्शनाद् इत्य् असिद्धो हेतुर्
06711 इति. एवं हि तस्य साधन-दोष-उद्भावनेन पक्षो दूषितो
06712 भवति. सो अनुपसंहृत्य साधन-दोषं कथां प्रतानयन्
06713 स्व-दोषं परत्र उपक्षिपति.
06714 अयम् एव दोषो अनेन प्रकरणेन उच्यत इति चेत्, एष नैमित्तिकाणां
06715 विषयः, न लोकः शब्दैर् अप्रतिपादितम् अर्थं
06716 प्रतिपत्तुं समर्थ इति. स एव अयं भण्डालेख्यन्यायो
06717 अत्र अपि. यथोक्तेन न्यायेन पूर्वकस्य असाधन-अङ्गस्य असिद्धस्य
06718 हेतोर् अभिधानाद् एव निग्रहः, न अपि अनियमात्
06719 कथा-प्रसङ्गाद् इति. इदम् अपि हेत्व्-आभासेष्व् अन्तर्भावान् न
06720 पृथग् वाच्यम्.
06801 हेत्व्-आभासाश् च यथोक्ताः. हेत्व्-आभासाश् च निग्रहस्थानानि.
06802 किं पुनर् लक्षण-अन्तर-योगाद् हेत्व्-आभासा निग्रहस्थान-
06803 भावम् आपद्यन्ते, यथा प्रमाणानि प्रमेयत्वम्
06804 इत्य् अत आह यथोक्त-हेत्व्-आभास-लक्षणेन एव निग्रहस्थान-
06805 भाव इति.
06806 अत्र अपि यथोक्तं कृत्वा चिन्त्यम् एव, किं ते यथालक्षित-प्रभेदास्
06807 तथा एव, आहोस्विद् अन्यथा इति. तत् तु चिन्त्यमानम्
06808 इह अतिप्रसज्यत इति न प्रतन्यते. हेत्व्-आभासाश् च यथान्यायं
06809 निग्रहस्थानम् इति एतावन्-मात्रम् इष्टम् इति.
06810 लोके अविद्या-तिमिर-पटल-उल्लेखनस् तत्त्व-दृष्टेर्
06811 वादन्यायः परहित-रतैर् एष सद्भिः प्रणीतः ।
06812 तत्त्व-आलोकं तिमिरयति तं दुर्विदग्धो जनो अयं
06813 तस्माद् यत्नः कृत इह मया तत्-समुज्ज्वालनाय ॥3॥
06814 वादन्यायो नाम प्रकरणं समाप्तम्.

मूल पाठ: Vādanyāya · Edition: : M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991. · Data entry Motoi Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc