भाषा

ENहिગુ
ग्रंथ पाठ

त्रिस्वभावनिर्देश · श्लोक 1-20

1

॥ नमो मञ्जुश्रिये कुमारभूताय ॥
आचार्यवसुबन्धुप्रणीतः
त्रिस्वभावनिर्देशः (त्स्न्)
कल्पितः परतन्त्रश्च परिनिष्पन्न एव च ।
त्रयः स्वभावा धीराणां गम्भीरज्ञेयमिष्यते

2

यत् ख्याति परतन्त्रो ऽसौ यथा ख्याति स कल्पितः ।
प्रत्ययाधीनवृत्तित्वात् कल्पनामात्रभावतः

3

तस्य ख्यातुर्यथाख्यानं या सदाविद्यमानता ।
ज्ञेयः स परिनिष्पन्नस्वभावो ऽनन्यथात्वतः

4

तत्र किं ख्यात्यसत्कल्पः कथं ख्याति द्वयात्मना ।
तस्य का नास्तिता तेन या तत्राद्वयधर्मता

5

असत्कल्पो ऽत्र कश्चित्तं यतस्तेन हि कल्प्यते ।
यथा च कल्पयत्यर्थ तथात्यन्तं न विद्यते

6

तद्धेतुफलभावेन चित्तं द्विविधमिष्यते ।
यदालयाख्यं विज्ञानं प्रवृत्त्याख्यं च सप्तधा

7

संक्लेशवासनाबीजैश्चितत्वाच्चित्तमुच्यते ।
चित्तमाद्यं द्वितीयं तु चित्राकारप्रवृत्तितः

8

समासतो ऽभूतकल्पः स चैष त्रिविधो मतः ।
वैपाकिकस्तथा नैमित्तिको ऽन्यः प्रातिभासिकः

9

प्रथमो मूलविज्ञानं तद्विपाकात्मकं यतः ।
अन्यः प्रवृत्तिविज्ञानं दृश्यदृग्वित्तिवृत्तितः

10

सदसत्त्वाद् द्वयैकत्वात् संक्लेशव्यवदानयोः ।
लक्षणाभेदतश्चेष्टा स्वभावानां गंभीरता

11

सत्त्वेन गृह्यते यस्मादत्यन्ताभाव एव च ।
स्वभावः कल्पितस्तेन सदसल्लक्षणो मतः

12

विद्यते भ्रान्तिभावेन यथाख्यानं न विद्यते ।
परतन्त्रो यतस्तेन सदसल्लक्षणो मतः

13

अद्वयत्वेन यच्चास्ति द्वयस्याभाव एव च ।
स्वभावस्तेन निष्पन्नः सदसल्लक्षणो मतः

14

द्वैविध्यात् कल्पितार्थस्य तदसत्त्वैकभावतः ।
स्वभावः कल्पितो बालैर्द्वयैकत्वात्मको मतः

15

प्रख्यानाद् द्वयभावेन भ्रान्तिमात्रैकभावतः ।
स्वभावः परतन्त्राख्यो द्वयैकत्वात्मको मतः

16

द्वयाभावस्वभावत्वादद्वयैकस्वभावतः ।
स्वभावः परिनिष्पन्नो द्वयैकत्वात्मको मतः

17

कल्पितः परतन्त्रश्च ज्ञेयं संक्लेशलक्षणम् ।
परिनिष्पन्न इष्टस्तु व्यवदानस्य लक्षणम्

18

असद्द्वयस्वभावत्वात् तदभावस्वभावतः ।
स्वभावात् कल्पिताज्ज्ञेयो निष्पन्नो ऽभिन्नलक्षणः

19

अद्वयत्वस्वभावत्वाद् द्वयाभावस्वभावतः ।
निष्पन्नात् कल्पितश्चैव विज्ञेयो ऽभिन्नलक्षणः

20

यथाख्यानमसद्भावात् तथासत्त्वस्वभावतः ।
स्वभावात् परतन्त्राख्यान्निष्पन्नो ऽभिन्नलक्षणः

मूल पाठ: Trisvabhāvanirdeśa · Edition: Stephen Anacker: Trisvabhavanirdesh. Delhi: Motilal Banarsidass, 1986. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc