उपदेशसाहस्री · भाग 2138
शास्त्रस्यानतिशङ्क्यत्वाद् ब्रह्मैव स्याम् अहं सदा ।
ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत् ॥ समुपद्_इ,17.67 ॥
अहम् एव च भूतेषु सर्वेष्व् एको नभो यथा ।
मयि सर्वाणि भूतानि पश्यन्न् एवं न जायते ॥ समुपद्_इ,17.68 ॥
न बाह्यं मध्यतो वान्तर् विद्यते ऽन्यत् स्वतः क्वचित् ।
अबाह्यान्तःश्रुतेः किंचित् तस्माच् छुद्धः स्वयंप्रभः ॥ समुपद्_इ,17.69 ॥
नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमो ऽद्वयः ।
अविज्ञातादिशास्त्राच् च नैव ज्ञेयो ह्य् अतो ऽन्यथा ॥ समुपद्_इ,17.70 ॥
सर्वस्यात्माहम् एवेति ब्रह्म चेद् विदितं परम् ।
स आत्मा सर्वभूतानाम् आत्मा ह्य् एषाम् इति श्रुतेः ॥ समुपद्_इ,17.71 ॥
जीवश् चेत् परम् आत्मानं स्वात्मानं देवम् अञ्जसा ।
देवोपास्यः स देवानां पशुत्वाच् च निवर्तते ॥ समुपद्_इ,17.72 ॥
अहम् एव सदात्मज्ञः शून्यस् त्व् अन्यैर् यथाम्बरम् ।
इत्य् एवं सत्यसंधत्वाद् असद्धाता न बध्यते ॥ समुपद्_इ,17.73 ॥
कृपणास् ते ऽन्यथैवातो विदुर् ब्रह्म परं हि ये ।
स्वराड् यो ऽनन्यदृक् स्वस्थस् तस्य देवा असन् वशे ॥ समुपद्_इ,17.74 ॥
हित्वा जात्यादिसंबन्धं वाचो ऽन्याः सह कर्मभिः ।
ओम् इत्य् एवं स्वम् आत्मानं सर्वं शुद्धं प्रपद्यथ ॥ समुपद्_इ,17.75 ॥
सेतुं सर्वव्यवस्थानाम् अहोरात्रादिवर्जितम् ।
तिर्यग् ऊर्ध्वम् अधः सर्वं सकृज्ज्योतिर् अनामयम् ॥ समुपद्_इ,17.76 ॥
धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात् ।
स्वम् आत्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः ॥ समुपद्_इ,17.77 ॥
अकुर्वन् सर्वकृच् छुद्धस् तिष्ठन्न् अत्येति धावतः ।
मायया सर्वशक्तित्वाद् अजः सन् बहुधा मतः ॥ समुपद्_इ,17.78 ॥
राजवत् साक्षिमात्रत्वात् संनिध्याद् भ्रामको यथा ।
भ्रामयञ् जगद् आत्माहं निष्क्रियो ऽकारको ऽद्वयः ॥ समुपद्_इ,17.79 ॥
निर्गुणं निष्क्रियं नित्यं निर्द्वन्द्वं यन् निरामयम् ।
शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत् ॥ समुपद्_इ,17.80 ॥
बन्धं मोक्षं च सर्वं यत इदम् उभयं हेयम् एकं द्वयं च ।
ज्ञेयाज्ञेयाभ्यतीतं परमम् अधिगतं तत्त्वम् एकं विशुद्धम् ।
विज्ञायैतद् यथावच् छ्रुतिमुनिगदितं शोकमोहाव् अतीतः ।
सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणो ऽवाप्तकृत्यः ॥ समुपद्_इ,17.81 ॥
न स्वयं स्वस्य नान्यश् च नान्यस्यात्मा च हेयगः ।
उपादेयो न चाप्य् एवम् इति सम्यङ्मतिः स्मृता ॥ समुपद्_इ,17.82 ॥
आत्मप्रत्यायिका ह्य् एषा सर्ववेदान्तगोचरा ।
ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः ॥ समुपद्_इ,17.83 ॥
रहस्यं सर्ववेदानां देवानां चापि यत् परम् ।
पवित्रं परमं ह्य् एतत् तद् एतत् संप्रकाशितम् ॥ समुपद्_इ,17.84 ॥
नैतद् देयम् अशान्ताय रहस्यं ज्ञानम् उत्तमम् ।
विरक्ताय प्रदातव्यं शिष्यायानुगताय च ॥ समुपद्_इ,17.85 ॥
ददतश् चात्मनो ज्ञानं निष्क्रियो ऽन्यो न विद्यते ।
ज्ञानम् इच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा ॥ समुपद्_इ,17.86 ॥
ज्ञानं ज्ञेयं तथा ज्ञाता यस्माद् अन्यन् न विद्यते ।
सर्वज्ञः सर्वशक्तिर् यस् तस्मै ज्ञानात्मने नमः ॥ समुपद्_इ,17.87 ॥
विद्यया तारिताः स्मो यैर् जन्ममृत्युमहोदधिम् ।
सर्वज्ञेभ्यो नमस् तेभ्यो गुरुभ्यो ऽज्ञानसंकुलम् ॥ समुपद्_इ,17.88 ॥
इति सम्यङ्मतिप्रकरणम् ॥ समुपद्_इ,17 ॥
येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः ।
नित्यावगतये तस्मै नमो धीप्रत्ययात्मने ॥ समुपद्_इ,18.1 ॥
प्रमथ्य वज्रोपमयुक्तिसंभृतैः श्रुतेर् अरातिञ् शतशो वचो ऽसिभिः ।
ररक्ष वेदार्थनिधिं विशालधीर् नमो यतीन्द्राय गुरोर् गरीयसे ॥ समुपद्_इ,18.2 ॥
नित्यमुक्तः सद् एवास्मीत्य् एवं चेन् न भवेन् मतिः ।
किमर्थं श्रावयत्य् एवं मातृवच् छ्रुतिर् आदृता ॥ समुपद्_इ,18.3 ॥
सिद्धाद् एवाहम् इत्य् अस्माद् युष्मद्धर्मो निषिध्यते ।
रज्ज्वाम् इवाहिधीर् युक्त्या तत् त्वम् इत्यादिशासनैः ॥ समुपद्_इ,18.4 ॥
शास्त्रप्रामाण्यतो ज्ञेया धर्मादेर् अस्तिता यथा ।
विषापोहो यथा ध्यानाद् ध्नुतिः स्यात् पाप्मनस् तथा ॥ समुपद्_इ,18.5 ॥
सद् ब्रह्माहं करोमीति प्रत्ययाव् आत्मसाक्षिकौ ।
तयोर् अज्ञानजस्यैव त्यागो युक्ततरो मतः ॥ समुपद्_इ,18.6 ॥
सद् अस्मीति प्रमाणोत्था धीर् अन्या तन्निभोद्भवा ।
प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत् ॥ समुपद्_इ,18.7 ॥
कर्ता भोक्तेति यच् छास्त्रं लोकबुद्ध्यनुवादि तत् ।
सद् अस्मीति श्रुतेर् जाता बाध्यते ऽन्यैतयैव धीः ॥ समुपद्_इ,18.8 ॥
सद् एव त्वम् असीत्य् उक्ते नात्मनो मुक्ततां स्थिराम् ।
प्रपद्यते प्रसंचक्षाम् अतो युक्त्यानुचिन्तयेत् ॥ समुपद्_इ,18.9 ॥
सकृद् उक्तं न गृह्णाति वाक्यार्थज्ञो ऽपि यो भवेत् ।
अपेक्षते ऽत एवान्यद् अवोचाम द्वयं हि तत् ॥ समुपद्_इ,18.10 ॥
नियोगो ऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत् ।
अविरुद्धो भवेत् तावद् यावत् संवेद्यतादृढा ॥ समुपद्_इ,18.11 ॥
चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते ।
प्रसंख्यानम् अतः कार्यं यावद् आत्मानुभूयते ॥ समुपद्_इ,18.12 ॥
सद् अस्मीति च विज्ञानम् अक्षजो बाधते ध्रुवम् ।
शब्दोत्थं दृढसंस्कारो दोषैश् चाक्र्ष्यते बहिः ॥ समुपद्_इ,18.13 ॥
श्रुतानुमानजन्मानौ सामान्यविषयौ यतः ।
प्रत्ययाव् अक्षजो ऽवश्यं विशेषार्थो निवारयेत् ॥ समुपद्_इ,18.14 ॥
वाक्यार्थप्रत्ययि कश्चिन् निर्दुःखो नोपलभ्यते ।
यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः ॥ समुपद्_इ,18.15 ॥
निर्दुःखो ऽतीतदेहेषु कृतभावो ऽनुमीयते ।
चर्या नो ऽशास्त्रसंवेद्या स्याद् अनिष्टं तथा सति ॥ समुपद्_इ,18.16 ॥
सद् असीति फलं चोक्त्वा विधेयं साधनं यतः ।
न तद् अन्यत् प्रसंख्यानात् प्रसिद्धार्थम् इहेष्यते ॥ समुपद्_इ,18.17 ॥
तस्माद् अनुभवायैव प्रसंचक्षीत यत्नतः ।
त्यजन् साधनतत्साध्यविरुद्धं शमनादिमान् ॥ समुपद्_इ,18.18 ॥
नैतद् एवं रहस्यानां नेतिनेत्यवसानतः ।
क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः ॥ समुपद्_इ,18.19 ॥
पुत्रदुःखं यथाध्यस्तं पित्रादुःखे स्व आत्मनि ।
अहंकर्त्रा तथाध्यस्तं नित्यादुःखे स्व आत्मनि ॥ समुपद्_इ,18.20 ॥
सो ऽध्यासो नेति नेतीति प्राप्तवत् प्रतिषिध्यते ।
भूयो ऽध्यासविधिः कश्चित् कुतश्चिन् नोपपद्यते ॥ समुपद्_इ,18.21 ॥
आत्मनीह यथाध्यासः प्रतिषेधस् तथैव च ।
मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः ॥ समुपद्_इ,18.22 ॥
प्राप्तश् चेत् प्रतिषिध्येत मोक्षो ऽनित्यो भवेद् ध्रुवम् ।
अतो ऽप्राप्तनिषेधो ऽयं दिव्य् अग्निचयनादिवत् ॥ समुपद्_इ,18.23 ॥
संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा ।
न संभाव्यौ तदात्मत्वाद् अहंकर्तुस् तथैव च ॥ समुपद्_इ,18.24 ॥
अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् ।
नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते ॥ समुपद्_इ,18.25 ॥
उपलब्धिः स्वयंज्योतिर् दृशिः प्रत्यक्सदक्रियः ।
साक्षात् सर्वान्तरः साक्षी चेता नित्यो ऽगुणो ऽद्वयः ॥ समुपद्_इ,18.26 ॥
संनिधौ सर्वदा तस्य स्यात् तदाभो ऽभिमानकृत् ।
आत्मात्मीयं द्वयं चातः स्याद् अहंममगोचरः ॥ समुपद्_इ,18.27 ॥
जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दास् त्व् अहंकृति ।
न कश्चिद् वर्तते शब्दस् तदभावात् स्व आत्मनि ॥ समुपद्_इ,18.28 ॥
आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः ।
लक्षयेयुर् न साक्षात् तम् अभिदध्युः कथंचन ॥ समुपद्_इ,18.29 ॥
नह्य् अजात्यादिमान् कश्चिद् अर्थः शब्दैर् निरूप्यते ।
आत्माभासो यतो ऽहंकृद् आत्मशब्दैस् तथोच्यते ॥ समुपद्_इ,18.30 ॥
उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान् न चाञ्जसा ।
मुखाद् अन्यो मुखाभासो यथादर्शानुकारतः ॥ समुपद्_इ,18.31 ॥
आभासान् मुखम् अप्य् एवम् आदर्शाननुवर्तनात् ।
अहंकृत्य् आत्मनिर्भासो मुखाभासवद् इष्यते ॥ समुपद्_इ,18.32 ॥
मुखवत् स्थित आत्मान्यो ऽविविक्तौ तौ तथैव च ।
संसारी च स इत्य् एक आभासो यस् त्व् अहंकृति ॥ समुपद्_इ,18.33 ॥
वस्तु च्छाया स्मृतेर् अन्यन् माधुर्यादि च कारणम् ।
ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे ॥ समुपद्_इ,18.34 ॥
अहंकर्तैव संसारी स्वतन्त्र इति केचन ।
अहंकारादिसंतानः संसारी नान्वयि पृथक् ॥ समुपद्_इ,18.35 ॥
इत्य् एवं सौगता आहुस् तत्र न्यायो विचार्यताम् ।
संसारिणां कथा त्व् आस्तां प्रकृतं त्व् अधुनोच्यते ॥ समुपद्_इ,18.36 ॥
मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः ।
द्वयोर् एकस्य चेद् धर्मो वियुक्ते ऽन्यतरे भवेत् ॥ समुपद्_इ,18.37 ॥
मुखेन व्यपदेशात् स मुखस्यैवेति चेन् मतम् ।
नादर्शानुविधानाच् च मुखे सत्य् अविभावतः ॥ समुपद्_इ,18.38 ॥
द्वयोर् एवेति चेत् तन् न द्वयोर् एवाप्य् अदर्शनात् ।
अदृष्टस्य सतो दृष्टिः स्याद् राहोश् चन्द्रसूर्ययोः ॥ समुपद्_इ,18.39 ॥
राहोः प्राग् एव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः ।
छायापक्षे त्व् अवस्तुत्वं तस्य स्यात् पूर्वयुक्तितः ॥ समुपद्_इ,18.40 ॥
छायाक्रान्तेर् निषेधो ऽयं न तु वस्तुत्वसाधकः ।
न ह्य् अर्थान्तरनिष्ठं सद् वाक्यम् अर्थान्तरं वदेत् ॥ समुपद्_इ,18.41 ॥
माधुर्यादि च यत् कार्यम् उष्णद्रव्याद्यसेवनात् ।
छायाया न त्व् अदृष्टत्वाद् अपाम् एव च दर्शनात् ॥ समुपद्_इ,18.42 ॥
आत्माभासाश्रयाश् चैवं मुखाभासाश्रया यथा ।
गम्यते शास्त्रयुक्तिभ्याम् आभासासत्त्वम् एव च ॥ समुपद्_इ,18.43 ॥
न दृशेर् अविकारित्वाद् आभासस्याप्य् अवस्तुतः ।
नाचितित्वाद् अहंकर्तुः कस्य संसारिता भवेत् ॥ समुपद्_इ,18.44 ॥
अविद्यामात्र एवातः संसारो ऽस्त्व् अविवेकतः ।
कूटस्थेनात्मना नित्यम् आत्मवान् आत्मनीव सः ॥ समुपद्_इ,18.45 ॥
रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग् विवेकतः ।
अवस्तुसन्न् अपि ह्य् एष कूटस्थेनात्मना तथा ॥ समुपद्_इ,18.46 ॥
आत्माभासाश्रयश् चात्मा प्रत्ययैः स्वैर् विकारवान् ।
सुखी दुःखी च संसारी नित्य एवेति केचन ॥ समुपद्_इ,18.47 ॥
आत्माभासापरिज्ञानाद् याथात्म्येन विमोहिताः ।
अहंकर्तारम् आत्मेति मन्यन्ते ते निरागमाः ॥ समुपद्_इ,18.48 ॥
संसारो वस्तुसंस् तेषां कर्तृभोक्तृत्वलक्षणः ।
आत्माभासाश्रयाज्ञानात् संसरन्त्य् अविवेकतः ॥ समुपद्_इ,18.49 ॥
चैतन्याभासता बुद्धेर् आत्मनस् तत्स्वरूपता ।
स्याच् चेत् तं ज्ञानशब्दैश् च वेदः शास्तीति युज्यते ॥ समुपद्_इ,18.50 ॥
प्रकृतिप्रत्ययार्थौ यौ भिन्नाव् एकाश्रयौ यथा ।
करोति गच्छतीत्यादौ दृष्टौ लोकप्रसिद्धितः ॥ समुपद्_इ,18.51 ॥
नानयोर् द्व्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा ।
जानात्यर्थेषु को हेतुर् द्व्याश्रयत्वे निगद्यताम् ॥ समुपद्_इ,18.52 ॥
आत्माभासस् तु तिङ्वाच्यो धात्वर्थश् च धियः क्रिया ।
उभयं चाविवेकेन जानातीत्य् उच्यते मृषा ॥ समुपद्_इ,18.53 ॥
न बुद्धेर् अवबोधो ऽस्ति नात्मनो विद्यते क्रिया ।
अतो नान्यतरस्यापि जानातीति च युज्यते ॥ समुपद्_इ,18.54 ॥
नाप्य् अतो भावशब्देन ज्ञप्तिर् इत्य् अपि युज्यते ।
न ह्य् आत्मा विक्रियामात्रो नित्य आत्मेतिशासनात् ॥ समुपद्_इ,18.55 ॥
न बुद्धेर् बुद्धिवाच्यत्वं करणं न ह्य् अकर्तृकम् ।
नापि ज्ञायत इत्य् एवं कर्मशब्दैर् निरुच्यते ॥ समुपद्_इ,18.56 ॥
न येषाम् एक एवात्मा निर्दुःखो ऽविक्रियः सदा ।
तेषां स्याच् छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा ॥ समुपद्_इ,18.57 ॥
यदाहंकर्तुर् आत्मत्वं तदा शब्दार्थमुख्यता ।
नाशनायादिमत्त्वात् तु श्रुतौ तस्यात्मतेष्यते ॥ समुपद्_इ,18.58 ॥
हन्त तर्हि न मुख्यार्थो नापि गौणः कथंचन ।
जानातीत्यादिशब्दस्य गतिर् वाच्या तथापि तु ॥ समुपद्_इ,18.59 ॥
शब्दानाम् अयथार्थत्वे वेदस्याप्य् अप्रमाणता ।
सा च नेष्टा ततो ग्राह्या गतिर् अस्य प्रसिद्धितः ॥ समुपद्_इ,18.60 ॥
प्रसिद्धिर् मूढलोकस्य यदि ग्राह्या निरात्मता ।
लोकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते ॥ समुपद्_इ,18.61 ॥
अभियुक्तप्रसिद्धिश् चेत् पूर्ववद् दुर्विवेकता ।
गतिशून्यं न वेदो ऽयं प्रमाणं संवदत्य् उत ॥ समुपद्_इ,18.62 ॥
आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः ।
मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते ॥ समुपद्_इ,18.63 ॥
यत्र यस्यावभासस् तु तयोर् एवाविवेकतः ।
जानातीति क्रियां सर्वो लोको वक्ति स्वभवतः ॥ समुपद्_इ,18.64 ॥
बुद्धेः कर्तृत्वम् अध्यस्य जानातीति ज्ञ उच्यते ।
तथा चैतन्यम् अध्यस्य ज्ञत्वं बुद्धेर् इहोच्यते ॥ समुपद्_इ,18.65 ॥
स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर् यतः ।
न बुद्ध्या क्रियते तस्मान् नात्मनान्येन वा सदा ॥ समुपद्_इ,18.66 ॥
देहे ऽहंप्रत्ययो यद्वज् जानातीति च लौकिकाः ।
वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस् तथात्मनः ॥ समुपद्_इ,18.67 ॥
बौद्धैस् तु प्रत्ययैर् एवं क्रियमाणैश् च चिन्निभैः ।
मोहिताः क्रियते ज्ञानम् इत्य् आहुस् तार्किका जनाः ॥ समुपद्_इ,18.68 ॥
तस्माज् ज्ञाभासबुद्धीनाम् अविवेकात् प्रवर्तिताः ।
जानातीत्यादिशब्दश् च प्रत्ययो या च तत्स्मृतिः ॥ समुपद्_इ,18.69 ॥
आदर्शानुविधायित्वं छायाया अस्यते मुखे ।
बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते ॥ समुपद्_इ,18.70 ॥
बुद्धेस् तु प्रत्ययास् तस्माद् आत्माभासेन दीपिताः ।
ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः ॥ समुपद्_इ,18.71 ॥
स्वयम् एवावभास्यन्ते ग्राहकाः स्वयम् एव च ।
इत्य् एवं ग्राहकास्तित्वं प्रतिषेधन्ति सौगताः ॥ समुपद्_इ,18.72 ॥
यद्य् एवं नान्यदृश्यास् ते किं तद्वारणम् उच्यताम् ।
भावाभावौ हि तेषां यौ नान्यग्राह्यौ सदा यदि ॥ समुपद्_इ,18.73 ॥
अन्वयी ग्राहकस् तेषाम् इत्य् एतद् अपि तत्समम् ।
अचितित्वस्य तुल्यत्वाद् अन्यस्मिन् ग्राहके सति ॥ समुपद्_इ,18.74 ॥
अध्यक्षस्य समीपे तु सिद्धिः स्याद् इति चेन् मतम् ।
नाध्यक्षे ऽनुपकारित्वाद् अन्यत्रापि प्रसङ्गतः ॥ समुपद्_इ,18.75 ॥
अर्थी दुःखी च यः श्रोता स त्व् अध्यक्षो ऽथवेतरः ।
अध्यक्षस्य च दुःखित्वम् अर्थित्वं च न ते मतम् ॥ समुपद्_इ,18.76 ॥
कर्ताध्यक्षं सद् अस्मीति नैव सद्ग्रहम् अर्हति ।
सद् एवासीति मिथ्योक्तिः श्रुतेर् अपि न युज्यते ॥ समुपद्_इ,18.77 ॥
अविविच्योभयं वक्ति श्रुतिश् चेत् स्याद् ग्रहस् तथा ।
अस्मदस् तु विविच्यैव त्वम् एवेति वदेद् यदि ॥ समुपद्_इ,18.78 ॥
प्रत्ययान्वयिनिष्ठत्वम् उक्तो दोषः प्रसज्यते ।
त्वम् इत्य् अध्यक्षनिष्ठश् चेद् अहमध्यक्षयोः कथम् ॥ समुपद्_इ,18.79 ॥
संबन्धो वाच्य एवात्र येन त्वम् इति लक्षयेत् ।
द्रष्टृदृश्यत्वसंबन्धो यद्य् अध्यक्षे ऽक्रिये कथम् ॥ समुपद्_इ,18.80 ॥
अक्रियत्वे ऽपि तादात्म्यम् अध्यक्षस्य भवेद् यदि ।
आत्माध्यक्षो ममास्तीति संबन्धाग्रहणे न धीः ॥ समुपद्_इ,18.81 ॥
संबन्धग्रहणं शास्त्राद् इति चेन् मन्यसे न हि ।
पूर्वोक्ताः स्युस् त्रिधा दोषा ग्रहो वा स्यान् ममेति च ॥ समुपद्_इ,18.82 ॥
अदृशिर् दृशिरूपेण भाति बुद्धिर् यदा सदा ।
प्रत्यया अपि तस्याः स्युस् तप्तायोविस्फुलिङ्गवत् ॥ समुपद्_इ,18.83 ॥
आभासस् तदभावश् च दृशेः सीम्नो न चान्यथा ।
लोकस्य युक्तितः स्यातां तद्ग्रहश् च तथा सति ॥ समुपद्_इ,18.84 ॥
नन्व् एवं दृशिसंक्रान्तिर् अयःपिण्डे ऽग्निवद् भवेत् ।
मुखाभासवद् इत्य् एतद् आदर्शे तन् निराकृतम् ॥ समुपद्_इ,18.85 ॥
कृष्णायो रोहिताभासम् इत्य् एतद् दृष्टम् उच्यते ।
दृष्टदार्ष्टान्ततुल्यत्वं न तु सर्वात्मना क्वचित् ॥ समुपद्_इ,18.86 ॥
तथैव चेतनाभासं चित्तं चैतन्यवद् भवेत् ।
मुखाभासो यथादर्श आभासश् चोदितो मृषा ॥ समुपद्_इ,18.87 ॥
चित्तं चेतनम् इत्य् एतच् छास्त्रयुक्तिविवर्जितम् ।
देहस्यापि प्रसङ्गः स्याच् चक्षुरादेस् तथैव च ॥ समुपद्_इ,18.88 ॥
तद् अप्य् अस्त्व् इति चेत् तन् न लोकायतिकसंगतेः ।
न च धीर् दृशिर् अस्मीति यद्य् आभासो न चेतसि ॥ समुपद्_इ,18.89 ॥
सद् अस्मीति धियो ऽभावे व्यर्थं स्यात् तत् त्वम् अस्य् अपि ।
युष्मदस्मद्विवेकज्ञे स्याद् अर्थवद् इदं वचः ॥ समुपद्_इ,18.90 ॥
ममेदंप्रत्ययौ ज्ञेयौ युष्मद्य् एव न संशयः ।
अहम् इत्य् अस्मदीष्टः स्याद् अयम् अस्मीति चोभयोः ॥ समुपद्_इ,18.91 ॥
अन्योन्यापेक्षया तेषां प्रधानगुणतेष्यते ।
विशेषणविशेष्यत्वं तथा ग्राह्यं हि युक्तितः ॥ समुपद्_इ,18.92 ॥
ममेदं द्वयम् अप्य् एतन् मध्यमस्य विशेषणम् ।
धनी गोमान् यथा तद्वद् देहो ऽहंकर्तुर् एव च ॥ समुपद्_इ,18.93 ॥
बुद्ध्यारूढं सदा सर्वं साहंकर्त्रा च साक्षिणः ।
तस्मात् सर्वावभासो ज्ञः किंचिद् अप्य् अस्पृशन् सदा ॥ समुपद्_इ,18.94 ॥
प्रतिलोमम् इदं सर्वं यथोक्तं लोकबुद्धितः ।
अविवेकधियाम् अस्ति नास्ति सर्वं विवेकिनाम् ॥ समुपद्_इ,18.95 ॥
अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।
स्याद् एतद् अहम् इत्य् अत्र युक्तिर् एवावधारणे ॥ समुपद्_इ,18.96 ॥
नाद्राक्षम् अहम् इति अस्मिन् सुषुप्ते ऽन्यन् मनाग् अपि ।
न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ॥ समुपद्_इ,18.97 ॥
स्वयंज्योतिर् न हि द्रष्टुर् इत्य् एवं संविदो ऽस्तिताम् ।
कौटस्थ्यं च तथा तस्याः प्रत्ययस्य च लुप्तताम् ।
स्वयम् एवाब्रवीच् छास्त्रं प्रत्ययावगती पृथक् ॥ समुपद्_इ,18.98 ॥
एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः ।
श्रुतिस् तत् त्वम् असीत्य् आह श्रोतुर् मोहापनुत्तये ॥ समुपद्_इ,18.99 ॥
ब्रह्मा दाशरथेर् यद्वद् उक्त्यैवापानुदत् तमः ।
तस्य विष्णुत्वसंबोधे न यत्नान्तरम् ऊचिवान् ॥ समुपद्_इ,18.100 ॥
अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि ।
सैवोक्ता सद् असीत्य् एवं फलं तत्र विमुक्तता ॥ समुपद्_इ,18.101 ॥
श्रुतमात्रे न चेत् तत् स्यात् कार्यं तत्र भवेद् ध्रुवम् ।
व्यवहारात् पुरापीष्टः सद्भावः स्वयम् आत्मनः ॥ समुपद्_इ,18.102 ॥
अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा ।
तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्व् असंशयः ॥ समुपद्_इ,18.103 ॥
प्रतिबन्धविहीनत्वात् स्वयं चानुभवात्मनः ।
जायेतैव प्रमा तत्र स्वात्मन्य् एव न संशयः ॥ समुपद्_इ,18.104 ॥
किं सद् एवाहम् अस्मीति किं वान्यत् प्रतिपद्यते ।
सद् एव चेद् अहंशब्दः सता मुख्यार्थ इष्यताम् ॥ समुपद्_इ,18.105 ॥
अन्यच् चेत् सदहंग्राहप्रतिपत्तिर् मृषैव सा ।
तस्मान् मुख्यग्रहे नास्ति वारणावगतेर् इह ॥ समुपद्_इ,18.106 ॥
प्रत्ययी प्रत्ययश् चैव यदाभासौ तदर्थता ।
तयोर् अचितिमत्त्वाच् च चैतन्ये कल्प्यते फलम् ॥ समुपद्_इ,18.107 ॥
कूटस्थे ऽपि फलं योग्यं राजनीव जयादिकम् ।
तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च ॥ समुपद्_इ,18.108 ॥
आदर्शस् तु यदाभासो मुखाकारः स एव सः ।
यथैवं प्रत्ययादर्शो यदाभासस् तदा ह्य् अहम् ॥ समुपद्_इ,18.109 ॥
इत्य् एवं प्रतिपत्तिः स्यात् सद् अस्मीति च नान्यथा ।
तत् त्वम् इत्य् उपदेशो ऽपि द्वाराभावाद् अनर्थकः ॥ समुपद्_इ,18.110 ॥
श्रोतुः स्याद् उपदेशश् चेद् अर्थवत्त्वं तथा भवेत् ।
अध्यक्षस्य न चेद् इष्टं श्रोतृत्वं कस्य तद् भवेत् ॥ समुपद्_इ,18.111 ॥
अध्यक्षस्य समीपे बुद्धेर् एवेति चेन् मतम् ।
न तत्कृतोपकारो ऽस्ति काष्ठाद् यद्वन् न कल्प्यते ॥ समुपद्_इ,18.112 ॥
बुद्धौ चेत् तत्कृतः कश्चिन् नन्व् एवं परिणामिता ।
आभासे ऽपि च को दोषः सति श्रुत्याद्यनुग्रहे ॥ समुपद्_इ,18.113 ॥
आभासे परिणामश् चेन् न रज्ज्वादिनिभत्ववत् ।
सर्पादेश् च तथावोचम् आदर्शे च मुखत्ववत् ॥ समुपद्_इ,18.114 ॥
नात्माभासत्वसिद्धिश् चेद् आत्मनो ग्रहणात् पृथक् ।
मुखादेस् तु पृथक्सिद्धिर् इह त्व् अन्योन्यसंश्रयः ॥ समुपद्_इ,18.115 ॥
अध्यक्षस्य पृथक्सिद्धाव् आभासस्य तदीयता ।
आभासस्य तदीयत्वे ह्य् अध्यक्षव्यतिरिक्तता ॥ समुपद्_इ,18.116 ॥
नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस् तथा ।
रथादेस् तत्र शून्यत्वात् प्रत्ययस्यात्मना ग्रहः ॥ समुपद्_इ,18.117 ॥
अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः ।
जायते स यदाकारः स बाह्यो विषयो मतः ॥ समुपद्_इ,18.118 ॥
कर्मेप्सिततमत्वात् स तद्वान् कार्ये नियुज्यते ।
आकारो यत्र चार्प्येत करणं तद् इहोच्यते ॥ समुपद्_इ,18.119 ॥
यदाभासेन संव्याप्तः स ज्ञातेति निगद्यते ।
त्रयम् एतद् विविच्यात्र यो जानाति स आत्मवित् ॥ समुपद्_इ,18.120 ॥
सम्यक्संशयमिथ्योक्ताः प्रत्यया व्यभिचारिणः ।
एकैवावगतिस् तेषु भेदस् तु प्रत्ययार्पितः ॥ समुपद्_इ,18.121 ॥
आधिभेदाद् यथा भेदो मणेर् अवगतेस् तथा ।
अशुद्धिः परिणामश् च सर्वं प्रत्ययसंश्रयात् ॥ समुपद्_इ,18.122 ॥
प्रथनं ग्रहणं सिद्धिः प्रत्ययानाम् इहान्यतः ।
आपरोक्ष्यात् तद् एवोक्तम् अनुमानं प्रदीपवत् ॥ समुपद्_इ,18.123 ॥
किम् अज्ञं ग्राहयेत् कश्चित् प्रमाणेन तु केनचित् ।
विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः ॥ समुपद्_इ,18.124 ॥
शब्देनैव प्रमाणेन निवृत्तिश् चेद् इहोच्यते ।
अध्यक्षस्याप्रसिद्धत्वाच् छून्यतैव प्रसज्यते ॥ समुपद्_इ,18.125 ॥
चेतनस् त्वं कथं देह इति चेन् नाप्रसिद्धितः ।
चेतनस्यान्यतासिद्धाव् एवं स्याद् अन्यहानतः ॥ समुपद्_इ,18.126 ॥
अध्यक्षः स्वयम् अस्त्य् एव चेतनस्यापरोक्षतः ।
तुल्य एवं प्रबोधः स्याद् अज्ञस्यासत्त्ववादिना ॥ समुपद्_इ,18.127 ॥
अहम् अज्ञासिषं चेदम् इति लोकस्मृतेर् इह ।
करणं कर्म कर्ता च सिद्धास् त्व् एकक्षणे किल ॥ समुपद्_इ,18.128 ॥
प्रामाण्ये ऽपि स्मृतेः शैघ्र्याद् यौगपद्यं विभाव्यते ।
क्रमेण ग्रहणं पूर्वं स्मृतेः पश्चात् तथैव च ॥ समुपद्_इ,18.129 ॥
अज्ञासिषम् इदं मां चेत्य् अपेक्षा जायते ध्रुवम् ।
विशेषो ऽपेक्ष्यते यत्र तत्र नैवैककालता ॥ समुपद्_इ,18.130 ॥
आत्मनो ग्रहणे चापि त्रयाणाम् इह संभवात् ।
आत्मन्य् आसक्तकर्तृत्वं न स्यात् करणकर्मणोः ॥ समुपद्_इ,18.131 ॥
व्याप्तुम् इष्टं च यत् कर्तुः क्रियया कर्म तत् स्मृतम् ।
अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता ॥ समुपद्_इ,18.132 ॥
शब्दाद् वानुमितेर् वापि प्रमाणाद् वा ततो ऽन्यतः ।
सिद्धिः सर्वपदार्थानां स्याद् अज्ञं प्रति नान्यथा ॥ समुपद्_इ,18.133 ॥
अध्यक्षस्यापि सिद्धिः स्यात् प्रमाणेन विनैव वा ।
विना स्वस्य प्रसिद्धिस् तु नाज्ञं प्रत्य् उपयुज्यते ॥ समुपद्_इ,18.134 ॥
तस्यैवाज्ञत्वम् इष्टं चेज् ज्ञातत्वे ऽन्या मितिर् भवेत् ।
अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् ॥ समुपद्_इ,18.135 ॥
ज्ञातता स्वात्मलाभो वा सिद्धिः स्याद् अन्यद् एव वा ।
ज्ञातत्वे ऽनन्तरोक्तौ त्वं पक्षौ संस्मर्तुम् अर्हसि ॥ समुपद्_इ,18.136 ॥
सिद्धिः स्यात् स्वात्मलाभश् चेद् यत्नस् तत्र निरर्थकः ।
सर्वलोकप्रसिद्धत्वात् स्वहेतुभ्यस् तु वस्तुनः ॥ समुपद्_इ,18.137 ॥
ज्ञानज्ञेयादिवादे ऽतः सिद्धिर् ज्ञातत्वम् उच्यते ।
अध्यक्षाध्यक्ष्ययोः सिद्धिर् ज्ञेयत्वं नात्मलाभता ॥ समुपद्_इ,18.138 ॥
स्पष्टत्वं कर्मकर्त्रादेः सिद्धता यदि कल्प्यते ।
स्पष्टतास्पष्टते स्याताम् अन्यस्यैव न चात्मनः ॥ समुपद्_इ,18.139 ॥
अद्रष्टुर् नैव चान्धस्य स्पष्टीभावो घटस्य तु ।
कर्त्रादेः स्पष्टतेष्टा चेद् द्रष्टृताध्यक्षकर्तृका ॥ समुपद्_इ,18.140 ॥
अनुभूतेः किम् अन्तस्मिन् स्यात् तवापेक्षया वद ।
अनुभवितरीष्टा स्यात् सो ऽप्य् अनुभूतिर् एव नः ॥ समुपद्_इ,18.141 ॥
"अभिन्नो ऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते" ॥ समुपद्_इ,18.142 ॥
[भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते । ]
सत्त्वं नाशित्वम् अस्याश् चेत् सकर्तृत्वं तथेष्यताम् ।
न कश्चिच् चेष्यते धर्म इति चेत् पक्षहानता ॥ समुपद्_इ,18.143 ॥
नन्व् अस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः ।
न भूतेस् तर्हि नाशित्वं स्वालक्षण्यं हि ते ॥ समुपद्_इ,18.144 ॥
स्वलक्षणावधिर् नाशो नाशो ऽनाशनिवृत्तिता ।
अगोर् असत्त्वं गोत्वं ते न तु तद् गोः स्वलक्षणम् ॥ समुपद्_इ,18.145 ॥
क्षणवाच्यो ऽपि यो ऽर्थः स्यात् सो ऽप्य् अन्याभाव एव ते ।
भेदाभावे ऽप्य् अभावस्य भेदो नामभिर् इष्यते ॥ समुपद्_इ,18.146 ॥
नामभेदैर् अनेकत्वम् एकस्य स्यात् कथं तव ।
अपोहो यदि भिन्नानां वृत्तिस् तस्य कथं गवि ॥ समुपद्_इ,18.147 ॥
नाभावा भेदकाः सर्वे विशेषा वा कदाचन ।
नामजात्यादयो यद्वत् संविदस् ते ऽविशेषतः ॥ समुपद्_इ,18.148 ॥
प्रत्यक्षम् अनुमानं वा व्यवहारे यदीच्छसि ।
क्रियाकारकभेदैस् तद् अभ्युपेयं ध्रुवं भवेत् ॥ समुपद्_इ,18.149 ॥
तस्मान् नीलं तथा पीतं घटादिर् वा विशेषणम् ।
संविदस् तद् उपेत्यं स्याद् येन चाप्य् अनुभूयते ॥ समुपद्_इ,18.150 ॥
रूपादीनां यथान्यः स्याद् ग्राह्यत्वाद् ग्राहकस् तथा ।
प्रत्ययस्य तथान्यं स्याद् व्यञ्जकत्वाच् च दीपवत् ॥ समुपद्_इ,18.151 ॥
अध्यक्षस्य दृशेः कीदृक् संबन्धः संभविष्यति ।
अध्यक्ष्येण तु दृश्येन मुक्त्वान्यो द्रष्टृदृश्यताम् ॥ समुपद्_इ,18.152 ॥
अध्यक्षेण कृता दृष्टिर् दृश्यं व्याप्नोत्य् अथापि वा ।
नित्याध्यक्षकृतः कश्चिद् उपकारो भवेद् धियाम् ॥ समुपद्_इ,18.153 ॥
स चोक्तस् तन्निभत्वं प्राक् संव्याप्तिश् च घटादिषु ।
यथालोकादिसंव्याप्तिर् व्यञ्जकत्वाद् धियस् तथा ॥ समुपद्_इ,18.154 ॥
आलोकस्थो घटो यद्वद् बुद्ध्यारूढो भवेत् तथा ।
धीव्याप्तिः स्याद् घटारोहो धियो व्याप्तौ क्रमो भवेत् ॥ समुपद्_इ,18.155 ॥
पूर्वं स्यात् प्रत्ययव्याप्तिस् ततो ऽनुग्रह आत्मनः ।
कृत्स्नाध्यक्षस्य सो ऽयुक्तः कालाकाशादिवत् क्रमः ॥ समुपद्_इ,18.156 ॥
विषयग्रहणं यस्य कारणापेक्षया भवेत् ।
सत्य् एव ग्राह्यशेषे च परिणामी स चित्तवत् ॥ समुपद्_इ,18.157 ॥
अध्यक्षो ऽहम् इति ज्ञानं बुद्धेर् एव विनिश्चयः ।
नाध्यक्षस्याविशेषत्वान् न तस्यास्ति परो यतः ॥ समुपद्_इ,18.158 ॥
कर्त्रा चेद् अहम् इत्य् एवम् अनुभूयेत मुक्तता ।
सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते ॥ समुपद्_इ,18.159 ॥
देहादाव् अभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम् ।
कुण्डलिप्रत्ययो यद्वत् प्रत्यगात्माभिमानिना ॥ समुपद्_इ,18.160 ॥
बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् ।
विपर्यये ऽसदन्तं स्यात् प्रमाणस्याप्रमाणतः ॥ समुपद्_इ,18.161 ॥
दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः ।
नैव ह्य् अन्यस्य दाहादाव् अन्यो दुःखी भवेत् क्वचित् ॥ समुपद्_इ,18.162 ॥
अस्पर्शत्वाद् अदेहत्वान् नाहं दाह्यो यतः सदा ।
तस्मान् मिथ्याभिमानोत्थं मृते पुत्रे मृतिर् यथा ॥ समुपद्_इ,18.163 ॥
कुण्डल्य् अहम् इति ह्य् एतद् बाध्येतैव विवेकिना ।
दुःखीति प्रत्ययस् तद्वत् केवलाहंधिया सदा ॥ समुपद्_इ,18.164 ॥
सिद्धे सुःखित्व इष्टं स्यात् तच्चक्तित्वं सदात्मनः ।
मिथ्याभिमानतो दुःखी तेनार्थापादनक्षयः ॥ समुपद्_इ,18.165 ॥
अस्पर्शो ऽपि यथा स्पर्शम् अचलश् चलनादि च ।
अविवेकात् तथा दुःखं मानसं चात्मनीक्षते ॥ समुपद्_इ,18.166 ॥
विवेकात्मधिया दुःखं नुद्यते चलनादिवत् ।
अविवेकस्वभावेन मनो गच्छत्य् अनिच्छतः ॥ समुपद्_इ,18.167 ॥
तदानुदृश्यते दुःखं नैश्चल्ये नैव तस्य तत् ।
प्रत्यगात्मनि तस्मात् तद् दुःखं नैवोपपद्यते ॥ समुपद्_इ,18.168 ॥
त्वंसतोस् तुल्यनीडत्वान् नीलाश्ववद् इदं भवेत् ।
निर्दुःखवाचिना योगात् त्वंशब्दस्य तदर्थता ॥ समुपद्_इ,18.169 ॥
प्रत्यगात्माभिधानेन तच्छब्दस्य युतेस् तथा ।
दशमस् त्वम् असीत्य् एवं वाक्यं स्यात् प्रत्यगात्मनि ॥ समुपद्_इ,18.170 ॥
स्वार्थस्य ह्य् अप्रहाणेन विशिष्टार्थसमर्पकौ ।
प्रत्यगात्मावगत्यन्तौ नान्यो ऽर्थो ऽर्थाद् विरोध्य् अतः ॥ समुपद्_इ,18.171 ॥
नवबुद्ध्यपहाराद् धि स्वात्मानं दशपूरणम् ।
अपश्यञ् ज्ञातुम् एवेच्छेत् स्वम् आत्मानं जनस् तथा ॥ समुपद्_इ,18.172 ॥
अविद्याबद्धचक्षुष्ट्वात् कामापहृतधीः सदा ।
विविक्तं दृशिम् आत्मानं नेक्षते दशमं यथा ॥ समुपद्_इ,18.173 ॥
दशमस् त्वम् असीत्य् एवं तत्त्वमस्यादिवाक्यतः ।
स्वम् आत्मानं विजानाति कृत्स्नान्तःकरणेक्षणम् ॥ समुपद्_इ,18.174 ॥
इदं पूर्वम् इदं पश्चात् पदं वाक्ये भवेद् इति ।
नियमो नैव वेदे ऽस्ति पदसांगत्यम् अर्थतः ॥ समुपद्_इ,18.175 ॥
वाक्ये हि श्रूयमाणानां पदानाम् अर्थसंस्मृतिः ।
अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् ॥ समुपद्_इ,18.176 ॥
यदा नित्येषु वाक्येषु पदार्थस् तु विविच्यते ।
वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते ॥ समुपद्_इ,18.177 ॥
अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु ।
स्मृत्यभावे न वाक्यार्थो ज्ञातुं शक्यो बि केनचित् ॥ समुपद्_इ,18.178 ॥
तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः ।
व्यज्यते नैव वाक्यार्थो नित्यमुक्तो ऽहम् इत्य् अतः ॥ समुपद्_इ,18.179 ॥
अन्वयव्यतिरेकोक्तिस् तद्विवेकाय नान्यथा ।
त्वंपदार्थविवेके हि पाणाव् अर्पितविल्ववत् ॥ समुपद्_इ,18.180 ॥
वाक्यार्थो व्यज्यते चैवं केवलो ऽहंपदार्थतः ।
दुःखीत्य् एतदपोहेन प्रत्यगात्मविनिश्चयात् ॥ समुपद्_इ,18.181 ॥
तत्रैवं संभवत्य् अर्थे श्रुतहानाश्रुतार्थधीः ।
नैवं कल्पयितुं युक्ता पदवाक्यार्थकोविदैः ॥ समुपद्_इ,18.182 ॥
प्रत्यक्षादीनि बाधेरन् कृष्णलादिषु पाकवत् ।
अक्षजादिनिभैर् एतैः कथं स्याद् वाक्यबाधनम् ॥ समुपद्_इ,18.183 ॥
दुःख्य् अस्मीति सति ज्ञाने निर्दुःखीति न जायते ।
प्रत्यक्षादिनिभत्वे ऽपि वाक्यान् न व्यभिचारतः ॥ समुपद्_इ,18.184 ॥
स्वप्ने दुःख्य् अहम् अद्यासं दाहच्छेदादिहेतुतः ।
तत्कालभाविभिर् वाक्यैर् न बाधः क्रियते यदि ॥ समुपद्_इ,18.185 ॥
समाप्तेस् तर्हि दुःखस्य प्राक् च तद्बाध इष्यताम् ।
न हि दुःखस्य संतानो भ्रान्तेर् वा दृश्यते क्वचित् ॥ समुपद्_इ,18.186 ॥
प्रत्यगात्मन आत्मत्वं दुःख्य् अस्मीत्य् अस्य बाधया ।
दशमं नवम् अस्येव वेद चेद् अविरुद्धता ॥ समुपद्_इ,18.187 ॥
नित्यमुक्तत्वविज्ञानं वाक्याद् भवति नान्यतः ।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ समुपद्_इ,18.188 ॥
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् ।
एवं निर्दुःखम् आत्मानम् अक्रियं प्रतिपद्यते ॥ समुपद्_इ,18.189 ॥
सद् एवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।
दशमस् त्वम् असीत्य् अस्माद् यथैवं प्रत्यगात्मनि ॥ समुपद्_इ,18.190 ॥
प्रबोधेन यथा स्वाप्नं सर्वं दुःखं निवर्तते ।
प्रत्यगात्मधिया तद्वद् दुःखित्वं सर्वदात्मनः ॥ समुपद्_इ,18.191 ॥
कृष्णलादौ प्रमाजन्म तदन्यार्थामृदुत्वतः ।
तत्त्वमस्यादिवाक्येषु न त्व् एवम् अविरोधतः ॥ समुपद्_इ,18.192 ॥
वाक्ये तत् त्वम् असीत्य् अस्मिञ् ज्ञातार्थं तदसिद्वयम् ।
त्वमर्थस्मृत्यसाहाय्याद् वाक्यं नोत्पादयेत् प्रमाम् ॥ समुपद्_इ,18.193 ॥
तत्त्वमोस् तुल्यनीडार्थम् असीत्य् एतत् पदं भवेत् ।
तच्छब्दः प्रत्यगात्मार्थस् तच्छब्दार्थस् त्वमस् तथा ॥ समुपद्_इ,18.194 ॥
दुःखित्वाप्रत्यगात्मत्वं वारयेताम् उभाव् अपि ।
एवं च नेतिनेत्यर्थं गमयेतां परस्परम् ॥ समुपद्_इ,18.195 ॥
एवं तत् त्वम् असीत्य् अस्य गम्यमाने फले कथम् ।
अप्रमाणत्वम् अस्योक्त्वा क्रियापेक्षत्वम् उच्यते ॥ समुपद्_इ,18.196 ॥
तस्माद् आद्यन्तमध्येषु कुर्व् इत्य् एतद् विरोध्य् अतः ।
न कल्प्यम् अश्रुतत्वाच् च श्रुतत्यागो ऽप्य् अनर्थकः ॥ समुपद्_इ,18.197 ॥
यथानुभूयते तृप्तिर् भुजेर् वाक्यान् न गम्यते ।
वाक्यस्य विधृतिस् तद्वद् गोशकृत्पायसीक्रिया ॥ समुपद्_इ,18.198 ॥
सत्यम् एवम् अनात्मार्थे वाक्यात् पारोक्ष्यबोधनम् ।
प्रत्यगात्मनि न त्व् एवं संख्याप्राप्तिवद् अध्रुवम् ॥ समुपद्_इ,18.199 ॥
स्वसंवेद्यत्वपर्यायः ।
स्वप्रमाणक इष्यताम् ।
निवृत्ताव् अहमः सिद्धः स्वात्मनो ऽनुभवश् च नः ॥ समुपद्_इ,18.200 ॥
बुद्धीनां विषयो दुःखं ता यस्य विषया मताः ।
कुतो ऽस्य दुःखसंबन्धो दृशेः स्यात् प्रत्यगात्मनः ॥ समुपद्_इ,18.201 ॥
दृशिर् एवानुभूयेत स्वेनैवानुभवात्मना ।
तदाभासतया जन्म धियो ऽस्यानुभवः स्मृतः ॥ समुपद्_इ,18.202 ॥
अशनायादिनिर्मुक्तः सिद्धो मोक्षस् त्वम् एव सः ।
श्रोतव्यादि तवेत्य् एतद् विरुद्धं कथम् उच्यते ॥ समुपद्_इ,18.203 ॥
सेत्स्यतीत्य् एव चेत् तत् स्याच् छ्रवणादि तदा भवेत् ।
मोक्षस्यानित्यतैवं स्याद् विरोध्य् एवान्यथा वचः ॥ समुपद्_इ,18.204 ॥
श्रोतृश्रोतव्ययोर् भेदो यदीष्टः स्याद् भवेद् इदम् ।
इष्टार्थकोप एवं स्यान् न युक्तं सर्वथा वचः ॥ समुपद्_इ,18.205 ॥
सिद्धो मोक्षो ऽहम् इत्य् एवं ज्ञात्वात्मानं भवेद् यदि ।
चिकीर्षुर् यः स मूढात्मा शास्त्रं चोद्घाटयत्य् अपि ॥ समुपद्_इ,18.206 ॥
न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता ।
उभयालम्बनं कुर्वन्न् आत्मानं वञ्चयत्य् असौ ॥ समुपद्_इ,18.207 ॥
सिद्धो मोक्षस् त्वम् इत्य् एतद् वस्तुमात्रं प्रदर्श्यते ।
श्रोतुस् तथात्वविज्ञाने प्रवृत्तिः स्यात् कथं त्व् इति ॥ समुपद्_इ,18.208 ॥
कर्ता दुःख्य् अहम् अस्मीति प्रत्यक्षेणानुभूयते ।
कर्ता दुःखी च मा भूवम् इति यत्नो भवेत् ततः ॥ समुपद्_इ,18.209 ॥
तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिर् अब्रवीत् ।
कर्तृत्वाद्यनुवादेन सिद्धत्वानुभवाय तु ॥ समुपद्_इ,18.210 ॥
निर्दुःखो निष्क्रियो ऽकामः सिद्धो मोक्षो ऽहम् इत्य् अपि ।
गृहीत्वैव विरुद्धार्थम् आदध्यात् कथम् एव सः ॥ समुपद्_इ,18.211 ॥
सकामः सक्रियो ऽसिद्ध इति मे ऽनुभवः कथम् ।
अतो मे विपरीतस्य तद् भवान् वक्तुम् अर्हति ॥ समुपद्_इ,18.212 ॥
इहैव घटते प्रश्नो न मुक्तत्वानुभूतये ।
प्रमाणेन विरोधी यः सो ऽत्रार्थः प्रश्नम् अर्हति ॥ समुपद्_इ,18.213 ॥
अहं निर्मुक्त इत्य् एष सद् असीत्य् अन्यमानजः ।
प्रत्यक्षाभासजन्यत्वाद् दुःखित्वं प्रश्नम् अर्हति ॥ समुपद्_इ,18.214 ॥
पृष्टम् आकाङ्क्षितं वाच्यं दुःखाभावम् अभीप्सितम् ।
कथं हीदं निवर्तेत दुःखं सर्वात्मना मम ॥ समुपद्_इ,18.215 ॥
इति प्रश्नानुरूपं यद् वाच्यं दुःखनिवर्तकम् ।
श्रुतेः स्वात्मनि नाशङ्का प्रामाण्ये सति विद्यते ॥ समुपद्_इ,18.216 ॥
तस्माद् आत्मविमुक्तत्वं प्रत्याययति तद्वचः ।
वक्तव्यं तु तथार्थं स्याद् विरोधे ऽसति केनचित् ॥ समुपद्_इ,18.217 ॥
इतो ऽन्यो ऽनुभवः कश्चिद् आत्मनो नोपपद्यते ।
अविज्ञातं विजानतां विज्ञातारम् इति श्रुतेः ॥ समुपद्_इ,18.218 ॥
त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।
साधनत्वं व्रजत्य् एव शान्तो दान्तादिशासनात् ॥ समुपद्_इ,18.219 ॥
त्वमर्थं प्रत्यगात्मानं पश्येद् आत्मानम् आत्मनि ।
वाक्यार्थं तत आत्मानं सर्वं पश्यति केवलम् ॥ समुपद्_इ,18.220 ॥
सर्वम् आत्मेति वाक्यार्थे विज्ञाते ऽस्य प्रमाणतः ।
असत्त्वे ह्य् अन्यमानस्य विधिस् तं योजयेत् कथम् ॥ समुपद्_इ,18.221 ॥
तस्माद् वाक्यार्थविज्ञानान् नोर्ध्वं कर्मविधिर् भवेत् ।
न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियौ ॥ समुपद्_इ,18.222 ॥
ब्रह्मास्मीति हि विद्येयं नैव कर्तेति बाध्यते ।
सकामो बद्ध इत्य् एवं प्रमाणाभासजातया ॥ समुपद्_इ,18.223 ॥
शास्त्राद् ब्रह्मास्मि नान्यो ऽहम् इति बुद्धिर् भवेद् दृढा ।
यदायुक्ता तदैवं धीर् यथा देहात्मधीर् इति ॥ समुपद्_इ,18.224 ॥
सभयाद् अभयं प्राप्तस् तदर्थं यतते च यः ।
स पुनः सभयं गन्तुं स्वतन्त्रश् चेन् न हीच्छति ॥ समुपद्_इ,18.225 ॥
यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः ।
पदार्थाज्ञानबुद्धस्य वाक्यार्थानुभवार्थिनः ॥ समुपद्_इ,18.226 ॥
अतः सर्वम् इदं सिद्धं यत् प्राग् अस्माभिर् ईरितम् ॥ समुपद्_इ,18.227 ॥
यो हि यस्माद् विरक्तः स्यान् नासौ तस्मै प्रवर्तते ।
लोकत्रयाद् विरक्तत्वान् मुमुक्षुः किम् इतीहते ॥ समुपद्_इ,18.228 ॥
क्षुधया पीड्यमानो ऽपि न विषं ह्य् अत्तुम् इच्छति ।
मिष्टान्नध्वस्ततृड् जानन् नामूढस् तज् जिघत्सति ॥ समुपद्_इ,18.229 ॥
वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम् ।
उज्जहारालिवद् यो नस् तस्मै सद्गुरवे नमः ॥ समुपद्_इ,18.230 ॥
इति तत्त्वमसिप्रकरणम् ॥ समुपद्_इ,18 ॥
प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम् ।
न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम् ॥ समुपद्_इ,19.1 ॥
अहं ममेति त्वम् अनर्थम् ईहसे परार्थम् इच्छन्ति तवान्य ईहितम् ।
न ते ऽर्थबोधो न हि मे ऽस्ति चार्थिता ततश् च युक्तः शम एव ते मनः ॥ समुपद्_इ,19.2 ॥
यतो न चान्यः परमात् सनातनात् सदैव तृप्तो ऽहम् अतो न मे ऽर्थिता ।
सदैव मुक्तश् च न कामये हितं यतस्व चेतः प्रशमाय ते ऽधिकम् ॥ समुपद्_इ,19.3 ॥
षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश् च नः श्रुतेः ।
प्रमाणतश् चापि मया प्रवेद्यते मुधैव तस्माच् च मनस् तवेहितम् ॥ समुपद्_इ,19.4 ॥
त्वयि प्रशान्ते न हि सास्ति भेदधीर् यतो जगन् मोहम् उपैति मायया ।
ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित् ॥ समुपद्_इ,19.5 ॥
न मे ऽस्ति मोहस् तव चेष्टितेन हि प्रबुद्धतत्त्वस् त्व् असितो ह्य् अविक्रियः ।
न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस् तवेहितम् ॥ समुपद्_इ,19.6 ॥
यतश् च नित्यो ऽहम् अतो न चान्यथा विकारयोगे हि भवेद् अनित्यता ।
सदा प्रभातो ऽहम् अतो हि चाद्वयो विकल्पितं चाप्य् असद् इत्य् अवस्थितम् ॥ समुपद्_इ,19.7 ॥
अभावरूपं त्वम् असीह हे मनो निरीक्ष्यमाणे न हि युक्तितो ऽस्तिता ।
सतो ह्य् अनाशाद् असतो ऽप्य् अजन्मतो द्वयं च ते ऽतस् तव नास्तितेष्यते ॥ समुपद्_इ,19.8 ॥
द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस् तव कल्पितो हि सः ।
दृशेश् च भिन्नं न हि दृश्यम् ईक्ष्यते स्वपन् विबोधे च तथा न भिद्यते ॥ समुपद्_इ,19.9 ॥
विकल्पना चापि तथाद्वया भवेद् अवस्तुयोगात् तद् अलातचक्रवत् ।
न शक्तिभेदो ऽस्ति यतो न चात्मनां ततो ऽद्वयत्वं श्रुतितो ऽवसीयते ॥ समुपद्_इ,19.10 ॥
मिथश् च भिन्ना यदि ते हि चेतनाः क्षयस् तु तेषां परिमाणयोगतः ।
ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश् चापि समस्तमोक्षतः ॥ समुपद्_इ,19.11 ॥
न मे ऽस्ति कश्चिन् न च सो ऽस्मि कस्यचिद् यतो ऽद्वयो ऽहं न हि चास्ति कल्पितम् ।
अकल्पितश् चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयम् एव कल्पितम् ॥ समुपद्_इ,19.12 ॥
विकल्पना चाप्य् अभवे न विद्यते सद् अन्यद् इत्य् एवम् अतो न नास्तिता ।
यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर् न च तद् विकल्पितम् ॥ समुपद्_इ,19.13 ॥
असद् द्वयं ते ऽपि हि यद् यद् ईक्ष्यते न दृष्टम् इत्य् एव न चैव नास्तिता ।
यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत् ॥ समुपद्_इ,19.14 ॥
सद् अभ्युपेतं भवतोपकल्पितं विचारहेतोर् यदि तस्य नास्तिता ।
विचारहानाच् च तथैव संस्थितं न चेत् तद् इष्टं नितरां सद् इष्यते ॥ समुपद्_इ,19.15 ॥
असत्समं चैव सद् इत्य् अपीति चेद् अनर्थवत्त्वात् खरशृङ्गतुल्यतः ।
अनर्थवत्त्वं त्व् असति ह्य् अकारणं न चैव तस्मान् न विपर्यये ऽन्यथा ॥ समुपद्_इ,19.16 ॥
असिद्धतश् चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया ।
श्रुतेः स्मृतेश् चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यते ऽन्यथा ॥ समुपद्_इ,19.17 ॥
विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश् च विकल्पतो ऽद्वयम् ।
न चेति नेतीति तथा विकल्पितं निषिध्यते ऽत्राप्य् अवशेषसिद्धये ॥ समुपद्_इ,19.18 ॥
अकल्पिते ऽप्य् एवम् अजाद्वयाक्षरे विकल्पयन्तः सद् असच् च जन्मभिः ।
स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम् ॥ समुपद्_इ,19.19 ॥
भवाभवत्वं तु न चेद् अवस्थितिर् न तस्य चान्यस् त्व् इति जन्म नान्यथा ।
सतो ह्य् असत्त्वाद् असतश् च सत्त्वतो न च क्रिया कारकम् इत्य् अतो ऽप्य् अजम् ॥ समुपद्_इ,19.20 ॥
अकुर्वद् इष्टं यदि वास्य कारकं न किंचिद् अन्यन् ननु नास्त्य् अकारकम् ।
सतो ऽविशेषाद् असतश् च सच्च्युतौ तुलान्तयोर् यद्वद् अनिश्चयान् न हि ॥ समुपद्_इ,19.21 ॥
न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ ।
विभक्तम् एतद् द्वयम् अप्य् अवस्थितं न जन्म तस्माच् च मनो हि कस्यचित् ॥ समुपद्_इ,19.22 ॥
अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस् तव चेष्टितेन मे ।
न हानवृद्धी न यतः स्वतो ऽसतो भवो ऽन्यतो वा यदि वास्तिता तयोः ॥ समुपद्_इ,19.23 ॥
ध्रुवा ह्य् अनित्याश् च न चान्ययोगिनो मिथश् च कार्यं न च तेषु युज्यते ।
अतो न कस्यापि हि किंचिद् इष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम् ॥ समुपद्_इ,19.24 ॥
समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात् ।
निरीक्ष्य युक्त्या श्रुतितश् च बुद्धिमान् अशेषनिर्वाणम् उपैति दीपवत् ॥ समुपद्_इ,19.25 ॥
अवेद्यम् एकं यद् अनन्यवेदिनां कुतार्किकाणां च सुवेद्यम् अन्यथा ।
निरीक्ष्य चेत्थं त्व् अगुणग्रहो ऽगुणं न याति मोहं ग्रहदोषमुक्तितः ॥ समुपद्_इ,19.26 ॥
अतो ऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर् ग्रह एव कारणम् ।
ग्रहो ऽप्य् अहेतुर् ह्य् अनलस् त्व् अनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत् ॥ समुपद्_इ,19.27 ॥
विमथ्य वेदोदधितः समुद्धृतं सुरैर् महाब्धेस् तु यथा महात्मभिः ।
तथामृतं ज्ञानम् इदं हि यैः पुरा नमो गुरुभ्यः परम् ईक्षितं च यैः ॥ समुपद्_इ,19.28 ॥
इति ज्वरनाशप्रकरणम् ॥ समुपद्_इ,19 ॥
इइ. गद्यबन्ध
अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानाम् अर्थिनाम् अर्थाय ॥ समुपद्_इइ,1.1 ॥
तद् इदं मोक्षसाधनं ज्ञानं साधनसाध्याद् अनित्यात् सर्वस्माद् विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवद् उपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय ब्रूयत् पुनः पुनर् यावद् ग्रहणं दृढीभवति ॥ समुपद्_इइ,1.2 ॥
श्रुतिश् च -- "परीक्ष्य ... तत्त्वतो ब्रह्मविद्याम्" इति । दृढगृहीता हि विद्यात्मनः श्रेयसे सन्तत्यै च भवति । विद्यासन्ततिश् च प्राण्यनुग्रहाय भवति नौर् इव नदीं तितीर्षोः । शास्त्रं च -- "यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूयः" इति । अन्यथा च ज्ञानप्राप्त्यभावात् -- "आचार्यवान् पुरुषो वेद", "आचार्याद् धैव विद्या विदिता [साधिष्ठं प्रापत्]", "आचार्यः प्लावयिता तस्य [सम्यग्]ज्ञानं प्लव इहोच्यते" इत्यादिश्रुतिभ्यः स्मृतिभ्यश् च ॥ समुपद्_इइ,1.3 ॥
शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर् बुद्ध्वा तदग्रहणहेतून् अधर्मलौकिकप्रमादनित्यानित्य[वस्तु]विवेकविषयासंजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षणजात्याद्यभिमानादींस् तत्प्रतिपक्षैः श्रुतिस्मृतिविहितैर् अपनयेद् अक्रोधादिभिर् अहिंसादिभिश् च यमैर् ज्ञानाविरुद्धैश् च नियमैः ॥ समुपद्_इइ,1.4 ॥
अमानित्वादिगुणं च ज्ञानोपायं सम्यग् ग्राहयेत् ॥ समुपद्_इइ,1.5 ॥
आचार्यश् चोहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्व् अनासक्तस् त्यक्तसर्वकर्मसाधनो ब्रह्मविद् ब्रह्मणि स्थितो ऽभिन्नवृत्तो दम्भदर्पकुहकशाठ्यमायामात्सर्यानृताहंकारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वम् उपदिशेत् -- "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्", "यत्र नान्यत् पश्यति", "आत्मैवेदं सर्वम्", ब्रह्मैवेदं सर्वम्", "आत्मा वा इदम् एक एवाग्र आसीत्", "सर्वं खल्व् इदं ब्रह्म" इत्य्[आद्याः] आत्मैकत्वप्रतिपादनपराः श्रुतिः ॥ समुपद्_इइ,1.6 ॥
उपदिश्य च ग्राहयेद् ब्रह्मणो लक्षणम् -- "य आत्मापहतपाप्मा", "यत् साक्षाद् अपरोक्षाद् ब्रह्म", "यो ऽशनायापिपासे", "नेति नेति", "अस्थूलम् अनणु", "स एष नेति नेति", "अदृष्टं द्रष्टृ", "विज्ञानम् आनन्दम्", "सत्यं ज्ञानम् अनन्तम्", "अदृश्ये ऽनात्म्ये", "स वा एषः", "अप्राणो ह्य् अमनाः", "सबाह्याभ्यन्तरो ह्य् अजः", "विज्ञानघन एव", "अनन्तरम् अबाह्यम्", "अन्यद् एव तद् विदिताद् अथो अविदितात्", "आकाशो वै नाम" इत्यादिश्रुतिभिः ॥ समुपद्_इइ,1.7 ॥
स्मृतिभिश् च -- "न जायते म्रियते वा", "नादत्ते कस्यचित् पापम्", "यथाकाशस्थितो नित्यम्", "क्षेत्रज्ञां चापि मां विद्धि", "न सत् तन् नासद् उच्यते", "अनादित्वान् निर्गुणत्वत्", "समं सर्वेषु भूतेषु", "उत्तमः पुरुषः" इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिस् तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश् च ॥ समुपद्_इइ,1.8 ॥
एवं श्रुतिस्मृतिभिर् गृहीतपरमात्मलक्षणं शिष्यं संसारसागराद् उत्तितीर्षुं पृच्छेत् -- कस् त्वम् असि सोम्येति ॥ समुपद्_इइ,1.9 ॥
स यदि ब्रूयात् -- ब्राह्मणपुत्रो ऽदोन्वयो ब्रह्मचार्य् आसं गृहस्थो वेदानीम् अस्मि परमहंसपरिव्राट् संसारसागराज् जन्ममृत्युमहाग्राहाद् उत्तितीर्षुर् इति ॥ समुपद्_इइ,1.10 ॥
आचार्यो ब्रूयद् -- इहैव ते सोम्य मृतस्य शरीरं वयोभिर् अद्यते मृद्भावं वापद्यते, तत्र कथं संसारसागराद् उत्तर्तुम् इच्छसीति । नहि नद्या अवरे कूले भस्मीभूतो नद्याः पारं तरिष्यसीति ॥ समुपद्_इइ,1.11 ॥
स यदि ब्रूयात् -- अन्यो ऽहं शरीरात् । शरीरं तु जायते म्रियते, वयोभिर् अद्यते मृद्भावम् आपद्यते, शस्त्राग्न्यादिभिश् च विनाश्यते, व्याध्यादिभिश् च युज्यते । तस्मिन्न् अहं स्वकृतधर्माधर्मवशात् पक्षी नीडम् इव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशाच् छरीरान्तरं यास्यामि, पूर्वनीडविनाशे पक्षीव नीडान्तरम् । एवम् एवाहम् अनादौ संसारे देवतिर्यङ्मनुष्यनिरयस्थानेषु स्वकर्मवशाद् उपात्तम् उपात्तं शरीरं त्यजन्, नवं नवं चान्यद् उपाददानो, जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरम् आसाद्य संसारचक्रभ्रमणाद् अस्मान् निर्विण्णो भगवन्तम् उपसन्नो ऽस्मि संसारचक्रभ्रमणप्रशमायेति । तस्मान् नित्य एवाहं शरीराद् अन्यः । शरीराण्य् आगच्छन्त्य् अपगच्छन्ति च वासांषीव पुरुषस्येति ॥ समुपद्_इइ,1.12 ॥
आचार्यो ब्रूयत् -- साध्व् अवादिः सम्यक् पश्यसि । कथं मृषावादीर् ब्राह्मणपुत्रो ऽदोन्वयो ब्रह्मचार्य् आसम्, गृहस्थो वा, इदानीम् अस्मि परमहंसपरिव्राड् इति ॥ समुपद्_इइ,1.13 ॥
स यदि ब्रूयात् -- भगवन्, कथम् अहं मृषावादिषम् इति ॥ समुपद्_इइ,1.14 ॥
तं प्रति ब्रूयाद् आचार्यः -- यतस् त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयसंस्कारवर्जितस्यात्मनः प्रत्यज्ञासीर् ब्राह्मणपुत्रो ऽदोन्वय इत्यादिना वाक्येनेति ॥ समुपद्_इइ,1.15 ॥
स यदि पृच्छेत् -- कथं भिन्नजात्यन्वयसंस्कारं शरीरम्, कथं वाहं जात्यन्वयसंस्कारवर्जित इति ॥ समुपद्_इइ,1.16 ॥
आचार्यो ब्रूयत् -- शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं त्वं च जात्यन्वयसंस्कारवर्जित इत्य् उक्त्वा तं स्मारयेत् -- स्मर्तुम् अर्हसि सोम्य, परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितो ऽसि "सद् एव सोम्येदम्" इत्यादि[भिः] श्रुतिभिः स्मृतिभिश् च । लक्षणं च तस्य श्रुतिभिः स्मृतिभिश् च ॥ समुपद्_इइ,1.17 ॥
लब्धपरमात्मलक्षणस्मृतये ब्रूयात् -- यो ऽसाव् आकाशनामा नामरूपाभ्याम् अर्थान्तरभूतो ऽशरीरो ऽस्थूलादिलक्षणो ऽपहतपाप्मत्वादिलक्षणश् च सर्वैः संसारधर्मैर् अनागन्धितः "यत् साक्षाद् अपरोक्षाद् ब्रह्म ... एष त आत्मा सर्वान्तरः", "अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञात" नित्यविज्ञानस्वरूपो ऽनन्तरो ऽबाह्यः, "विज्ञानघन एव", परिपूर्ण आकाशवत्, अनन्तशक्तिः, आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश् च स्वात्मविलक्षणयोर् नामरूपयोर् जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्याम् अनिर्वचनीययोः स्वसंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ताव्याकृतयोः ॥ समुपद्_इइ,1.18 ॥
ते नामरूपे ऽव्याकृते सती व्याक्रियमाणे तस्माद् एतस्माद् आत्मन आकाशनामाकृती संवृत्ते । तच् चाकाशख्यं भूतम् अनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नात् सलिलान् मलम् इव फेनम् । न सलिलं न च सलिलाद् अत्यन्तभिन्नं फेनम् । सलिलव्यतिरेकेणादर्शनात् । सलिलं तु स्वच्छम् अन्यत् फेनान् मलरूपात् । एवं परमात्मा नामरूपाभ्याम् अन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नस् तद्विलक्षणः । ते नामरूपे ऽव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते ॥ समुपद्_इइ,1.19 ॥
ततो ऽपि स्थूलभावम् आपद्यमाने नामरूपे व्याक्रियमाणे वायुभावम् आपद्येते, ततो ऽप्य् अग्निभावम्, अग्नेर् अभावम्, ततः पृथ्वीभावम् इत्य् एवंक्रमेण पूर्वपूर्वो[त्तरो]त्तरानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्य् उत्पन्नानि । ततः पञ्चमहाभूतगुणविशिष्टा पृथ्[इ]वी । पृथ्[इ]व्याश् च पञ्चात्मक्यो व्रीहियवाद्या ओषधयो जायन्ते । ताभ्यो भक्षिताभ्यो लोहितं शुक्रं च स्त्रीपुंसशरीरसंबन्धि जायते । तद् उभयम् ऋतुकाले ऽविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते । तत् स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं दशमे नवमे वा मासि सञ्जायते ॥ समुपद्_इइ,1.20 ॥
तज् जातं लब्धनामाकृतिकं जातकर्मादिभिर् मन्त्रसंस्कृतं पुनर् उपनयनसंस्कारयोगेन ब्रह्मचारिसंज्ञं भवति । तद् एव शरीरं पत्नीसंयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति । तद् एव वनस्थसंस्कारेण तापससंज्ञं भवति । तद् एव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति । इत्य् एवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् ॥ समुपद्_इइ,1.21 ॥
मनश् चेन्द्रियाणि च नामरूपात्मकान्य् एव "अन्नमयं हि सोम्य मनः" इत्यादिश्रुतिभ्यः ॥ समुपद्_इइ,1.22 ॥
कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्य् एतच् छृणु । यो ऽसौ नामरूपयोर् व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूप इह प्रविष्टो ऽन्यैर् अदृष्टः स्वयं पश्यंस् तथाश्रुतः शृण्वन्न् अमतो मन्वानो ऽविज्ञातो विजानन् -- "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते" इति । अस्मिन्न् अर्थे श्रुतयः सहस्रशः "तत् सृष्ट्वा तद् एवानुप्राविषत्". "अन्तः प्रविष्टः शास्ता जनानाम्", "स एष इह प्रविष्टः", "एष त आत्मा", "स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत", "एष सर्वेषु भूतेषु गूढो ऽत्मा", "सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवताः", "अशरीरं शरीरेषु" इत्याद्याः ॥ समुपद्_इइ,1.23 ॥
स्मृतयो ऽपि "आत्मैव देवताः सर्वाः", "नवद्वारे पुरे देही", "क्षेत्रज्ञं चापि मां विद्धि", "समं सर्वेषु भूतेषु", "उपद्रष्टानुमन्ता च", "उत्तमः पुरुषस् त्व् अन्यः" इत्याद्याः । तस्माज् जात्यन्वयसंस्कारवर्जितस् त्वम् इति सिद्धम् ॥ समुपद्_इइ,1.24 ॥
स यदि ब्रूयात् -- अन्य एवाहम् अज्ञः सुखी दुःखी बद्धः संसारी, अन्यो ऽसौ मद्विलक्षणो ऽसंसारी देवः, तम् अहं बल्युपहारनमस्कारादिभिर् वर्णाश्रमकर्मभिश् चाराध्य संसारसागराद् उत्तितीर्षुर् अस्मि, कथम् अहं स एवेति ॥ समुपद्_इइ,1.25 ॥
आचार्यो ब्रूयत् -- नैवं सोम्य प्रतिपत्तुम् अर्हसि, प्रतिषिद्धत्वाद् भेदप्रतिपत्तेः । कथं प्रतिषिद्धा भेदप्रतिपत्तिर् इत्य् अत आह -- "अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद", "ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो ब्रह्म वेद", मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति" इत्येवमाद्याः ॥ समुपद्_इइ,1.26 ॥
एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति ॥ समुपद्_इइ,1.27 ॥
अभेदप्रतिपत्तेश् च मोक्षं दर्शयन्ति सहस्रशः -- "स आत्मा तत् त्वम् असि" इति परमात्मभावं विधाय "आचार्यवान् पुरुषो वेद" इत्य् उक्त्वा "तस्य तावद् एव चिरम्" इति मोक्षं दर्शयन्त्य् अभेदविज्ञानाद् एव सत्यसन्धस्यातस्करस्येव दाहाद्यभावदृष्टान्तेन संसाराभावं दर्शयन्ति, भेददर्शनाद् असत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन ॥ समुपद्_इइ,1.28 ॥
"त इह व्याघ्रो वा" इत्यादिना चाभेददर्शनात् "[स] सर्वाड् भवति" इत्य् उक्त्वा तद्विपरीतेन भेददर्शनेन संसारगमनं दर्शयन्ति -- "अथ ये ऽन्यथातो विदुर् अन्यराजानस् ते क्षय्यलोका भवन्ति" इति प्रतिशाखम् । तस्मान् मृषैवावादीः -- ब्राह्मणपुत्रो ऽदोन्वयः संसारी परमात्मविलक्षण इति ॥ समुपद्_इइ,1.29 ॥
तस्मात् प्रतिषिद्धत्वाद् भेददर्शनस्य, भेदविषयत्वाच् च कर्मोपादानस्य, कर्मसाधनत्वाच् च यज्ञोपवीतादेः कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः । कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् । संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि, न परमात्मनो ऽभेददर्शिनः । भेददर्शनमात्रेण च ततो ऽन्यत्वम् ॥ समुपद्_इइ,1.30 ॥
यदि च कर्माणि कर्तव्यानि न निवर्तयिषितानि कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश् च परमात्मन आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् "स आत्मा तत् त्वम् असि" इत्येवमादिभिर् निश्चितरूपैर् वाक्यैः, भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् "एष नित्यो महिमा ब्राह्मणस्य", "अनन्वागतं पुण्येनानन्वागतं पापेन", "अत्र स्तेनो ऽस्तेनः" इत्यादिना ॥ समुपद्_इइ,1.31 ॥
कर्मासम्बन्धरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां [च] नाभ्यधास्यत्, कर्माणि [च] कर्मसाधनानि [च] यज्ञोपवीतादीनि यद्य् अपरितित्याजयिषितानि । तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा परमात्माभेददर्शनविरोधात् । आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः ॥ समुपद्_इइ,1.32 ॥
स यदि ब्रूयात् -- भगवन्, दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम । परश् चात्मा "अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" सर्वसंसारधर्मविवर्जितः श्रूयते सर्वश्रुतिषु स्मृतिषु च । कथं तद्विलक्षणो ऽनेकसंसारधर्मसंयुक्तः परमात्मानम् आत्मत्वेन मां च संसारिणं परमात्मत्वेनाग्निम् इव शीतत्वेन प्रतिपद्येयम् । संसारी च सन् सर्वाभ्युदयनिःश्रेयससाधने ऽधिकृतो ऽभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीतादीनि कथं परित्यजेयम् इति ॥ समुपद्_इइ,1.33 ॥
तं प्रति ब्रूयात् -- यद् अवोचो दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तद् असत् । कस्मत् । दह्यमाने छिद्यमान इव व्र्क्ष उपलब्धुर् उपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वाद् दाहादिसमानाश्रयैव वेदना । यत्र हि दाहश् छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोको न दाहाद्युपलब्धरीति । कथम् । क्व ते वेदनेति पृष्टः शिरसि मे वेदनोरस्य् उदर इति यत्र दाहादिस् तत्र व्यपदिशति, नोपलब्धरीति । यद्य् उपलब्धरि वेदना स्याद् वेदनानिमित्तं वा दाहच्छेदादि, वेदनाश्रयत्वेनोपदिशेद् दाहाद्याश्रयावत् ॥ समुपद्_इइ,1.34 ॥
स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् । तस्माद् दाहच्छेदादिसमानाश्रयत्वेनोपलभ्यमानत्वाद् दाहादिवत् कर्मभूतैव वेदना । भावरूपत्वाच् च साश्रया तण्डुलपाकवत् । वेदनासमानाश्रय एव तत्संस्कारः । स्मृतिसमानकाल एवोपलभ्यमानत्वात् । वेदनाविषयस् तन्निमित्तविषयश् च द्वेषो ऽपि संस्कारसमानाश्रय एव । तथा चोक्तम् -- "रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत् । गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धो ऽभयः सदा" ॥ समुपद्_इइ,1.35 ॥
किमाश्रयः पुना रूपादिसंस्कारादय इति । उच्यते । यत्र कामादायः । क्व पुनस् ते कामादयः । "कामः सङ्कल्पो विचिकित्सा" इत्यादिश्रुतेर् बुद्धाव् एव । तत्रैव रूपादिसंस्कारदयो ऽपि, "कस्मिन् नु रूपाणि प्रतिष्ठितानीति हृदये" इति श्रुतेः । "कामा ये ऽस्य हृदि श्रिताः", "तीर्णो हि ", "असङ्गो ह्य् अयम्", "तद् वा अस्यैतद् अतिच्छन्दाः" इत्यादिश्रुतिशतेभ्यः, "अविकार्यो ऽयम् उच्यते", "अनादित्वान् निर्गुणत्वात्" इत्यादि -- इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति -- स्मृतिभ्यश् च कर्मस्थैवाशुद्धिर् नात्मस्था इति ॥ समुपद्_इइ,1.36 ॥
अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावान् न परस्माद् आत्मनो विलक्षणस् त्वम् इति प्रत्यक्षादिविरोधाभावाद् युक्तं पर एवात्माहम् इति प्रतिपत्तुम् -- "तद् आत्मानम् एवावेद् [अहं ब्रह्मास्मि]", "एकधैवानुद्रष्टव्यम्", "अहम् एवाधस्तात्", "आत्मैवाधस्तात्", "सर्वम् आत्मानं पश्येत्", "यत्र त्व् अस्य सर्वम् आत्मैव", "इदं सर्वं यद् अयम् आत्म", "स एषो [ऽकलः ]", "अनन्तरम् अबाह्यम्", "सबाह्याभ्यन्तरो ह्य् अजः", "ब्रह्मैवेदम्", "एतया द्वारा प्रापद्यत", "प्रज्ञानस्य नामधेयानि", "सत्यं ज्ञानम् अनन्तं ब्रह्म", "तस्माद् वा", "तत् सृष्ट्वा तद् एवानुप्राविशत्", "एको देवः सर्वभूतेषु गूढः", "अशरीरं शरीरेषु", "न जायते म्रियते", "स्वप्नान्तं जागरितान्तम्", "स म आत्मेति विद्यात्", "यस् तु सर्वाणि भूतानि", "तद् एजति तन् नैजति", "वेनस् तत् पश्यन्", "तद् एवाग्निः", "अहम्, मनुर् अभवम् सूर्यश् च" "अन्तः प्रविष्टः शास्ता जनानाम्", "सद् एव सोम्य", "तत् सत्यं स आत्मा तत् त्वम् असि" इत्यादिश्रुतिभ्यः ॥ समुपद्_इइ,1.37 ॥
स्मृतिभ्यश् च -- "पूः प्राणिनः ... गुहाशयस्य", "आत्मैव देवताः", "नवद्वारे पुरे", "समं सर्वेषु भूतेषु", "विद्याविनयसंपन्ने", "अविभक्तंविभक्तेषु ", "वासुदेवः सर्वम्" इत्यादिभ्यः, एक एवात्मा परं ब्रह्म [सर्व]संसारधर्मविनिर्मुक्तस् त्वम् इति सिद्धम् ॥ समुपद्_इइ,1.38 ॥
स यदि ब्रूयात् -- यदि भगवन् "अनन्तरो ऽबाह्यः", "सबाह्याभ्यन्तरो ह्य् अजः", "कृत्स्नः प्रज्ञानघन एव" सैन्धवघनवद् आत्मा सर्वमूर्तिभेदवर्जित आकाशवद् एकरसः, किम् इदं दृश्यते श्रूयते वा सध्यं साधनं [वा] साधकश् चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति ॥ समुपद्_इइ,1.39 ॥
आचार्यो ब्रूयात् -- अविद्याकृतम् एतद् यद् इदं दृश्यते श्रूयते वा, परमार्थतस् त्व् एक एवात्मा अविद्याद्र्ष्टेर् अनेकवद् अवाभासते, तिमिरदृष्ट्यानेकचन्द्रवत् । "यत्र वान्यद् इव स्यात्", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति", "मृत्योः स मृत्युम् आप्नोति", "अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम्, ... अथ यद् अल्पं तन् मर्त्यम्", इति, "वाचारम्भणं विकारो नामधेयम्", ["अनृतम्",] "अन्यो ऽसाव् अन्यो ऽहम्" इति भेददर्शननिन्दोपपत्तेर् अविद्याकृतं द्वैतम् "एकम् एवाद्वितीयम्", "यत्र त्व् अस्य", "को मोहः कः शोकः" इत्याद्येकत्वविधिश्रुतिभ्यश् चेति ॥ समुपद्_इइ,1.40 ॥
यद्य् एवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश् चेति ॥ समुपद्_इइ,1.41 ॥
अत्रोच्यते -- अविद्यावत उपात्तशरीरादिभेदस्येष्टानिष्टयोगिनम् आत्मानं मन्यमानस्य साधनैर् एवेष्टानिष्टप्राप्तिपरिहारोपायविवेकम् अजानत इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस् तद्विषयम् अज्ञानं निवर्तयति शास्त्रं न साध्यसाधनादिभेदं विधत्ते । अनिष्टरूपः संसारो हि स इति तद् भेददृष्टिम् एवाविद्यां संसारमूलम् उन्मूलयति उत्पत्तिप्रलयाद्येकत्वोपपत्तिप्रदर्शनेन ॥ समुपद्_इइ,1.42 ॥
अविद्यायाम् उन्मूलितायां श्रुतिस्मृतिन्यायेभ्यः "अनन्तरम् अबाह्यम्", "सबाह्याभ्यन्तरो ह्य् अजः" सैन्धवघनवत् "प्रज्ञानघन एव", एकरस आत्मा आकाशवत् परिपूर्ण इत्य् अत्रैवैका प्रज्ञा प्रतिष्ठिता परमार्थदर्शिनो भवति, न साध्यसाधनोत्पत्तिप्रलयादिभेदेनाशुद्धिगन्धो ऽप्य् उपपद्यते ॥ समुपद्_इइ,1.43 ॥
तच् चैतत् परमार्थदर्शनं प्रतिपत्तुम् इच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् । सम्यक्प्रत्ययविरोधात् तदभिमानस्य भेददर्शनप्रतिषेधार्थोपपत्तिश् चोपपद्यते । न ह्य् एकस्मिन्न् आत्मन्य् असंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर् भवति । न ह्य् अग्नौ शीतत्वबुद्धिः, शरीरे वाजरामरणबुद्धिः । तस्माद् अविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः ॥ समुपद्_इइ,1.44 ॥
इति शिष्यप्रतिबोधन[विधि]प्रकरणम् ॥ समुपद्_इइ,1 ॥
सुखम् आसीनं ब्राह्मणं ब्रह्मनिष्ठं कश्चिद् ब्रह्मचारी जन्ममरणलक्षणात् संसारान् निर्विण्णो मुमुक्षुर् विधिवद् उपसन्नः पप्रच्छ -- भगवन्, कथम् अहं संसारान् मोक्षिष्ये । शरीरेन्द्रियविषयवेदनावान् जागरिते दुःखम् अनुभवामि तथा स्वप्ने ऽनुभवामि पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य । किम् अयम् एव मम स्वभावः, किं वान्यस्वभावस्य सतो नैमित्तिक इति । यदि स्वभावो न मे मोक्षाशा स्वभावस्यावर्जनीयत्वात् । अथ नैमित्तिको निमित्तपरिहारे स्यान् मोक्षोपपत्तिः ॥ समुपद्_इइ,2.45 ॥
तं गुरुर् उवाच -- शृणु वत्स, न तवायं स्वभावः । नैमित्तिकः ॥ समुपद्_इइ,2.46 ॥
इत्य् उक्तः शिष्य उवाच -- किं निमित्तम्, किं वा तस्य निवर्तकम्, को वा मम स्वभावः, यस्मिन् निमित्ते निवर्तिते नैमित्तिकाभावो रोगनिमित्तनिवृत्ताव् इव रोगी स्वभावं प्रतिपद्येयेति ॥ समुपद्_इइ,2.47 ॥
गुरुर् उवाच -- अविद्या निमित्तम्, विद्या तस्या निवर्तिका, अविद्यायां निवृत्तायां तन्निमित्ताभावान् मोक्ष्यसे जन्ममरणलक्षणात् संसारात्, स्वप्नजाग्रद्दुःखं च नानुभविष्यसीति ॥ समुपद्_इइ,2.48 ॥
शिष्य उवाच -- का साविद्या, किंविषया वा, विद्या च काविद्यानिवर्तिका यया स्वभावं प्रतिपद्येयेति ॥ समुपद्_इइ,2.49 ॥
गुरुर् उवाच-- त्वं परमात्मानं सन्तम् असंसारिणं संसार्य् अहम् अस्मीति विपरीतं प्रतिपद्यसे, अकर्तारं सन्तं कर्तेति, अभोक्तारं सन्तं भोक्तेति, विद्यमानं चाविद्यमानम् इति, इयम् अविद्या ॥ समुपद्_इइ,2.50 ॥
शिष्य उवाच -- यद्य् अप्य् अहं विद्यमानस् तथापि न परमात्मा । कर्तृत्वभोक्तृत्वलक्षणः संसारो मम स्वभावः, प्रत्यक्षादिभिः प्रमाणैर् अनुभूयमानत्वात् । नाविद्यानिमित्तः, अविद्यायाः स्वात्मविषयत्वानुपपत्तेः । अविद्या नामान्यस्मिन्न् अन्यधर्माध्यारोपणा । यथा प्रसिद्धं रजतं प्रसिद्धायां शुक्तिकायाम्, यथा प्रसिद्धं पुरुषं स्थाणाव् अध्यारोपयति, प्रसिद्धं वा स्थाणुं पुरुषे । नाप्रसिद्धं प्रसिद्धे, प्रसिद्धं वाप्रसिद्धे । न चात्मन्य् अनात्मानम् अध्यारोपयति, आत्मनो ऽप्रसिद्धत्वात् । तथात्मानम् अनात्मनि, आत्मनो ऽप्रसिद्धत्वाद् एव ॥ समुपद्_इइ,2.51 ॥
तं गुरुर् उवाच -- न, व्यभिचारात् । न हि वत्स, प्रसिद्धं प्रसिद्ध एवाध्यारोपयतीति नियन्तुं शक्यम् । आत्मन्य् अध्यारोपणदर्शनात् । गौरो ऽहं कृष्णो ऽहम् इति देहधर्मस्याहंप्रत्ययविषय आत्मन्य् अहंप्रत्ययविषयस्य च देहे ऽयम् अहम् अस्मीति ॥ समुपद्_इइ,2.52 ॥
शिष्य आह -- प्रसिद्ध एव तर्ह्य् आत्माहंप्रत्ययविषयतया देहश् चायम् इति । तत्रैवं सति प्रसिद्धयोर् एव देहात्मनोर् इतरेतराध्यारोपणा[त्] स्थाणुपुरुषयोः शुक्तिकारजतयोर् इव । तत्र कं विसेषम् आश्रित्य भगवतोक्तं प्रसिद्धयोर् इतरेतराध्यारोपणेति नियन्तुं न शक्यत इति ॥ समुपद्_इइ,2.53 ॥
गुरुर् उवाच -- शृणु । सत्यं प्रसिद्धौ देहात्मानौ न तु स्थाणुपुरुषाव् इव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ । कथं तर्हि । नित्यम् एव निरन्तराविविक्तप्रत्ययविषयतया । न ह्य् अयं देहो ऽयम् आत्मेति विविक्ताभ्यां प्रत्ययाभ्यां देहात्मानौ गृह्णाति यतः कश्चित् । अत एव हि मोमुह्यते लोक आत्मानात्मविषये, एवम् आत्मा नैवम् आत्मेति । इमं विशेषम् आश्रित्यावोचं नैवं शक्यम् इति ॥ समुपद्_इइ,2.54 ॥
नन्व् अविद्याध्यारोपितं [यत्र] यत् तद् असत् [तत्र] दृष्टम्, यथा रजतं शुक्तिकायाम्, स्थाणौ पुरुषः, रज्ज्वां सर्पः, आकाशे तलमलिनत्वम् इत्यादि । तथा देहात्मनोर् अपि नित्यम् एवो निरन्तराविविक्तप्रत्ययतयेतरेतराध्यारोपणा कृता स्यात्, तद् इतरेतरयोर् नित्यम् एवासत्त्वं स्यात् । यथा शुक्तिकादिष्व् अविद्याध्यारोपितानां रजतादीनां नित्यम् एवात्यन्तासत्त्वम्, तद्विपरीतानां च विपरीतेषु, तद्वद् देहात्मनोर् अविद्ययैवेतरेतराध्यारोपणा कृता स्यात् । तत्रैवं सति देहात्मनोर् असत्त्वं प्रसज्येत । तच् चानिष्टम्, वैनाशिकपक्षत्वात् । अथ तद्विपर्ययेण देह आत्मन्य् अविद्ययाध्यारोपितः, देहस्यात्मनि सति असत्त्वं प्रसज्येत । तच् चानिष्टम्, प्रत्यक्षादिविरोधात् । तस्माद् देहात्मानौ नाविद्ययेतरेतरस्मिन्न् अध्यारोपितौ । कथं तर्हि । वंशस्तम्भवन् नित्यसंयुक्तौ ॥ समुपद्_इइ,2.55 ॥
न । अनित्यत्वपरार्थत्वप्रसङ्गात् । संहतत्वात् [परार्थत्वम् अनित्यत्वं च] वंशस्तम्भादिवद् एव । किं च यस् तु परैर् देहेन संहतः कल्पित आत्मा स संहतत्वात् परार्थः । तेनासंहतः परो ऽन्यो नित्यः सिद्धस् तावत् ॥ समुपद्_इइ,2.56 ॥
तस्यासंहतस्य देहे देहमात्रतयाध्यारोपितत्वेनासत्त्वानित्यत्वादिदोषप्रसङ्गो भवति । तत्र निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥ समुपद्_इइ,2.57 ॥
न । स्वत एवात्मन आकाशस्येवासंहतत्वाभ्युपगमात् । सर्वेणासंहतः सन्न् आत्मेति न निरात्मको देहादिः सर्वः स्यात् । यथा चाकाशं सर्वेणासंहतम् इति सर्वं न निराकाशं भवति, एवम् । तस्मान् न वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥ समुपद्_इइ,2.58 ॥
यत् पुनर् उक्तम्, देहस्यात्मन्य् असत्त्वे प्रत्यक्षादिविरोधः स्याद् इति । तन् न । प्रत्यक्षादिभिर् आत्मनि देहस्य सत्त्वानुपलब्धेः । न ह्य् आत्मनि, कुण्डे बदरम्, क्षीरे सर्पिः, तिले तैलम्, भित्तौ चित्रम् इव च, प्रत्यक्षादिभिर् देह उपलभ्यते । तस्मान् न प्रत्यक्षादिविरोधः ॥ समुपद्_इइ,2.59 ॥
कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपण, देहे चात्मारोपणा ॥ समुपद्_इइ,2.60 ॥
नायं दोषः । स्वभाव[प्र]सिद्धत्वाद् आत्मनः । न हि कादाचित्कसिद्धाव् एवाध्यारोपणा न नित्यसिद्धाव् इति नियन्तुं शक्यम्, आकाशे तलमलाद्यध्यारोपणदर्शनात् ॥ समुपद्_इइ,2.61 ॥
किं भगवन्, देहात्मनोर् इतरेतराध्यारोपणा देहादिसंघाटकृताथवात्मकृतेति ॥ समुपद्_इइ,2.62 ॥
गुरुर् उवाच -- यदि देहादिसंघातकृता, यदि वात्मकृता, किं तव स्यात् ॥ समुपद्_इइ,2.63 ॥
इत्य् उक्तः शिष्य आह -- यद्य् अहं देहादिसंघातमात्रः, ततो ममाचेतनत्वात् परार्थत्वम् इति न मत्कृता देहात्मनोर् इतरेतराध्यारोपणा । अथाहम् आत्मा परो ऽन्यः संघातात्, चितिमत्त्वात् स्वार्थ इति मयैव चितिमतात्मन्य् अध्यारोपणा क्रियते सर्वानर्थबीजभूता ॥ समुपद्_इइ,2.64 ॥
इत्य् उक्तो गुरुर् उवाच -- अनर्थबीजभूतां चेन् मिथ्याध्यारोपणां जानीषे, मा कार्षीस् तर्हि ॥ समुपद्_इइ,2.65 ॥
नैव भगवन्, शक्नोमि न कर्तुम् । अन्येन केनचित् प्रयुक्तो ऽहं न स्वतन्त्र इति ॥ समुपद्_इइ,2.66 ॥
न तर्ह्य् अचितिमत्त्वात् स्वार्थस् त्वम् । येन प्रयुक्तो ऽस्वतन्त्रः प्रवर्तसे, स चितिमान् स्वार्थः, संघाट एव त्वम् ॥ समुपद्_इइ,2.67 ॥
यद्य् अचेतनो ऽहम्, कथं सुखदुःखवेदनां भवदुक्तं च जानामि ॥ समुपद्_इइ,2.68 ॥
गुरुर् उवाच -- किं सुखदुःखवेदनाया मदुक्ताच् चान्यस् त्वं किं वानन्य एवेति ॥ समुपद्_इइ,2.69 ॥
शिष्य उवाच -- नाहं तावद् अनन्यः । कस्मात् । यस्मात् तदुभयं कर्मभूतं गटादिम् इव जानामि । यदि अनन्यो ऽहम्, तेन तदुभयं न जानीयाम्, किं तु जानामि, तस्माद् अन्यः । सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति, त्वदुक्तं च स्यात्, अनन्यत्वे, न च तयोः स्वार्थता युक्ता । न हि चन्दनकण्टककृते सुखदुःखे चन्दनकण्टकार्थे, घटोपयोगो वा घटार्थः । तस्मात् तद्विज्ञातुर् मम चन्दनादिकृतो ऽर्थः । अहं हि ततो ऽन्यः समस्तम् अर्थं जानामि बुद्ध्यारूढम् ॥ समुपद्_इइ,2.70 ॥
तं गुरुर् उवाच -- एवं तर्हि स्वार्थस् त्वं चितिमत्त्वान् न परेण प्रयुज्यसे । न हि चितिमान् परतन्त्रः परेण प्रयुज्यते, चितिमतश् चितिमदर्थत्वानुपपत्तेः, समत्वात्, प्रकाशयोर् इव । नाप्य् अचितिमदर्थत्वं चितिमतो भवति, अचितिमतो ऽचितिमत्त्वाद् एव स्वार्थसंबन्धानुपपत्तेः । नाप्य् अचितिमतोर् अन्योन्यार्थत्वं दृष्टम् । न हि काष्ठकुड्ये ऽन्योन्यार्थं कुर्वाते ॥ समुपद्_इइ,2.71 ॥
ननु चितिमत्त्वे समे ऽपि भृत्यस्वामिनोर् अन्योन्यार्थत्वं दृष्टम् ॥ समुपद्_इइ,2.72 ॥
नैवम्, अग्नेर् उष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षितत्वात् । दर्शितश् च दृष्टान्तः प्रकाशयोर् इवेति । तत्रैवं सति स्वबुद्ध्यारूढम् एव सर्वम् उपलभसे ऽग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचैतन्यस्वरूपेण । यदि चैवम् आत्मनः सर्वदा निर्विशेषत्वम् अभ्युपगच्छसि । किम् इत्य् ऊचिवान्, सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर् दुःखम् अनुभवामि । किम् अयम् एव मम स्वभावः, किं वा नैमित्तिक इति च । किम् असौ व्यामोहो ऽपगतः, किं वा न ॥ समुपद्_इइ,2.73 ॥
इत्य् उक्तः शिष्य उवाच -- भगवन्, अपगतस् त्वत्प्रसादाद् व्यामोहः, किं तु मम कूटस्थतायां संशयः । कथम् । शब्दादीनां स्वतःसिद्धिर् नास्ति, अचेतनत्वात् । शब्दाद्याकारप्रत्ययोत्पत्तेस् तु तेषाम् । प्रत्ययानाम् इतरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां स्वतःसिद्ध्यसंभवात् । तस्माद् बाह्याकारनिमित्तत्वं गम्यत इति बाह्याकारवच्छब्दाद्याकारत्वसिद्धिः । तथा प्रत्ययानाम् अप्य् अहंप्रत्ययालम्बनवस्तुभेदानां संहतत्वाद् अचैतन्योपपत्तेः स्वार्थत्वासंभवात् स्वरूपव्यतिरिक्तग्राहकग्राह्यत्वेन सिद्धिः शब्दादिवद् एव । असंहतत्वे सति चैतन्यात्मकत्वात् स्वार्थो ऽप्य् अहं प्रत्ययानां नीलपीताद्याकाराणाम् उपलब्धेति विक्रियावान् एव, कूटस्थ इति संशयः ॥ समुपद्_इइ,2.74 ॥
तं गुरुर् उवाच -- न युक्तस् तव संशयः । यतस् तेषां प्रत्ययानां नियमेनाशेषत उपलब्धेर् एवापरिणामित्वात् कूटस्थत्वसिद्धौ निश्चयहेतुम् एवाशेषचित्तप्रचारोपलब्धिं संशयहेतुम् आत्थ । यदि हि तव परिणामित्वं स्यात्, अशेषस्वविषयचित्तप्रचारोपलब्धिर् न स्यात्, चित्तस्येव स्वविषये यथा चेन्द्रियाणां स्वविषयेषु । न च तथात्मनस् तव स्वविषयैकदेशोपलब्धिः । अतः कूटस्थतैव तवेति ॥ समुपद्_इइ,2.75 ॥
तत्राह -- उपलब्धिर् नाम धात्वर्थो विक्रियैव, उपलब्धुः कूटस्थ्[आत्म्]अता चेति विरुद्धम् ॥ समुपद्_इइ,2.76 ॥
न । धात्वर्थविक्रियायाम् उपलब्ध्युपचारात् । यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मक आत्मन उपलब्ध्याभासफलावसान इत्य् उपलब्धिशब्देनोपचर्यते । यथा छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थत्वेनोपचर्यते, तद्वत् ॥ समुपद्_इइ,2.77 ॥
इत्य् उक्तः शिष्य आह -- ननु भगवन्, मम कूटस्थत्वप्रतिपादनं प्रत्य् असमर्थो दृष्टान्तः । कथम् । छिदिश् छेद्यविक्रियावसानोपचर्यते यथा धात्वर्थत्वेन, तथोपलब्धिशब्दोपचरितो ऽपि धात्वर्थो बौद्धप्रत्यय आत्मन उपलब्धिविक्रियावसानश् चेन् नात्मनः कूटस्थतां प्रतिपादयितुं समर्थः ॥ समुपद्_इइ,2.78 ॥
गुरुर् उवाच -- सत्यम् एवं स्यात्, यद्य् उपलब्ध्युपलब्ध्रोर् विशेषः । नित्योपलब्धिमात्र एव ह्य् उपलब्धा । न तु तार्किकसमय इवान्योपलब्धिर् अन्य च उपलब्धा च ॥ समुपद्_इइ,2.79 ॥
ननूपलब्धिफलावसानो धात्वर्थः कथम् इति ॥ समुपद्_इइ,2.80 ॥
उच्यते -- शृणु, उपलब्ध्याभासफलावसान इत्य् उक्तम्, किं न श्रुतं त्वया । न त्व् आत्मनो विक्रियोत्पादनावसान इति मयोक्तम् ॥ समुपद्_इइ,2.81 ॥
शिष्य आह -- कथं तर्हि कूटस्थे मय्य् अशेषस्वविषयचित्तप्रचारोपलब्धृत्वम् इत्य् आत्थ ॥ समुपद्_इइ,2.82 ॥
तं गुरुर् उवाच -- सत्यम् एवावोचम्, तेनैव कूटस्थताम् अब्रुवं तव ॥ समुपद्_इइ,2.83 ॥
यद्य् एवं भगवन्, कूटस्थनित्योपलब्धिस्वरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु मत्स्वरूपोपलब्ध्याभासफलावसानवत्सूत्पद्यामनेषु, कस् त्व् अपराधो मम ॥ समुपद्_इइ,2.84 ॥
सत्यम्, नास्त्य् अपराधः, किं त्व् अविद्यामात्रस् तु अपराध इति प्राग् एवावोचम् ॥ समुपद्_इइ,2.85 ॥
यदि भगवन्, सुषुप्त इव मम विक्रिया नास्ति, कथं स्वप्नजागरिते ॥ समुपद्_इइ,2.86 ॥
तं गुरुर् उवाच -- किं त्व् अनुभूयेते त्वया स[न्]ततम् ॥ समुपद्_इइ,2.87 ॥
बाढम् अनुभवामि, किं तु विच्छिद्य विच्छिद्य न तु सन्ततम् ॥ समुपद्_इइ,2.88 ॥
[तं] गुरुर् उवाच -- आगन्तुके त्व् एते न तवात्मभूते । यदि तवात्मभूते चैतन्यस्वरूपवत् स्वतःसिद्धे सन्तते एव स्याताम् । किं च स्वप्नजागरिते न तवात्मभूते, व्यभिचारित्वात्, वस्त्रादिवत् । न हि यस्य यत् स्वरूपं तत् तद्व्यभिचारि दृष्टम् । स्वप्नजागरिते तु चैतन्यमात्रत्वाद् व्यभिचरतः । सुषुप्ते चेत् स्वरूपं व्यभिचरेत्, तन् नष्टं नास्तीति वा बाध्यम् एव स्यात्, आगन्तुकानाम् अतद्धर्माणाम् उभयात्मकत्वदर्शनात्, यथा धनवस्त्रादीनां नाशो दृष्टः, स्वप्नभ्रान्तिलब्धानां त्व् अभावो दृष्टः ॥ समुपद्_इइ,2.89 ॥
नन्व् एवं भगवन्, चैतन्यस्वरूपम् अप्य् आगन्तुकं प्राप्तम्, स्वप्नजागरितयोर् इव सुषुप्ते ऽनुपलब्धेः । अचैतन्यस्वरूपो वा स्याम् अहम् ॥ समुपद्_इइ,2.90 ॥
न, पश्य, तदनुपपत्तेः । चैतन्यस्वरूपं चेद् आगन्तुकं पश्यसि, पश्य । नैतद् वर्शशतेनाप्य् उपपत्त्या कल्पयितुं शक्नुमो वयम्, अन्यो वाचैतन्यो ऽपि । [तस्य] संहतत्वात् पारार्थ्यम् अनेकत्वं नाशित्वं च न केनचिद् उपपत्त्या वारयितुं शक्यम् । अस्वार्थस्य स्वतःसिद्ध्यभावाद् इत्य् अवोचाम । चैतन्यस्वरूपस्य त्व् आत्मनः स्वतःसिद्धेर् अन्यानपेक्षत्वं न केनचिद् वारयितुं शक्यम्, अव्यभिचारात् ॥ समुपद्_इइ,2.91 ॥
ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामीति ॥ समुपद्_इइ,2.92 ॥
न । व्याहतत्वात् । कथं व्याघातः । पश्यतस् तव न पश्यामीति व्याहतं वचनम् । न हि कदाचिद् भगवन्, सुषुप्ते मया चैतन्यम् अन्यद् वा किंचिद् दृष्टम् । पश्यंस् तर्हि सुषुप्ते त्वम् । यस्माद् दृष्टम् एव प्रतिषेधसि, न दृष्टिम् । या तव दृष्टिस् तच् चैतन्यम् इति मयोक्तम् । यया त्वं विद्यमानया न किंचिद् दृष्टम् इति प्रतिषेधसि, सा दृष्टिस् तच् चैतन्यम् । तर्हि सर्वत्राव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव, न प्रमाणापेक्षम् । स्वतःसिद्धस्य हि प्रमातुर् अन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा । या त्व् अन्या नित्या परिच्छित्तिर् अपेक्ष्यते ऽन्यस्यापरिच्छित्तिरूपस्य परिच्छेदाय, सा हि नित्यैव कूटस्था स्वयंज्योतिःस्वभावा । आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा, तत्स्वभावत्वात् । यथा प्रकाशनम् उष्णत्वं वा लोहोदकादिषु परतो ऽपेक्ष्यते ऽग्न्यादित्यादिभ्यः, अतत्स्वभावत्वात्, नाग्न्यादित्यादीनां तदपेक्षा, सर्वदा तत्स्वभावत्वात् ॥ समुपद्_इइ,2.93 ॥
अनित्यत्व एव प्रमा स्यान् न नित्यत्व इति चेत् ॥ समुपद्_इइ,2.94 ॥
न । अवगतेर् नित्यत्वानित्यत्वयोर् विशेषानुपपत्तेः । न ह्य् अवगतेः प्रमात्वे ऽनित्यावगतिः प्रमा न नित्येति विशेषो ऽवगम्यते ॥ समुपद्_इइ,2.95 ॥
नित्यायां प्रमातुर् अपेक्षाभावः । अनित्यायां तु यत्नान्तरितत्वाद् अवगतिर् अपेक्ष्यत इति विशेषं स्याद् इति चेत् ॥ समुपद्_इइ,2.96 ॥
सिद्धा तर्ह्य् आत्मनः प्रमातुः स्वतःसिद्धिः, प्रनाणनिरपेक्षतयैवेति ॥ समुपद्_इइ,2.97 ॥
अभावे ऽप्य् अपेक्षाभावः, नित्यत्वाद् इति चेत् । न । अवगतेर् एवात्मनि सद्भावाद् इति परिहृतम् एतत् ॥ समुपद्_इइ,2.98 ॥
प्रमातुश् चेत् प्रमाणापेक्षासिद्धिः, कस्य प्रमित्सा स्यात् । यस्य प्रमित्सा स एव प्रमाताभ्युपगम्यते । तदीया च प्रमित्सा प्रमेयविषयैव, न प्रमातृविषया । प्रमातृविषयत्वे ऽनवस्थाप्रसङ्गात् प्रमातुस् तदिच्छायाश् च, तस्याप्य् अन्यः प्रमाता, तस्याप्य् अन्य इति । एवम् एवेच्छायाः प्रमातृविषयत्वे । प्रमातुर् आत्मनो ऽव्यवहितत्वाच् च प्रमेयत्वनुपपत्तिः । लोके हि प्रमेयं नाम प्रमातुर् इच्छास्मृतिप्रयत्नप्रमाणजन्मव्यवहितं सिद्ध्यति, नान्यथावगतिः प्रमेयविषया दृष्टा । न च प्रमातुः प्रमाता स्वस्य स्वयम् एव केनचिद् व्यवहितः कल्पयितुं शक्य इच्छादीनाम् अन्यतमेनापि । स्मृतिश् च स्मर्तव्यविषया, न स्मर्तृविषया । तथेच्छाया इष्टविषयत्वम् एव, नेच्छावद्विषयत्वम् । स्मर्त्रिच्छावद्विषयत्वे ऽपि ह्य् उभयोर् अनवस्था पूर्ववद् अपरिहार्या स्यात् ॥ समुपद्_इइ,2.99 ॥
ननु प्रमातृविषयावगत्यनुत्पत्ताव् अनवगत एव प्रमाता स्याद् इति चेत् ॥ समुपद्_इइ,2.100 ॥
न, अवगन्तुर् अवगतेर् अवगन्तव्यविषयत्वात् । अवगन्तृविषयत्वे चानवस्था पूर्ववत् स्यात् । अवगतिश् चात्मनि कूटस्थनित्यात्मज्योतिर् अन्यतो ऽनपेक्षैव सिद्धा, अग्न्यादित्याद्युष्णप्रकाशवद् इति पूर्वम् एव प्रसाधितम् । अवगतेश् चैतन्यात्मज्योतिषः स्वात्मन्य् अनित्यत्व आत्मनः स्वार्थतानुपपत्तिः, कार्यकरण[संघात]वत् संहतत्वात् पारार्थ्यं दोषवत्त्वं चावोचाम । कथम् । चैतन्यात्मज्योतिषः स्वात्मन्य् अनित्यत्वे स्मृत्यादिव्यवधानात् संहतत्वम् । ततश् च तस्य चैतन्यज्योतिषः प्राग् उत्पत्तेः प्रध्वंसाच् चोर्ध्वम् आत्मन्य् एवाभावात्, चक्षुरादीनाम् इव संहतत्वात्, पारार्थ्यं स्यात् । यदा च तद् उत्पन्नम् आत्मनि विद्यते, न तदात्मनः स्वार्थत्वम् । तद्भावाभावापेक्षा ह्य् आत्मानात्मनोः स्वार्थत्वपरार्थत्वसिद्धिः । तस्माद् आत्मनो ऽन्यनिरपेक्षम् एव नित्यचैतन्यज्योतिष्ट्वं सिद्धम् ॥ समुपद्_इइ,2.101 ॥
नन्व् एवं सति, असति प्रमातृत्वे कथं प्रमातुः प्रमातृत्वम् ॥ समुपद्_इइ,2.102 ॥
उच्यते -- प्रमाया नित्यत्वे ऽनित्यत्वे च रूपविशेषाभावात् । अवगतिर् हि प्रमा । तस्याः स्मृतीच्छादिपूर्विकाया अनित्यायः कूटस्थनित्याया वा, न [स्व]रूपविशेषो विद्यते । यथा धात्वर्थस्य तिष्ठत्यादेः फलस्य गत्यादिपूर्वकस्यानित्यस्यापूर्वस्य नित्यस्य वा, रूपविशेषो नास्तीति तुल्यो व्यपदेशो दृष्टः -- तिष्ठन्ति मनुष्याः, तिष्ठन्ति पर्वता इत्यादि । तथा नित्यावगतिस्वरूपे ऽपि प्रमातरि प्रमातृत्वव्यपदेशो न विरुध्यते, फलसामान्याद् इति ॥ समुपद्_इइ,2.103 ॥
अत्राह शिष्यः -- नित्यावगतिस्वरूपस्यात्मनो ऽविक्रियत्वात् कार्यकरणैर् असंहत्य, तक्षादीनाम् इव वास्यादिभिः, कर्तृत्वं नोपपद्यते, असंहतस्वभावस्य च कार्यकरणोपादाने ऽनवस्था प्रसज्येत । तक्षादीनां तु कार्यकरणैर् नित्यम् एव संहतत्वम् इति वास्याद्युपादाने नानवस्था स्याद् इति ॥ समुपद्_इइ,2.104 ॥
इह त्व् असंहतस्वभावस्य करणानुपादाने कर्तृत्वं नोपपद्यत इति करणम् उपादेयम्, तदुपादानम् अपि विक्रियैवेति तत्कर्तृत्वे करणान्तरम् उपादेयम्, तदुपादाने ऽप्य् अन्यद् इति प्रमातुः स्वातन्त्र्ये ऽनवस्थापरिहार्या स्यात् । न च क्रियैवात्मानं कारयति, अनिर्वर्तितायाः स्वरूपाभावात् । अथान्यद् आत्मानम् उपेत्य क्रियां कारयतीति चेत् । न । अन्यस्य स्वतःसिद्धत्वाविषयत्वाद्यनुपपत्तेः । न ह्य् आत्मनो ऽन्यद् अचेतनं वस्तु स्वप्रमाणकं दृष्टम् । शब्दादिसर्वम् एवावगतिफलावसानप्रत्ययप्रमितं सिद्धं स्यात् । अवगतिश् चेद् आत्मनो ऽन्यस्य स्यात्, सो ऽप्य् आत्मैवासंहतः स्वार्थः स्यान् न परार्थः । न च देहेन्द्रियविषयाणां स्वार्थताम् अवगन्तुं शक्नुमो ऽवगत्यवसानप्रत्ययापेक्षसिद्धिदर्शनात् ॥ समुपद्_इइ,2.105 ॥
ननु देहस्यावगतौ न कश्चित् प्रत्यक्षादिप्रत्ययान्तरम् अपेक्षते ॥ समुपद्_इइ,2.106 ॥
बाढम्, जाग्रत्य् एवं स्यात् । मृतिसुषुप्त्योस् तु देहस्यापि प्रत्यक्षादिप्रमाणापेक्षयैव सिद्धिः । तथैवेन्द्रियाणाम् । बाह्या एव हि शब्दादयो देहेन्द्रियाकारपरिणता इति प्रत्यक्षादिप्रमाणापेक्षयैव [हि] सिद्धिः । सिद्धिर् इति च प्रमाणफलम् अवगतिम् अवोचाम, सा चावगतिः कूटस्था स्वयंसिद्धात्मज्योतिःस्वरूपेति च ॥ समुपद्_इइ,2.107 ॥
अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिःस्वरूपेति च विप्रतिषिद्धम् । इत्य् उक्तवन्तम् आह -- न विप्रतिषिद्धम् । कथं तर्हि । कूटस्थनित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते, तादर्थ्यात् । प्रत्यक्षादिप्रत्ययस्यानित्यत्वे ऽनित्येव भवति । तेन प्रमाणानां फलम् इत्य् उपचर्यते ॥ समुपद्_इइ,2.108 ॥
यद्य् एवं भगवन्, कूटस्थनित्यावगतिर् आत्मज्यतिःस्वरूपैव स्वयंसिद्धा, आत्मनि प्रमाणनिरपेक्षत्वात्, ततो ऽन्यद् अचेतनं संहत्यकारित्वात् परार्थम् । येन च सुखदुःखमोहप्रत्ययावगतिरूपेण पारार्थ्यं तेनैव स्वरूपेणानात्मनो ऽस्तित्वं नान्येन रूपान्तरेण, अतो नास्तित्वम् एव परमार्थतः । यथा हि लोके रज्जुसर्पमरीच्युदकादीनां तदवगतिव्यतिरेकेणाभावो दृष्टः, एवं जाग्रत्स्वप्नद्वैतभावस्यापि तदवगतिव्यतिरेकेणाभावो युक्तः । एवम् एव, भगवन्, अवगतेर् आत्मज्योतिषो नैरन्तर्यभावात् कूटस्थनित्यता, अद्वैतभावश् च सर्वप्रत्ययभेदेष्व् अव्यभिचारात् । प्रत्यभेदास् त्व् अवगतिं व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास् तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्य् उच्यन्ते, एवं जाग्रत्य् अपि नीलपीतादिप्रत्ययभेदास् ताम् एवावगतिं व्यभिचरन्तो ऽसत्यरूपा भवितुम् अर्हन्ति । तस्याश् चावगतेर् अन्यो ऽवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयम् उपादातुं हातुं वा शक्यते, अन्यस्य चाभावात् ॥ समुपद्_इइ,2.109 ॥
तथैवेति । एषाविद्या, यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः । तस्या अविद्याया विद्या निवर्तिका । इत्येवं त्वम् अभयं प्राप्तो ऽसि । नातःपरं जाग्रत्स्वप्नदुःखम् अनुभविष्यसि, संसारदुःखान् मुक्तो ऽसीति ॥ समुपद्_इइ,2.110 ॥
ओम् इति ॥ समुपद्_इइ,2.111 ॥
इति अवगतिप्रकरणम् ॥ समुपद्_इइ,2 ॥
मुमुक्षूणाम् उपात्तपुण्यापुण्यक्षपणपराणाम् अपूर्वानुपचयार्थिनां परिसंख्यानम् इदम् उच्यते । अविद्याहेतवो दोषा वाङ्मनण्कायप्रवृत्तिहेतवः, प्रवृत्तेश् चेष्टानिष्टमिश्रफलानि कर्माण्य् उपचीयन्त इति तन्मोक्षार्थम् ॥ समुपद्_इइ,3.112 ॥
तत्र शब्दस्पर्शरूपरसगन्धानां विषयाणां श्रोत्रादिग्राह्यत्वात् स्वात्मनि परेषु वा विज्ञानाभावः, तेषाम् एव परिणतानां यथा लोष्टादीनाम् । श्रोत्रादिद्वारैश् च ज्ञायन्ते । येन च ज्ञायन्ते स ज्ञातृत्वाद् अतज्जातीयः । ते हि शब्दादयो ऽन्योन्यसंसर्गित्वाज् जन्मवृद्धि[वि]परिणामापक्षयनाशसंयोगवियोगाविर्भावतिरोभावविकारविकारिक्षेत्रबीजाद्यनेकधर्माणः, सामान्येन च सुखदुःखाद्यनेकधर्माणः । तद्विज्ञातृत्वाद् एव तद्विज्ञाता सर्वशब्दादिधर्मविलक्षणः ॥ समुपद्_इइ,3.113 ॥
तत्र शब्दादिभिर् उपलभ्यमानैः पीड्यमानो विद्वान् एवं परिसंचक्षीत ॥ समुपद्_इइ,3.114 ॥
शब्दस् तु ध्वनिसामान्यमात्रेण विशेषधर्मैर् वा षड्जादिभिः प्रियैः, स्तुत्यादिभिर् इष्टैः, अनिष्टैश् चासत्यबीभत्सपरिभवाक्रोशादिभिर् वचनैः, मां दृक्स्वभावम् असंसर्गिणम् अविक्रियम् अचलम् अनिधनम् अभयम् अत्यन्तसूक्ष्मम् अविषयं गोचरीकृत्य स्प्रष्टुं नैवार्हत्य् असंसर्गित्वाद् एव मम । अत एव न शब्दनिमित्ता हानिर् वृद्धिर् वा । अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वादिलक्षणः शब्दः । अविवेकिनं हि शब्दम् आत्मत्वेन गतं प्रियः शब्दो वर्धयेद् अप्रियश् च क्षपयेत्, अविवेकित्वान् न तु मम विवेकिनो वालाग्रमात्रम् अपि कर्तुम् उत्सहत इति । एवम् एव स्पर्शसामान्येन तद्विशेषैश् च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश् चाप्रियैः, प्रियैश् च कैश्चिच् छरीरसमवायिभिर् बाह्यागन्तुकनिमित्तैश् च, न मम काचिद् विक्रिया वृद्धिहानिलक्षणा अस्पर्शत्वात् क्रियते, व्योम्न इव मुष्टिघाटादिभिः । तथा रूपसामान्येन तद्विशेषैश् च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः, अरूपत्वान् न मम काचिद् धानिर् वृद्धिर् वा क्रियते । तथा रससामान्येन तद्विशेषैश् च [प्रियाप्रियैः] मधुराम्ललवणकटुतिक्तकषायैर् मूढबुद्धिभिः परिगृहीतैः, अरसात्मकस्य न मम काचिद् धानिर् वृद्धिर् वा क्रियते । तथा गन्धसामान्येन तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैः, अगन्धात्मकस्य न मम काचिद् धानिर् वृद्धिर् वा क्रियते । "अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत्" इति श्रुतेः ॥ समुपद्_इइ,3.115 ॥
किं च य एव बाह्यः शब्दादयस् ते शरीराकारेण संस्थिताः, तद्ग्राहकैश् च श्रोत्राद्याकारैर् अन्तःकरणद्वयतद्विषयाकारेण च, अन्योन्यसंसर्गित्वात् संहतत्वाच् च सर्वक्रियासु । तत्रैवं सति विदुषो मम न कश्चिच् छत्रुर् मित्रम् उदासीनो वास्ति । तत्र यदि [कश्चिन्]मिथ्याज्ञानाभिमानेन प्रियम् अप्रियं वा प्रयुयुङ्क्षेत क्रियाफललक्षणम्, तन् मृषैव प्रयुयुङ्क्षति सः । तस्याविषयत्वान् मम -- "अव्यक्तो ऽयम् अचिन्त्यो ऽयम्" इति स्मृतेः । तथा [सर्वेषां] पञ्चानाम् अपि भूतानाम् अविकार्यः, अविषयत्वात् । "अच्छेद्यो ऽयम् अदाह्यो ऽयम्" इति स्मृतेः । यापि शरीरेन्द्रियसंस्थानमात्रम् उपलक्ष्य मद्भक्तानां विपरीतानां च प्रियाप्रियादिप्रयुयुङ्क्षा, तज्जा च धर्माधर्मादिप्राप्तिः, सा तेषाम् एव, न तु मय्य् अजरे ऽमृते ऽभये, "नैनं कृताकृते तपतः", "न कर्मणा वर्धते नो कनीयान्", "सबाह्याभ्यन्तरो ह्य् अजः", "न लिप्यते लोकदुःखेन बाह्यह्" इत्यादिश्रुतिस्मृतिभ्यः । अनात्मवस्तुनश् चासत्त्वाद् इति परमो हेतुः । आत्मनश् चाद्वयत्वविषयाणि, द्वयस्यासत्त्वात्, यानि सर्वाण्य् उपनिषद्वाक्यानि, विस्तरशः समीक्षितव्यानि समीक्षितव्यानीति ॥ समुपद्_इइ,3.116 ॥
इति परिसंख्यानप्रकरणम् ॥ समुपद्_इइ,3 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादपूज्यशिष्यस्य श्रीशंकरभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसाहस्री समाप्ता
मूल पाठ: Upadeśasāhasrī · Edition: the critical edition by Sengaku Mayeda: Śaṅkara's Upadeśasāhasrī, Volume I, Introduction, text & Indices. Delhi : Motilal Banarsidass, 2006. First edition: Tokyo : The Hokuseido Press, 1973. · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0