भाषा

ENहिગુ
ग्रंथ पाठ

त्रिस्वभावनिर्देश · श्लोक 21-38

21

असद्द्वयस्वभावत्वाद् यथाख्यानास्वभावतः ।
निष्पन्नात् परतन्त्रो ऽपि विज्ञेयो ऽभिन्नलक्षणः

22

क्रमभेदः स्वभावानां व्यवहाराधिकारतः ।
तत्प्रवेशाधिकाराच्च व्युत्पत्त्यर्थं विधीयते

23

कल्पितो व्यवहारात्मा व्यवहर्त्रात्मको ऽपरः ।
व्यवहारसमुच्छेदस्वभावश्चान्य इष्यते

24

द्वयाभावात्मकः पूर्वं परतन्त्रः प्रविश्यते ।
ततः प्रविश्यते तत्र कल्पमात्रमसद्द्वयम्

25

ततो द्वयाभावभावो निष्पन्नो ऽत्र प्रविश्यते ।
तथा ह्यसावेव तदा अस्तिनास्तीति चोच्यते

26

त्रयो ऽप्येते स्वभावा हि अद्वयालम्बलक्षणाः ।
अभावादतथाभावात् तदभावस्वभावतः

27

मायाकृतं मन्त्रवशात् ख्याति हस्त्यात्मना यथा ।
आकारमात्रं तत्रास्ति हस्ती नास्ति तु सर्वथा

28

स्वभावः कल्पितो हस्ती परतन्त्रस्तदाकृतिः ।
यस्तत्र हस्त्यभावो ऽसौ परिनिष्पन्न इष्यते

29

असत्कल्पस्तथा ख्याति मूलचित्ताद् द्वयात्मना ।
द्वयमत्यन्ततो नास्ति तत्रास्त्याकृतिमात्रकम्

30

मन्त्रवन्मूलविज्ञानं काष्ठवत्तथता मता ।
हस्त्याकारवदेष्टव्यो विकल्पो हस्तिवद् द्वयम्

31

अर्थतत्त्वप्रतिवेधे युगपल्लक्षणत्रयम् ।
परिज्ञा च प्रहाणं च प्राप्तिश्चेष्टा यथाक्रमम्

32

परिज्ञानुपलम्भो ऽत्र हानिरख्यानमिष्यते ।
उपलम्भनिमित्ता तु प्राप्तिः साक्षात्क्रियापि सा

33

द्वयस्यानुपलम्भेन द्वयाकारो विगच्छति ।
विगमात् तस्य निष्पन्नो द्वयाभावो ऽधिगम्यते

34

हस्तिनो ऽनुपलम्भश्च विगमश्च तदाकृतेः ।
उपलम्भश्च काष्ठस्य मायायां युगपद् यथा

35

विरुद्धधीवारणत्वाद् बुद्ध्या वैयर्थ्यदर्शनात् ।
ज्ञानत्रयानुवृत्तेश्च मोक्षापत्तिरयत्नतः

36

चित्तमात्रोपलम्भेन ज्ञेयार्थानुपलम्भता ।
ज्ञेयार्थानुपलम्भेन स्याच्चित्तानुपलम्भता

37

द्वयोरनुपलम्भेन धर्मधातूपलभ्भता ।
धर्मधातूपलम्भेन स्याद् विभुत्वोपलम्भता

38

उपलब्धविभुत्वश्च स्वपरार्थप्रसिद्धितः ।
प्राप्नोत्यनुत्तरां बोधिं धीमान् कायत्रयात्मिकाम्

मूल पाठ: Trisvabhāvanirdeśa · Edition: Stephen Anacker: Trisvabhavanirdesh. Delhi: Motilal Banarsidass, 1986. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc