भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 2

2.1

काम.जानामि.ते.मूलम्.संकल्पात्.काम.जायसे ।
न.त्वाम्.संकल्पयिष्यामि.ततो.मे.न.भविष्यसि ॥

2.2

कामेभ्यो.जायते.शोकः.कामेभ्यो.जायते.भयम् ।
कामेभ्यो.विप्रमुक्तानाम्.न.अस्ति.शोकः.कुतो.भयम् ॥

2.3

रतिभ्यो.जायते.शोको.रतिभ्यो.जायते.भयम् ।
रतिभ्ह्यो.विप्रमुक्तानाम्.न.अस्ति.शोकः.कुतो.भयम् ॥

2.4

मधुर.अग्रा.विपाके.तु.कटुका.ह्य्.अभिनन्दिताः ।
कामा.दहन्ति.वै.बालान्.उल्का.इव.अमुञ्चतः.करम् ॥

2.5

न.तद्.दृढम्.बन्धनम्.आहुर्.आर्या.यद्.आयसम्.दारवम्.बल्बजम्.वा ।
संरक्त.चित्तस्य.हि.मन्द.बुद्धेः.पुत्रेषु.दारेषु.च.या;अवेक्षा ॥

2.6

एतद् दृढम्.बन्धनम्.आहुर्.आर्याः.समन्ततः.सुस्थिरम्.दुष्प्रमोक्षम् ।
एतद्.अपि.छित्त्वा.तु.परिव्रजन्ति.ह्य्.अनपेक्षिणः.काम.सुखम्.प्रहाय ॥

2.7

न.ते.कामा.यानि.चित्राणि.लोके.संकल्प.रागः.पुरुषस्य.कामः ।
तिष्ठन्ति.चित्राणि.तथा.एव.लोके;अथ.अत्र.धीरा.विनयन्ति.छन्दम् ॥[.च्छन्दम्.]

2.8

न.सन्ति.नित्या.मनुजेषु.कामाः.सन्ति.त्व्.अनित्याः.कामिनो.यत्र.बद्धाः ।
तांस्.तु.प्रहाय.ह्य्.अपुनर्.भवाय.ह्य्.अनागतम्.मृत्यु.धेयम्.वदामि ॥

2.9

छन्द.जातो.ह्य्.अवस्रावी.मनसा.अनाविलो.भवेत् ।
कामेषु.त्व्.अप्रतिबद्ध.चित्त;ऊर्ध्व.स्रोतो.निरुच्यते ॥

2.10

अनुपूर्वेण.मेधावी.स्तोकम्.स्तोकम्.क्षणे.क्षणे ।
कर्मारो.रजतस्य.एव.निर्धमेन्.मलम्.आत्मनः ॥

2.11

रथ.कार;इव.चर्मणः.परिकर्तन्न्.उपानहम् ।
यद्.यज्.जहाति.कामानाम्.तत्.तत्.सम्पद्यते.सुखम् ॥

2.12

सर्वम्.चेत्.सुखम्.इच्छेत.सर्व.कामान्.परित्यजेत् ।[.कामाम्.]
सर्व.काम.परित्यागी.ह्य्.अत्यन्तम्.सुखम्.एधते ॥

2.13

यावत्.कामान्.अनुसरन्.न.तृप्तिम्.मनसो.अध्यगात् ।
ततो.निवृत्तिम्.प्रतिपश्यमानास्.ते.वै.तृप्ताः.प्रज्ञया.ये.सुतृप्ताः ॥

2.14

श्रेयसी.प्रज्ञया.तृप्तिर्.न.हि.कामैर्.वितृप्यते ।
प्रज्ञया.पुरुषम्.तृप्तम्.तृष्णा.न.कुरुते.वशम् ॥

2.15

गृद्धा.हि.कामेषु.नराः.प्रमत्ता.ह्य्.अधर्मे.बत.ते.रताः ।
अन्तरायम्.न.ते.पश्यन्त्य्.अल्पके.जीविते.सति ।

2.16

दुर्मेधसम्.हन्ति.भोगो.न.त्व्.इह.आत्म.गवेषिणम् ।
दुर्मेधा.भोग.तृष्णाभिर्.हन्त्य्.आत्मानम्.अथो.परान् ॥

2.17

न.कर्षापण.वर्षेण.तृप्तिः.कामैर्.हि.विद्यते ।
अल्प.आस्वाद.सुखाः.कामा;इति.विज्ञाय.पण्डितः ॥

2.18

अपि.दिव्येषु.कामेषु.स.रतिम्.न.अधिगच्छति ।
तृष्णा.क्षय.रतो.भवति.बुद्धानाम्.श्रावकः.सदा ॥

2.19

पर्वतो.अपि.सुवर्णस्य.समो.हिमवता.भवेत् ।
वित्तम्.तम्.नालम्.एकस्य.एतज्.ज्ञात्वा.समम्.चरेत् ॥[.वित्तम्.तम्.न.अलम्.एकस्य.]

2.20

दुह्खम्.हि.यो.वेद.यतो.निदानम्.कामेषु.जन्तु.स.कथम्.रमेत ।
उपधिम्.हि.लोके.शल्यम्.इति.मत्वा.तस्य.एव.धीरो.विनयाय.शिक्षेत् ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc