उदानवर्ग · अध्याय 28
सर्व.पापस्य.अकरणम्.कुशलस्य.उपसम्पदः ।
स्व.चित्त.पर्यवदनम्.एतद्.बुद्धस्य.शासनम् ॥
ददतः.पुण्यम्.प्रवर्धते.वैरम्.न.क्रियते.च.सम्यमात् ।
कुशली.प्रजहाति.पापकम्.राग.दोष.मोह.क्षयात्.तु.निर्वृतिः ॥
सार्धम्.चरन्न्.एककः.सदा.मिश्रो.ह्य्.अन्य.जनेन.वेदकः ।
कुशली.प्रजहाति.पापकम्.क्रौञ्चः.क्षीरपको.यथा.उदकम् ॥
दृष्ट्वा.ह्य्.आदीनवम्.लोके.ज्ञात्वा.धर्म.निरौपधिम् ।
आर्यो.न.रमते.पापे.पापो.न.रमते.शुभे ॥
प्रविवेक.रसम्.ज्ञात्वा.रसम्.च.उपशमस्य.वै ।
निर्ज्वरो.भवति.निष्पापो.धर्म.प्रीति.रसम्.पिबन् ॥
अनवस्रुत.चित्तस्य.त्व्.अनुनहन.चेतसः ।
पुण्य.पाप.प्रहीणस्य.न.अस्ति.दुर्गतितो.भयम् ॥
निषेद्धारम्.प्रवक्तारम्.यज्.जानेद्.वद्य.दर्शिनम् ।
निगृह्य.वादिनम्.धीरम्.तादृशम्.सततम्.भजेत् ।
तादृशम्.भजमानस्य.श्रेयो.भवति.न.पापकम् ॥
उपशान्तो.ह्य्.उपरतो.मन्द.भाषी.ह्य्.अनुद्धतः ।
धुनाति.पापकान्.धरमान्.द्रुम.पत्त्रम्.यथा.अनिलः ॥
यो.ह्य्.अप्रदुष्टस्य.नरस्य.दुष्यते.शुद्धस्य.नित्यम्.विगत.अङ्गणस्य ।
तम्.एव.बालम्.प्रतियाति.पापम्.क्षिप्तम्.रजः.प्रतिवातम्.यथैव ॥
यद्.यत्.करोति.पुरुषस्.तत्.तत्.पश्यति.ह.आत्मनः ।
कल्याण.कारी.कल्याणम्.पाप.कारी.च.पापकम् ॥
आत्मना.हि.कृते.पापे.त्व्.आत्मना.क्लिश्यते.सदा ।
आत्मना.त्व्.अकृते.पापे.ह्य्.आत्मना.एव.विशुध्यते ॥
अशुद्ध.बुद्धिम्.प्रत्यात्मम्.न.अन्यो.ह्य्.अन्यम्.विशोधयेत् ।
अभिमथ्नाति.तम्.पापम्.वज्रम्.अश्म.मणिम्.यथा ॥
चक्षुष्मान्.विषमानी.इव.विद्यमाने.पराक्रमेत् ।
पण्डितो.जीव.लोके.अस्मिन्.पापानि.परिवर्जयेत् ॥
वणिग्.वा.सभयम्.मार्गम्.अल्प.शास्त्रो.महा.धनो ।
विषम्.जीवित.कामो.वा.पापानि.परिवर्जयेत् ॥
पणौ.च.अस्य.व्रणो.न.स्याद्.धारयेत्.पाणिना.विषम् ।
न.अव्रणे.क्रामति.विषम्.न.अस्ति.पापम्.अकुर्वतः ॥
सुकराणि.ह्य्.असाधूनि.स्व.आत्मनो.ह्य्.अहितानि.च ।
यद्.वै.हितम्.च.पथ्यम्.च.तद्.वै.परम.दुष्करम् ॥
सुकरम्.साधुना.साधु.साधु.पापेन.दुष्करम् ।
पापम्.पापेन.सुकरम्.पापम्.आर्येण.दुष्करम् ॥
मधुवद्.मन्यते.बालो.यावत्.पापम्.न.पच्यते ।
यदा.तु.पच्यते.पापम्.अथ.दुह्खम्.निगच्छति ॥
पापो.अपि.पश्यते.भद्रम्.यावत्.पापम्.न.पच्यते ।
यदा.तु.पच्यते.पापम्.अथ.पापानि.पश्यति ॥
भद्रो.अपि.पश्यते.पापम्.यावद्.भद्रम्.न.पच्यते ।
यदा.तु.पच्यते.भद्रम्.अथ.भद्राणि.पश्यति ॥
कुर्याच्.चेत्.पुरुषः.पापम्.न.एनम्.कुर्यात्.पुनः.पुनः ।
न.तत्र.छन्दम्.कुर्वीत.दुह्खम्.पापस्य.संचयः ॥[.च्छन्दम्.]
कुर्यात्.तु.पुरुषः.पुण्यम्.कुर्याच्.च.एनम्.पुनः.पुनः ।
तत्र.छन्दम्.च.कुर्वीत.सुखम्.पुण्यस्य.संचयः ।[.च्छन्दम्.]
अभित्वरेत.कल्याणे.पापाच्.चित्तम्.निवारयेत् ।
धन्धम्.हि.कुर्वतः.पुण्यम्.पापेषु.रमते.मनः ॥[.द्वन्द्वम्.]?
अल्पकम्.पि.कृतम्.पापम्.दुह्खाय.परतः.सदा ।
महते.भवत्य्.अनर्थाय.विषम्.कोष्ठ.गतम्.यथा ॥
अल्पकम्.पि.कृतम्.पुण्यम्.पर.लोके.सुखावहम् ।
अर्थाय.महते.नित्यम्.सस्यानाम्.इव.संचयः ॥
अदण्डेषु.हि.दण्डेन.यो.अप्रदुष्टेषु.दुष्यते ।
दशानाम्.अन्यतमम्.स्थानम्.क्षिप्रम्.एव.निगच्छति ॥
ज्ञातीनाम्.वा.विना.भावम्.भोगानाम्.वा.परिक्षयम् ।
राजतो.ह्य्.उपसर्गम्.वा.अप्य्.अभ्याख्यानम्.च.दारुणम् ॥
वेदनाम्.कटुकाम्.वा.अपि.शरीरस्य.च.भेदनम्।
आबाधम्.वा.अपि.परुषम्.चित्त.क्षेपम्.अथ.अपि.वा ॥
अथ.वा.अस्य.अप्य्.अगाराणि.ह्य्.अग्निर्.दहति.सर्वथा ।
भेदात्.कायस्य.च.अप्राज्ञो.दशमाम्.दुर्गतिम्.व्रजेत् ॥
पापे.तु.कृते.हि.न.आश्वसेच्.चिर.कृते.दूर.कृते.अपि.न.आश्वसेत् ।
रहसि.च.कृते.अपि.न.आश्वसेद्.अस्ति.तस्य.विपाक;इति.न.आश्वसेत् ॥
पुण्ये.तु.कृते.त्व्.इह.आश्वसेच्.चिर.कृते.दूर.कृते.अपि.च.आश्वसेत् ।
रहसि.च.कृते.अपि.च.आश्वसेद्.अस्ति.तस्य.विपाक;इति.च.आश्वसेत् ॥
पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृते.अपि.शोचते ।
रहसि.च.कृते.अपि.शोचते.अस्ति.तस्य.विपाक;इति.शोचते ॥
पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृते.अपि.नन्दते ।
रहसि.च.कृते.अपि.नन्दते.अस्ति.तस्य.विपाक;इति.नन्दते ॥
इह.शोचति.प्रेत्य.शोचति.पाप.कर्मा.ह्य्.उभयत्र.शोचति ।
स.हि.शोचति.स.प्रशोचति.दृष्ट्वा.कर्म.हि.क्लिष्टम्.आत्मनः ॥
इह.नन्दति.प्रेत्य.नन्दति.कृत.पुण्यो.ह्य्.उभयत्र.नन्दति ।
स.हि.नन्दति.स.प्रमोदते.दृष्ट्वा.कर्म.विशुद्धम्.आत्मनः ॥
पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृते.अपि.शोचते ।
रहसि.च.कृते.अपि.शोचते.भूयः.शोचति.दुर्गतिम्.गतः ॥
पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृते.अपि.नन्दते ।
रहसि.च.कृते.अपि.नन्दते.भूयो.नन्दति.सद्गतिम्.गतः ॥
पुण्ये.तु.कृते.हि.मोदते.चिर.कृते.दूर.कृते.अपि.मोदते ।
रहसि.च.कृते.अपि.मोदते.भूयो.मोदति.सद्गतिम्.गतः ॥
कृते.च.पापे.अप्य्.अकृते.च.पुण्ये.धर्मम्.समादाय.विहाय.धर्मम् ।
बिभेति.मृत्योर्.इह.पाप.कर्मा.भिन्न.प्लवो.मध्य;इव.उदकस्य ॥
कृतम्.च.पुण्यम्.ह्य्.अकृतम्.च.पापम्.सताम्.च.धर्मश्.चरितः.पुराणः ।
बिभेति.मृत्योर्.न.कदंचिद्.एव.यथैव.नावा.दृढया.तरन्तः ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0