उदानवर्ग · अध्याय 5
प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् ।
प्रियेभ्यो.विप्रमुक्तानाम्.न.अस्ति.शोकः.कुतो.भयम् ॥
प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् ।
प्रियाणाम्.अन्यथी.भावाद्.उन्मादम्.अपि.गच्छति ॥
शोका.हि.ये.वै.परिदेवितम्.च.दुह्खम्.च.लोकस्य.हि.नैकरूपम् ।
प्रियम्.प्रतीत्य.इह.तद्.अस्ति.सर्वम्.प्रिये.असति.स्यान्.न.कथंचिद्.एतत् ॥
तस्माद्द्.हि.ते.सुखिता.वीत.शोका.येषाम्.प्रियम्.न.अस्ति.कथंचिद्.एव ।
तस्माद्.अशोकम्.पदम्.एषमाणः.प्रियम्.न.कुर्वीत.हि.जीव.लोके ॥
मा.प्रियैः.संगमो.जातु.मा.च.स्याद्.अप्रियैः.सदा ।
प्रियाणाम्.अदर्शनम्.दुह्खम्.अप्रियाणाम्.च.धर्शनम् ॥
प्रियाणाम्.च.विना.भावाद्.अप्रियाणाम्.च.संगमात् ।
तीव्र;उत्पद्यते.शोको.जीर्यन्ते.येन.मानवाः ॥
प्रियम्.मृतम्.काल.गतम्.ज्ञातयः.सहिताः.स्थिताः ।
शोचन्ति.दीर्घम्.अध्वानम्.दुह्खो.हि.प्रिय.संगमः ॥
तस्मात्.प्रियम्.न.कुर्वीत.प्रिय.भावो.हि.पापकः ।
ग्रन्थास्.तेषाम्.न.विद्यन्ते.येषाम्.न.अस्ति.प्रिय.अप्रियम् ।
अयुगे.युज्य.च.आत्मानम्.युगे.च.अयुज्य.सर्वदा ।
अर्थम्.हित्वा.प्रिय.ग्राही.स्पृहयत्य्.अर्थ.योगिने ॥
प्रिय.रूप.सात.ग्रथिता.देव.कायाः.पृथक्.स्थिताः ।
आघादिनः.परिद्यूना.मृत्यु.राज.वशम्.गताः ॥
ये.वै.दिवा.च.रात्रौ.चैव;अप्रमत्ताः.प्रियम्.जहति.नित्यम् ।
ते.वै.खनन्ति.त्व्.अघ.मूलम्.मृत्यु-र्-आमिषम्.दुरतिवर्त्यम् ॥
असाधु.साधु.रूपेण.प्रिय.रूपेण.च.अप्रियम् ।
दुह्खम्.सुखस्य.रूपेण.प्रमत्तान् अभिमर्दति ॥
आत्मानम्.चेत्.प्रियम्.विद्यान्.न.एनम्.पापेन.योजयेत् ।
न.ह्य्.एतत्.सुलभम्.भवति.सुखम्.दुष्कृत.कारिणा ॥
आत्मानम्.चेत्.प्रियम्.विद्यान्.न.एनम्.पापेन.योजयेत् ।
एतद्द्.हि.सुलभम्.भवति.सुखम्.सुकृत.कारिणा ॥
आत्मानम्.चेत्.प्रियम्.विद्याद्.रक्षेद्.एनम्.सुरक्षितम् ।
यथा.प्रत्यन्त.नगरम्.गम्भीर.परिखम्.दृढम् ।
त्रयाणाम्.अन्यतमम्.यामम्.प्रतिजाग्रेत.पण्डितः ॥
आत्मानम्.चेत्.प्रियम्.विद्याद्.गोपयेत्.तम्.सुगोपितम् ।
यथा.प्रत्यन्त.नगरम्.गुप्तम्.अन्तर्.बहिस्थिरम् ।[.अन्तर्.बहिः.स्थिरम्.]
एवम्.गोपयत.आत्मानम्.क्षणो.वो.मा.ह्य्.उपत्यगात् ।
क्षण.अतीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥
सर्वा.दिशस्.त्व्.अनुपरिगम्य.चेतसा.न.एव.अध्यगात्.प्रियतरम्.आत्मनः.क्वचित् ।
एवम्.प्रियः.पृथग्.आत्मा.परेषाम्.तस्मान्.न.हिंस्यात्.परम्.आत्म.कारणम् ॥
सर्वे.दण्डस्य.बिभ्यन्ति.सर्वेषाम्.जीवितम्.प्रियम् ।
आत्मानम्.उपमाम्.कृत्वा.न.एव.हन्यान्.न.घातयेत् ॥
चिर.प्रवासिनम्.यद्वद्.दूरतः.स्वस्तिना.आगतम् ।
ज्ञातयः.सुहृदो.मित्राश्.च.अभिनन्दन्ति.आगतम् ॥
कृत.पुण्यम्.तथा.मर्त्यम्.अस्मांल्.लोकात्.परम्.गतम् ।[.अस्माल्.लोकात्.]
पुण्यान्य्.एव.अभिनन्दन्ति.प्रियम्.ज्ञातिम्.इव.आगतम् ॥
तस्मात्.कुरुत.पुण्यानाम्.निचयम्.साम्परायिकम् ।
पुण्यानि.पर.लोके.हि.प्रतिष्ठा.प्राणिनाम्.हि.सा ॥
पुण्यम्.देवाः.प्रशंसन्ति.सम.चर्याम्.च.यश्.चरेत् ।
इह.च.अनिन्दितो.भवति.प्रेत्य.स्वर्गे.च.मोदते ॥
धर्मस्थम्.शील.सम्पन्नम्.ह्रीमन्तम्.सत्य.वादिनम् ।
आत्मनः.कारकम्.सन्तम्.तम्.जनः.कुरुते.प्रियम् ॥
परेषाम्.च.प्रियो.भवति.ह्य्.आत्म.अर्थम्.क्रियते.अपि.च ।
दृष्टे.च.धर्मे.प्राशंस्यः.साम्पराये.च.सद्.गतिः ॥
अववदेत.अनुशासीत.च.असभ्याच्.च.निवारयेत् ।
असताम्.न.प्रियो.भवति.सताम्.भवति.तु.प्रियः ॥
असन्तश्.चैव.सन्तश्.च.नाना.यान्ति.त्व्.इतश्.च्युताः ।
असन्तो.नरकम्.यान्ति.सन्तः.स्वर्ग.परायणाः ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0