भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 4

4.1

अप्रमादो.ह्य्.अमृत.पदम्.प्रमादो.मृत्युनः.पदम् ।
अप्रमत्ता.न.ंरियन्ते.ये.प्रमत्ताः.सदा.मृताः ॥

4.2

एताम्.विशेषताम्.ज्ञात्वा.ह्य्.अप्रमादस्य.पण्डितः ।
अप्रमादम्.प्रमुद्येत.नित्यम्.आर्यः.स्व.गोचरम् ॥

4.3

अप्रमत्ताः.साततिका.नित्यम्.दृढ.पराक्रमाः ।
स्पृशन्ति.धीरा.निर्वाणम्.योग.क्षेमम्.अनुत्तरम् ॥

4.4

प्रमादम्.अप्रमादेन.यदा.नुदति.पण्डितः ।
प्रज्ञा.प्रसादम्.आरुह्य.त्व्.अशोकः.शोकिनीम्.प्रजाम् ।
पर्वतस्था.एव.भूमिस्थान्.धीरो.बालान्.अवेक्षते ॥

4.5

उत्तानेन.अप्रमादेन.सम्यमेन.दमेन.च ।
द्वीपम्.करोति.मेधावी.तम्.ओघो.न.अभिमर्दति ॥

4.6

उत्थानवतः.स्मृत.आत्मनः.शुभ.चित्तस्य.निशाम्य.चारिणः ।
सम्यतस्य.हि.धर्म.जीविनो.ह्य्.अप्रमत्तस्य.यशो.अभिवर्धते ॥

4.7

अधिचेतसि.मा.प्रमद्यत.प्रततम्.मौन.पदेषु.शिक्षत ।
शोका.न.भवन्ति.तायिनो.ह्य्.उपशान्तस्य.सदा.स्मृत.आत्मनः ॥

4.8

हीनाम्.धर्माम्.न.सेवेत.प्रमादेन.न.संवसेत् ।
मिथ्या.दृष्टिम्.न.रोचेत.न.भवेल्.लोक.वर्धनः ॥

4.9

सम्यग्.दृष्टिर्.अधीमात्रा.लौकिकी.यस्य.विद्यते ।
अपि.जाति.सहस्राणि.न.असौ.गच्छति.दुर्गतिम् ॥

4.10

प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः ।
अप्रमादम्.तु.मेधावी.धनम्.श्रेष्ठी.इव.रक्षति ॥

4.11

प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः ।
अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.आस्रव.क्षयम् ॥

4.12

प्रमादम्.न.अनुयुज्येत.न.काम.रति.संस्तवम् ।
अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.अचलम्.सुखम् ॥

4.13

न.अयम्.प्रमाद.कालः.स्याद्.अप्राप्ते.ह्य्.आस्रव.क्षये ।
मारः.प्रमत्तम्.अन्वेति.सिंहम्.वा.मृग.मातृका ॥

4.14

स्थानानि.चत्वारि.नरः.प्रमत्त;आपद्यते.यः.पर.दार.सेवी ।
अपुण्य.लाभम्.ह्य्.अनिकाम.शय्याम्.निन्दाम्.तृतीयम्.नरकम्.चतुर्थम् ॥

4.15

अपुण्य.लाभम्.च.गतिम्.च.पापिकाम्.भीतस्य.भीताभिर्.अथ.अल्पिकाम्.रतिम्।
निन्दाम्.च.पश्यन्.न्wपतेश्.च.दण्डम्.परस्य.दाराणि.विवर्जयेत ॥
अपुण्य.लाभश्.च.गतिश्.च.पापिका.भीतस्य.भीताभिर्.अथ.अल्पिका.रतिः ।
राजा.च.दण्डम्.गुरुकम्.ददाति.कायस्य.भेदाद्.नरकेषु.पश्यते ॥

4.16

प्रतियत्या.इव.तत्.कुर्याद्.यज्.जानेद्द्.हितम्.आत्मनः ।
न.शाकटिक.चिन्ताभिर्.मन्दम्.धीरः.पराक्रमेत् ॥

4.17

यथा.शाकटिको.मार्गम्.समम्.हित्वा.महा.पथम् ।
विषमम्.मार्गम्.आगम्य.छिन्न.अक्षः.शोचते.भृशम् ॥

4.18

एवम्.धर्माद्.अपक्रम्य.ह्य्.अधर्मम्.अनुवर्त्य.च ।
बालो.मृत्यु.वशम्.प्राप्तश्.छिन्न.अक्ष;इव.शोचते ॥

4.19

यत्.कृत्यम्.तद्.अपविद्धम्.अकृत्यम्.क्रियते.पुनः ।
उद्धतानाम्.प्रमत्तानाम्.तेषाम्.वर्धन्ति;आस्रवाः ।
आस्रवास्.तेषु.वर्धन्ते;आरात्.ते.ह्य्.आस्रव.क्षयात् ॥

4.20

येषाम्.तु.सुसमारब्धा.नित्यम्.काय.गता.स्मृतिः ।
अकृत्यम्.ते.न.कुर्वन्ति.कृत्ये.सातत्य.कारिणः ।
स्मृतानाम्.सम्प्रजानानाम्.अस्तम्.गच्छन्ति.आस्रवाः ॥

4.21

न.तावता.धर्म.धरो.यावता.बहु.भाषते ।
यस्.त्व्.इह.अल्पम्.अपि.श्रुत्वा.धर्मम्.कायेन.वै.स्पृशेत् ।
स.वै.धर्म.धरो.भवति.यो.धर्मे.न.प्रमाद्यते ॥

4.22

सुबह्व्.अपि.इह.सहितम्.भाषमाणो.न.तत्.करो.भवति.नरः.प्रमत्तः ।
गोपा.एव.गाः.संगणयन्.परेषाम्.न.भागवान्.श्रामण्य.अर्थस्य.भवति ॥[भागवान्.श्रामण्य.अर्थस्य.]

4.23

अल्पम्.अपि.चेत्.सहितम्.भाषमाणो.धर्मस्य.भवति.ह्य्.अनुधर्म.चारी ।
रागम्.च.दोषम्.च.तथैव.मोहम्.प्रहाय.भागी.श्रामण्य.अर्थस्य.भवति ॥

4.24

अप्रमादम्.प्रशंसन्ति.प्रमादो.गर्हितः.सदा ।
अप्रमादेन.मघवान्.देवानाम्.श्रेष्ठताम्.गतः ॥

4.25

अप्रमादम्.प्रशंसन्ति.सदा.कृत्येषु.पण्डिताः ।
अप्रमत्तो.ह्य्.उभाव्.अर्थाव्.अतिगृह्णाति.पण्डितः ॥

4.26

दृष्ट.धार्मिक;एको.अर्थस्.तथा.अन्यः.साम्परायिकः ।
अर्थ.अभिसमयाद्.धीरः.पण्डितो.हि.निरुच्यते ॥

4.27

अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
दुर्गाद्.उद्धरते.त्मानम्.पङ्क.सन्नैव.कुञ्जरः ॥[.आत्मानम्.][.पङ्कसन्नैव.]

4.28

अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
धुनाति.पापकाम्.धर्माम्.पत्त्राणि.इव.हि.मारुतः ॥

4.29

अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
सम्योजनम्.अणु.स्थूलम्.दहन्न्.अग्निर्.इव.गच्छति ॥

4.30

अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
स्पृशति.ह्य्.अनुपूर्वेण.सर्व.सम्योजन.क्षयम् ॥

4.31

अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
प्रतिविध्यते.पदम्.शान्तम्.संस्कार.उपशमम्.सुखम् ॥

4.32

अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके ॥

4.33

उत्तिष्ठत.व्यायमत.दृढम्.शिक्षत शान्तये ।
अस्मृतिश्.च.प्रमादश्.चैव.अनुत्थानम्.असम्यमः ॥

4.34

निद्रा.तन्द्रीर्.अनायोग;एते.शिक्षा.अन्तरायिकाः ।
तद्.अङ्गम्.परिबुध्यध्वम्.स्मृतिर्.मा.अन्तर्.अधीयत ॥

4.35

उत्तिष्ठेन्.न.प्रमाद्येत.धर्मम्.सुचरितम्.चरेत् ।
धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिंल्.लोके.परत्र.च ।[.अस्मिम्.लोके.]

4.36

अप्रमाद.रता.भवत.सुशीला.भवत.भिक्षवः ।
सुसमाहित.संकल्पाः.स्व.चित्तम्.अनुरक्षत ॥

4.37

आरभध्वम्.निष्क्रमध्वम्.युज्यध्वम्.बुद्ध.शासने ।
धुनिध्वम्.मृत्युनः.सैन्यम्.नडागारम्.इव.कुञ्जरः ॥[.नड.अगारम्.]

4.38

यो.ह्य्.अस्मिन्.धर्म.विनये.त्व्.अप्रमत्तो.भविष्यति ।
प्रहाय.जाति.संसारम्.दुह्खस्य.अन्तम्.स.यास्यति ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc