भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 1

1.1

स्तीनम्.इद्धम्.विनोद्य.इह.सम्प्रहर्ष्य.च.मानसम् ।[.स्तीनमिद्धम्.]
शृणुत.इमम्.प्रवक्ष्यामि उदानम्.जिन.भाषितम् ॥

1.2

एवम्.उक्तम्.भगवता.सर्व.अभिज्ञेन.तायिना ।
अनुकम्पकेन.ऋषिणा शरीर.अन्तिम.धारिणा ॥

1.3

अनित्या.बत.संस्कारा.उत्पाद.व्यय.धर्मिणः ।
उत्पद्य.हि.निरुध्यन्ते.तेषाम्.व्युपशमः.सुखम् ॥

1.4

को.नु.हर्षः.क;आनन्द;एवम्.प्रज्वलिते.सति ।
अन्ध.कारम्.प्रविष्टाः.स्थ.प्रदीपम्.न.गवेषथ ॥

1.5

यानि.इमान्य्.अपविद्धानि.विक्षिप्तानि.दिशो.दिशम् ।
कपोत.वर्णान्य्.अस्थीनि.तानि.द्र्ष्ट्वा.इह.का.रतिः ॥

1.6

याम्.एव.प्रथमाम्.रात्रिम्.गर्भे.वसति.मानवः ।
अविष्ठितः.स.व्रजति.गतश्.च.न.निवर्तते ॥

1.7

सायम्.एके.न.दृश्यन्ते.काल्यम्.दृष्टा.महा.जनाः ।
काल्यम्.च.एके.न.दृष्यन्ते.सायम्.दृष्टा.महा.जनाः ॥

1.8

तत्र.को.विश्वसेन्.मर्त्यो.दहरो.अस्मि.इति.जीविते ।
दहरा.अपि.ंरियन्ते.हि.नरा.नार्यश्.च.न्.एकशः ॥[.अनेकशः.]

1.9

गर्भ;एके.विनश्यन्ते.तथा.एके.सूतिका.कुले ।
परिसृप्तास्.तथा.ह्य्.एके.तथा.एके.परिधाविनः ॥

1.10

ये.च.वृद्धा.ये.च.दह्रा.ये.च.मध्यम.पुरुषाः ।[.पूरुषाः.]
अनुपूर्वम्.प्रव्रजन्ति.फलम्.पक्वम्.व.बन्धनात् ॥

1.11

यथा.फलानाम्.पक्वानाम्.नित्यम्.पतनतो.भयम् ।
एवम्.जातस्य.मर्त्यस्य.नित्यम्.मरणतो.भयम् ॥

1.12

यथा.अपि.कुम्भ.कारेण.मृत्तिका.भाजनम्.कृतम् ।
सर्वम्.भेदन.पर्यन्तम्.एवम्.मर्त्यस्य.जीवितम् ॥

1.13

यथा.अपि.तन्त्रे.वितते.यद्.यद्.उक्तम्.समुप्यते ।
अल्पम्.भवति.वातव्यम्.एवम्.मर्त्यस्य.जीवितम् ॥

1.14

यथा.अपि.व - - - - - - - - - - - - - - - - - ।
- - - घतनो.भवति;एवम्.मर्त्यस्य.जीवितम् ॥

1.15

यथा.नदी.पार्वतीया.गच्छते.न.निवर्तते ।
एवम्.आयुर्.मनुष्याणाम्.गच्छते.न.निवर्तते ॥

1.16

किसरम्.च.परित्तम्.च.तच्.च.दुह्खेन.सम्युतम् ।
उदके.दण्ड.राजी.इव.क्षिप्रम्.एव.विनश्यति ॥

1.17

यथा.दण्डेन.गोपालो.गाः.प्रापयति.गोचरम् ।
एवम्.रोगैर्.जरा.मृत्युः.आयुः.प्रापयते.नृणाम् ॥

1.18

अतियान्ति.ह्य्.अहो.रात्रा.जीवितम्.च.उपरुध्यते ।
आयुः.क्षीयति.मर्त्यानाम्.कुनदीषु.यथा.ओदकम् ॥
........................ जीवितम्.च.उपरुध्यते ।
................................................ ॥

1.19

दीर्घा.जागरतो.रात्रिर्.दीर्घम्.श्रान्तस्य.योजनम् ।
दीर्घो.बालस्य.संसारः.सद्धर्मम्.अविजानतः ॥

1.20

पुत्रो.मे.अस्ति.धनम्.मे.अस्ति.इत्य्.एवम्.बालो.विहन्यते ।
आत्मा.एव.ह्य्.आत्मनो.न.अस्ति.कस्य.पुत्रः.कुतो.धनम् ॥
मरणे ........................................... ।
................................................. ॥

1.21

अनेकानि.सहस्राणि.नर.नारी.शतानि.च ।
भोगान्.वै.समुदानीय.वशम्.गच्छन्ति.मृत्युनः ॥

1.22

सर्वे.क्षय.अन्ता.निचयाः.पतन.अन्ताः.समुच्छ्रयाः ।
सम्योगा.विप्रयोग.अन्ता.मरण.अन्तम्.हि.जीवितम् ॥

1.23

सर्वे.सत्त्वा.मरिष्यन्ति.मरण.अन्तम्.हि.जीवितम् ।[.सत्वा.]
यथा.कर्म.गमिष्यन्ति.पुण्य.पाप.फल.उपगाः ॥

1.24

नरकम्.पाप.कर्माणः.कृत.पुण्यास्.तु.सद्.गतिम् ।
अन्ये.तु.मार्गम्.भाव्य.इह.निर्वास्यन्ति.निरास्रवाः ॥[.भाव्येह.]

1.25

न.एव.अन्तरीक्.से.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य ।
न.विद्यते.असौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.मृत्युह् ॥

1.26

ये.च.इह.भूता.भविष्यन्ति.वा.पुनः.सर्वे.गमिष्यन्ति.प्रहाय.देहम् ।
ताम्.सर्व.हानिम्.कुशलो.विदित्वा.धर्मे.स्थितो.ब्रह्मचर्यम्.चरेत ॥

1.27

जीर्णम्.च.दृष्ट्वा.इह.तथा.एव.रोगिणम्.मृतम्.च.दृष्ट्वा.व्यपयात.चेतसम् ।
जहौ.स.धीरो.गृह.बन्धनानि.कामा.हि.लोकस्य.न.सुप्रहेयाः ॥

1.28

जीर्यन्ति.वै.राज.रथाः.सुचित्रा.ह्य्.अथो.शरीरम्.अपि.जराम्.उपैति ।
सताम्.तु.धर्मो.न.जराम्.उपैति.सन्तो.हि.तम्.सत्सु.निवेदयन्ति ॥

1.29

धिक्.त्वाम्.अस्तु.जरे.ग्राम्ये.विरूप.करणी.ह्य्.असि ।
तथा.मनो.रमम्.बिम्बम्.जरया.ह्य्.अभिमर्दितम् ॥

1.30

यो.अपि.वर्ष.शतम्.जीवेत्.सो.अपि.मृत्यु.परायणः ।
अनु.ह्य्.एनम्.जरा.हन्ति.व्याधिर्.वा.यदि.वा.अन्तकः ॥

1.31

सदा.व्रजन्ति.ह्य्.अनिवर्तमाना.दिवा.च.रात्रौ.च.विलुज्यमानाः ।
मत्स्या;इव.अतीव.हि.तप्यमाना.दुह्खेन.जाति.मरणेन.युक्ताः ॥
.......... ।
.......... ।

1.32

आयुर्.दिवा.च.रात्रौ.च.चरतस्.तिष्ठतस्.तथा ।
नदीनाम्.वा.यथा.स्रोतो.गच्छते.न.निवर्तते ॥

1.33

येषाम्.रात्रि.दिव.अपाये.ह्य्.आयुर्.अल्पतरम्.भवेत् ।
अल्प.उदके.व.मत्स्यानाम्.का.नु.तेषाम्.रतिर्.भवेत् ॥

1.34

परिजीर्णम्.इदम्.रूपम्.रोग.नीडम्.प्रभङ्गुरम् ।
भेत्स्यते.पूत्य्.असंदेहम्.मरण.अन्तम्.हि.जीवितम् ॥

1.35

अचिरम्.बत.कायो.अयम्.पृथिवीम्.अधिशेष्यते ।
शुन्यो.व्यपेत.विज्ञानो.निरस्तम्.वा.कडङ्गरम् ॥[.शून्यो.]

1.36

किम्.अनेन.शरीरेण.स्रवता.पूउतिना.सदा ।
नित्यम्.रोग.अभिभूतेन.जरा.मरण.भीरुणा ॥

1.37

अनेन.पूति.कायेन.ह्य्.आतुरेण.प्रभङ्गुणा ।
निगच्छथ.पराम्.शान्तिम्.योग.क्षेमम्.अनुत्तरम् ॥

1.38

इह.वर्षम्.करिष्यामि.हेमन्तम्.ग्रीष्मम्.एव.च ।
बालो.विचिन्तयत्य्.एवम्.अन्तरायम्.न.पश्यति ॥

1.39

तम्.पुत्र.पशु.सम्मत्तम्.व्यासक्त.मनसम्.नरम् ।
सुत्पम्.ग्रामम्.महौघ.एव.मृत्युर्.आदाय.गच्छति ॥[.महौघैव.]

1.40

न.सन्ति.पुत्रास्.त्राणाय.न.पिता.न.अपि.बान्धवाः ।
अन्तकेन.अभिभूतस्य.न.हि.त्राणा.भवन्ति.ते ॥

1.41

इदम्.कृतम्.मे.कर्तव्यम्.इदम्.कृत्वा.भविष्यति ।
इत्य्.एवम्.स्पन्दतो.मर्त्यान्.जरा.मृत्युश्.च.मर्दति ॥

1.42

तस्मात्.सदा.ध्यान.रताः.समाहिता.ह्य्.आतापिनो.जाति.जरा.अन्त.दर्शिनः ।
मारम्.ससैन्यम्.ह्य्.अभिभूय.भिक्षवो.भवेत.जाती.मरणस्य.पारगाः ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc