भाषा

ENहिગુ
ग्रंथ पाठ

उपदेशसाहस्री · भाग 120

शंकर: उपदेशसाहस्री
चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् ।
यत् सर्वविषयातीतं तस्मै सर्वविदे नमः ॥ समुपद्_इ,1.1 ॥
समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः ।
ब्रह्मविद्याम् अथेदानीं वक्तुं वेदः प्रचक्रमे ॥ समुपद्_इ,1.2 ॥
कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये ।
ध्रुवे स्यातां ततो रागो द्वेषश् चैव ततः क्रियाः ॥ समुपद्_इ,1.3 ॥
धर्माधर्मौ ततो ऽज्ञस्य देहयोगस् तथा पुनः
एवं नित्यप्रवृत्तो ऽयं संसारश् चक्रवद् भृशम् ॥ समुपद्_इ,1.4 ॥
अज्ञानं तस्य मूलं स्याद् इति तद्धानम् इष्यते ।
ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् ॥ समुपद्_इ,1.5 ॥
विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः ।
नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत् ॥ समुपद्_इ,1.6 ॥
रागद्वेषक्षयाभावे कर्म दोषोद्भवं ध्रुवम् ।
तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते ॥ समुपद्_इ,1.7 ॥
ननु कर्म तथा नित्यं कर्तव्यं जीवने सति ।
विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत् ॥ समुपद्_इ,1.8 ॥
यथा विद्या तथा कर्म चोदितत्वाविशेषतः ।
प्रत्यवायस्मृतेश् चैव कार्यं कर्म मुमुक्षुभिः ॥ समुपद्_इ,1.9 ॥
ननु ध्रुवफला विद्या नान्यत् किंचिद् अपेक्षते ।
नाग्निष्टोमो यथैवान्यद् ध्रुवकार्यो ऽप्य् अपेक्षते ॥ समुपद्_इ,1.10 ॥
तथा ध्रुवफला विद्या कर्म नित्यम् अपेक्षते ।
इत्य् एवं केचिद् इच्छन्ति न कर्म प्रतिकूलतः ॥ समुपद्_इ,1.11 ॥
विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः ।
निर्विकारात्मबुद्धिश् च विद्येतीह प्रकीर्तिता ॥ समुपद्_इ,1.12 ॥
अहं कर्ता ममेदं स्याद् इति कर्म प्रवर्तते ।
वस्त्वधीना भवेद् विद्या कर्त्रधीनो भवेद् विधिः ॥ समुपद्_इ,1.13 ॥
कारकाण्य् उपमृद्नाति विद्याब्बुद्धिम् इवोषरे ।
तत्सत्यमतिम् आदाय कर्म कर्तुं व्यवस्यति ॥ समुपद्_इ,1.14 ॥
विरुद्धत्वाद् अतः शक्यं कर्म कर्तुं न विद्यया ।
सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुणा ॥ समुपद्_इ,1.15 ॥
देहाद्यैर् अविशेषेण देहिनो ग्रहणं निजम् ।
प्राणिनां तद् अविद्योत्थं तावत् कर्मविधिर् भवेत् ॥ समुपद्_इ,1.16 ॥
नेति नेतीति देहादीन् अपोह्यात्मावशेषितः ।
अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता ॥ समुपद्_इ,1.17 ॥
निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः ।
असत्य् एवाविशेषे हि प्रत्यगात्मनि केवले ॥ समुपद्_इ,1.18 ॥
न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् ।
सद् अस्मीति च विज्ञाने तस्माद् विद्यासहायिका ॥ समुपद्_इ,1.19 ॥
अत्यरेचयद् इत्य् उक्तो न्यासः श्रुत्यात एव हि ।

कर्मभ्यो मानसान्तेभ्य एतावद् इति वाजिनाम् ॥ समुपद्_इ,1.20 ॥
अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः ।
अग्निष्टोमवद् इत्य् उक्तं तत्रेदम् अभिधीयते ॥ समुपद्_इ,1.21 ॥
नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः ।
विद्या तद्विपरीतातो दृष्टान्तो विषमो भवेत् ॥ समुपद्_इ,1.22 ॥
कृष्यादिवत् फलार्थत्वाद् अन्यकर्मोपबृंहणम् ।
अग्निष्टोमस् त्व् अपेक्षेत विद्यान्यत् किम् अपेक्षते ॥ समुपद्_इ,1.23 ॥
प्रत्यवायस् तु तस्यैव यस्याहंकार इष्यते ।
अहंकारफलार्थित्वे विद्येते नात्मवेदिनः ॥ समुपद्_इ,1.24 ॥
तस्माद् अज्ञानहानाय संसारविनिवृत्तये ।
ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्व् इयम् ॥ समुपद्_इ,1.25 ॥
सदेर् उपनिपूर्वस्य क्विपि चोपनिषद् भवेत् ।
मन्दीकरणभावाच् च गर्भादेः शातनात् तथा ॥ समुपद्_इ,1.26 ॥
इति चैतन्यप्रकरणम् ॥ समुपद्_इ,1 ॥
प्रतिषेद्धुम् अशक्यत्वान् नेति नेतीति शेषितम् ।
इदं नाहम् इदं नाहम् इत्य् अद्धा प्रतिपद्यते ॥ समुपद्_इ,2,1 ॥
इदंधीर् इदमात्मोत्था वाचारम्भणगोचरा ।
निषिद्धात्मोद्भवत्वात् सा न पुनर् मानतां व्रजेत् ॥ समुपद्_इ,2.2 ॥
पूर्वबुद्धिम् अबाधित्वा नोत्तरा जायते मतिः ।
दृशिर् एकः स्वयंसिद्धः फलत्वात् स न बाध्यते ॥ समुपद्_इ,2.3 ॥
इदंवनम् अतिक्रम्य शोकमोहादिदूषितम् ।
वनाद् गान्धारको यद्वत् स्वम् आत्मानं प्रपद्यते ॥ समुपद्_इ,2.4 ॥
इति प्रतिषेधप्रकरणम् ॥ समुपद्_इ,2 ॥
ईश्वरश् चेद् अनात्मा स्यान् नासाव् अस्मीति धारयेत् ।
आत्मा चेद् ईश्वरो ऽस्मीति विद्या सान्यनिवर्तिका ॥ समुपद्_इ,3.1 ॥
आत्मनो ऽन्यस्य चेद् धर्मा अस्थूलत्वादयो मताः ।
अज्ञेयत्वे ऽस्य किं तैः स्याद् आत्मत्वे त्व् अन्यधीह्नुतिः ॥ समुपद्_इ,3.2 ॥
मिथ्याध्यासनिषेधार्थं ततो ऽस्थूलादि गृह्यताम् ।
परत्र चेन् निषेधार्थं शून्यतावर्णनं हि तत् ॥ समुपद्_इ,3.3 ॥
बुभुत्सोर् यदि चान्यत्र प्रत्यगात्मन इष्यते ।
अप्राणो ह्य् अमनाः शुभ्र इति चानर्थकं वचः ॥ समुपद्_इ,3.4 ॥
इतीश्वरप्रकरणम् ॥ समुपद्_इ,3 ॥
अहंप्रत्ययबीजं यद् अहंप्रत्ययवत्स्थितम् ।
नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति ॥ समुपद्_इ,4.1 ॥
दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते ।
तन्निरोधे कथं तत् स्यात् पृच्छामो वस् तद् उच्यताम् ॥ समुपद्_इ,4.2 ॥
देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि ।
अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानम् उद्भवेत् ॥ समुपद्_इ,4.3 ॥
आरब्धस्य फले ह्य् एते भोगो ज्ञानं च कर्मणः ।
अविरोधस् तयोर् युक्तो वैधर्म्यं चेतरस्य तु ॥ समुपद्_इ,4.4 ॥

देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम् ।
आत्मन्य् एय भवेद् यस्य स नेच्छन्न् अपि मुच्यते ॥ समुपद्_इ,4.5 ॥
[ततः सर्वम् इदं सिद्धं प्रयोगो ऽस्माभिर् ईरितः ॥ समुपद्_इ,4.5 ॥]
इत्य् अहंप्रत्ययप्रकरणम् ॥ समुपद्_इ,4 ॥
मूत्राशङ्को यथोदङ्को नाग्रहीद् अमृतं मुनिः ।
कर्मनाशभयाज् जन्तोर् आत्मज्ञानाग्रहस् तथा ॥ समुपद्_इ,5.1 ॥
बुद्धिस्थश् चलतीवात्मा ध्यायतीव च दृश्यते ।
नौगतस्य यथा वृक्षास् तद्वत् संसारविभ्रमः ॥ समुपद्_इ,5.2 ॥
नौस्थस्य प्रातिलोम्येन नगानां गमनं यथा ।
आत्मनः संसृतिस् तद्वद् ध्यायतीवेति हि श्रुतिः ॥ समुपद्_इ,5.3 ॥
चैतन्यप्रतिबिम्बेन व्याप्तो बोधो हि जायते ।
बुद्धेः शब्दादिनिर्भासस् तेन मोमुह्यते जगत् ॥ समुपद्_इ,5.4 ॥
चैतन्याभासताहमस् तादर्थ्यं च तद् अस्य यत् ।
इदमंशप्रहाणे न परः सो ऽनुभवो भवेत् ॥ समुपद्_इ,5.5 ॥
इति मूत्राशङ्कप्रकरणम् ॥ समुपद्_इ,5 ॥
छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते ।
तथा शिष्टेन सर्वेण येन येन विशेष्यते ॥ समुपद्_इ,6.1 ॥
तस्मात् त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् ।
अनात्मत्वेन तस्माज् ज्ञो मुक्तः सर्वविशेषणैः ॥ समुपद्_इ,6.2 ॥
विशेषणम् इदं सर्वं साध्वलंकरणं यथा ।
अविद्यास्तम् अतः सर्वं ज्ञात आत्मन्य् असद् भवेत् ॥ समुपद्_इ,6.3 ॥
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयम् उत्सृज्य केवलः ।
अहम् इत्य् अपि यद् ग्राह्यं व्यपेताङ्गसमं हि तत् ॥ समुपद्_इ,6.4 ॥
यावान् स्याद् इदमंशो यः स स्वतो ऽन्यो विशेषणम् ।
विशेषप्रक्षयो यत्र सिद्धो ज्ञश् चित्रगुर् यथा ॥ समुपद्_इ,6.5 ॥
इदम् अंशो ऽहम् इत्य् अत्र त्याज्यो नात्मेति पण्डितैः ।
अहं ब्रह्मेति शिष्टो ऽंशो भूतपूर्वगतेर् भवेत् ॥ समुपद्_इ,6.6 ॥
इति छित्त्वाप्रकरणम् ॥ समुपद्_इ,6 ॥
बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा ।
मया तस्मात् परं ब्रह्म सर्वज्ञश् चास्मि सर्वगः ॥ समुपद्_इ,7.1 ॥
यथात्मबुद्धिचाराणां साक्षी तद्वत् परेष्व् अपि ।
नैवापोढुं न वादातुं शक्यस् तस्मात् परो ह्य् अहम् ॥ समुपद्_इ,7.2 ॥
विकारित्वम् अशुद्धत्वं भौतिकत्वं न चात्मनः ।
अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना ॥ समुपद्_इ,7.3 ॥
मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे ।
मयि संदृश्यते सर्वम् आतपेनेव तन् मया ॥ समुपद्_इ,7.4 ॥
बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये ।
द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते ॥ समुपद्_इ,7.5 ॥
अविवेकात् पराभावं यथा बुद्धिर् अवेत् तथा ।
विवेकात् तु पराद् अन्यः स्वयं चापि न विद्यते ॥ समुपद्_इ,7.6 ॥

इति बुद्ध्यारूढप्रकरणम् ॥ समुपद्_इ,7 ॥
चितिस्वरूपं स्वत एव मे मते रसादियोगस् तव मोहकारितः ।
अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः ॥ समुपद्_इ,8.1 ॥
विमुच्य मायामयकार्यताम् इह प्रशान्तिम् आयाह्य् असदीहितात् सदा ।
अहं परं ब्रह्म सदा विमुक्तवत् तथाजम् एकं द्वयवर्जितं यतः ॥ समुपद्_इ,8.2 ॥
सदा च भूतेषु समो ऽस्मि केवलो यथा च खं सर्वगम् अक्षरं शिवम् ।
निरन्तरं निष्कलम् अक्रियं परं ततो न मे ऽस्तीह फलं तवेहितैः ॥ समुपद्_इ,8.3 ॥
अहं ममैको न तदन्यद् इष्यते तथा न कस्याप्य् अहम् अस्म्य् असङ्गतः ।
असङ्गरूपो ऽहम् अतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः ॥ समुपद्_इ,8.4 ॥
फले च हेतौ च जनो विषक्तवान् इति प्रचिन्त्याहम् अतो विमोक्षणे ।
जनस्य संवादम् इमं प्रकॢप्तवान् स्वरूपतत्त्वार्थविबोधकारणम् ॥ समुपद्_इ,8.5 ॥
संवादम् एतं यदि चिन्तयेन् नरो विमुच्यते ऽज्ञानमहाभयागमात् ।
विमुक्तकामश् च तथा जनः सदा चरत्य् अशोकः सम आत्मवित् सुखी ॥ समुपद्_इ,8.6 ॥
इति चितिस्वरूपप्रकरणम् ॥ समुपद्_इ,8 ॥
सूक्ष्मताव्यापिते ज्ञेये गन्धादेर् उत्तरोत्तरम् ।
प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः ॥ समुपद्_इ,9.1 ॥
शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः ।
अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः ॥ समुपद्_इ,9.2 ॥
वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा ।
अहम् एकः सदा सर्वश् चिन्मात्रः सर्वगो ऽद्वयः ॥ समुपद्_इ,9.3 ॥
ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः ।
कामक्रोधादयो दोषा जायेरन् मे कुतो ऽन्यतः ॥ समुपद्_इ,9.4 ॥
भूतदोषैः सदास्पृष्टं सर्वभूतस्थम् ईश्वरम् ।
नीलं व्योम यथा बालो दुष्टं मां वीक्षते जनः ॥ समुपद्_इ,9.5 ॥
मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा ।
पूर् मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः ॥ समुपद्_इ,9.6 ॥
जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवद् इष्यते ।
नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते ॥ समुपद्_इ,9.7 ॥
ज्ञातुर् ज्ञातिर् हि नित्योक्ता सुषुप्ते त्व् अन्यशून्यतः ।
जाग्रज्ज्ञातिस् त्व् अविद्यातस् तद् ग्राह्यं चासद् इष्यताम् ॥ समुपद्_इ,9.8 ॥
रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा ।
एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते ॥ समुपद्_इ,9.9 ॥
इति सूक्ष्मताप्रकरणम् ॥ समुपद्_इ,9 ॥
दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्व् अजम् एकम् अक्षरम् ।
अलेपकं सर्वगतं यद् अद्वयं तद् एव चाहं सततं विमुक्त ओम् ॥ समुपद्_इ,10.1 ॥
दृशिस् तु शुद्धो ऽहम् अविक्रियात्मको न मे ऽस्ति कश्चिद् विषयः स्वभावतः ।
पुरस् तिरश् चोर्ध्वम् अधश् च सर्वतः सुपूर्णभूमा त्व् अज आत्मनि स्थितः ॥ समुपद्_इ,10.2 ॥
अजो ऽमरश् चैव तथाजरो ऽमृतः स्वयंप्रभः सर्वगतो ऽहम् अद्वयः ।
न कारणं कार्यम् अतीव निर्मलः सदैव तृप्तश् च ततो विमुक्त ओम् ॥ समुपद्_इ,10.3 ॥
सुषुप्तजाग्रत्स्वपतश् च दर्शनं न मे ऽस्ति किंचित् स्वम् इवेह मोहनम् ।

स्वतश् च तेषां परतो ऽप्य् असत्त्वतस् तुरीय एवास्मि सदा दृग् अद्वयः ॥ समुपद्_इ,10.4 ॥
शरीरबुद्धीन्द्रियदुःखसंततिर् न मे न चाहं मम निर्विकारतः ।
असत्त्वहेतोश् च तथैव संततेर् असत्त्वम् अस्याः स्वपतो हि दृश्यवत् ॥ समुपद्_इ,10.5 ॥
इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर् न हि मे ऽद्वयत्वतः ।
न पुण्यपापे न च मोक्षबन्धने न चास्ति वर्णाश्रमताशरीरतः ॥ समुपद्_इ,10.6 ॥
अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमो ऽहम् अद्वयः ।
यथा नभः सर्वगतं न लिप्यते तथा ह्य् अहं देहगतो ऽपि सूक्ष्मतः ॥ समुपद्_इ,10.7 ॥
सदा च भूतेषु समो ऽहम् ईश्वरः क्षराक्षराभ्यां परमो ह्य् अथोत्तमः ।
परात्मतत्त्वश् च तथाद्वयो ऽपि सन् विपर्ययेणाभिवृतस् त्व् अविद्यया ॥ समुपद्_इ,10.8 ॥
अविद्यया भावनया च कर्मभिर् विविक्त आत्माव्यवधिः सुनिर्मलः ।
दृगादिशक्तिप्रचितो ऽहम् अद्वयः स्थितः स्वरूपे गगनं यथाचलम् ॥ समुपद्_इ,10.9 ॥
अहं परं ब्रह्म विनिश्चयात्मदृङ् न जायते भूय इति श्रुतेर् वचः ।
न चैव बीजे त्व् असति प्रजायते फलं न जन्मास्ति ततो ह्य् अमोहता ॥ समुपद्_इ,10.10 ॥
ममेदम् इत्थं च तवाद ईदृशं तथाहम् एवं न परो ऽपि चान्यथा ।
विमूढतैवास्य जनस्य कल्पना सदा समे ब्रह्मणि वाद्वये शिवे ॥ समुपद्_इ,10.11 ॥
यद् अद्वयं ज्ञानम् अतीव निर्मलं महात्मनां तत्र न शोकमोहता ।
तयोर् अभावे न हि कर्म जन्म वा भवेद् अयं वेदविदां विनिश्चयः ॥ समुपद्_इ,10.12 ॥
सुषुप्तवज् जाग्रति यो न पश्यति द्वयं तु पश्यन्न् अपि चाद्वयत्वतः ।
तथा च कुर्वन्न् अपि निष्क्रियश् च यः स आत्मविन् नान्य इतीह निश्चयः ॥ समुपद्_इ,10.13 ॥
इतीदम् उक्तं परमार्थदर्शनं मया हि वेदान्तविनिश्चितं परम् ।
विमुच्यते ऽस्मिन् यदि निश्चितो भवेन् न लिप्यते व्योमवद् एव कर्मभिः ॥ समुपद्_इ,10.14 ॥
इति दृशिप्रकरणम् ॥ समुपद्_इ,10 ॥
ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततो ऽन्यता ।
अज्ञानाद् इत्य् अतो ऽन्यत्वं सद् असीति निवर्त्यते ॥ समुपद्_इ,11.1 ॥
एतावद् ध्य् अमृतत्वं न किंचिद् अन्यत् सहायकम् ।
ज्ञानस्येति ब्रुवच् छास्त्रं सलिङ्गं कर्म बाधते ॥ समुपद्_इ,11.2 ॥
सर्वेषां मनसो वृत्तम् अविशेषेण पश्यतः ।
तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन ॥ समुपद्_इ,11.3 ॥
मनोवृत्तं मनश् चैव स्वप्नवज् जाग्रतीक्षितुः ।
संप्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगो ऽद्वयः ॥ समुपद्_इ,11.4 ॥
स्वप्नः सत्यो यथाबोधाद् देहात्मत्वं तथैव च ।
प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्याद् आत्मवेदनात् ॥ समुपद्_इ,11.5 ॥
व्योमवत् सर्वभूतस्थो भूतदोषैर् विवर्जितः ।
साक्षी चेतागुणः शुद्धो ब्रह्मैवास्मीति केवलः ॥ समुपद्_इ,11.6 ॥
नामरूपक्रियाभ्यो ऽन्यो नित्यमुक्तस्वरूपवान् ।
अहम् आत्मा परं ब्रह्म चिन्मात्रो ऽहं सदाद्वयः ॥ समुपद्_इ,11.7 ॥
अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञनकर्मभ्यां नास्तिकाः स्युर् न संशयः ॥ समुपद्_इ,11.8 ॥
धर्माधर्मफलैर् योग इष्टो ऽदृष्टो यथात्मनः ।
शास्त्राद् ब्रह्मत्वम् अप्य् अस्य मोक्षो ज्ञानात् तथेष्यताम् ॥ समुपद्_इ,11.9 ॥

या माहारजनाद्यास् ता वासनाः स्वप्नदर्शिभिः ।
अनुभूयन्त एवेह ततो ऽन्यः केवलो दृशिः ॥ समुपद्_इ,11.10 ॥
कोशाद् इव विनिष्कृष्टः कार्यकारणवर्जितः ।
यथासिर् दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः ॥ समुपद्_इ,11.11 ॥
आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् ।
उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा ॥ समुपद्_इ,11.12 ॥
महाराजादयो लोका मयि यद्वत् प्रकल्पिताः ।
स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह ॥ समुपद्_इ,11.13 ॥
देहलिङ्गात्मना कार्या वासनारूपिणा क्रिया ।
नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् ॥ समुपद्_इ,11.14 ॥
न ततो ऽमृतताशास्ति कर्मणो ऽज्ञानहेतुतः ।
मोक्षस्य ज्ञानहेतुत्वान् न तदन्यद् अपेक्षते ॥ समुपद्_इ,11.15 ॥
अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम ।
विपरीतम् अतो ऽन्यद् यत् त्यजेत् तत् सक्रियं ततः ॥ समुपद्_इ,11.16 ॥
इतीक्षितृत्वप्रकरणम् ॥ समुपद्_इ,11 ॥
प्रकाशस्थं यथा देहं सालोकम् अभिमन्यते ।
द्रष्ट्राभासं तथा चित्तं द्रष्टाहम् इति मन्यते ॥ समुपद्_इ,12.1 ॥
यद् एव दृष्यते लोके तेनाभिन्नत्वम् आत्मनः ।
प्रपद्यते ततो मूढस् तेनात्मानं न विन्दति ॥ समुपद्_इ,12.2 ॥
दशमस्य नवात्मत्वप्रतिपत्तिवद् आत्मनः ।
दृश्येषु तद्वद् एवायं मूढो लोको न चान्यथा ॥ समुपद्_इ,12.3 ॥
त्वं कुरु त्वं तद् एवेति प्रत्ययाव् एककालिकौ ।
एकनीडौ कथं स्यातां विरुद्धौ न्यायतो वद ॥ समुपद्_इ,12.4 ॥
देहाभिमानिनो दुःखं नादेहस्य स्वभावतः ।
स्वापवत् तत्प्रहाणाय तत् त्वम् इत्य् उच्यते दृशेः ॥ समुपद्_इ,12.5 ॥
दृशेश् छाया यदारूढा मुखच्छायेव दर्शने ।
पश्यंस् तं प्रत्ययं योगी दृष्ट अत्मेति मन्यते ॥ समुपद्_इ,12.6 ॥
तं च मूढं च यद्य् अन्यं प्रत्ययं वेत्ति नो दृशेः ।
स एव योगिनां श्रेष्ठो नेतरः स्यान् न संशयः ॥ समुपद्_इ,12.7 ॥
विज्ञातेर् यस् तु विज्ञाता स त्वम् इत्य् उच्यते यतः ।
स स्याद् अनुभवस् तस्य ततो ऽन्यो ऽनुभवो मृषा ॥ समुपद्_इ,12.8 ॥
दृशिरूपे सदा नित्ये दर्शनादर्शने मयि ।
कथं स्यातां ततो नान्य इष्यते ऽनुभवस् ततः ॥ समुपद्_इ,12.9 ॥
यत्स्थस् तापो रवेर् देहे दृशेः स विषयो यथा ।
सत्त्वस्थस् तद्वद् एवेह दृशेः स विषयस् तथा ॥ समुपद्_इ,12.10 ॥
प्रतिषिद्धेदमंशो ज्ञः खम् इवैकरसो ऽद्वयः ।
नित्यमुक्तस् तथा शुद्धः सो ऽहं ब्रह्मास्मि केवलः ॥ समुपद्_इ,12.11 ॥
विज्ञातुर् नैव विज्ञाता परो ऽन्यः संभवत्य् अतः ।
विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा ॥ समुपद्_इ,12.12 ॥
यो वेदालुप्तदृष्टित्वम् आत्मनो ऽकर्तृतां तथा ।

ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥ समुपद्_इ,12.13 ॥
ज्ञातैवाहम् अविज्ञेयः शुद्धो मुक्तः सदेत्य् अपि ।
विवेकी प्रत्ययो बुद्धेर् दृश्यत्वान् नाशवत्त्वतः ॥ समुपद्_इ,12.14 ॥
अलुप्ता त्व् आत्मनो दृष्टिर् नोत्पाद्या कारकैर् यतः ।
दृश्यया चान्यया दृष्ट्या जन्यतास्याः प्रकल्पिता ॥ समुपद्_इ,12.15 ॥
देहात्मबुद्ध्यपेक्षत्वाद् आत्मनः कर्तृता मृषा ।
नैव किंचित् करोमीति सत्या बुद्धिः प्रमाणजा ॥ समुपद्_इ,12.16 ॥
कर्तृत्वं कारकापेक्षम् अकर्तृत्वं स्वभावतः ।
कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश्चितम् ॥ समुपद्_इ,12.17 ॥
एवं शास्त्रानुमानाभ्यां स्वरूपे ऽवगते सति ।
नियोज्यो ऽहम् इति ह्य् एषा सत्या बुद्धिः कथं भवेत् ॥ समुपद्_इ,12.18 ॥
यथा सर्वान्तरं व्योम व्योम्नो ऽप्य् अभ्यन्तरो ह्य् अहम् ।
निर्विकारो ऽचलः शुद्धो ऽजरो मुक्तः सदाद्वयः ॥ समुपद्_इ,12.19 ॥
इति प्रकाशस्थप्रकरणम् ॥ समुपद्_इ,12 ॥
अचक्षुष्ट्वान् न दृष्टिर् मे तथाश्रोत्रस्य का श्रुतिः ।
अवाक्त्वान् न तु वक्तिः स्याद् अमनस्त्वान् मतिः कुतः ॥ समुपद्_इ,13.1 ॥
अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता ।
विद्याविद्ये ततो न स्तश् चिन्मात्रज्योतिषो मम ॥ समुपद्_इ,13.2 ॥
नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः ।
अमृतस्याक्षरस्यैवम् अशरीरस्य सर्वदा ॥ समुपद्_इ,13.3 ॥
जिघत्सा वा पिपासा वा शोकमोहौ जरामृती ।
न विद्यन्ते ऽशरीरत्वाद् व्योमवद् व्यापिनो मम ॥ समुपद्_इ,13.4 ॥
अस्पर्शत्वान् न मे स्पृष्टिर् नाजिह्वत्वाद् रसज्ञता ।
नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा ॥ समुपद्_इ,13.5 ॥
या तु स्यान् मानसी वृत्तिश् चाक्षुष्का रूपरञ्जना ।
नित्यम् एवात्मनो दृष्ट्या नित्यया दृश्यते हि सा ॥ समुपद्_इ,13.6 ॥
तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः ।
स्मृती रागादिरूप च केवलान्तर् मनस्य् अपि ॥ समुपद्_इ,13.7 ॥
मानस्यस् तद्वद् अन्यस्य दृश्यन्ते स्वप्नवृत्तयः ।
द्रष्टुर् दृष्टिस् ततो नित्या शुद्धानन्ता च केवला ॥ समुपद्_इ,13.8 ॥
अनित्या साविशुद्धेति गृह्यते ऽत्राविवेकतः ।
सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया ॥ समुपद्_इ,13.9 ॥
मूढया मूढ इत्य् एवं शुद्धया शुद्ध इत्य् अपि ।
मन्यते सर्वलोको ऽयं येन संसारम् ऋच्छति ॥ समुपद्_इ,13.10 ॥
अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्य् अजम् ।
नित्यमुक्तम् इहात्मानं मुमुक्षुश् चेत् सदा स्मरेत् ॥ समुपद्_इ,13.11 ॥
अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम ।
अप्राणो ह्य् अमनाः शुभ्र इति चाथर्वणे वचः ॥ समुपद्_इ,13.12 ॥
शब्दादीनाम् अभावश् च श्रूयते मम काठके ।
अप्राणो ह्य् अमना यस्माद् अविकारी सदा ह्य् अहम् ॥ समुपद्_इ,13.13 ॥

विक्षेपो नास्ति तस्मान् मे न समाधिस् ततो मम ।
विक्षेपो वा समाधिर् वा मनसः स्याद् विकारिणः ॥ समुपद्_इ,13.14 ॥
अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम ।
अमनस्त्वाविकारित्वे विदेहव्यापिनो मम ॥ समुपद्_इ,13.15 ॥
इत्य् एतद् यावद् अज्ञानं तावत् कार्यं ममाभवत् ।
नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम ॥ समुपद्_इ,13.16 ॥
समाधिर् वासमाधिर् वा कार्यं वान्यत् कुतो भवेत् ।
मं हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम् ॥ समुपद्_इ,13.17 ॥
अहं ब्रह्मास्मि सर्वो ऽस्मि शुद्धो बुद्धो ऽसितः सदा ।
अजः सर्वग एवाहम् अजरश् चामृतो ऽक्षयः ॥ समुपद्_इ,13.18 ॥
मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते ।
कर्माध्यक्षश् च साक्षी च चेता नित्यो ऽगुणो ऽद्वयः ॥ समुपद्_इ,13.19 ॥
न सच् चाहं न चासच् च नोभयं केवलः शिवः ।
न मे संध्या न रात्रिर् वा नाहर् वा सर्वदा दृशेः ॥ समुपद्_इ,13.20 ॥
सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्मम् अद्वयम् ।
तेनाप्य् अस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् ॥ समुपद्_इ,13.21 ॥
ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत् ।
एकस्य सुषिभेदेन तथा मम विकल्पितः ॥ समुपद्_इ,13.22 ॥
भेदो ऽभेदस् तथा चैको नाना चेति विकल्पितम् ।
ज्ञेयं ज्ञाता गतिर् गन्ता मय्य् एकस्मिन् कुतो भवेत् ॥ समुपद्_इ,13.23 ॥
न मे हेयं न चादेयम् अविकारी यतो ह्य् अहम् ।
सदा मुक्तस् तथा शुद्धः सदा बुद्धो ऽगुणो ऽद्वयः ॥ समुपद्_इ,13.24 ॥
इत्य् एवं सर्वदात्मानं विद्यात् सर्वं समाहितः ।
विदित्वा मां स्वदेहस्थम् ऋषिर् मुक्तो ध्रुवो भवेत् ॥ समुपद्_इ,13.25 ॥
कृतकृत्यश् च सिद्धश् च योगी ब्राह्मण एव च ।
यदैवं वेद तत्त्वार्थम् अन्यथा ह्य् आत्महा भवेत् ॥ समुपद्_इ,13.26 ॥
वेदार्थो निश्चितो ह्य् एष समासेन मयोदितः ।
संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना ॥ समुपद्_इ,13.27 ॥
इत्य् अचक्षुष्ट्वप्रकरणम् ॥ समुपद्_इ,13 ॥
स्वप्नस्मृत्योर् घटादेर् हि रूपाभासः प्रदृश्यते ।
पुरा नूनं तदाकरा धीर् दृष्टेत्य् अनुमीयते ॥ समुपद्_इ,14.1 ॥
भिक्षाम् अटन् यथा स्वप्ने दृष्टो देहो न स स्वयम् ।
जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वाद् अन्य एव सः ॥ समुपद्_इ,14.2 ॥
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम् ॥ समुपद्_इ,14.3 ॥
व्यञ्जको वा यथालोको व्यङ्ग्यस्याकारताम् इयात् ।
सर्वार्थव्यञ्जकत्वाद् धीर् अर्थाकरा प्रदृश्यते ॥ समुपद्_इ,14.4 ॥
धिर् एवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च ।
न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः ॥ समुपद्_इ,14.5 ॥
व्यञ्जकत्वं तद् एवास्य रूपाद्याकारदृश्यता ।

द्रष्टृत्वं च दृशेस् तद्वद् व्याप्तिः स्याद् धिय उद्भवे ॥ समुपद्_इ,14.6 ॥
चिन्मात्रज्योतिषा सर्वः सर्वदेहेषु बुद्धयः ।
मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्य् अहम् ॥ समुपद्_इ,14.7 ॥
करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः ।
जाग्रत्य् एवं यतो दृष्टा द्रष्टा तस्मात् ततो ऽन्यथा ॥ समुपद्_इ,14.8 ॥
बुद्ध्यादीनाम् अनात्मत्वं हेयोपादेयरूपतः ।
हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते ॥ समुपद्_इ,14.9 ॥
सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने ।
बाह्यम् आभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते ॥ समुपद्_इ,14.10 ॥
य आत्मा नेति नेतीति परापोहेन शेषितः ।
स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम् ॥ समुपद्_इ,14.11 ॥
अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् ।
कार्यवान् स्यां कथं चाहं विमृशेद् एवम् अञ्जसा ॥ समुपद्_इ,14.12 ॥
पारगस् तु यथा नद्यास् तत्स्थः परं यियासति ।
आत्मज्ञश् चेत् तथा कार्यं कर्तुम् अन्यद् इहेच्छति ॥ समुपद्_इ,14.13 ॥
आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि ।
न मोक्षार्हः स विज्ञेयो वान्तो ऽसौ ब्रह्मणा ध्रुवम् ॥ समुपद्_इ,14.14 ॥
सादित्यं हि जगत् प्राणस् तस्मान् नाहर् निशैव वा ।
प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदो ऽद्वये ॥ समुपद्_इ,14.15 ॥
न स्मरत्य् आत्मनो ह्य् आत्मा विस्मरेद् वाप्य् अलुप्तचित् ।
मनो ऽपि स्मरतीत्य् एतज् ज्ञानम् अज्ञानहेतुजम् ॥ समुपद्_इ,14.16 ॥
ज्ञातुर् ज्ञेयः परो ह्य् आत्मा सो ऽविद्याकल्पितः स्मृतः ।
अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः ॥ समुपद्_इ,14.17 ॥
कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्य् अजम् ।
ममाहं चेति यो भावस् तस्मिन् कस्य कुतो भवेत् ॥ समुपद्_इ,14.18 ॥
आत्मा ह्य् आत्मीय इत्य् एष भावो ऽविद्याप्रकल्पितः ।
आत्मैकत्वे ह्य् असौ नास्ति बीजभावे कुतः फलम् ॥ समुपद्_इ,14.19 ॥
द्रष्टृ स्रोतृ तथा मन्तृ विज्ञातृ एव तद् अक्षरम् ।
द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहम् अक्षरम् ॥ समुपद्_इ,14.20 ॥
स्थावरं जङ्गमं चैव द्रष्टृत्वादिक्रियायुतम् ।
सर्वम् अक्षरम् एवातः सर्वस्यात्माक्षरं त्व् अहम् ॥ समुपद्_इ,14.21 ॥
अकार्यशेषम् आत्मानम् अक्रियात्मक्रियाफलम् ।
निर्ममं निरहंकारं यः पश्यति स पश्यति ॥ समुपद्_इ,14.22 ॥
ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः ।
आत्मनीति यदि ज्ञातम् आध्वं स्वस्थाः किम् ईहितैः ॥ समुपद्_इ,14.23 ॥
यो ऽहंकर्तारम् आत्मानं तथा वेत्तारम् एव यः ।
वेत्त्य् अनात्मज्ञ एवासौ यो ऽन्यथाज्ञः स आत्मवित् ॥ समुपद्_इ,14.24 ॥
यथान्यत्वे ऽपि तादात्म्यं देहादिष्व् आत्मनो मतम् ।
तथाकर्तुर् अविज्ञानात् फलकर्मात्मतात्मनः ॥ समुपद्_इ,14.25 ॥
दृष्टिः श्रुतिर् मतिर् ज्ञातिः स्वप्ने दृष्टा जनैः सदा ।

तासाम् आत्मस्वरूपत्वाद् अतः प्रत्यक्षतात्मनः ॥ समुपद्_इ,14.26 ॥
परलोकभयं यस्य नास्ति मृत्युभयं तथा ।
तस्यात्मज्ञस्य शोच्यः स्युः सब्रह्मेन्द्रा अपीश्वराः ॥ समुपद्_इ,14.27 ॥
ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः ।
तृष्णा चेत् सर्वतश् छिन्ना सर्वदैन्योद्भवाशुभा ॥ समुपद्_इ,14.28 ॥
अहम् इत्य् आत्मधीर् या च ममेत्य् आत्मीयधीर् अपि ।
अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा ॥ समुपद्_इ,14.29 ॥
बुद्ध्यादौ सत्य् उपाधौ च तथासत्य् अविशेषता ।
यस्य चेद् आत्मनो ज्ञाता तस्य कार्यं कथं भवेत् ॥ समुपद्_इ,14.30 ॥
प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसे ऽद्वये ।
उत्पन्नात्मधियो ब्रूत किम् अन्यत् कार्यम् इष्यते ॥ समुपद्_इ,14.31 ॥
आत्मानं सर्वभूतस्थम् अमित्रं चात्मनो ऽपि यः ।
पश्यन्न् इच्छत्य् असौ नूनं शीतीकर्तुं विभावसुम् ॥ समुपद्_इ,14.32 ॥
प्रज्ञाप्राणानुकार्य् आत्मा छायेवाक्षादिगोचरः ।
ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः ॥ समुपद्_इ,14.33 ॥
अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः ।
व्योमवद् व्यापिनो ह्य् अस्य कथं कार्यं भवेन् मम ॥ समुपद्_इ,14.34 ॥
असमाधिं न पश्यामि निर्विकारस्य सर्वदा ।
ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः ॥ समुपद्_इ,14.35 ॥
गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च ।
नोर्ध्वं नाधस् तिरो वापि निष्कलस्यागुणत्वतः ॥ समुपद्_इ,14.36 ॥
चिन्मात्रज्योतिषो नित्यं तमस् तस्मिन् न विद्यते ।
कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते ॥ समुपद्_इ,14.37 ॥
अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का ।
अप्राणो ह्य् अमनाः शुभ्र इति सत्यं श्रुतेर् वचः ॥ समुपद्_इ,14.38 ॥
अकालत्वाद् अदेशत्वाद् अदिक्त्वाद् अनिमित्ततः ।
आत्मनो नैव कालादेर् अपेक्षा ध्यायतः सदा ॥ समुपद्_इ,14.39 ॥
यस्मिन् देवाश् च वेदाश् च पवित्रं कृत्स्नम् एकताम् ।
व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत् ॥ समुपद्_इ,14.40 ॥
न चास्ति शब्दादिर् अनन्यवेदनः परस्परेणापि न चैव दृश्यते ।
परेण दृश्यास् तु यथा रसादयस् तथैव दृश्यत्वत एव दैहिकाः ॥ समुपद्_इ,14.41 ॥
अहं ममेत्य् एषणयत्नविक्रियाः सुखादयस् तद्वद् इह प्रदृश्यतः ।
दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत् ॥ समुपद्_इ,14.42 ॥
अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता ।
चितिस्वरूपेण समन्ततो ऽर्कवत् प्रकाश्यमानासिततात्मनो ह्य् अतः ॥ समुपद्_इ,14.43 ॥
दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्य् अवस्थितः ।
अतो न तस्माद् अपरो ऽस्ति वेदिता परो ऽपि तस्माद् अत एक ईश्वरः ॥ समुपद्_इ,14.44 ॥
शरीरबुद्ध्योर् यदि चान्यदृश्यता निरात्मवादाः सुनिराकृटा मया ।
परश् च सिद्धो ह्य् अविशुद्धिकर्मतः सुनिर्मलः सर्वगतो ऽसितो ऽद्वयः ॥ समुपद्_इ,14.45 ॥
घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः ।

अशुद्ध्यचिद्रूपविकारदोषता मतेर् यथा वारयितुं न पार्यते ॥ समुपद्_इ,14.46 ॥
यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा ।
समस्तभूतेषु सदैव तेष्व् अयं समः सदात्मा ह्य् अजरो ऽमरो ऽभयः ॥ समुपद्_इ,14.47 ॥
अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः ।
अविद्यया ह्य् आत्मनि मूढदृष्टिभिर् अपोह्य नेतीत्य् अवशेषितो दृशिः ॥ समुपद्_इ,14.48 ॥
प्रबोधरूपं मनसो ऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यते ऽर्थवत् ।
तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश् च दृश्यतः ॥ समुपद्_इ,14.49 ॥
स्वभावशुद्धे गगने घनादिके मले ऽपयाते सति चाविशेषता ।
यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ ॥ समुपद्_इ,14.50 ॥
इति स्वप्नस्मृतिप्रकरणम् ॥ समुपद्_इ,14 ॥
नान्यद् अन्यद् भवेद् यस्मान् नान्यत् किंचिद् विचिन्तयेत् ।
अन्यस्यान्यत्वभावे हि नाशस् तस्य ध्रुवो भवेत् ॥ समुपद्_इ,15.1 ॥
स्मरतो दृश्यते दृष्टं पटे चित्रम् इवार्पितम् ।
यत्र येन च तौ ज्ञेयौ सत्त्वक्षेत्रज्ञसंज्ञकौ ॥ समुपद्_इ,15.2 ॥
फलान्तं चानुभूतं यद् युक्तं कर्त्रादिकारकैः ।
स्मर्यमाणं हि कर्मस्थं पूर्वं कर्मैव तत् ततः ॥ समुपद्_इ,15.3 ॥
द्रष्टुश् चान्यद् भवेद् दृश्यं दृश्यत्वाद् घटवत् सदा ।
दृश्याद् द्रष्टासजातीयो न धीवत् साक्षितान्यथा ॥ समुपद्_इ,15.4 ॥
स्वात्मबुद्धिम् अपेक्ष्यासौ विधीनां स्यात् प्रयोजकः ।
जात्यादिः शववत् तेन तद्वन् नानात्मतान्यथा ॥ समुपद्_इ,15.5 ॥
न प्रियाप्रिय इत्य् उक्तेर् नादेहत्वं क्रियाफलम् ।
देहयोगः क्रियाहेतुस् तस्माद् विद्वान् क्रियास् त्यजेत् ॥ समुपद्_इ,15.6 ॥
कर्मस्व् आत्मा स्वतन्त्रश् चेन् निवृत्तौ च तथेष्यताम् ।
अदेहत्वे फले ऽकार्ये ज्ञाते कुर्यात् कथं क्रियाः ॥ समुपद्_इ,15.7 ॥
जात्यादिन् संपरित्यज्य निमित्तं कर्मणां बुधः ।
कर्महेतुविरुद्धं यत् स्वरूपं शास्त्रतः स्मरेत् ॥ समुपद्_इ,15.8 ॥
आत्मैकः सर्वभूतेषु तानि तस्मिंश् च खे यथा ।
पर्यगाद् व्योमवत् सर्वं शुक्रं दीप्तिमद् इष्यते ॥ समुपद्_इ,15.9 ॥
व्रणस्नाय्वोर् अभावेन स्थूलं देहं निवारयेत् ।
शुद्धापापतया लेपं लिङ्गं चाकायम् इत्य् उत ॥ समुपद्_इ,15.10 ॥
वासुदेवो यथाश्वत्थे स्वदेहे चाब्रवित् समम् ।
तद्वद् वेत्ति य आत्मानं समं स ब्रह्मवित्तमः ॥ समुपद्_इ,15.11 ॥
यथा ह्य् अन्यशरीरेषु ममाहन्ता न चेष्यते ।
अस्मिंश् चापि तथा देहे धीसाक्षित्वाविशेषतः ॥ समुपद्_इ,15.12 ॥
रूपसंस्कारतुल्याधि रागद्वेषौ भयं च यत् ।
गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धो ऽभयः सदा ॥ समुपद्_इ,15.13 ॥
यन्मनास् तन्मयो ऽन्यत्वे नात्मत्वाप्तौ क्रियात्मनि ।
आत्मत्वे चानपेक्षत्वात् सापेक्षं हि न तत् स्वयम् ॥ समुपद्_इ,15.14 ॥
खम् इवैकरसा ज्ञप्तिर् अविभक्ताजरामला ।
चक्षुराद्युपधानात् सा विपरीता विभाव्यते ॥ समुपद्_इ,15.15 ॥

दृश्यत्वाद् अहम् इत्य् एष नात्मधर्मो घटादिवत् ।
तथान्ये प्रत्यया ज्ञेया दोषाश् चात्मामलो ह्य् अतः ॥ समुपद्_इ,15.16 ॥
सर्वप्रत्ययसाक्षित्वाद् अविकारी च सर्वगः ।
विक्रियेत यदि द्रष्टा बुद्ध्यादीवाल्पविद् भवेत् ॥ समुपद्_इ,15.17 ॥
न दृष्टिर् लुप्यते द्रष्टुश् चक्षुरादेर् यथैव तु ।
नहि द्रष्टुर् इति ह्य् उक्तं तस्माद् द्रष्टा सदैव भुक् ॥ समुपद्_इ,15.18 ॥
संघातो वास्मि भूतानां करणानां तथैव च ।
व्यस्तं वान्यतमो वास्मि को आस्मीति विचारयेत् ॥ समुपद्_इ,15.19 ॥
व्यस्तं नाहं समस्तं वा भूतम् इन्द्रियम् एव वा ।
ज्ञेयत्वात् करणत्वाच् च ज्ञातान्यो ऽस्माद् घटादिवत् ॥ समुपद्_इ,15.20 ॥
आत्माग्नेर् इन्धना बुद्धिर् अविद्याकामकर्मभिः ।
दीपिता प्रज्वलत्य् एष द्वारैः श्रोत्रादिभिः सदा ॥ समुपद्_इ,15.21 ॥
दक्षिणाक्षिप्रधानेषु यदा बुद्धिर् विचेष्टते ।
विषयैर् हविषा दीप्ता आत्माग्निः स्थूलभुक् तदा ॥ समुपद्_इ,15.22 ॥
हूयन्ते तु हवींषीति रूपादिग्रहणे स्मरन् ।
अरागद्वेष आत्माग्नौ जाग्रद्दोषैर् न लिप्यते ॥ समुपद्_इ,15.23 ॥
मानसे तु गृहे व्यक्ता अविद्याकर्मवासनाः ।
पश्यंस् तैजस आत्मोक्तः स्वयंज्योतिःप्रकाशिताः ॥ समुपद्_इ,15.24 ॥
विषया वासना वापि चोद्यन्ते नैव कर्मभिः ।
यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा ह्य् अनन्यदृक् ॥ समुपद्_इ,15.25 ॥
मनोबुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः ।
चैतन्येनैव भास्यन्ते रविणेव घटादयः ॥ समुपद्_इ,15.26 ॥
तत्रैवं सति बुद्धीर् ज्ञ आत्मभासावभासयन् ।
कर्ता तासां यदर्थास् ता मूढैर् एवाभिधीयते ॥ समुपद्_इ,15.27 ॥
सर्वज्ञो ऽप्य् अत एव स्यात् स्वेन भासावभासयन् ।
सर्वं सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः ॥ समुपद्_इ,15.28 ॥
सोपाधिश् चैवम् आत्मोक्तो निरुपाख्यो ऽनुपाधिकः ।
निष्कलो निर्गुणः शुद्धस् तं मनो वाक् च नाप्नुतः ॥ समुपद्_इ,15.29 ॥
चेतनो ऽचेतनो वापि कर्ताकर्ता गतो ऽगतः ।
बद्धो मुक्तस् तथा चैको नैकः शुद्धो ऽन्यथेति वा ॥ समुपद्_इ,15.30 ॥
अप्राप्यैव निवर्तन्ते वाचो धीभिः सहैव तु ।
निर्गुणत्वात् क्रियाभावाद् विशेषाणां ह्य् अभावतः ॥ समुपद्_इ,15.31 ॥
व्यापकं सर्वतो व्योम मूर्तैः सर्वैर् वियोजितम् ।
यथा तद्वद् इहात्मानं विद्याच् छुद्धं परं पदम् ॥ समुपद्_इ,15.32 ॥
दृष्टं हित्वा स्मृतिं तस्मिन् सर्वग्रश् च तमस् त्यजेत् ।
सर्वदृग् ज्योतिषा युक्तो दिनकृच् छार्वरं यथा ॥ समुपद्_इ,15.33 ॥
रूपस्मृत्यन्धकारार्थाः प्रत्यया यस्य गोचराः ।
स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः ॥ समुपद्_इ,15.34 ॥
आत्मबुद्धिमनश्चक्षुर्विषयालोकसंगमात् ।
विचित्रो जायते बुद्धेः प्रत्ययो ऽज्ञानलक्षणः ॥ समुपद्_इ,15.35 ॥

विविच्यास्मात् स्वम् आत्मानं विद्याच् छुद्धं परं पदम् ।
द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम् ॥ समुपद्_इ,15.36 ॥
समस्तं सर्वगं शान्तं विमलं व्योमवत् स्थितम् ।
निष्कलं निष्क्रियं सर्वं नित्यं द्वन्द्वैर् विवर्जितम् ॥ समुपद्_इ,15.37 ॥
सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्य् उत ।
विमृश्यैवं विजानीयाज् ज्ञातं ब्रह्म न वेति वा ॥ समुपद्_इ,15.38 ॥
अदृष्टं द्रष्ट्र् अविज्ञातं दभ्रम् इत्यादिशासनात् ।
नैव ज्ञेयं मयान्यैर् वा परं ब्रह्म कथंचन ॥ समुपद्_इ,15.39 ॥
स्वरूपाव्यवधानाभ्यां ज्ञानालोकस्वभावतः ।
अन्यज्ञानानपेक्षत्वाज् ज्ञातं चैव सदा मया ॥ समुपद्_इ,15.40 ॥
नान्येन ज्योतिषा कार्यं रवेर् आत्मप्रकाशने ।
स्वबोधान् नान्यबोधेच्छा बोधस्यात्मप्रकाशने ॥ समुपद्_इ,15.41 ॥
न तस्यैवान्यतो ऽपेक्षा स्वरूपं यस्य यद् भवेत् ।
प्रकाशान्तरदृश्यो न प्रकाशो ह्य् अस्ति कश्चन ॥ समुपद्_इ,15.42 ॥
व्यक्तिः स्याद् अप्रकाशस्य प्रकाशात्मसमागमात् ।
प्रकाशस् त्व् अर्ककार्यः स्याद् इति मिथ्य वचो ह्य् अतः ॥ समुपद्_इ,15.43 ॥
यतो ऽभूत्वा भवेद् यच् च तस्य तत् कार्यम् इष्यते ।
स्वरूपत्वाद् अभूत्वा न प्रकाशो जायते रवेः ॥ समुपद्_इ,15.44 ॥
सत्तामात्रे प्रकाशस्य कर्तादित्यादिर् इष्यते ।
घटादिव्यक्तितो यद्वत् तद्वद् बोधात्मनीष्यताम् ॥ समुपद्_इ,15.45 ॥
बिलात् सर्पस्य निर्याणे सूर्यो यद्वत् प्रकाशकः ।
प्रयत्नेन विना तद्वज् ज्ञातात्मा बोधरूपतः ॥ समुपद्_इ,15.46 ॥
दग्धैवम् उष्णः सत्तायां तद्वद् बोधात्मनीष्यताम् ।
सत्य् एव यद् उपाधौ तु ज्ञाते सर्प इवोत्थिते ॥ समुपद्_इ,15.47 ॥
ज्ञातायत्नो ऽपि तद्वज् ज्ञः कर्ता भ्रामकवद् भवेत् ।
स्वरूपेण स्वयं नात्मा ज्ञेयो ऽज्ञेयो ऽथवा ततः ॥ समुपद्_इ,15.48 ॥
विदिताविदिताभ्यां तद् अन्यद् एवेति शासनात् ।
बन्धमोक्षादयो भावास् तद्वद् आत्मनि कल्पिताः ॥ समुपद्_इ,15.49 ॥
नाहोरात्रे यथा सूर्ये प्रभारूपाविशेषतः ।
बोधरूपाविशेषान् न बोधाबोधौ तथात्मनि ॥ समुपद्_इ,15.50 ॥
यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम् ।
यथोक्तेन विधानेन स सत्यं नैव जायते ॥ समुपद्_इ,15.51 ॥
जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात् ।
इत उद्धर्तुम् आत्मानं ज्ञानाद् अन्येन केनचित् ॥ समुपद्_इ,15.52 ॥
"भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट" इति श्रुतेः ॥ समुपद्_इ,15.53 ॥
ममाहम् इत्य् एतद् अपोह्य सर्वतो विमुक्तदेहं पदम् अम्बरोपमम् ।
सुदृष्टशास्त्रानुमितिभ्य ईरितं विमुच्यते ऽस्मिन् यदि निश्चितो नरः ॥ समुपद्_इ,15.54 ॥
इति नान्यदन्यत्प्रकरणम् ॥ समुपद्_इ,15 ॥
पार्थिवः कठिनो धातुर् द्रवो देहे स्मृतो ऽम्मयः ।

पक्तिचेष्टावकाशाः स्युर् वह्निवाय्वम्बरोद्भवाः ॥ समुपद्_इ,16.1 ॥
घ्राणादीनि तदर्थाश् च पृथिव्यादिगुणाः क्रमात् ।
रूपालोकवद् इष्टं हि सजातीयार्थम् इन्द्रियम् ॥ समुपद्_इ,16.2 ॥
बुद्ध्यर्थान्य् आहुर् एतानि वाक्पाण्यादीनि कर्मणे ।
तद्विकल्पार्थम् अन्तस्थं मन एकादशं भवेत् ॥ समुपद्_इ,16.3 ॥
निश्चयार्था भवेद् बुद्धिस् तां सर्वार्थानुभाविनीम् ।
ज्ञातात्मोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा ॥ समुपद्_इ,16.4 ॥
व्यञ्जकस् तु यथालोको व्यङ्ग्यस्याकारतां गतः ।
व्यतिकीर्णो ऽप्य् असंकीर्णस् तद्वज् ज्ञः प्रत्ययैः सदा ॥ समुपद्_इ,16.5 ॥
स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत् ।
शब्दाद्याकारबुद्धीर् ज्ञः प्राप्तास् तद्वत् प्रपश्यति ॥ समुपद्_इ,16.6 ॥
शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् ।
नित्यात्मज्योतिषा दीप्तां विशिंषन्ति सुखादयः ॥ समुपद्_इ,16.7 ॥
शिरोदुःखादिनात्मानं दुःख्य् अस्मीति हि पश्यति ।
द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वच् च न दुःख्य् असौ ॥ समुपद्_इ,16.8 ॥
दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा ।
संहते ऽङ्गादिभिर् द्रष्टा दुःखी दुःखस्य नैव सः ॥ समुपद्_इ,16.9 ॥
चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकम् एव तत् ।
संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत् ॥ समुपद्_इ,16.10 ॥
ज्ञानयत्नाद्यनेकत्वम् आत्मनो ऽपि मतं यदि ।
नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता ॥ समुपद्_इ,16.11 ॥
ज्योतिषो द्योतकत्वे ऽपि यद्वन् नात्मप्रकाशनम् ।
भेदे ऽप्य् एवं समत्वाज् ज्ञ आत्मानं नैव पश्यति ॥ समुपद्_इ,16.12 ॥
यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम् ।
न ह्य् आत्मानं दहत्य् अग्निस् तथा नैव प्रकाशयेत् ॥ समुपद्_इ,16.13 ॥
एतेनैवात्मनात्मनो ग्रहो बुद्धेर् निराकृतः ।
अंशो ऽप्य् एवं समत्वाद् धि निर्भेदत्वान् न युज्यते ॥ समुपद्_इ,16.14 ॥
शून्यतापि न युक्तैवं बुद्धेर् अन्येन दृश्यता ।
उक्तातो घटवत् तस्याः प्राक् सिद्धेश् च विकल्पतः ॥ समुपद्_इ,16.15 ॥
अविकल्पं तद् अस्त्य् एव यत् पूर्वं स्याद् विकल्पतः ।
विकल्पोत्पत्तिहेतुत्वाद् यद्य् अस्यैव च कारणम् ॥ समुपद्_इ,16.16 ॥
अज्ञानं कल्पनामूलं संसारस्य नियामकम् ।
हित्वात्मानं परं ब्रह्म विद्यान् मुक्तं सदाभयम् ॥ समुपद्_इ,16.17 ॥
जाग्रत्स्वप्नौ तयोर् बीजं सुषुप्ताख्यं तमोमयम् ।
अन्योन्यस्मिन्न् असत्त्वाच् च नास्तीत्य् एतत् त्रयं त्यजेत् ॥ समुपद्_इ,16.18 ॥
आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात्
भ्रान्तिः स्याद् आत्मकर्मेति क्रियाणां संनिपाततः ॥ समुपद्_इ,16.19 ॥
निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः ।
प्रकाशत्वान् मनस्य् एवं बुद्धौ न स्तः प्रकाशतः ॥ समुपद्_इ,16.20 ॥
संकल्पाध्यवसायौ तु मनोबुद्ध्योर् यथाक्रमात् ।

नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम् ॥ समुपद्_इ,16.21 ॥
स्थानावच्छेददृष्टिः स्याद् इन्द्रियाणां तदात्मताम् ।
गता धीस् तं हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते ॥ समुपद्_इ,16.22 ॥
क्षणिकं हि तद् अत्यर्थं धर्ममात्रं निरन्तरम् ।
सादृश्याद् दीपवत् तद्धीस् तच्छान्तिः पुरुषार्थता ॥ समुपद्_इ,16.23 ॥
स्वाकारान्यावभासं च येषां रूपादि विद्यते ।
येषां नास्ति ततश् चान्यत् पूर्वासंगतिर् उच्यते ॥ समुपद्_इ,16.24 ॥
बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् ।
क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धिः ॥ समुपद्_इ,16.25 ॥
आधारस्याप्य् असत्त्वाच् च तुल्यतानिर्निमित्ततः ।
स्थाने वा क्षणिकत्वस्य हानं स्यान् न तद् इष्यते ॥ समुपद्_इ,16.26 ॥
शान्तेश् चायत्नसिद्धत्वात् साधनोक्तिर् अनर्थिका ।
एकैकस्मिन् समाप्तत्वाच् छान्तेर् अन्यानपेक्षता ॥ समुपद्_इ,16.27 ॥
अपेक्षा यदि भिन्ने ऽपि परसंतान इष्यताम् ।
सर्वार्थे क्षणिके कस्मिंस् तथाप्य् अन्यानपेक्षता ॥ समुपद्_इ,16.28 ॥
तुल्यकालसमुद्भूताव् इतरेतरयोगिनौ ।
योगाच् च संस्कृतो यस् तु सो ऽन्यं हीक्षितुम् अर्हति ॥ समुपद्_इ,16.29 ॥
मृषाध्यासस् तु यत्र स्यात् तन्नाशस् तत्र नो मतः ।
सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद ॥ समुपद्_इ,16.30 ॥
अस्ति तावत् स्वयं नाम ज्ञानं वात्मान्यद् एव वा ।
भावाभावज्ञतस् तस्य नाभावस् त्व् अधिगम्यते ॥ समुपद्_इ,16.31 ॥
येनाधिगम्यते ऽभावस् तत् सत् स्यात् तन् न चेद् भवेत् ।
भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते ॥ समुपद्_इ,16.32 ॥
सद् असत् सदसच् चेति विकल्पात् प्राग् यद् इष्यते ।
तद् अद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात् ॥ समुपद्_इ,16.33 ॥
विकल्पोद्भवतो ऽसत्त्वं स्वप्नदृश्यवद् इष्यताम् ।
द्वैतस्य प्राग् असत्त्वाच् च सदसत्त्वादिकल्पनात् ॥ समुपद्_इ,16.34 ॥
वाचारम्भणशास्त्राच् च विकाराणां ह्य् अभावता ।
मृत्योः स मृत्युम् इत्यादेर् मम मायेति च स्मृतेः ॥ समुपद्_इ,16.35 ॥
विशुद्धिश् चात एवास्य विकल्पाच् च विलक्षणात् ।
उपादेयो न हेयो ऽत आत्मा नान्यैर् अकल्पितः ॥ समुपद्_इ,16.36 ॥
अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः ।
नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वद् आत्मनि ॥ समुपद्_इ,16.37 ॥
तथाविक्रियरूपत्वान् नावस्थान्तरम् आत्मनः ।
अवस्थान्तरवत्त्वे हि नाशो ऽस्य स्यान् न संशयः ॥ समुपद्_इ,16.38 ॥
मोक्षो ऽवस्थान्तरं यस्य कृतकः स चलो ह्य् अतः ।
न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥ समुपद्_इ,16.39 ॥
संयोगस्याप्य् अनित्यत्वाद् वियोगस्य तथैव च ।
गमनागमने चैव स्वरूपं तु न हीयते ॥ समुपद्_इ,16.40 ॥
स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे ।

अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च ॥ समुपद्_इ,16.41 ॥
स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्य् अनन्यतः ।
गृहीतुं वा ततो नित्यो ऽविषयत्वापृथक्त्वतः ॥ समुपद्_इ,16.42 ॥
आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः ।
त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित् ॥ समुपद्_इ,16.43 ॥
आत्मलाभः परो लाभ इति शास्त्रोपपत्तयः ।
अलाभो ऽन्यात्मलाभस् तु त्यजेत् तस्माद् अनात्मताम् ॥ समुपद्_इ,16.44 ॥
गुणानां समभावस्य भ्रंशो न ह्य् उपपद्यते ।
अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुर् इष्यते ॥ समुपद्_इ,16.45 ॥
इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा ।
नियमो न प्रवृत्तीनां गुणेष्व् आत्मनि वा भवेत् ॥ समुपद्_इ,16.46 ॥
विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते ।
अर्थार्थिनोश् च संबन्धो नार्थी ज्ञो नेतरो ऽपि वा ॥ समुपद्_इ,16.47 ॥
प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः ।
न युक्तं सांख्यशास्त्रे ऽपि विकारे ऽपि न युज्यते ॥ समुपद्_इ,16.48 ॥
संबन्धानुपपत्तेश् च प्रकृतेः पुरुषस्य च ।
मिथो ऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः ॥ समुपद्_इ,16.49 ॥
क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् ।
निर्निमित्ते त्व् अनिर्मोक्षः प्रधानस्य प्रसज्यते ॥ समुपद्_इ,16.50 ॥
न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः ।
एकनीडत्वतो ऽग्राह्याः स्युः कणादादिवर्त्मनाम् ॥ समुपद्_इ,16.51 ॥
युगपच् चासमेतत्वात् सुखविज्ञानयोर् अपि ।
मनोयोगैकहेतुत्वाद् अग्राह्यत्वं सुखस्य च ॥ समुपद्_इ,16.52 ॥
तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते ।
गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात् ॥ समुपद्_इ,16.53 ॥
ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेस् तथा ।
सुखं ज्ञातं मयेत्य् एवं तवाज्ञानात्मकत्वतः ॥ समुपद्_इ,16.54 ॥
सुखादेर् नात्मधर्मत्वम् आत्मनस् ते ऽविकारतः ।
भेदाद् अन्यस्य कस्मान् न मनसो वाविशेषतः ॥ समुपद्_इ,16.55 ॥
स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत् ।
युगपद् वापि चोत्पत्तिर् अभ्युपेते ऽन्त इष्यते ॥ समुपद्_इ,16.56 ॥
अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते ।
नाशुद्धिश् चाप्य् असङ्गत्वाद् असङ्गो हीति च श्रुतेः ॥ समुपद्_इ,16.57 ॥
सूक्ष्मैकागोचरेभ्यश् च न लिप्यत इति श्रुतेः ।
एवं तर्हि न मोक्षो ऽस्ति बन्धाभावात् कथंचन ॥ समुपद्_इ,16.58 ॥
शास्त्रानर्थक्यम् एवं स्यान् न बुद्धेर् भ्रान्तिर् इष्यते ।
बन्धो मोक्षश् च तन्नाशः स यथोक्तो न चान्यथा ॥ समुपद्_इ,16.59 ॥
बोधात्मज्योतिषा दीप्ता बोधम् आत्मनि मन्यते ।
बुद्धिर् नान्यो ऽस्ति बोद्धेति सेयं भ्रान्तिर् हि धीगता ॥ समुपद्_इ,16.60 ॥
बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते ।

अविवेको ऽप्य् अनाद्यो ऽयं संसारो नान्य इष्यते ॥ समुपद्_इ,16.61 ॥
मोक्षस् तन्नाश एव स्यान् नान्यथानुपपत्तितः ।
येषां वस्त्वन्तरापत्तिर् मोक्षो नाशस् तु तैर् मतः ॥ समुपद्_इ,16.62 ॥
अवस्थान्तरम् अप्य् एवम् अविकारान् न युज्यते ।
विकारे ऽवयवित्वं स्यात् ततो नाशो घटादिवत् ॥ समुपद्_इ,16.63 ॥
तस्माद् भ्रान्तिर् अतो ऽन्या हि बन्धमोक्षादिकल्पनाः ।
सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः ॥ समुपद्_इ,16.64 ॥
शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन ।
शक्यन्ते शतशो वक्तुं दोषास् तासां सहस्रशः ॥ समुपद्_इ,16.65 ॥
अपि निन्दोपपत्तेश् च यान्य् अतो ऽन्यानि चेत्य् अतः ।
त्यक्त्वातो ह्य् अन्यशास्त्रोक्तीर् मतिं कुर्याद् दृढां बुधः ॥ समुपद्_इ,16.66 ॥
श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वम् अनार्जवम् ।
वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा ॥ समुपद्_इ,16.67 ॥
इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश् च तथा हि युक्तितः ।
व्यपेतशङ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युर् इत्य् उत ॥ समुपद्_इ,16.63 ॥
स्वसाक्षिकं ज्ञानम् अतीव निर्मलं विकल्पनाभ्यो विपरीतम् अद्वयम् ।
अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिम् एति शाश्वतीम् ॥ समुपद्_इ,16.69 ॥
इदं रहस्यं परमं परायणं व्यपेतदोषैर् अभिमानवर्जितैः ।
समीक्ष्य कार्या मतिर् आर्जवे सदा न तत्त्वदृक् स्वान्यमतिर् हि कश्चन ॥ समुपद्_इ,16.70 ॥
अनेकजन्मान्तरसंचितैर् नरो विमुच्यते ऽज्ञाननिमित्तपातकैः ।
इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः ॥ समुपद्_इ,16.71 ॥
प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा प्रदेयम् एतत् सततं मुमुक्षवे ॥ समुपद्_इ,16.72 ॥
परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थम् ईक्ष्य च ।
इदं हि विज्ञानम् अतीव निर्मलं संप्राप्य मुक्तो ऽथ भवेच् च सर्वतः ॥ समुपद्_इ,16.73 ॥
न हीह लाभो ऽभ्यधिको ऽस्ति कश्चन स्वरूपलाभात् स इत हि नान्यतः ।
न देयम् ऐन्द्राद् अपि राज्यतो ऽधिकं स्वरूपलाभं त्व् अपरीक्ष्य यत्नतः ॥ समुपद्_इ,16.74 ॥
इति पार्थिवप्रकरणम् ॥ समुपद्_इ,16 ॥
आत्मा ज्ञेयः परो ह्य् आत्मा यस्माद् अन्यन् न विद्यते ।
सर्वज्ञः सर्वदृक् शुद्धस् तस्मै ज्ञेयात्मने नमः ॥ समुपद्_इ,17.1 ॥
पदवाक्यप्रमाणज्ञैर् दीपभूतैः प्रकाशितम् ।
ब्रह्म वेदरहस्यं यैस् तान् नित्यं प्रणतो ऽस्म्य् अहम् ॥ समुपद्_इ,17.2 ॥
यद्वाक्सूर्यांशुसंपातप्रणष्टध्वान्तकल्मषः ।
प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥ समुपद्_इ,17.3 ॥
आत्मलाभात् परो नान्यो लाभः कश्चन विद्यते ।
यदर्था वेदवादाश् च स्मार्ताश् चापि तु याः क्रियाः ॥ समुपद्_इ,4 ॥
आत्मार्थो ऽपि हि यो लाभः सुखायेष्टो विपर्ययः ।
आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः ॥ समुपद्_इ,17.5 ॥
स्वयं लब्धस्वभावत्वाल् लाभस् तस्य न चान्यतः ।
अन्यापेक्षस् तु यो लाभः सो ऽन्यदृष्टिसमुद्भवः ॥ समुपद्_इ,17.6 ॥

अन्यदृष्टिस् त्व् अविद्या स्यात् तन्नाशो मोक्ष उच्यते ।
ज्ञानेनैव तु सो ऽपि स्याद् विरोधित्वान् न कर्मणा ॥ समुपद्_इ,17.7 ॥
कर्मकार्यस् त्व् अनित्यः स्याद् अविद्याकामकारणः ।
प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः ॥ समुपद्_इ,17.8 ॥
ज्ञानैकार्थपरत्वात् तं वाक्यम् एकं ततो विदुः ।
एकत्वं ह्य् आत्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः ॥ समुपद्_इ,17.9 ॥
वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्यो ऽपि तच्छ्रुतेः ।
त्रयं त्व् एतत् ततः प्रोक्तं रूपं नाम च कर्म च ॥ समुपद्_इ,17.10 ॥
असद् एतत् त्रयं तस्माद् अन्योन्येन हि कल्पितम् ।
कृतो वर्णो यथा शब्दाच् छ्रुतो ऽन्यत्र धिया बहिः ॥ समुपद्_इ,17.11 ॥
दृष्टं चापि यथा रूपं बुद्धेः शब्दाय कल्पते ।
एवम् एतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम् ॥ समुपद्_इ,17.12 ॥
असद् एतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम् ।
वेदश् चापि स एवाद्यो वेद्यश् चान्यस् तु कल्पितः ॥ समुपद्_इ,17.13 ॥
येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया ।
येन पश्यति तच् चक्षुः शृणोति श्रोत्रम् उच्यते ॥ समुपद्_इ,17.14 ॥
येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च ।
रसनस्पर्शने चैव मनश् चान्यत् तथेन्द्रियम् ॥ समुपद्_इ,17.15 ॥
कल्प्योपाधिभिर् एवैतद् भिन्नं ज्ञानम् अनेकधा ।
आधिभेदाद् यथा भेदो मणेर् एकस्य जायते ॥ समुपद्_इ,17.16 ॥
जाग्रतश् च तथा भेदो ज्ञानस्यास्य विकल्पितः ।
बुद्धिस्थं व्याकरोत्य् अर्थं भ्रान्त्या तृष्णोद्भवक्रियः ॥ समुपद्_इ,17.17 ॥
स्वप्ने यद्वत् प्रबोधे च बहिश् चान्तस् तथैव च ।
आलेख्याध्ययने यद्वत् तद् अन्योन्यधियोद्भवम् ॥ समुपद्_इ,17.18 ॥
यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः ।
यत्कामस् तत्क्रतुर् भूत्वा कृतं यत् तत् प्रपद्यते ॥ समुपद्_इ,17.19 ॥
अविद्याप्रभवं सर्वम् असत् तस्माद् इदं जगत् ।
तद्वता दृश्यते यस्मात् सुषुप्ते न च गृह्यते ॥ समुपद्_इ,17.20 ॥
विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ हि नः ।
तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥ समुपद्_इ,17.21 ॥
चित्ते ह्य् आदर्शवद् यस्माच् छुद्धे विद्या प्रकाशते ।
यमैर् नित्यैश् च यज्ञैश् च तपोभिस् तस्य शोधनम् ॥ समुपद्_इ,17.22 ॥
शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थम् उत्तमम् ।
मनआदिसमाधानं तत्तद्देहविशोषणम् ॥ समुपद्_इ,17.23 ॥
दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तद् एव तु ।
सुषुप्तं तदभवं च स्वम् आत्मानं परं पदम् ॥ समुपद्_इ,17.24 ॥
सुषुप्ताख्यं तमो ऽज्ञानं बीजं स्वप्नप्रबोधयोः ।
स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम् ॥ समुपद्_इ,17.25 ॥
तद् एवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् ।
मायाव्य् आत्माविकारो ऽपि बहुधैको जलार्कवत् ॥ समुपद्_इ,17.26 ॥

बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस् तथा ।
स्वप्नजाग्रच्छरीरेषु तद्वच् चात्मा जलेन्दुवत् ॥ समुपद्_इ,17.27 ॥
मायाहस्तिनम् आरुह्य मायाव्य् एको यथा व्रजेत् ।
आगच्छंस् तद्वद् एवात्मा प्राणस्वप्नादिगो ऽचलः ॥ समुपद्_इ,17.28 ॥
न हस्ती न तदारूढो मायाव्य् अन्यो यथा स्थितः ।
न प्राणादि न तद्द्रष्टा तथा ज्ञो ऽन्यः सदा दृशिः ॥ समुपद्_इ,17.29 ॥
अबद्धचक्षुषो नास्ति माया मायाविनो ऽपि वा ।
बद्धाक्षस्यैव सा मायामायाव्य् एव ततो भवेत् ॥ समुपद्_इ,17.30 ॥
साक्षाद् एव स विज्ञेयः साक्षाद् आत्मेति च श्रुतेः ।
भिद्यते हृदयग्रन्थिर् न चेद् इत्यादितः श्रुतेः ॥ समुपद्_इ,17.31 ॥
अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर् भवेत् ।
सुखादिभ्यस् तथान्यत्वाद् बुद्ध्या वापि कथं भवेत् ॥ समुपद्_इ,17.32 ॥
अदृश्यो ऽपि यथा राहुश् चन्द्रे बिम्बं यथाम्भसि ।
सर्वगो ऽपि तथैवात्मा बुद्धाव् एव स गृह्यते ॥ समुपद्_इ,17.33 ॥
भानोर् बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः ।
बुद्धौ बोधो न तद्धर्मस् तथैव स्याद् विधर्मतः ॥ समुपद्_इ,17.34 ॥
चक्षुर्युक्ता धियो वृत्तिर् या तां पश्यन्न् अलुप्तदृक् ।
दृष्टेर् द्रष्टा भवेद् आत्मा श्रुतेः श्रोता तथा श्रुतेः ॥ समुपद्_इ,17.35 ॥
केवलां मनसो वृत्तिं पश्यन् मन्ता मतेर् अजः ।
विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्य् अतः ॥ समुपद्_इ,17.36 ॥
ध्यायतीत्य् अविकारित्वं तथा लेलायतीत्य् अपि ।
अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः ॥ समुपद्_इ,17.37 ॥
शक्त्यलोपात् सुषुप्ते ज्ञस् तथा बोधे ऽविकारतः ।
ज्ञेयस्यैव विशेषस् तु यत्र वेति श्रुतेर् मतः ॥ समुपद्_इ,17.38 ॥
व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेर् अनात्मनः ।
दृष्टेर् आत्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम् ॥ समुपद्_इ,17.39 ॥
न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने ।
बोधस्यात्मस्वरूपत्वान् न बोधो ऽन्यस् तथेष्यते ॥ समुपद्_इ,17.40 ॥
विषयत्वं विकारित्वं नानात्वं वा न हीष्यते ।
न हेयो नाप्य् उपादेय आत्मा नान्येन वा ततः ॥ समुपद्_इ,17.41 ॥
सबाह्याभ्यन्तरो ऽजीर्णो जन्ममृत्युजरातिगः ।
अहम् आत्मेति यो वेत्ति कुतो न्व् एव बिभेति सः ॥ समुपद्_इ,17.42 ॥
प्राग् एवैतद्विधेः कर्म वर्णित्वादेर् अपोहनात् ।
तद् अस्थूलादिशास्त्रेभ्यस् तत् त्वम् एवेति निश्चयात् ॥ समुपद्_इ,17.43 ॥
पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः ।
देहस्यैव तु जात्यादिस् तस्याप्य् एवं ह्य् अनात्मता ॥ समुपद्_इ,17.44 ॥
ममाहं चेत्य् अतो ऽविद्या शरीरादिष्व् अनात्मसु ।
आत्मज्ञानेन हेया स्याद् असुराणाम् इति श्रुतेः ॥ समुपद्_इ,17.45 ॥
दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम् ।
यथा ज्ञानस्य संप्राप्तौ तद्वज् जात्यादिकर्मणाम् ॥ समुपद्_इ,17.46 ॥

यत्कामस् तत्क्रतुर् भूत्वा कृतं त्व् अज्ञः प्रपद्यते ।
यदा स्वात्मदृशः कामाः प्रमुच्यन्ते ऽमृतस् तदा ॥ समुपद्_इ,17.47 ॥
आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम् ।
न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर् मतः ॥ समुपद्_इ,17.48 ॥
उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम् ।
नातो ऽन्यत् कर्मणः कार्यं त्यजेत् तस्मात् ससाधनम् ॥ समुपद्_इ,17.49 ॥
तापान्तत्वाद् अनित्यत्वाद् आत्मार्थत्वाच् च या बहिः ।
संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुम् आश्रयेत् ॥ समुपद्_इ,17.50 ॥
शान्तं प्राज्ञं तथा मुक्तं निष्क्रियं ब्रह्मणि स्थितम् ।
श्रुतेर् आचार्यवान् वेद तद् विद्धीति स्मृतेस् तथा ॥ समुपद्_इ,17.51 ॥
स गुरुस् तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम् ।
ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् ॥ समुपद्_इ,17.52 ॥
दृष्टिः स्पृष्टिः श्रुतिर् घ्रातिर् मतिर् विज्ञातिर् एव च ।
शक्तयो ऽन्याश् च भिद्यन्ते चिद्रूपत्वे ऽप्य् उपाधिभिः ॥ समुपद्_इ,17.53 ॥
अपायोद्भूतिहीनाभिर् नित्यं दीप्यन् रविर् यथा ।
सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा ॥ समुपद्_इ,17.54 ॥
अन्यदृष्टिः शरीरस्थस् तावन्मात्रो ह्य् अविद्यया ।
जलेन्द्वाद्युपमाभिस् तु तद्धर्मा च विभाव्यते ॥ समुपद्_इ,17.55 ॥
दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च ।
अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्य् अनध्वगः ॥ समुपद्_इ,17.56 ॥
प्राणाद्य् एवं त्रिकं हित्वा तीर्णो ऽज्ञानमहोदधिम् ।
स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः ॥ समुपद्_इ,17.57 ॥
अजो ऽहं चामरो ऽमृत्युर् अजरो ऽभय एव च ।
सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते ॥ समुपद्_इ,17.58 ॥
पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः ।
तदभावे कुतो जन्म ब्रह्मैकत्वं विजानतः ॥ समुपद्_इ,17.59 ॥
क्षीरात् सर्पिर् यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत् ।
बुद्ध्यादेर् ज्ञस् तथासत्यान् न देही पूर्ववद् भवेत् ॥ समुपद्_इ,17.60 ॥
सत्यं ज्ञानम् अनन्तं च रसादेः पञ्चकात् परम् ।
स्याम् अदृश्यादिशास्त्रोक्तम् अहं ब्रह्मेति निर्भयः ॥ समुपद्_इ,17.61 ॥
यस्माद् भीताः प्रवर्तन्ते वाङ्मनःपावकादयः ।
तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन ॥ समुपद्_इ,17.62 ॥
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितो ऽद्वये ।
प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ समुपद्_इ,17.63 ॥
विराड् वैश्वानरो बाह्यः स्मरन्न् अन्तः प्रजापतिः ।
प्रविलीने तु सर्वस्मिन् प्राज्ञो ऽव्याकृतम् उच्यते ॥ समुपद्_इ,17.64 ॥
वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्व् असत् ।
सत्यो ज्ञश् चाहम् इत्य् एवं सत्यसन्धो विमुच्यते ॥ समुपद्_इ,17.65 ॥
भारूपत्वाद् यथा भानोर् नाहोरात्रे तथैव तु ।
ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः ॥ समुपद्_इ,17.66 ॥

मूल पाठ: Upadeśasāhasrī · Edition: the critical edition by Sengaku Mayeda: Śaṅkara's Upadeśasāhasrī, Volume I, Introduction, text & Indices. Delhi : Motilal Banarsidass, 2006. First edition: Tokyo : The Hokuseido Press, 1973. · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc