भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 9

9.1

त्रिपुराया महामन्त्रं नित्यातन्त्रे श्रुतं मया
इदानीं श्रोतुम् इच्छामि नवार्णस्य च वासनाम् ॥

9.2

भूमिश् चन्द्रः शिवो माया शक्तिः कृशानुसादनौ
अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥

9.3

भूमिबीजजपादेव भूपतिर् जायते ऽचिरात्
चन्द्रबीजजपादेव महासौन्दर्यमाप्नुयात् ॥

9.4

शिवबीजजपाद् एव शिववद्विहरेत् क्षितौ
एकत्रोच्चारणात् सत्यं चतुर्वर्गफलप्रदम् ॥

9.5

यत्त्वया कथितं नाथ योगज्ञानादिकं लयम्
यावत् कामादि संदीप्यो भावयोगो न लभ्यते ॥

9.6

ऊर्ध्वरेता महायोगी तदधः शक्तियोगतः
ब्रूहि मे जगतांनाथ कथं दीर्घायुषं भवेत् ॥

9.7

शृणु देवि प्रवक्ष्यामि येन दीर्घायुषं भवेत्
श्रुत्वा गोपय यत्नेन न प्रकाश्यं कदाचन ॥

9.8

पूजयेत् कालिकां देवीं तारिणीं वाथ सुन्दरीम्
षोडशेनोपचारेण पञ्चतत्त्वेन पार्वति ॥

9.9

दिनत्रयं पूजयित्वा षट्चक्रं चिन्तयेदथ
ततस्तु परमेशानि मालामन्त्रं समभ्यसेत् ॥

9.10

षोडशी वा महापूर्वा पत्त्रे चाभ्यासमाचरेत्
चतुष्पत्त्रे चाष्टवारं षट्पत्त्रे द्वादशं जपेत् ॥

9.11

दशपत्त्रे विंशतिं च द्वादशे वेदनेत्रकम्
षोडशे दशसंख्यं तु चतुर्वारं श्रुवोऽष्टकम् ॥

9.12

कुम्भकेन जपेन्मन्त्रं मालाषट्के सुरेश्वरि
एवं क्रमेण देवेशि स्थिरमायुर्यदा भवेत् ॥

9.13

प्रजपेदक्षमालायां येन मृत्युंजयो भवेत्
मूलचक्राच्छिरोऽन्ता च सुषुम्ना परिकीर्तिता
तद्गर्भस्था च या शक्तिः सा देवी कुण्डरूपिका ॥

9.14

सदा कुण्डलिनी देवी पञ्चाशद्वर्णभूषिता
मालारूपा कथं देव इति मे संशयो हृदि ॥

9.15

सहस्रारे महापद्मे बीजकोशे शिवालये
हंसेन वायुयोगेन पूरकेण समानयेत् ॥

9.16

सहस्रारं तु सम्प्राप्य शिवं दृष्ट्वा तु कामिनी
मालाकारेण तल्लिङ्गं संवेष्ट्य कुण्डली सदा ॥

9.17

अकारादिलकारान्ता क्षकारं वक्त्रसंयुतम्
चरमार्णं सरन्ध्रं च निजपुच्छेन कामिनी ॥

9.18

भेदयित्वा स्वपुच्छेन नागपाशं तदूर्ध्वके
एतत्कारणं संव्याप्य संस्थिता कुण्डली यदा ॥

9.19

तदैव प्रजपेन्मन्त्रम् अमरत्वं स विन्दति
रेचनात् कामिनी देवी प्रविशन्ती स्वकेतनम् ॥

9.20

न तत्र प्रजपेन्मन्त्रं जपान्मृत्युमवाप्नुयात्
रेचके छिन्नमालायां सत्यं हि सुरवन्दिते ॥

9.21

छिन्ने सूत्रे भवेन्मृत्युः पुरैव कथितं मया
इति ते कथितं कान्ते यतो मृत्युंजयो भवेत् ॥

9.22

अथवा निजनासाग्रे दृष्टिमारोप्य यत्नतः
वायुं संधार्य यत्नेन एकोच्चारेण चोच्चरेत् ॥

9.23

मालामन्त्रं षोडशीं वा तथा चाष्टादशाक्षरीम्
सहस्रं प्रजपेन्मन्त्रं प्रत्यहं यदि पार्वति ॥

9.24

जित्वा मृत्युं जरां रोगं दीर्घकालं स जीवति
एतदन्यं महायोगं भोगार्थी नहि लभ्यते ॥

9.25

अथवा परमेशानि डामरोक्तविधानतः
यजेत् कात्यायनीं देवीं भूतपूर्वां प्रयत्नतः ॥

9.26

तदा पञ्चसहस्राब्दं निश्चितं तु स जीवति
इति ते कथितं सर्वं देहरक्षणकारणम् ॥

9.27

न भोगी भोगमाप्नोति योगी योगो न लभ्यते
एतत्तत्त्वेन देवेशि भोगो योगायते ध्रुवम् ॥

9.28

यन्मालायां जपेनैव किं फलं लभते नरः
पृथक् पृथङ् महादेव पत्त्रमालाफलं वद ॥

9.29

भूमिकामी जपेन् मन्त्रं मूलाधारे चतुष्टये
स्वाधिष्ठाने जपादेव महेन्द्रो जायतेऽचिरात् ॥

9.30

मणिपूरे जपादेव भवेत् स्वर्गस्य भाजनम्
अनाहते महापद्मे जपाद् ब्रह्मपुरं व्रजेत् ॥

9.31

विशुद्धाख्ये जपादेव विष्णुलोके वसेद् ध्रुवम्
आज्ञाचक्रे च जप्तव्ये श्वेतद्वीपे वसेत् सदा ॥

9.32

यन्माला परमेशानि बाह्यमाला प्रकीर्तिता
अन्तर्माला महामाला पञ्चाशद्वर्णरूपिणी ॥

9.33

माहात्म्यं तस्य देवेशि किं वक्तुं शक्यते मया
सहस्रारे स्थिरीभूय यदि चाष्टशतं जपेत् ॥

9.34

तत्फलात् कोटिभागैकं भागं चान्येन विद्यते
पृथिव्यामव्ययो देहो भवत्येव न संशयः ॥

9.35

यन्मालायां जपेन्मन्त्रम् अभ्यासार्थं हि पार्वति
इति ते कथितं देवि चिरजीवी यथा भवेत् ॥

9.36

इदानीं परमेशानि भूतकात्यायनीं शृणु
वेदाद्यं शब्दबीजं च महामायां ततः परम् ॥

9.37

अस्त्रयुग्मं वह्निजाया मनुः सप्ताक्षरः परः
श्रीशिवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतम् ॥

9.38

भूतकात्यायनी देवी धर्मार्थकामदा सदा
प्रणवेन षडङ्गं च प्राणायामं च सुन्दरि ॥

9.39

ध्यानमस्याः प्रवक्ष्यामि शृणु सुन्दरि सादरम्
गौरवर्णां मुक्तकेशीं सर्वाभरणभूषिताम् ॥

9.40

पट्टवस्त्रपरीधानां सदा घूर्णितलोचनाम्
वामपाणौ रक्तपूर्ण खर्परं दक्षिणे करे ॥

9.41

मद्यपूर्णस्वर्णपात्रां ग्रीवायां हारभूषिताम्
शरच्चन्द्रसमाभासां पादाङ्गुलिविराजिताम् ॥

9.42

एवं तां वरदां नित्यां भावयेत् सिद्धिहेतवे
सामान्यार्घ्यं ततो देवि स्ववामे विन्यसेत्ततः ॥

9.43

जीवन्यासादिकं कृत्वा पूजयेत् परमेश्वरीम्
षोडशेनोपचारेण पञ्चतत्त्वेन सुन्दरि ॥

9.44

यजेत्तां बहुयत्नेन गृहमध्ये दिनत्रयम्
ततो जपेन्महामन्त्रं गजान्तकसहस्रकम् ॥

9.45

ततश्च पूजयेद् देवीं शून्यागारे दिनत्रयम्
प्रत्यहं प्रजपेन्मन्त्रं गजान्तकसहस्रकम् ॥

9.46

एव कृते महेशानि यदि सिद्धिर्न जायते
ततश्च प्रजपेन्मन्त्रं पितृभूमौ दिनत्रयम् ॥

9.47

ततः सिद्धिर्भवेद् देवि सत्यं सत्यं हि सुप्रिये
तद्वाक्यं प्रार्थनावाक्यं डामराख्ये मयोदितम् ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc