उदानवर्ग · अध्याय 3
वितर्क.प्रमथितस्य.जन्तुनस्.तीव्र.रागस्य.शुभ.अनुदर्शिनः ।
भूयस्.तृष्णा.प्रवर्धते.गाढम्.ह्य्.एष.करोति.बन्धनम् ॥
वितर्क.व्युपशमे.तु.यो.रतो.ह्य्.अशुभम्.भावयते.सदा.स्मृतः ।
तृष्णा.ह्य्.एष.प्रहास्यते.स.तु.खलु.पूति.करोति.बन्धनम् ॥[.एषा.]?
काम.अन्ध.जाल.प्रक्षिप्तास्.तृष्णया.आच्छादिताः.प्रजाः ।
प्रमत्ता.बन्धने.बद्धा.मत्स्यवत्.कुपिना.मुखे ।
जरा.मरणम्.आयान्ति.वत्सः.क्षीरपक;इव.मातरम् ॥
मनुजस्य.प्रमत्त.चारिणस्.तृष्णा.वर्धति.मालुता.इव.हि ।[.मालुतेव.हि.]
स.हि.संसरते.पुनः.पुनः.फलम्.इच्छन्न्.इव.वानरो.वने ॥
सरितानि.वै.स्नेहितानि.वै.सौमनस्यानि.भवन्ति.जन्तुनः ।
ये.सातसिताः.सुख.एषिणस्.ते.वै.जाति.जरा.उपगा.नराः ॥
तृष्णाभिर्.उपस्कृताः.प्रजाः.परिधावन्ति.शशा.व.वागुराम् ।
सम्योजनैः.सङ्ग.सक्ता.दुह्खम्.यान्ति.पुनः.पुनश्.चिर.रात्रम् ॥
तृष्णया.ग्रथिताः.सत्त्वा.रक्त.चित्ता.भवा.भवे ।[.सत्वा.]
ते.योग.युक्त.मारेण.ह्य्.अयोग.क्षेमिणो.जनाः ।
जरा.मरणम्.आयान्ति.योगा.हि.दुरतिक्रमाः ॥
यस्.तु.तृष्णाम्.प्रहाय.इह.वीत.तृष्णो.भवा.भवे ।
तृष्णया.विभवद्.भिक्षुर्.अनिच्छुः.परिनिर्वृतः ॥
य;एताम्.सहते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् ।
शोकास्.तस्य.प्रवर्धन्ते.ह्य्.अववृष्टा.बीरणा.यथा ॥
यस्.त्व्.एताम्.त्यजते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् ।
शोकास्.तस्य.निवर्तन्ते;उद.बिन्दुर्.इव.पुष्करात् ॥
तद्.वै.वदामि.भद्रम्.वो.यावन्तः.स्थ.समागताः ।
तृष्णाम्.समूलम्.खनत.उशीर.अर्थी.इव.बीरणाम् ।
तृष्णायाः.खात.मूलाया.न.अस्ति.शोकः.कुतो.भयम् ॥
तृष्णा.द्वितीयः.पुरुषो.दीर्घम्.अध्वानम्.आशया ।
पुनः.पुनः.संसरते.गर्भम्.एति.पुनः.पुनः ।
इत्थम्.भाव.अन्यथी.भावः.संसारे.त्व्.आगतिम्.गतिम् ॥
ताम्.तु.तृष्णाम्.प्रहाय.इह.वीत.तृष्णो.भवा.भवे ।
न.असौ.पुनः.संसरते.तृष्णा.ह्य्.अस्य.न.विद्यते ॥
यया.देवा.मनुष्याश्.च.सितास्.तिष्ठन्ति.हार्थिकाः ।
तरत.एताम्.विषक्तिकाम्.क्षणो.वो.मा.ह्य्.उपत्यगात् ।
क्षण.अतीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥
तृष्णा.हि.हेतुः.सरिता.विषक्तिका.गण्डस्य.नित्यम्.विसृता.इह.जालिनी ।
लताम्.पिपासाम्.अपनीय.सर्वशो.निवर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥
यथा.अपि.मूलैर्.अनुपद्रुतैः.सदा.छिन्नो.अपि.वृक्षः.पुनर्.एव.जायते ।
एवम्.हि.तृष्णा.अनुशयैर्.अनुद्धृतैर्.निर्वर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥
यथा.अपि.शल्यो.दृढम्.आत्मना.कृतस्.तम्.एव.हन्याद्.बलसा.त्व्.अधिष्ठितः ।
तथा.त्व्.इह.आध्यात्म.समुत्थिता.लतास्.तृष्णा.वधाय.उपनयन्ति.प्राणिनाम् ॥
एतद्.आदीनवम्.ज्ञात्वा.तृष्णा.दुह्खस्य.सम्भवम् ।
वीत.तृष्णो.ह्य्.अनादानः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0