भाषा

ENहिગુ
ग्रंथ पाठ

वादन्याय · भाग 120

एxप्लनतोर्य् रेमर्क्स्
अ नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द्
इन् थे बसिच् तेxत्स्. इन् थे चसे ओf थे स्व्, थे ह्ब् अन्द् थे व्न्, थे fइर्स्त् थ्रेए fइगुरेस्
इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले,
स्व्16026=स्व् 160,26; ह्ब्02314=ह्ब् 23,14; व्न्06110=व्न् 61,10). इन् थे चसे ओf थे
प्व् अन्द् थे न्ब्, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए
fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, प्व्02232=प्व्, थे
प्रमनसिद्धि-छप्तेर् व्.232; न्ब्03015=न्ब्, थे परर्थनुमन-छप्तेर् सुत्र 15.
इन् थे चसे ओf थे स्प्, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले,
स्प्00015=स्प्, व्.15).
3. इन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय्
इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे
दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत्
ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग्
एxचेप्तिओन्स्:
3.1. थे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो
wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
3.2. सुffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. बुत् सुffइxएस्
मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स्
सुछ् अस् अ नुमेरल्+ -ध।-विध।-प्रकर रेमैन् अल्सो उन्दिविदेद्.
3.3. चोम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त।-त्व ओर् -भव।-भुत fउन्दमेन्तल्ल्य्
रेमैन् उन्दिविदेद्. fओर् एxअम्प्ले: कर्यकरनभव।-भुत।-त.
3.4. चोम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे
wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति,
तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
3.5. सोमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो
उन्दिविदेद्. fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ,
परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय,
सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
4. थोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे सन्धि रुलेस् (fओर् एxअम्प्ले, -द्
धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf
उसिन्ग् थिस् दतबसे तो मके अन् क्wइच् इन्देx.
1. औगुस्त्. 1997 । त्सुकुब
मोतोइ ओनो
नोते:
थिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् इ मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf
एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. इ wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द्
पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे
fउतुरे.
ए-मैल्: ओनो@लोगोस्.त्सुकुब.अच्.ज्प्

00101 नमः समन्तभद्राय.
00102 न्यायवादिनम् अपि वादेषु असद्-व्यवस्था-उपन्यासैः शठा
00103 निगृह्णन्ति, तन्-निषेध-अर्थम् इदम् आरभ्यते.
00104 असाधन-अङ्ग-वचनम् अदोष-उद्भावनं द्वयोः ।
00105 निग्रहस्थानम्, अन्यत् तु न युक्तम् इति न इष्यते ॥1॥
00106 इष्टस्य अर्थस्य सिद्धिः साधनम्, तस्य निर्वर्तकम्
00107 अङ्गम्, तस्य अवचनम् तस्य अङ्गस्य अनुच्चारणं वादिनो
00108 निग्रह-अधिकरणम्, तद् अभ्युपगम्य अप्रतिभया तूष्णींभावात्,
00109 साधन-अङ्गस्य असमर्थाद् वा.
00110 त्रिविधम् एव हि लिङ्गम् अप्रत्यक्षस्य सिद्धेर् अङ्गम्,
00111 स्वभावः कार्यम् अनुपलब्धश् च. तस्य समर्थनं
00112 साध्येन व्याप्तिं प्रसाध्य धर्मिणि भाव-साधनम्,
00113 यथा यत् सत् कृतकम् वा, तत् सर्वम् अनित्यम्, यथा घट-आदिः,
00114 सन् कृतको वा शब्द इति. अत्र अपि न कश्चित् क्रम-
00115 नियमः, इष्ट-अर्थ-सिद्धेर् उभयत्र अविशेषात्. धर्मिणि प्राक्
00116 सत्त्वं प्रसाध्य पश्चाद् अपि व्याप्तिः प्रसाध्यत एव
00117 यथा सन् शब्दः कृतको वा, यश् च एवम्, स सर्वो अनित्यः,
00118 यथा घट-आदिर् इति.
00201 अत्र व्याप्ति-साधनं विपर्यये बाधक-प्रमाण-उपदर्शनम्.
00202 यदि न सर्वं सत् कृतकं वा प्रतिक्षण-विनाशि
00203 स्यात्, अक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थक्रिया-अयोगाद्
00204 अर्थक्रिया-सामर्थ्य लक्षणतो निवृत्तम् इत्य् असद् एव स्यात्.
00205 सर्व-सामर्थ्य-उपाख्या विरह-लक्षणं हि निरुपाख्यम् इति.
00206 एवं साधनस्य साध्य-विपर्यये बाधक-प्रमाण-अनुपदर्शने
00207 विरोध-अभावाद् अस्य विपर्यये वृत्तेर् अदर्शने अपि
00208 सन् कृतको वा स्यान् नित्यश् च इत्य् अनिवृत्तिर् एव शङ्कायाः. ततो
00209 व्यतिरेकस्य सन्देहाद् अनैकान्तिकः स्याद् हेत्वाभासः.
00210 न अप्य् अदर्शन-मात्राद् व्यावृत्तिः, विप्रकृष्टेष्व् असर्व-दर्शिनो
00211 अदर्शनस्य अभाव-असाधनात्, अर्वाग्दर्शनेन सताम् अपि केषांचिद्
00212 अर्थानाम् अदर्शनात्.
00213 बाधकं पुनः प्रमाणम्, यत्र क्रमयौगपद्य-अयोगः,
00214 न तस्य क्वचित् सामर्थ्यम्, अस्ति च अक्षणिके स इति
00215 प्रवर्तमानम् असामर्थ्यम् असल्-लक्षणम् आकर्षति. तेन
00216 यत् सत् कृतकं वा तद् अनित्यम् एव इति सिध्यति, तावता च साधन
00217 धर्म-मात्र-अन्वयः साध्य-धर्मस्य, स्वभावहेतु-
00218 लक्षणं च सिद्धं भवति.
00219 अत्र अप्य् अदर्शनम् अप्रमाणयतः क्रमयौगपद्य-अयोगस्य
00301 एव असामर्थ्येन व्याप्त्य्-असिद्धेः पूर्वकस्य अपि हेतोर्
00302 अव्याप्तिः. इह अपि पुनः साधन-उपक्रमे अनवस्था-प्रसङ्ग
00303 इति चेत्. न, अभाव साधनस्य अदर्शनस्य अप्रतिषेधात्. यद्

00304 अदर्शनं विपर्ययं साधयति हेतोः साध्य-विपर्यये,
00305 तद् अस्य विरुद्ध-प्रत्युपस्थापनाद् बाधकं प्रमाणम्
00306 उच्यते. एवं हि स हेतुः साध्य-अभावे असन् सिध्येत्, यदि
00307 तत्र प्रमाणवता स्व-विरुद्धेन बाध्येत. अन्यथा तत्र
00308 अस्य बाधक-असिद्धौ संशयो दुर्निवारः. न च सर्व-अनुपलब्धिर्
00309 भावस्य बाधिका. तत्र सामर्थ्यं क्रम-अक्रम
00310 योगेन व्याप्तं सिद्धम्, प्रकार-अन्तर-अभावात्. तेन व्यापक-
00311 अनुपलब्धिर् अक्षणिके सामर्थ्यं बाधत इति
00312 क्रमयौगपद्य-अयोगस्य सामर्थ्य-अभावेन व्याप्ति-सिद्धेर्
00313 न अनवस्था-प्रसङ्गः.
00314 एवं स्वभावहेतु-प्रयोगेषु समर्थितं साधन-अङ्गं
00315 भवति. तस्य असमर्थनं साधन-अङ्ग-अवचनं तद्-वादिनः
00316 पराजय-स्थानम् आरब्ध-अर्थ-अप्रसाधनात्, वस्तुतः
00317 समर्थस्य हेतोर् उपादाने अपि सामर्थ्य-अप्रतिपादनात्.
00318 कार्यहेताव् अपि साधन-अङ्गस्य समर्थनम्, यत् कार्य-
00319 लिङ्गं कारणस्य साधनाय उपादीयते, तस्य तेन सह कार्यकारणभाव-
00401 प्रसाधनं भाव-अभाव-साधन-प्रमाणाभ्याम्.
00402 यथा इदम् अस्मिन् सति भवति. सत्स्व् अपि तद्-अन्येषु
00403 समर्थेषु तद्-हेतुषु तद्-अभावे न भवति इति. एवं ह्य्
00404 अस्य असन्दिग्धं तत्-कार्यत्वं समर्थितं भवति.
00405 अन्यथा केवलं तद्-अभावे न भवति इत्य् उपदर्शने
00406 अन्यस्य अपि तत्र अभावे सन्दिग्धम् अस्य सामर्थ्यम्. अन्यत्
00407 तत्र समर्थम्, तद्-अभावात् तन् न भूतम्. एतन्-निवृत्तौ
00408 पुनर् निवृत्तिर् यदृच्छा-संवादः, मातृ-विवाह-उचित-देश-जन्मः
00409 पिण्ड खर्जूरस्य देश-अन्तरेषु मातृ-विवाह-अभावे
00410 अभाव-वत्.
00411 एवं समर्थितं तत् तत्-कार्यं सिध्यति. सिद्धं
00412 सत् स्व-सम्भवेन तत्-सम्भवं साधयति. कार्यस्य कारण-
00413 अव्यभिचारात्. अव्यभिचारे च स्व-कारणैः सर्व-कार्याणां
00414 सदृशो न्यायः. एवम् असमर्थनं कार्यहेताव् अपि साधन-
00415 अङ्ग-अवचनं तद्-वादिनः पराजय-स्थानम्, असमर्थिते
00416 तस्मिन् कार्यत्व-असिद्धेर् अर्थ-अन्तरस्य तद्भाव-अप्रतिबद्ध-
00417 स्वभावस्य भावे तद्भाव-नियम-अभावाद् आरब्ध-अर्थ-
00418 असिद्धेः, वस्तुतः कार्यस्य अप्य् उपादाने तद्-अप्रतिपादनात्.
00420 अनुपलब्धाव् अपि प्रतिपत्तुर् उपलब्धि-लक्षण-प्राप्तस्य
00421 अनुपलब्धि-साधनं समर्थनम्, तादृश्या एव अनुपलब्धेर्
00422 असद्-व्यवहार-सिद्धेः, अनुपलब्धि-लक्षण-प्राप्तस्य
00423 प्रतिपत्तृ-प्रत्यक्ष-उपलब्धि-निवृत्ताव् अप्य् अभाव-असिद्धेः.
00501 तत्र उपलब्धि-लक्षण-प्राप्तिः स्वभाव-विशेषः कारण-अन्तर-
00502 साकल्यं च. स्वभाव-विशेषो यन् न त्रिविधेन

00503 विप्रकर्षेण विप्रकृष्टम्, यद् अनात्म-रूप-प्रतिभास-विवेकेन
00504 प्रतिपत्तृ-प्रत्यक्ष-प्रतिभास-रूपम्. तादृशः सत्स्व्
00505 अन्येषु उपलम्भ-प्रत्ययेषु तथा अनुपलब्धो असद्-व्यवहार-
00506 विषयः. ततो अन्यथा सति लिङ्गे संशयः.
00507 अत्र अपि सर्वम् एवंविधम् असद्-व्यवहार-विषय इति
00508 व्याप्तिः, कस्यचिद् असतो अभ्युपगमे तल्-लक्षण-अविशेषात्; न
00509 ह्य् एवंविधस्य असत्त्वान् अभ्युपगमे अन्यत्र तस्य योगः.
00510 न ह्य् एवंविधस्य सतः सत्स्व् अन्येषु उपलम्भ-कारणेष्व्
00511 अनुपलब्धिः. अनुपलभ्यमाणं त्व् ईदृशं न अस्ति इत्य् एतावन्मात्र-
00512 निमित्तो अयम् असद्-व्यवहारः, अन्यस्य तन्-निमित्तस्य
00513 अभावात्.
00514 सर्व-सामर्थ्य-विवेको निमित्तम् इति चेत्, एवम् एतत् तस्य एव
00515 सर्व-सामर्थ्य-विवेकिन एवं प्रतीतिः, अन्यस्य तत्-प्रतिपत्त्य्-
00516 उपाय-अभावात्. तत्-प्रतिपत्तौ च सत्याम् असद्-व्यवहार
00517 इति इदं तन्-निमित्तम् उच्यते.
00518 बुद्धि-व्यपदेश-अर्थक्रियाभ्यः सद्-व्यवहारो विपर्यये
00519 च असद्-व्यवहार इति चेत्, भवति बुद्धेर् यथोक्त-प्रतिभासायाः
00520 सद्-व्यवहारः, विपर्यये असद्-व्यवहारः.
00521 प्रत्यक्ष-अविषये तु स्याल् लिङ्गजाया अपि कुतश्चित् सद्-व्यवहारः.
00522 असद्-व्यवहारस् तु तद्-विपर्यये अनैकान्तिकः, विप्रकृष्टे
00523 अर्थे प्रतिपत्तृ-प्रत्यक्षस्य अन्यस्य वा प्रमाणस्य
00524 निवृत्ताव् अपि संशयात्.
00601 न च सर्वे बुद्धि-व्यपदेशास् तद्-भेद-अभेदौ वा वस्तु-
00602 सत्तां वस्तु-भेद-अभेद-सत्तां वा साधयन्ति, असत्स्व् अपि
00603 कथंचिद् अतीत-अनागत-आदिषु नाना-एक-अर्थक्रियाकारिषु वा अर्थेषु
00604 तद्-भाव स्थापनाय नाना-एकात्म-अभावे अपि नाना-एक-रूपाणां
00605 वृत्तेः, राजा महा-सम्मतः प्रभवो राजवंशस्य, शङ्खश्
00606 चक्रवर्त्ती महा-सम्मत-निर्मितस्य यूपस्य उत्थापयिता,
00607 शश-विषाणम्, रूपं सनिदर्शनं सप्रतिघम्,
00608 घटश् च इति. न हि सनिदर्शन-आदि शब्दा नाना-वस्तु-विषया एकत्र
00609 उपसंहारात्.
00610 नाना-विषयत्वे अप्य् एकत्र उपसंहारस् तन्-निमित्तानान् तत्र
00611 समवायाद् इति चेत्, आयासे वत अयं तपस्वी पदार्थः पतितो
00612 अनेक-सम्बन्धिनम् उपकृत्य-अनेकं शब्दम् आत्मनि तेभ्यः
00613 समाशंसन्. स यैः शक्ति-भेदैर् अनेकं सम्बन्धिनम्
00614 उपकरोति तैर् एव अनेकं शब्दं किं न उत्थापयति.
00615 एवं ह्य् अनेन परंपर-अनुसार-परिश्रमः परिहृतो
00616 भवति नाना-शब्द-उत्थापन असामर्थ्ये नाना-सम्बन्ध्य्-
00617 उपकारो अपि मा भूत्, अनुपकारे हि तेषां तत्-सम्बन्धिता
00618 अपि न सिध्यति.

00619 घट इत्य् अपि च रूप-आदय एव बहव एक-अर्थक्रियाकारिण
00620 एक-शब्द-वाच्या भवन्तु, किम् अर्थ-अन्तर-कल्पनया.
00621 बहवो अपि ह्य् एक-अर्थ-कारिणो भवेयुश् चक्षुर्-आदि-वत्. तत्-सामर्थ्य-
00622 स्थापनाय तत्र एक-शब्द-नियोगो अपि स्याद् इति युक्तं
00623 पश्यामः. न च निःप्रयोजना लोकस्य अर्थेषु शब्द-योजना.
00624 तत्र ये अर्थाः सह पृथग् वा एक-प्रयोजनास् तेषां तद्भाव-
00625 स्थापनाय ह्य् एक-शब्दो नियुज्यते यदि, किं स्यात्. तद्-अर्थक्रिया-
00701 शक्ति-स्थापनाय नियुक्तस्य समुदाय-शब्दस्य एक-
00702 वचन-विरोधो अपि न अस्त्य् एव. सहितानां सा शक्तिर् एका न
00703 प्रत्येकम् इति समुदाय-शब्द एकस्मिन् समुदाये वाच्ये
00704 एक-वचनं घट इति. जाति शब्देष्व् अर्थानां प्रत्येकं
00705 सहितानां च शक्तेर् नाना-एका च शक्तिर् इति, नाना-एक-शक्ति-विवक्षायां
00706 बहु-वचनम् एक-वचनं च इच्छातो वृक्षा वृक्ष इति
00707 स्यात्, यद्य् एष नियमो बहुष्व् एव बहु-वचनम्, एकस्मिन्न्
00708 एक-वचनम् इति. अस्माकन् तु सांकेतिकेष्व् अर्थेषु संकेत-
00709 वशाद् वृत्तिर् इत्य् अनभिनिवेश एव.
00710 नाना-एको रूप-आदिर् एक-शब्द-उत्थापने शक्त इति चेत्, किं वै
00711 पुरुष-वृत्तेर् अनपेक्षाः शब्दान् अर्थाः स्वयम् उत्थापयन्ति,
00712 आहोस्वित् पुरुषैर् शब्दा व्यवहार-अर्थम् अर्थेषु
00713 नियुज्यन्ते. स्वयम् उत्थापने हि भाव-शक्तिर् अशक्तिर् वा चिन्त्येत,
00714 न च तद् युक्तम्. पुरुषैस् तेषां नियोगे यथेष्टं
00715 नियुञ्जीरन्न् इति कस् तत्र उपालम्भः, निमित्तं च नियोगस्य
00716 उक्तम् एव. अपि च यदि न रूप-आदीनाम् एकेन शब्देन सम्बन्धः,
00717 कथम् एकेन एषाम् आश्रय-अभिमतेन द्रव्येण
00718 सम्बन्ध इति केवलम् अयम् असद्-भूत-अभिनिवेश एव.
00719 न वयम् एक-सम्बन्ध-विरोधाद् एकं शब्दं न इच्छामः,
00720 अपि त्व् अभिन्नानां रूप-आदीनां घट-कम्बल-आदिषु नाना-
00721 अर्थक्रिया-शब्द-विरोधात् त एक-रूपाः समुदाय-अन्तर-असम्भाविनीम्
00722 अर्थक्रियाम् एव न कुर्युः. तेन तत्-प्रकाशनाय एकैकेन
00723 अपि शब्देन न उच्येरन्. भवतु नाम कस्यचिद् अयं
00724 वाञ्च्छा भवेयुर् एक-रूपा रूप-आदयः सर्व-समुदायेष्व् इति.
00725 किम् इदं परस्पर-विविक्त-रूप प्रतिभास-अधियक्ष-दर्शनम्
00726 एनाम् उपेक्षते. अनिष्टं च इदं रूप-आदीनां प्रतिसमुदायं
00727 स्वभाव-भेद-उपगमात्.
00801 यद्य् अन्य एव रूप-आदिभ्यो घट इति एकः स्यात्,
00802 किं स्यात्. अस्तु, प्रत्यक्षस्य सतो अरूप-आदि-रूपस्य तद्-विवेकेन बुद्धौ
00803 स्वरूपेण प्रतिभासेन किम् आवरणम्. प्रतिभासमानाश्
00804 च विवेकेन प्रत्यक्षा अर्था दृश्यन्ते अपृथग्देशत्वे
00805 अपि गन्ध-रस-आदयः, वात-आतप-स्पर्श-आदयश् च एक-इन्द्रिय-ग्राह्यत्वे
00806 अपि. इदम् एव च प्रत्यक्षस्य प्रत्यक्षत्वम्, यद्

00807 अनात्म-रूप-विवेकेन स्वरूपस्य बुद्धौ समर्पणम्.
00808 अयं पुनर् घटो अमूल्य-दान-क्रयी, यः स्वरूपं च न उपदर्शयति
00809 प्रत्यक्षतां च स्वीकर्तुम् इच्छति. एतेन बुद्धि-
00810 शब्द-आदयो अपि व्याख्याता यदि तैस् तत्-साधनम् इष्यते. न च
00811 प्रत्यक्षस्य अनभिभवे रूप-अनुपलक्षणम्, येन तत्-साधनाय
00812 लिङ्गम् उच्यते. अप्रत्यक्षत्वे अप्य् अप्रमाणस्य सत्ता-
00813 उपगमो न युक्तः. तन् न रूप-आदिभ्यो अन्यो घटः. एवं
00814 तावन् न बुद्धि-व्यपदेशाभ्यां सत्ता-व्यवहारः सत्ता-
00815 भेद-अभेद-व्यवहारो वा अत एव न तद्-विपर्ययाद् विपर्ययः.
00817 अर्थक्रियातस् तु सत्ता-व्यवहारः स्यात्, न सत्ता-भेद-अभेद-
00818 व्यवहारः, एकस्य अप्य् अनेक-अर्थक्रिया-दर्शनात्, यथा
00819 प्रदीपस्य विज्ञान-वर्ति-विकार-ज्वाला-अन्तर-उत्पादनानि, अनेकस्य
00820 अपि चक्षुर्-आदेर् एक-विज्ञान-क्रिया-दर्शनात्.
00821 न ब्रूमो अर्थक्रिया-भेद-मात्रेण सत्ता-भेद इति, किं
00822 तर्हि अदृष्ट-अर्थक्रिया-भेदेन. या अर्थक्रिया यस्मिन्न् अदृष्टा
00823 पुनर् दृश्यते सा सत्ता-भेदं साधयति, यथा मृद्य् अदृष्टा
00824 सत्य् उदक-धारण-आद्य्-अर्थक्रिया घटे दृश्यमाना, अदृष्टा अपि
00825 तन्तुषु प्रावरण-आद्य्-अर्थक्रिया पटे दृश्यत इति सत्ता-
00826 भेदः.
00901 सिध्यति एवम् अर्थ-अन्तरम्, तथा अप्य् अवयवी न सिध्यति.
00902 यथाप्रत्ययं संस्कार-सन्ततौ स्वभाव-भेद-उत्पत्तेर्
00903 अर्थक्रिया-भेदः, अरणि-निर्मथन-अवस्था-भेदाद् इव अग्नेः
00904 स्थूल-करीष-तृण-काष्ठ-दहन-शक्ति-भेदः. तथा यथाप्रत्ययं
00905 स्वभाव-भेद-उत्पत्तेस् तन्त्व्-आदिष्व् अर्थक्रिया-भेदः.
00906 एतेन बुद्धि-व्यपदेश-भेद-अभेदौ व्याख्यातौ.
00907 तत्र यद् उक्तम् अर्थक्रियातः सत्ता-व्यवहार-सिद्धिः,
00908 विपर्ययाद् विपर्यय इति सत्यम् एतत्. स एव तु विपर्ययो
00909 अनुपलब्धि-लक्षण-प्राप्तेषु न सिध्यति. तत्र पुनर् इदम्
00910 अनिच्छतो अप्य् आयातम्, यस्य इदं सामर्थ्यम् उपलब्धि-लक्षण-
00911 प्राप्तं सन् न उपलभ्यते, सो असद्-व्यवहार-विषयः
00912 सामर्थ्य-लक्षणत्वात् सत्त्वस्य इति. तथा अपि को अतिशयः पूर्वकाद्
00913 अस्य. न हि स्वभावाद् अर्थ-अन्तरं सामर्थ्यम्, तस्य
00914 उपलब्धि-लक्षण-प्राप्तस्य यो अनुपलम्भः स स्वभावस्य
00915 एव इति पूर्वका एव इयम् अनुपलब्धिः. तस्माद् अनेन क्वचित्
00916 केषांचिद् असद्-व्यवहारम् अभ्युपगच्छता अतो अनुपलम्भाद्
00917 अभ्युपगन्तव्यो न वा क्वचिद् विशेष-अभावात्. सो
00918 अन्यत्र अपि तथाविधे अविशिष्ट इति सो अपि तथा अस्त्व् इति व्याप्तिः:
00919 सर्व एवंविधो अनुपलब्धो असद्-व्यवहार-विषय इति.
00920 न एव कश्चित् क्वचित् कथंचिद् अनुपलब्धो अप्य् असद्-व्यवहार-
00921 विषय इति चेत्, सर्वस्य सर्व-रूपाणां सर्वदा अनिवृत्तेः

00922 सर्वं सर्वत्र सर्वदा समुपयुज्येत. इदं च न
00923 स्यात्: इदम् अतः, नात इदम्, इह इदम्, इह न इदम्, इदानीम्
00924 इदम्, इदानीं न इदम्, इदम् एवम्, इदं न एवम् इति, कस्यचिद्
00925 अपि रूपस्य कथंचिद् क्वचित् कदाचिद् विवेक-हेतोर् अभावात्.
00926 अनन्वय-व्यतिरेकं विश्वं स्यात्, भेद-अभावात्.
01001 अवस्था-निवृत्ति-प्रवृत्ति-भेदेभ्यो व्यवस्था इति चेत्, ननु
01002 त एव सर्व-विषयस्य असद्-व्यवहारस्य अभावान् न सम्भवन्ति,
01003 यतस् तेभ्यो व्यवस्था स्यात्. क्वचिद् विषये असद्-व्यवहार-
01004 उपगमे स कुत इति वक्तव्यम्. न ह्य् अनुपलम्भाद्
01005 अन्यो व्यवच्छेद-हेतुर् अस्ति, विधि-प्रतिषेधाभ्यां व्यवच्छेदे
01006 सर्वदा अनुपलम्भस्य एव साधनत्वात्. अनुपलम्भाद्
01007 एव तद्-अभ्युपगमे स यत्र एव अस्ति सर्वो असद्-व्यवहार-
01008 विषय इति वक्तव्यम्, विशेष-अभावात्.
01009 सर्व-प्रमाण-निवृत्तिर् अनुपलब्धिः. सा यत्र सो असद्-विषय
01010 इष्ट इति चेत्, सुकुमार-प्रज्ञो देवानांप्रियो न सहते
01011 प्रमाण-चिन्ता-व्यवहार-परिक्लेशं येन न अत्र आदरं कृतवान्.
01012 न ह्य् अनुमान-आदि-निवृत्तिर् अभावं गमयति व्यभिचारात्,
01013 न सर्व-प्रत्यक्ष-निवृत्तिर् असिद्धेः, न आत्म-प्रत्यक्ष-अविशेष-
01014 निवृत्तिर् अपि विप्रकृष्टेषु. तस्मात् स्वभाव-विशेषो यतः
01015 प्रमाणान् नियमेन सद्-व्यवहारं प्रतिपद्यते, तन्-निवृत्तिस्
01016 तस्य असद्-व्यवहारं साधयति, तत्-स्वभाव-सत्तायास् तत्-
01017 प्रमाण-सत्तया व्याप्तेः. न च उपलब्धि-लक्षण-प्राप्तस्य अर्थस्य
01018 प्रत्यक्षाद् अन्य-उपलब्धिर् येन अनुमानाद् अस्य उपलब्धिः
01019 स्यात्. न च तद्-रूप-अन्यथाभावम् अन्तरेण अप्रत्यक्षता-
01020 अन्यथाभावे च तद् एव न स्यात्.
01021 अपि च कुत इदम् अमन्त्र-ओषधम् इन्द्रजालं भावेन
01022 शिक्षितम्, यद् अयम् अजात-अनष्ट-रूप-अतिशयो अव्यवधान-अदूर-
01101 स्थानस् तस्य एव तद्-अवस्था इन्द्रिय-आदेर् एव पुरुषस्य कदाचित्
01102 प्रत्यक्षो अप्रत्यक्षश् च, येन कदाचित् अस्य अनुमानम् उपलब्धिः
01103 कदाचित् प्रत्यक्षं कदाचिद् आगमः, एतस्मिन्न् एव अनतिशये
01104 अमीषां प्रकाराणां विरोधात्.
01105 न अनतिशय एक-अतिशय-निवृत्त्या अपर-अतिशय-उत्पत्त्या च व्यवहार-
01106 भेद-उपगमात्. सो अतिशयस् तस्य आत्मभूतो अनन्वयो निवर्तमानः
01107 प्रवर्तमानश् च कथं न स्वभाव-नानात्वम्
01108 आकर्षयति सुख-दुःख-वत्. सान्वयत्वे च का कस्य
01109 प्रवृत्तिर् निवृत्तिर् वा इति यत् किंचिद् एतत्.
01110 अथवा यदि कस्यचित् स्वभावस्य प्रवृत्ति-निवृत्ती स्वयम्
01111 अभ्यनुज्ञायेते, तद् एव परो ब्रुवाणः किम् इति न अनुमन्यते.
01112 तस्य निरन्वय-उपजनन-विनाश-उपगमाद् इति चेत्, को
01113 अयम् अन्वयो नाम भावस्य जन्म-विनाशयोः. शक्तिः, सा अस्त्य्

01114 एव प्राग् अपि जन्मनो निरोधाद् अप्य् ऊर्ध्वम्. तेन अयं न अपूर्वः
01115 सर्वथा जायते, न पूर्वो विनाश्यति इति. यदि सा सर्वदा अनतिशया
01116 किम् इदानीम् अतिशयवत् यत् कृतो अयं व्यवहार-विभागः.
01117 ता अवस्था अतिशयवत्य इति चेत् ता अवस्थाः सा च
01118 शक्तिः, किम् एको भाव आहोस्विन् नाना. एकश् चेत्, कथम् इदानीम्
01119 इदम् एकत्र अविभक्त-आत्मनि निष्पर्यायं परस्पर-व्याहतं
01120 योक्ष्यते: जन्म-अजन्म निवृत्तिर् अनिवृत्तिर् एकत्वं नानात्वं
01121 प्रत्यक्षता-अप्रत्यक्षता अर्थक्रिया-उपयोगो अनुपयोगश्
01122 च इत्य् आदि.
01201 अस्ति पर्यायो अवस्था शक्तिर् इति तेन अविरोध इति चेत्, विस्मरण-
01202 शीलो देवानांप्रियः प्रकरणं न लक्षयति. शक्तिर्
01203 अवस्था इत्य् एको भावो अविभाग इति पक्षे अयं विरोध उक्तः.
01204 अथ अस्त्य् अनयोर् विभागो न कश्चिद् विरोधः, केवलं
01205 सान्वयौ भावस्य जन्म-विनाशाव् इति न स्यात्, यस्माद् यस्य अन्वयो
01206 न तस्य जन्म-विनाशौ यस्य च तौ न तस्य अन्वयः.
01207 तयोर् अभेदाद् अदोष इति चेत्, अनुत्तरं बत, दोष-सङ्कटम्
01208 अत्रभवान् दृष्टि-रागेण प्रवेश्यमानो अपि न आत्मानं
01209 चेतयति. अभेदो हि नाम-ऐक्यं ताव् इति च भेद-अधिष्ठानो
01210 भाविको व्यवहारः. निवृत्ति-प्रादुर्भावयोर् अनिवृत्ति-प्रादुर्भावौ
01211 स्थिताव्, अस्थितिर् इत्य् आदिकं नानात्व-लक्षणं च
01212 कथं योज्यते. एष हि भावानां भेद एतद्-विरहश् च अभेदो
01213 यथा सुख-आदिषु शक्त्य्- अवस्थयोश् च एकात्मनि. अन्यथा
01214 भेद-अभेद-लक्षण-अभावाद् भेद-अभेदयोर् अव्यवस्था स्यात्
01215 सर्वत्र.
01216 तदात्मनि प्रादुर्भावो अभेदः, विपर्यये भेदः, यथा
01217 मृद्-आत्मनि प्रादुर्भवतो घटस्य तस्माद् अभेदः.
01218 भेदश् च विपर्यये सुख-दुःखयोर् इति, इदं भेद-
01219 अभेद-लक्षणम्, तेन अविरोध इति चेत्, न वै मृदात्मनि
01220 घटस्य प्रादुर्भावः, किं तर्हि मृदात्मा एव कश्चित्
01221 घटः. न ह्य् एकस् त्रैलोक्ये मृद्-आत्मा, प्रतिविज्ञप्ति-प्रतिभास-
01222 भेदात् द्रव्य-स्वभाव-भेदात्. एवं ह्य् अस्य अपि सुख-आदिषु
01223 चैतन्येषु च भेद-अवगमः समर्थो भवति, यद्य्
01224 एवं भेदः स्यात्.
01301 सत्य् अप्य् एतस्मिन् कस्यचिद् आत्मनो अन्वयाद् ऐक्यम् इति
01302 चेत्, सुख-आदिष्व् अप्य् अयं प्रसङ्गः चैतन्येषु च. न च घट-
01303 आदिष्व् अपि सर्व-आत्मना अन्वयो अवैश्वरूप्य-सहोत्पत्त्य्-आदि-प्रसङ्गात्.
01304 न च घटं मृद्-आत्मानं च कश्चिद् विवेकेन उपलक्षयति.
01305 येन एवं स्याद् इदम् इह प्रादुर्भूतम् इति. न ह्य्
01306 अधिष्ठान-अधिष्ठानिनोर् विवेकेन अनुपलक्षणे एवं भवति.
01307 न च शक्तेः शक्त्य्-आत्मनि प्रादुर्भाव इति तस्याः स्वात्मनो

01308 अभेदो न स्यात्.
01309 एतेन परिणामः प्रत्युक्तः, यो अपि हि कल्पयेत्, यो यस्य
01310 परिणामः, स तस्माद् अभिन्न इति, न हि शक्तेर् आत्म-अपरिणाम
01311 इति, किं च इदम् उक्तं भवति परिणाम इति. अवस्थितस्य
01312 द्रव्यस्य धर्म-अन्तर-निवृत्तिर् धर्म-अन्तर-प्रादुर्भावश्
01313 च परिणामः यत् तद् धर्म-अन्तरं निवर्तते
01314 प्रादुर्भवति च, किं तत् तद् एव अवस्थितं द्रव्यं स्यात्.
01315 ततो अर्थ-अन्तरं वा अन्य-विकल्प-अभावात्.
01316 यदि तत् तद् एव, तस्य अवस्थानं न निवृत्ति-प्रादुर्भावाव्
01317 इति कस्य ताव् इति वक्तव्यम्. अवस्थितस्य धर्म-अन्तरम् इति
01318 च न सिध्यति. न हि तद् एव तस्य अनपाश्रित-व्यपेक्ष-अभेदं
01319 धर्म-अन्तरं भवति.
01320 अथ द्रव्याद् अर्थ-अन्तरं धर्मः, तदा तस्य निवृत्ति-
01321 प्रादुर्भावाभ्यां न द्रव्यस्य परिणतिः. न ह्य् अर्थ-अन्तरगताभ्यां
01322 निवृत्ति-प्रादुर्भावाभ्याम् अर्थ-अन्तरस्य परिणतिः,
01323 चैतन्ये अपि प्रसङ्गात्.
01401 द्रव्यस्य धर्म इति च व्यपदेशो न सिध्यति सम्बन्ध-
01402 अभावात्. न हि कार्यकारणभावाद् अन्यो वस्तु-सम्बन्धो
01403 अस्ति. न च अनयोः कार्यकारणभावः, स्वयम् अतदात्मनो
01404 अतत्-कारणत्वात्, धर्मस्य द्रव्याद् अर्थ-अन्तर-भूतत्वात्.
01406 अर्थान्तरत्वे अपि धर्म-कारणत्वे धर्म-अन्तरस्य
01407 कार्यस्य उत्पादनाद् द्रव्यस्य परिणाम इति इष्टं स्यात्. तद् अविरुद्धम्
01408 अन्यस्य अपि, हेतु-फल-सन्ताने मृद्-द्रव्य-आख्ये पूर्वकान्
01409 मृत्-पिण्ड-द्रव्यात् कारणाद् उत्तरस्य घट-द्रव्यस्य
01410 कार्यस्य उत्पत्तौ मृद्-द्रव्यं परिणतम् इति व्यवहारस्य उपगमात्.
01411 न च धर्मस्य द्रव्यात् तत्त्वान्यत्वाभ्याम् अन्यो
01412 विकल्पः सम्भवति, उभयथा अपि न परिणामः.
01413 न निर्विवेकं द्रव्यम् एव धर्मः, न अपि द्रव्याद्
01414 अर्थ-अन्तरम्, किं तर्हि, द्रव्यस्य संनिवेशो अवस्था-अन्तरम्,
01415 यथा अङ्गुलीनां मुष्टिः. न ह्य् अङ्गुल्य् एव निर्विवेका मुष्टिः,
01416 प्रसारितानाम् अमुष्टित्वात्, न अप्य् अर्थ-अन्तरम्, पृथक्-स्वभावेन
01417 अनुपलब्धेर् इति चेत्, न, मुष्टेर् अङ्गुलि-विशेषत्वात्. अङ्गुल्य
01418 एव हि काश्चिन् मुष्टिः, न सर्वाः. न हि प्रसारिता अङ्गुल्यो
01419 निर्विवेक-स्वभावा मुष्ट्य्-अङ्गुल्यः, अवस्था-द्वये अपि उभय-
01420 प्रतिपत्ति-प्रसङ्गात्. य एव हि खलु विवेकः स्वभावभूतः,
01421 स एव वस्तु-भेद-लक्षणं सुख-दुःख-वत्. परभूते
01501 च विवेक-उत्पादे अङ्गुल्यः प्रसारिता एव उपलभ्येरन्, न हि
01502 स्वयं स्वभावाद् अच्युतस्य अर्थ-अन्तर-उत्पादे अन्यथा-उपलब्धिः,
01503 अतिप्रसङ्गात्
01504 ननु उक्तं न द्रव्यम् एव निर्विवेकम् अवस्था, न अपि

01505 द्रव्याद् अर्थ-अन्तरम् इति. उक्तम् इदम्, न पुनर् युक्तम्, न
01506 हि सतो वस्तुनस् तत्त्वान्यत्वे मुक्त्वा अन्यः प्रकारः सम्भवन्ति,
01507 तयोर् वस्तुनि परस्पर-परिहार-स्थित-लक्षणत्वेन
01508 एक-त्यागस्य अपर-उपादान-नान्तरीयकत्वात्. अङ्गुलीषु पुनः
01509 प्रतिक्षण-विनाशिनीष्व् अन्या एव प्रसारिताः, अन्या मुष्टिः.
01510 तत्र मुष्ट्य्-आदि-शब्दा विशेष-विषयाः, अङ्गुली-शब्दः सामान्य-
01511 विषयः, बीज-अङ्कुर-आदि-शब्द-वत् व्रीह्य्-आदि-शब्द-वच् च. तेन अङ्गुल्यः
01512 प्रसारिता न मुष्टिः.
01513 तद् यदि प्राग् असद् एव कारणे कार्यं भवेत्, किं न
01514 सर्वः सर्वस्माद् भवति. न ह्य् असत्त्वे कश्चिद् विशेष इति.
01515 ननु सर्वत्र सर्वस्य सत्त्वे अप्य् अयं तुल्यो दोषः. न हि
01516 सत्त्वे कश्चिद् विशेषः. विशेषे वा स विशेषस् त्रैगुण्याद्
01517 भिन्नः स्यात्, तद्भावे विशेषस्य अनन्वयात्. सतश् च सर्वात्मना
01518 निष्पन्न-अवस्थायाम् इव किं जायते. साधन-वैफल्यं
01519 च, साध्यस्य कस्यचिद् अभावात् यस्य कस्यचिद् अतिशयस्य
01520 तत्र कथंचिद् असत उत्पत्तौ, सो अतिशयस् तत्र असन्
01521 कथं जायते. जातौ वा सर्वः सर्वस्माज् जायेत इति तुल्यः पर्यनुयोगः.
01601 न अतिशयस् तत्र सर्वथा न अस्ति, कथंचित् सत एव भावाद्
01602 इति चेत्, यथा न अस्ति, स प्रकारस् तत्र असन् कथं जायेत.
01603 न च सर्वथा सतः कश्चिज् जन्म-अर्थ इत्य् उक्तम्.
01604 असतो अपि कार्यस्य कारणाद् उत्पादे, यो यज्-जनन-स्वभावः,
01605 तत एव तस्य जन्म, न अन्यस्माद् इति नियमः.
01606 तस्य अपि स स्वभाव-नियमः स्व-हेतोर् इत्य् अनादि-भाव-स्वभाव-
01607 नियमः.
01608 अपि च, यदि मृत्-पिण्डे घटो अस्ति, कथं तद्-अवस्थायां
01609 न पश्चाद्-वद् उपलब्धिः, तद्-अर्थक्रिया वा. व्यक्तेर् अप्रादुर्भावाद्
01610 इति चेत्, तस्य एव तद्-अर्थक्रिया-आदि-भावे घटत्वात्,
01611 तद्-रूपस्य च प्राग् असत्त्वात्, कथं घटो अस्ति. न हि रूप-अन्तरस्य
01612 सत्त्वे रूप-अन्तरम् अस्ति. न च रूप-प्रतिभास-भेदे वस्त्व्-
01613 अभेदो युक्तः, अतिप्रसङ्गात्.
01614 तस्माद् य उपलब्धि-लक्षण-प्राप्त-स्वभावो अनुपलब्धः,
01615 स न अस्त्य् एव. न हि तस्य तत्-स्वभाव-स्थिताव् अनुपलब्धिः.
01616 तद्-अस्थितिश् च अतत्त्वं. परस्पर-स्वभाव-अस्थितयोर्
01617 इव दुःख-सुखयोर् इति व्याप्तिर् असद्-व्यवहार-निश्चयेन
01618 अनुपलब्धि-विशेषस्य.
01619 तेन अनुपलब्ध्या कस्यचिद् व्यवच्छेदं प्रसाधयता
01620 तस्य यथोक्त-उपलब्धि-लक्षण-प्राप्तिर् उपदर्शनिया. उपदर्श्य-
01621 अनुपलब्धि-निर्देशः समर्थनं स्वभाव-अनुपलब्धौ.
01622 व्यापक-अनुपलब्धाव् अपि धर्मयोर् व्याप्यव्यापकभावं
01623 प्रसाध्य व्यापकस्य निवृत्ति-प्रसाधनं समर्थनम्.

01624 कारण-अनुपलब्धाव् अपि कार्यकारणभावं
01625 प्रसाध्य कारणस्य निवृत्ति-प्रसाधनं समर्थनम्. तद्-
01626 विरुद्ध-उपलब्धिष्व् अपि द्वयोर् विरुद्धयोर् एकस्य विरुद्धस्य
01627 उपदर्शनं समर्थनम्.
01701 एवम् अनुपलब्धौ साधन-अङ्गस्य असमर्थनं साधन-
01702 अङ्ग-अवचनं तद् वादिनो निग्रहस्थानम्, असमर्थने
01703 तस्मिन् साध्य-असिद्धेः.
01704 अथवा साध्यते तेन परेषाम् अप्रतीतो अर्थ इति साधनं
01705 त्रिरूप-हेतु-वचन-समुदायः. तस्य अङ्गं पक्ष-धर्म-
01706 आदि-वचनम्. तस्य एकस्य अप्य् अवचनम् असाधन-अङ्ग-वचनम्.
01707 तद् अपि वादिनो निग्रहस्थानम् तद्-अवचने हेतु-रूपस्य
01708 एव अवचनेन सिद्धेर् अभावात्.
01709 अथवा तस्य एव साधनस्य यन् न अङ्गं प्रतिज्ञा-उपनय-
01710 निगमन-आदि, तस्य असाधन-अङ्गस्य साधन-वाक्ये उपादानं
01711 वादिनो निग्रहस्थानम्, व्यर्थ-अभिधानात्.
01712 अन्वय-व्यतिरेकयोर् वा साधर्म्यवति वैधर्म्यवति
01713 च साधन-प्रयोग एकस्य एव अभिधानेन सिद्धेर् भावात्,
01714 द्वितीयस्य असामर्थ्यम् इति तस्य अप्य् असाधन-अङ्गस्य अभिधानं
01715 निग्रहस्थानम् व्यर्थ-अभिधानाद् एव.
01716 ननु च विषय-उपदर्शनाय प्रतिज्ञा-वचनम् असाधन-अङ्गम्
01717 अप्य् उपदेयम् एव. न, वैयर्थ्यात्. असत्य् अपि प्रतिज्ञा-
01718 वचने यथोक्तात् साधन-वाक्याद् भवत्य् एव इष्ट-अर्थ-सिद्धिर्
01719 इत्य् अपार्थकं तस्य उपादानम्. यदि च विषय-उपदर्शनम्
01720 अन्तरेण प्रतीतेर् अनुत्पत्तिः, कथं न प्रतिज्ञा साधन-
01721 अवयवः. न हि पक्ष-धर्म-आदि-वचनस्य अपि प्रतीति-हेतु-
01722 भावाद् अन्यः साधन-अर्थः. स प्रतिज्ञा-वचने अपि तुल्य इति
01723 कथं न साधनम्.
01801 केवलस्य असामर्थ्याद् असाधनत्वम् इति चेत्, तत् तुल्यं
01802 पक्ष-धर्म-वचनस्य अपि इति तद् अपि न साधन-अवयवः स्यात्.
01803 न हि पक्ष-धर्म-वचनात् केवलात् प्रतिपत्तेर् उत्पत्तिः.
01804 एतेन संशय-उत्पत्तिः प्रत्युक्ता, पक्ष-धर्म-वचनाद् अपि
01805 केवलाद् अप्रदर्शिते सम्बन्धे संशय-उत्पत्तेः. तस्माद्
01806 व्यर्थम् एव साधन-वाक्ये प्रतिज्ञा-वचन-उपादानं वादिनो
01807 निग्रहस्थानम्.
01808 अथवा साधनस्य सिद्धेर् यन् न अङ्गम् असिद्धो विरुद्धो
01809 अनैकान्तिको वा हेत्वाभासः. तस्य अपि वचनं वादिनो
01810 निग्रहस्थानम् असमर्थ-उपादानात्.
01811 तथा साध्य-आदि-विकलस्य अनन्वय-अप्रदर्शित-अन्वय-आदेर् अपि
01812 दृष्टान्ताभासस्य असाधन-अङ्गस्य वचनम् अपि वादिनो निग्रहस्थानम्,
01813 असमर्थ-उपादानाद् एव. न हि तैर् हेतोः सम्बन्धः

01814 शक्यते प्रदर्शयितुम्, अप्रदर्शनाद् असामर्थ्यम्.
01816 अथवा सिद्धिः साधनम् तद्-अङ्गं धर्मो यस्य अर्थस्य
01817 विवाद-आश्रयस्य वाद-प्रस्ताव-हेतोः, स साधन-अङ्गः.
01818 तद्-व्यतिरेकेण अपरस्य अप्य् अजिज्ञासितस्य विशेषस्य शास्त्र-आश्रय-
01819 व्याज-आदिभिः प्रक्षेपो घोषणं च पर-व्यामोहन-अनुभाषण-
01820 शक्ति-विघात-आदि-हेतोः. तद् अप्य् असाधन-अङ्ग-वचनं
01901 वादिनो निग्रहस्थानम्, अप्रस्तुत-अभिधानात्, तथा विशेष-सहितस्य
01902 अर्थस्य प्रतिवादिनो अजिज्ञासितत्वात्. जिज्ञासायाम् अदोषः.
01903 जिज्ञासितं पुनर् अर्थस्य अन्यस्य प्रसङ्ग-परंपरया
01904 येष पन्न-आदिना बहिः प्रतिवादिनः प्राश्निकानां च
01905 न्यायदर्शिनाम् इति. एभिः कथा-विच्छेद एव करणीयः, न
01906 हि कश्चिद् अर्थः क्वचित् क्रियमाण-प्रसङ्गे न प्रयुज्यते,
01907 नैरात्म्यवादिनस् तु तत्-साधने नृत्य-गीत्य्-आदेर् अपि तत्र
01908 प्रसङ्गात्.
01909 यथा प्रतिज्ञा-अभिधान-पूर्वकं कश्चित् कुर्यात्. न अस्त्य्
01910 आत्मा इति वयं बौद्धा ब्रूमः. के बौद्धाः. ये बुद्धस्य
01911 भगवतः शासनम् अभ्युपगताः. को बुद्धो भगवान्.
01912 यस्य शासने भदन्त-अश्वघोषः प्रव्रजितः. कः पुनर्
01913 भदन्त-अश्वघोषः. यस्य राष्ट्र-पालं नाम नाटकम्.
01914 कीदृशं राष्ट्र-पालं नाम नाटकम् इति प्रसङ्गं कृत्वा
01915 नान्द्यन्ते ततः प्रविशति सूत्रधार इति पठेन् नृत्येद्
01916 गायेच् च. प्रतिवादी तं च सर्व-प्रसङ्गं न अनुकर्तुं
01917 समर्थ इति पराजितः स्याद् इति.
01918 सभ्यः साधु-सम्मतानां विदुषां तत्त्व-चिन्ता-प्रकारः.
01919 न च एवं प्रस्तुतस्य पर्यवसानं सम्भवति, अनिश्चय-
01920 फलत्वाद् अनारम्भ एव वादस्य.
02001 कथं च एवं जय-पराजयौ, प्रतिवादिनो अप्य् अननुभाषणस्य
02002 एवंप्रकारस्य प्रसङ्गस्य विस्तरेण अनुभाषण-
02003 व्याजेन सम्भवाद् अनिश्चितत्वाच् च. तस्मात् प्रतिज्ञा-वचनम्
02004 एव तावन् न न्याय्यम्. कुतः पुनर् तत्र अजिज्ञासित-
02005 विशेष-प्रसङ्ग-उपन्यासस् तद्-व्याख्या-प्रसङ्ग-वितथ-प्रलापश्
02006 च. सर्वश् च अयं प्रकारो दुर्मतिभिः शठैर् न्याय-सामर्थ्येन
02007 अर्थ-प्रतिपादने असमर्थैः प्रवर्तितः. यथा
02008 पुरुष-अतिशय-पूर्वकानि तनु-करण-भुवन-आदीनि इति प्रतिज्ञाय
02009 तनु-करण-भुवन-व्याख्या-व्याजेन सकल-वैशेषिक-शास्त्र-अर्थ-
02010 घोषणम्, नित्यः शब्दो अनित्यो वा इति वादे द्वादश-लक्षण-
02011 प्रपञ्च-प्रकाशन-शास्त्र-प्रणेतुर् जैमिनि-प्रतिज्ञत-तत्त्व-
02012 नित्यता-अधिकरण-शब्द-घट-अन्यतर-सद्वितीयो घट इति
02013 प्रतिज्ञाम् उपरचय्य द्वादश-लक्षण-अर्थ-व्याख्यानम्. सर्वो
02014 अयं दुर्मतीनाम् असामर्थ्य-प्रच्छादन-उपायः, न तु

02015 सत्यैर् अस्त्य् उपेतः, तत्त्व-परीक्षायां फल-आदि-प्रतिसरण-
02016 दण्ड-प्रयोग-आदीनाम् अयुक्तत्वात्.
02017 भवत्य् एव नाटक-आदि-घोषणे अर्थ-अन्तर-गमनात् पराजय
02018 इति चेत्, अन्यस्य अप्य् अजिज्ञासितस्य किं न भवति. न हि
02019 अस्य अपि काचिद् विवक्षित-साध्य-धर्म-सिद्धौ नान्तरीयकता.
02020 यथा हेतु-प्रत्यय-पारतन्त्र्य-लक्षण-संस्कार-दुःखता-
02021 आदि-सिद्धिम् अन्तरेण न अनित्यता-सिद्धिः, तथाविधस् तु
02022 धर्मः पृथग् अनुक्तो अपि साध्य-धर्मे अन्तर्भावात् पक्षीकृत
02023 एव इति न पृथग् अस्य उपन्यासो व्याख्यानं वा. तस्माद्
02101 एवंविधस्य अपि तदानीं प्रतिवादिना अजिज्ञासितस्य अर्थस्य
02102 प्रतिज्ञायाम् अन्यत्र वा उपन्यासो व्याख्यानं वा अर्थ-अन्तर-
02103 गमनान् निग्रहस्थानम् एव. तेन जिज्ञासित-धर्म-मात्रम्
02104 एव साधन-अङ्गं वाच्यम्. न प्रसङ्ग उपक्षेप्तव्यः,
02105 तद्-उपक्षेपे अतिप्रसङ्गात्.
02106 एवम् असाधन-अङ्ग-वचनं वादिनो निग्रहस्थानं प्रतिवादिना
02107 तथाभावे प्रतिपादिते, अन्यथा द्वयोर् एकस्य अपि
02108 न जय-पराजयाव् इति.
02109 अदोष-उद्भावनं प्रतिवादिनो निग्रहस्थानम्. वादिना
02110 साधने प्रयुक्ते अभ्युपगत-उत्तर-पक्षो यत्र विषये प्रतिवादी
02111 यदा न दोषम् उद्भावयति तदा पराजितो वक्तव्यः.
02112 साधन-दोषाः पुनर् न्यूनत्वम् असिद्धिर् अनैकान्तिकता
02113 वादिनः साधयितुम् इष्टस्य अर्थस्य विपर्यय-साधनम्
02114 अष्टादश दृष्टान्त-दोषश् च. तेषाम् अनुद्भावनम् अप्रत्यायनम्
02115 अप्रतिपादनं प्रतिवादिनः पराजय-अधिकरणम्.
02116 तत् पुनः साधनस्य निर्दोषत्वात्, सदोषत्वे अपि प्रतिवादिनो
02117 अज्ञानात् प्रतिपादन-असामर्थ्याद् वा. न हि दुष्ट-साधन-अभिधाने
02118 अपि वादिनः प्रतिवादिनो अप्रतिपादिते दोषे पराजय-
02119 व्यवस्थापना युक्ता, तयोर् एव परस्पर-सामर्थ्य-उपघात-
02120 अपेक्षया जय-पराजय-व्यवस्थापनात्. केवलं हेत्वाभासाद्
02121 भूत-प्रतिपत्तेर् अभावाद् अप्रतिपादकस्य जयो अपि न अस्त्य्
02122 एव. न हि तत्त्व-चिन्तायां कश्चिच् छल-व्यवहारः.
02201 यद्य् एवं किं न पराजयः, तत्त्व-सिद्धि-भ्रंशात्.
02202 न अनिराकरणात्. निराकरणं हि तस्य अन्येन पराजयः, न
02203 सिद्ध्य्-अभावः, प्रतियोग्य्-अनपेक्षणात् सिद्ध्य्-अभावस्य,
02204 साधन-अभावे असत्य् अपि प्रतियोगिनि भावात्. प्रतियोगिनश् च
02205 तन्-निराकरणे असामर्थ्यात् पराजयस्य अनुत्पत्तेर् अपराजयः.
02206 तस्माद् अयम् असमर्थ-साधन-अभिधाय्य् अपि परेण
02207 तथाभावे अप्रतिपादिते अपराजितो वक्तव्यः.
02208 छल-व्यवहारे अपि विजिगीषूणां वाद इति चेत्, न, दुर्जन-
02209 विप्रतिपत्त्य्-अधिकारे सतां शास्त्र-प्रवृत्तेः. न हि पर-अनुग्रह-

02210 प्रवृत्ता मिथ्या-प्रलाप-आरम्भ-आत्म-उत्कर्ष-पर-पंसन-
02211 आदीन् असद्-व्यवहारान् उपदिशन्ति. न च पर-विपंसनेन
02212 लाभ-सत्कार-श्लोक-उपार्जनं सताम् आचारः. न अपि तथा-प्रवृत्तेभ्यः
02213 स्व-हस्त-दानेन प्राणिनाम् उपतापनं सत्-सम्मतानां
02214 शास्त्रकार-सभासदां युक्तम्. न च न्याय-शास्त्राणि
02215 सद्भिर् लाभ-आद्य्-उपार्जनाय प्रणीयन्ते. तस्मान् न योग-विहितः
02216 कश्चिद् विजिगीषु-वादो नाम. पर-अनुग्रह-प्रवृत्तास् तु सन्तो
02217 विप्रतिपन्नं प्रतिपादयन्तो न्यायम् अनुसरेयुः सत्-
02218 साधन-अभिधानेन भूत-दोष-उद्भावनेन वा, साक्षि-प्रत्यक्षं
02219 तस्य एव अनुप्रबोधाय. तद् एव न्याय-अनुसरणं सतां
02220 वादः, उक्त-न्याये तत्त्व-अर्थी चेत् प्रतिपद्येत, तद्-अप्रतिपत्ताव्
02221 अप्य् अन्यो न प्रतिपद्येत इति.
02222 तत्त्व-रक्षण-अर्थं सद्भिर् उपहर्तव्यम् एव छल-आदि
02223 विजिगीषुभिर् इति चेत्, न, नख-चपेट-शस्त्र-प्रहार-आदीपन-आदिभिर्
02224 अपि इति वक्तव्यम्. तस्मान् न ज्यायान् अयं तत्त्व-रक्षण-
02301 उपायः. साधन-प्रख्यापनं सतां तत्त्व-रक्षण-उपायः
02302 साधन-आभास-दूषणं च, तद्-अभावे मिथ्या-प्रलापाद् अत्र
02303 पर-उपताप-विधाने अपि तत्त्व-अप्रतिष्ठापनात्. अन्यथा अपि न्याय-
02304 उपवर्णने विद्वत्-प्रतिष्ठानात्. तस्मात् पर-अनुग्रहाय
02305 तत्त्व-ख्यापनं वादिनो विजयः, भूत-दोष-दर्शनेन मिथ्या-
02306 प्रतिपत्ति-निवर्तनं प्रतिवादिनः.
02307 अथवा यो न दोषः साधनस्य तद्-भावे अपि वादिना साधयितुम्
02308 इष्टस्य अर्थस्य सिद्धेर् विघात-अभावात्, तस्य उद्भावनं
02309 प्रतिवादिनो निग्रह-अधिकरणम्, मिथ्या-उत्तर-अभिधानात्.
02311 यथा साध्यतया अनिष्टो अपि वादिनो धर्मः, शास्त्र-उपगमात्
02312 साध्य इति तद्-विपर्यासेन विरोध-उद्भावनम्. न अस्त्य्
02313 आत्मा इति तव प्रतिज्ञा-पदयोर् विरोध इति प्रतिज्ञा-दोष-उद्भावनम्.
02314 प्रयत्नानन्तरीयकः शब्दो अनित्यः प्रयत्नानन्तरीयकत्वाद्
02315 इति हेतोर् धर्म-विशेषत्वात् प्रतिज्ञार्थैकदेश इत्य्
02316 असिद्ध-उद्भावनम्, सर्वाणि साधर्म्य-वैधर्म्य-सम-आदीनि
02317 जात्य्-उत्तराणि इत्य् एवम्-आदेर् दोषस्य उद्भावनम् अदोष-उद्भावनम्.
02319 तस्य वादिना दोष-आभासत्वे प्रख्यापिते प्रतिवादी पराजितो
02320 वक्तव्यः, पूर्वपक्षे साधनस्य निर्दोषत्वात्. दोषवति
02321 पुनः साधने न द्वयोर् एकस्य अपि जय-पराजयौ, तत्त्व-
02322 अप्रख्यापनात् अदोष-उद्भावनाच् च. अप्रतिपक्षायां च
02323 पक्ष-सिद्धौ कृतायां जेता भवति.
02401 तस्माज् जिगीषता स्व-पक्षश् च स्थापनीयः पर-पक्षश् च
02402 निराकर्तव्यः. निर्दोषे साधन-अभिधाने अपि वादिनः प्रतिवादिना
02403 दोष-आभास उद्भाविते, दूषण-आभासत्व-ख्यापन एव
02404 जय-पराजयौ, न अन्यथा, भावतस् तत्त्व-अभिधाने अपि प्रतिपक्ष-

02405 निराकरणेन तत्त्वस्य प्रख्यापन-असामर्थ्यात्. न
02406 प्रतिवादिनो अप्य् अत्र, भावतो मिथ्या-प्रतिपत्तेर् इति.
02407 इदं न्याय्यं निग्रहस्थान-लक्षणम् उक्तम् अस्माभिः.
02501 अन्यत् तु न युक्तम् इति न इष्यते.
02502 यत्र इदं यथोक्तं निग्रहस्थान-लक्षणं न अस्ति तस्य
02503 निग्रहस्थानत्वम् अयुक्तम् इति न उक्तम् अस्माभिः.
02504 प्रतिदृष्टान्त-धर्म-अभ्यनुज्ञा-स्व-दृष्टान्ते प्रतिज्ञाहानिर्
02505 निग्रहस्थानम् इति अत्र भाष्यकार-मतं दूषयित्वा वार्त्तिककारो
02506 अयं स्थित-पक्षम् आह. तम् एव ब्रूमः.
02507 प्रतिदृष्टान्तस्य यो धर्मस् तं यदा स्व-दृष्टान्ते
02508 अभ्यनुजानाति निगृहीतो वेदितव्यः. तत्र दृष्टश् च असाव् अन्ते च
02509 व्यवस्थित इति दृष्टान्तः. स्व-दृष्टान्तः स्व-पक्षः, प्रतिदृष्टान्तः
02510 प्रतिपक्षः. प्रतिपक्षस्य धर्मं स्व-पक्षे
02511 अभ्यनुजानन् पराजितः, यथा अनित्यः शब्द ऐन्द्रियकत्वाद्
02512 इति ब्रूवन् प्रतिपक्ष-वादिनि सामान्येन प्रत्यवस्थिते आह
02513 यदि सामान्यम् ऐन्द्रियकं नित्यं शब्दो अप्य् एवम् अस्त्व् इति
02514 एषा प्रतिज्ञाहानिः प्राक्-प्रतिज्ञातस्य शब्द-अनित्यत्वस्य त्यागाद्
02515 इति.
02516 अत्र उपगत-प्रतिज्ञा-त्यागात् प्रतिज्ञाहानौ विशेष-प्रतिनियमः
02517 किं कृतो अनेन प्रकारेण प्रतिज्ञां त्यजतः प्रतिज्ञाहानिर्
02518 इति. सम्भवति ह्य् अन्येन अपि प्रकारेण हेतु-दोष-उद्भावन-
02519 आदिना प्रतिपक्ष-साधन-अभिधानेन च स्व-पक्ष-परित्यागः
02520 पर-पक्ष-उपगमश् च. इदम् एव च प्रतिज्ञाहानेः
02521 प्रधानं निमित्तम् एवं प्रतिपादितेन प्रतिज्ञा हातव्या
02522 हानौ च पराजय इति.
02601 इदं पुनर् असम्बद्धम् एव सामान्यं नित्यम् ऐन्द्रियकम्
02602 इत्य् उक्ते शब्दो अप्य् एवम् अस्त्व् इति. कः स्वस्थ-आत्मा स्वयम्
02603 ऐन्द्रियकत्वाद् अनित्यः शब्दो घटवद् इति ब्रुवन् सामान्येन
02604 उपदर्शन-मात्रेण नित्यं शब्दं प्रतिपद्यते.
02605 सामान्यस्य अपि नित्यस्य ऐन्द्रियकत्वे अप्य् अनित्ये घटे दर्शनात्
02606 संशयितः स्यात्.
02607 जाड्यात् प्रतिपद्येत अपि इति चेत्, तथा अपि किं सामान्यस्य उपदर्शनेन.
02608 एवम् एव नित्यः शब्द इति वक्तव्यं जडस्य
02609 प्रतिपत्तौ विचार-अभावात्.
02610 न च नित्य-सामान्य-उपदर्शनेन तद्-धर्मं शब्दे प्रतिपद्यमाने
02611 प्रतिपक्ष-धर्म-अभ्यनुज्ञातो भवति, अनित्यः
02612 शब्द इति च वदतो नित्यः शब्द इत्य् आञ्जसः प्रतिपक्षः
02613 स्यात्, न नित्यं सामान्यम् इति.
02614 तस्माद् ऐन्द्रियकत्वस्य नित्य-अनित्य-पक्ष-वृत्तेर् व्यभिचाराद्
02615 असाधन-अङ्गस्य उपादानान् निग्रह-अर्हः, न प्रतिपक्ष-

02616 धर्म-अनुज्ञया अनेन प्रकारेण प्रतिज्ञाहानेः.
02617 प्रतिज्ञा-अर्थ-प्रतिषेधे धर्म-विकल्पात् तद्-अर्थ-निर्देशः
02618 प्रतिज्ञा-अन्तरम् प्रतिज्ञातो अर्थो अनित्यः शब्द ऐन्द्रियकत्वाद्
02619 इत्य् एव, तस्य हेतु-व्यभिचार-उपदर्शनेन प्रतिषेधे
02620 कृते धर्म-भेद-विकल्पात् सामान्य-घटयोः सर्वगतत्व-
02701 असर्वगतत्व-धर्म-विकल्पेन प्रतिज्ञा-अन्तरं करोति, यथा
02702 घटो असर्वगतो अनित्य एव शब्दो अप्य् असर्वगतो अनित्य
02703 इति. एतत् प्रतिज्ञा-अन्तरं नाम निग्रहस्थानं साधन-सामर्थ्ये
02704 अप्य् अपरिज्ञानात्. स हि पूर्वस्या अनित्यः शब्द इति
02705 प्रतिज्ञायाः साधनाय उत्तराम् असर्वगतः शब्द इति प्रतिज्ञाम्
02706 आह. तद्-दर्शनाय तद्-अर्थ-निर्देश इत्य् आह. तद्-अर्थः
02707 पूर्व-उक्त-साध्य-सिद्ध्य्-अर्थ उत्तर-प्रतिज्ञा-निर्देशस् तद्-अर्थ-
02708 निर्देशः. न च प्रतिज्ञा प्रतिज्ञा-अन्तर-साधने समर्था
02709 इति निग्रहस्थानम्.
02710 अत्र अपि न एवम्-ब्रुवता प्रतिज्ञा-अन्तरं पूर्व-प्रतिज्ञा-साधनाय
02711 उक्तं भवति, किं तर्हि विशेषणम् ऐन्द्रियकत्वस्य
02712 हेतोः सामान्ये वृत्त्या व्यभिचार उद्भाविते असर्वगतत्वे
02713 सत्य् ऐन्द्रियकत्वस्य हेतोर् विशेषण-उपादाने व्यभिचारं
02714 परिहरति. न पुनः प्रतिज्ञा-अन्तरम् आह, असर्वगतत्वस्य
02715 शब्दे सिद्धत्वात् प्रतिज्ञायाश् च साध्य-निर्देश-लक्षणत्वात्.
02717 यद् अप्य् उक्तं पूर्व-प्रतिज्ञा-साधनाय उत्तरां प्रतिज्ञाम्
02718 आह इति तद् अप्य् अयुक्तम्. न हि प्रतिज्ञा प्रतिज्ञा-साधनाय
02719 उच्यमाना प्रतिज्ञा-अन्तरं भवति, किं तर्हि हेत्व्-आदेर् अनन्यतमः.
02720 साध्य-साधनाय उपादानात् साधन-निर्देशः स
02801 स्यान् न साध्य-निर्देशः. उदाहरण-साधर्म्य-आदेश् च हेतु-लक्षणस्य
02802 असर्वगत्वे भावात् प्रतिज्ञा-लक्षणस्य च अभावात्, हेतुत्वम्
02803 असर्वगत्वे प्रयुक्तं न प्रतिज्ञा-अन्तरत्वम्. अत्यन्त-
02804 असम्बद्धं च इदं प्रतिज्ञां प्रतिज्ञा-साधनाय आह इति.
02805 यो हि प्राक् प्रतिज्ञाम् उक्त्वा हेतु-उदाहरण-आदिकं वक्तुं
02806 जानाति, स किंचिद् अनुक्रमं साधनस्य जानात्य् एव हि, जानन्
02807 कथम् अविकल-अन्तःकरणः प्रतिज्ञाम् एव प्रतिज्ञा-साधनाय
02808 उपाददीत. उपाददता च अनेन प्रतिज्ञा-मात्रेण सिद्धिर्
02809 इष्टा भवति, ततश् च न प्राग् अपि हेतुं ब्रूयात्.
02810 एवंप्रकारणाम् असम्बद्धानां परिसंख्यातुम्
02811 अशक्यत्वात्, लक्षण-नियमो अप्य् असम्बद्ध एव प्रतिज्ञा-
02812 अन्तर-अभिधाने प्रतिज्ञा-अन्तरं नाम निग्रहस्थानम् इति.
02813 असम्बद्ध-अभिधानं निग्रहस्थानम् इति एवंप्रकाराणाम्
02814 एकम् एव लक्षणं वाच्यं स्यात्. न च एवंविधः
02815 कश्चिद् विवादेषु दृष्ट-पूर्वो व्यवहारो येन तद्-अर्थं
02816 यत्नः क्रियते. न च बाल-प्रलाप-अनुदिश्य शास्त्रं प्रवर्तते

02817 प्रवृत्तौ च का निष्ठा तेषाम् अनिष्टानात्. दृश्यते च
02818 विदुषाम् अपि न अतिनिरूपणाद् असिद्ध-अभिधानम् इति. व्यवहार-
02819 दर्शनात् तादृशं पराजय-अधिकरणं व्यवस्थाप्यते.
02901 तस्माद् इह अपि यदि निवृत्त-आकाङ्क्षे वादिनि परो अनैकान्तिकताम्
02902 उद्भावयेत्, असाधन-अङ्गस्य अनैकान्तिकस्य अभिधानान्
02903 निग्रहस्थानं वादिनः, एवं यदि प्रतिवादी सत् सामान्यम्
02904 ऐन्द्रियकं नित्यं च प्रमाणेन प्रतिपादयितुं
02905 शक्नुयात्. अनुदिश्य-अप्रमाणकं शास्त्र-उपगमं प्रमाणेन
02906 एषाम् अर्थानाम् अप्रतिपादने न भूत-दोष-उद्भावनम् इति
02907 न कश्चित् पराजयो अभ्युपगम-मात्रेण वस्तु-सिद्धेर् अभावात्
02908 प्रतिवादिना दोषस्य अप्रतिपादितत्वात्. प्रमाणैर् असमर्थित-
02909 साधन-अभिधानात् तु जेता अपि न भवति इति.
02910 अनित्य-आकाङ्क्षे पुनर् वादिनि न कश्चिद् दोषो विशेषण-अभिधानेन
02911 हेतोः समर्थन-उपक्रमात्.
02912 प्रतिज्ञा-हेत्वोर् विरोधः प्रतिज्ञा-विरोधः. यथा गुण-व्यतिरिक्तं
02913 द्रव्यम् इति प्रतिज्ञा, रूप-आदिभ्यो अर्थ-अन्तरस्य अनुपलब्धेर्
02914 इति हेतुः, सो अयं प्रतिज्ञा-हेत्वोर् विरोधः. एतेन
02915 एव प्रतिज्ञा-विरोधो अप्य् उक्तो यत्र प्रतिज्ञा स्व-वचनेन
02916 विरुध्यते, यथा श्रमणा गर्भिणी, न अस्त्य् आत्मा इति वा, हेतु-
02917 विरोधो अपि यत्र प्रतिज्ञया हेतुर् विरुध्यते, यथा सर्वं
02918 पृथक् समूहे भाव-शब्द-प्रयोगाद् इति. एतेन प्रतिज्ञया
02919 दृष्टान्त-विरोधो अपि व्याख्यातः. हेतोश् च दृष्टान्त-आदिभिर्
02920 विरोधः प्रमाण-विरोधश् च प्रतिज्ञा-हेत्वोर् वक्तव्यः.
03001 पर-पक्षे स्व-सिद्धेन गोत्व-आदिना अनैकान्तिक-चोदनाद्
03002 विरोधः, यः पर-पक्षं स्व-सिद्धेन गोत्व-आदिना व्यभिचारयति,
03003 तद् विरुद्धम् उत्तरं वेदितव्यम् स्व-पक्ष-अनपेक्षं
03004 च, यश् च स्व-पक्ष-अनपेक्षं हेतुं प्रयुङ्क्ते
03005 अनित्यः शब्द ऐन्द्रियकत्वाद् इति, तस्य स्व-सिद्धस्य गोत्व-आदेर्
03006 अनित्यत्व-विरोधाद् विरुद्धः. उभय-पक्ष-सम्प्रतिपन्नस्
03007 त्व् अनैकान्तिकः, यद् उभय-पक्ष-प्रतिपन्नं वस्तु,
03008 तेन अनैकान्तिक-चोदना इति.
03009 अत्र अपि प्रतिज्ञायाः साधन-वाक्ये प्रयोग-प्रतिषेधात्
03010 तद्-आश्रयस् तत्-कृतो वा हेतु-दृष्टान्तयोर् न विरोध इति न प्रतिज्ञा-
03011 विरोधो नाम किंचित् निग्रहस्थानम्.
03012 स्याद् एतत्, असत्य् अपि प्रतिज्ञा-प्रयोगे गम्यमानो अपि प्रतिज्ञा-
03013 हेत्वोर् विरोधो भवति, यथा रूप-आदिभ्यो अर्थ-अन्तरस्य अनुपलब्धिः
03014 तद् गुण-व्यतिरिक्तम्, न उपलभ्यते च रूप-आदिभ्यो
03015 अर्थ-अन्तरं द्रव्यम् इत्य् उक्ते अपि गम्यत एव साध्य-
03016 साधनयोर् विरोधः; कथं ततो अर्थ-अन्तरस्य-अनुपलब्धिस्
03017 तद्-व्यतिरेकश् च इति.

03018 सत्यम्, स्याद् अयं विरोधः, यदि हेतुः साध्य-धर्म-
03101 विपर्ययं साधयेत्. यदि ह्य् उपलब्धि-लक्षण-प्राप्तत्वेन
03102 उपगतस्य सतो द्रव्यस्य रूप-आदि-प्रतिभास-विवेकेन स्व-
03103 प्रतिभास-अनुपलब्धिः, तत् तद्-व्यतिरेकेण न अस्ति इति इष्ट-व्यतिरेक-
03104 विपर्यय-साधनाद् विरुद्धो हेतुर् अस्माभिर् उक्त एव इति
03105 भवत्य् एव इदं निग्रह-अधिकरणम्, यद्य् एवंविधः प्रतिज्ञा-
03106 हेत्वोर् विरोध इष्टः. अथ पुनर् अस्य उपलब्धि-लक्षण-
03107 प्राप्तिर् लुप्यते, तदा न कश्चित् प्रतिज्ञा-हेत्वोर् विरोधः,
03108 व्यतिरिक्तानाम् अपि भावानां कुतश्चिद् विप्रकर्षिणां तद्-
03109 व्यतिरेकेण अनुपलब्धाव् अपि व्यतिरेकस्य भावात्.
03110 यद् उक्तं प्रतिज्ञायाः स्व-वचन-विरोधे प्रतिज्ञा-विरोध
03111 इति तत्र इदम् एव निग्रह-अधिकरणम् असाधन-अङ्ग-
03112 भूतायाः प्रतिज्ञायाः साधन-वाक्ये प्रयोगः; न विरोधः
03113 तद्-अधिकरणत्वात्. यदि प्रतिज्ञा-अनपेक्षो विरोधः स्यात्, स्यात्
03114 पराजय-आश्रयः. प्रतिज्ञा-अधिकरणत्वे पुनस् तत्-प्रयोगकृत
03115 एव पराजयो अस्य प्रस्ताव-उपसंहार-अवसानत्वात्. व्यर्थं
03116 विरोध-उद्भावनं पराजित-पराजय-अभावाद् भस्मीकृत-प्रज्वलन-वत्.
03117 ये तु केचिद् विचार-प्रसङ्गेष्व् एकत्र साध्ये बहवो
03118 हेतव उच्यन्ते, तेषां विकल्पेन तत्-साध्य-साधनाय
03119 वृत्तेः सामर्थ्यम् अन्यथा द्वितीयस्य वैयर्थ्यात्. यदि हि
03120 तत्र अप्य् एक-प्रयोगम् अन्तरेण अपरस्य प्रयोगो न सम्भवेत्,
03121 न तदा द्वितीयस्य कश्चित् साधन-अर्थः प्रतीत-प्रतिपादन-
03122 अभावात्. तस्मान् न प्रतिज्ञायाः स्व-वचन-विरोधो नाम
03123 किंचित् निग्रहस्थानम्.
03201 न च न अस्त्य् आत्मा इत्य् अत्र कश्चित् प्रतिज्ञा-विरोधः न अस्त्य् आत्म-
03202 शब्दार्थस्य भाव-उपादानत्व-निषेधात्. शब्दार्थ-निषेधे
03203 हि विरोधः स्यात्. न च स्व-लक्षणं शब्दार्थ इति.
03204 यः पुनः प्रतिज्ञया बाधनाद् हेतु-विरोध उक्तः, यथा
03205 सर्वं पृथक् समूहे भाव-शब्द-प्रयोगाद् इति, न अत्र
03206 प्रतिज्ञायाः प्रयोगः, न अपि हेतोर्, येन विरोधः स्यात्, किं
03207 तर्हि प्रतिपादित-अर्थ-उपदर्शनेन उपसंहार-वचनम् एतस्मात्.
03209 अन्यैर् एव हेतुभिः शब्दस्य एक-विशेष-अनभिधानम्
03210 अनेक-अर्थ-सामान्य-अभिधानं च प्रतिपाद्य सर्वस्य शब्दार्थस्य
03211 नाना-अर्थ-रूपतया एक-वस्तु-विशेष-स्वभावता-भावम्
03212 उपदर्शयन् शब्दार्थम् अधिकृत्य सर्वं पृथग्
03213 इति ब्रूयात्. एतेन तद्-विरोधः प्रत्युक्तः. दृष्टान्त-उपदर्शनं
03214 च एतद् अनित्यः शब्दः कृतक-अनित्यत्वाद् इति यथा. क्वचिद्
03215 अर्थे विप्रतिपत्तौ प्रसिद्धम् अनेक-अर्थ-सामान्ये शब्द-
03216 प्रयोगम् उपदर्श्य प्रतिपादित-विप्रतिपत्ति-स्थानः सामान्येन
03217 उपसंहरति सर्वं पृथग् इति.

03218 यदि दृष्टान्त-प्रयोगः किं ऋजुना एव तत्-प्रयोग-क्रमेण
03219 न प्रयुक्तो विप्रतिपत्ति-विषयश् च किं न दर्शित इति चेत्, न,
03220 समास-निर्देशात्, एवम् अपि प्रयोग-दर्शनाद् असाधन-वाक्यत्वाच्
03221 च. अत एव न प्रतिज्ञया हेतोर् बाधनम्. न च एकम्
03222 एव किंचिन् न अस्ति इति ब्रुवाणः कश्चित् तत्-समुच्चय-रूपम्
03223 एकं समूहम् इच्छति येन विरोधः स्यात्.
03301 यो अपि युगपत् षट्केन योगाद् इत्य् आदिना परमाणोर्
03302 भेदम् आह, न तस्य अप्य् एकः समुच्चय-रूपः साधयितुम्
03303 इष्टः, किं तर्ह्य् अभाव एव एक-अनेक-प्रतिषेधात्. अतः सो अपि
03304 न समूहस् तस्य इष्टः, न तत्र शब्द इति न विरोधः.
03305 न विरोधो अयं पूर्वकात् प्रतिज्ञा-हेतु-विरोधात् भिद्यते
03306 येन पृथग् उच्येत. तत्र हेतु-प्रतिज्ञायोर् बाधनम्, इह
03307 प्रतिज्ञया हेतोर् इत्य् अस्ति भेद इति चेत्, अर्थ-विरोधे हि हेतु-
03308 प्रतिज्ञयोर् बाध्यबादकभावः स्यात्. सर्वो अर्थ-विरोधो
03309 द्विष्व् इत्य् अपि परस्परं बाधकम् एक-अर्थ-संनिधाव् अपर-
03310 अर्था-सम्भवात्. तत्र हेतु-प्रतिज्ञायोः पृथग् बाध-उदाहरणयोर्
03311 न कश्चिद् अर्थ-भेदः.
03312 अपि च अयं विरुद्धो अविरुद्धो वा सति हेतु-प्रयोगे व्यधिकरणत्वाद्
03313 असिद्ध इत्य् असिद्धता हेतोर् निग्रहस्थानम्.
03314 स खलु उच्यमान एव अतद्-धर्मतया प्रतीतो वक्तुः पराजयम्
03315 आनयति. पराजिते तस्मिंस् तद्-अर्थ-विरोध-चिन्तया न
03316 किंचित्.
03317 अपि च सर्वत्र अयं प्रतिज्ञा-हेत्वोर् विरोधः सम्भवन्
03318 न द्वयीं हेतु-दोष-जातिम् अतिपतति विरुद्धताम् असिद्धतां
03319 च इति. विरुद्धता सिद्धे हेतोर् धर्मिणि भावे साध्य-धर्म-
03320 विपर्यय एव भावेन प्रतिज्ञा-अर्थ-विरोधात्. असिद्धता
03401 पुनर् धर्मिणि प्रतिज्ञाता-अर्थ-सिद्धौ विरुद्धयोः स्वभावयोर्
03402 एकत्र असम्भवात्. न च अन्यथा विरोधः.
03403 असिद्धे धर्मि-स्वभावे अभिहितयोर् हेतु-प्रतिज्ञा-अर्थयोर्
03404 विरोधाद् विरोध-सम्भव इति चेत्, अप्रमाण-योगे तु उभयोर्
03405 धर्मिणि संशयः. तथा सति हेतोर् धर्मिणि भाव-संशये
03406 असिद्धता एव हेतु-दोष इत्य् असिद्ध-विरुद्धाभ्याम् अन्यो
03407 न प्रतिज्ञया विरोधो नाम पराजय-हेतुः. असिद्ध-विरुद्धे
03408 च हेत्व्-आभास-वचनाद् एव उक्त इति न पृथक् प्रतिज्ञा-विरोधो
03409 वक्तव्य इति.
03410 उभय-आश्रितत्वाद् विरोधस्य विवक्षातो अन्यतर-निर्देश इति
03411 चेत्, स्याद् एतत् प्रतिज्ञा-हेत्वोर् विरोध इति प्रतिज्ञा-हेतू आश्रित्य
03412 उभय-आश्रयो भवति. तत्र यदा प्रतिज्ञा-विरोधो विवक्षितस्
03413 तदा प्रतिज्ञा-विरोध इति उच्यते, यदा प्रतिज्ञाया हेतोर् वा
03414 विरोधस् तदा विरुद्धो हेतुर् इति. अतः प्रतिज्ञा-विरोधो हेतु-विरोधो

03415 वा इत्य् अदोषः. तत्र हेतोर् उदाहरणं नित्यः शब्द
03416 उत्पत्ति-धर्मकत्वाद् इति, प्रतिज्ञा-विरोधस्य न अस्त्य् आत्मा इति,
03417 प्रतिज्ञा-हेत्वोः परस्पर-विरुद्ध-उदाहरणं गुण-व्यतिरिक्तम्
03418 इत्य् आदि, प्रतिज्ञया हेतु-विरोध-उदाहरणं न अस्त्य् एको
03419 भाव इत्य् आदिकम् इति.
03420 न, सर्वत्र हेत्व्-अपेक्षस्य विरोधस्य हेत्व्-आभास-अनतिक्रमात्,
03421 यथोक्तं प्राक्. अनपेक्षे च केवले स्वतः प्रतिज्ञा-
03422 विरोधे विवक्षिते प्रतिज्ञा-हेत्वोर् विरोध इति हेतु-ग्रहणम्
03501 असम्बद्धम्. न च उत्पत्ति-धर्मकत्वान् नित्यम् इत्य्
03502 अत्र अपि हेतु-विरोधो युक्तः, प्रतिज्ञया हि हेतोर् बाधने
03503 हेतु-विरोधः. इह तु हेतुना प्रतिज्ञा बाध्यत इति प्रतिज्ञा-विरोधो
03504 युक्तः, उभय-आश्रये अपि विरोधे बाध्यमान-विवक्षया
03505 तद्-विरोध-व्यवस्थापनात्.
03506 यद् अप्य् उक्तम् एतेन प्रतिज्ञया दृष्टान्त-विरोध-आदयो अपि
03507 वक्तव्या भण्डालेख्यन्यायेन इति तत्र अपि पक्षीकृत-धर्म-
03508 विपर्ययवति दृष्टान्ते विरोधः स्यात्. विरुद्धे च दृष्टान्ते
03509 यदि पक्ष-धर्मस्य वृत्तिर् अनन्य-साधारणा प्रसाध्यते,
03510 विरुद्धस् तदा हेत्व्-आभासः साधारणायाम् अप्रसाधिते वा
03511 तद्-वृत्ति-नियमे अनैकान्तिकः अवृत्तौ वा असाधारणः.
03512 विरुद्ध-दृष्टान्ता-वृत्तौ विपर्यय-वृत्तौ च हेतोर् न
03513 कश्चिद् हेतु-दोषो दृष्टान्त-विरोधश् च प्रतिज्ञया इति चेत्, न,
03514 तद् अपि संशय-हेतुत्व-अनतिवृत्तेर् दृष्टान्त-विरोधो हि प्रतिज्ञायाः
03515 साधर्म्ये दोषः, न वैधर्म्ये, अभिमतत्वात्.
03516 साधर्म्य-दृष्टान्ते च विपरीत-धर्मवति वस्तुतः साध्या-अव्यभिचारे
03517 अपि हेतोर् न अव्यभिचार-धर्मता शक्या दर्शयितुम्
03518 इति न अप्रदर्शित-अविनाभाव-सम्बद्धाद् हेतोर् निश्चयः.
03519 तन् न प्रतिज्ञया दृष्टान्त-विरोधो हेत्व्-आभासान् अतिवर्तते.
03601 उभयथा अपि दोषो अस्त्व् इति चेत्, न न हेतु-दोषस्य प्राक्
03602 प्रसङ्गेन पराजितस्य दोष-अन्तर-अनपेक्षणात्. विशेषेण साधन-
03603 अवयव-अनुक्रम-नियम-वादिन उदाहरण-साधर्म्यं
03604 हेतु-लक्षणं विरुद्धे दृष्टान्ते न सम्भवति इति प्राक्
03605 प्रयुक्तस्य हेतोर् दोषेण पराजय इति न उत्तर-दृष्टान्त-अपेक्षया
03606 विरोधश् चिन्ताम् अर्हति. हेतोर् अपि दृष्टान्त-विरोधे असाधारणत्वं
03607 विरुद्धत्वं वा वैधर्म्ये यदि वृत्तिः स्यात्.
03608 प्रमाण-विरोधे तु हेतोः, यथा न दहनो अग्निः शैत्याद्
03609 इत्य् आदि ह्य् असिद्धो हेत्व्-आभासः.
03610 प्रतिज्ञायाः प्रमाण-विरोधः स्व-वचन-विरोधेन व्याख्यात
03611 इति.
03612 सर्व एते साधन-विरोधा हेत्व्-आभासेष्व् एव अन्तर्भवन्ति
03613 इति हेत्व्-आभास-वचनेन एव उक्ताः.

मूल पाठ: Vādanyāya · Edition: : M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991. · Data entry Motoi Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc