भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 10

10.1

काकीचञ्चुं महामुद्रां कथयस्व दयानिधे
येन रूपेण देवेश देहासनपरो भवेत् ॥

10.2

अनाकुलेन देवेशि जिह्वां परमयत्नतः
तालुमूले न्यसेत् पश्चात् ततो वायुं पिबेत् शनैः ॥

10.3

दन्तैर्दन्तान् समापीड्य काकीचञ्चुं समभ्यसेत्
बहुयोन्युक्तविधिना सर्वकर्माणि साधयेत् ॥

10.4

अथातः सम्प्रवक्ष्यामि स्वल्पयोनिं शृणु प्रिये
गुदछिद्रे दक्षगुल्फं संधौ लिङ्गं विनिक्षिपेत् ॥

10.5

नाभिरन्ध्रेऽथवा गुल्फं धारयेद् वामहस्तके
बहुयोन्युक्तविधिना चान्यत् सर्वं समापयेत् ॥

10.6

मुद्रा चैतन्यतन्त्रे च माहात्म्यं कथितं मया
यथा हेमगिरिर्देवि यथा वेगवती नदी ॥

10.7

चन्द्रादिकं यथा देवि चिरजीवी तथा भवेत्
दशावतारं देवेश ब्रूहि मे जगतां गुरो ॥

10.8

इदानीं श्रोतुमिच्छामि कथयस्व सुविस्तरात्
का वा देवी कथंभूता वद मे परमेश्वर ॥

10.9

तारा देवी नीलरूपा वगला कूर्ममूर्तिका
धूमावती वराहं स्यात् छिन्नमस्ता नृसिंहिका ॥

10.10

भुवनेश्वरी वामनः स्यान्मातंगी राममूर्तिका
त्रिपुरा जामदग्न्यः स्याद् बलभद्रस्तु भैरवी ॥

10.11

महालक्ष्मीर् भवेत् बुद्धो दुर्गा स्यात् कल्किरूपिणी
स्वयं भगवती काली कृष्णमूर्तिः समुद्भवा ॥

10.12

इति ते कथितं देव्य् अवतारं दशममेव हि
एतासां पूजनाद् देवि महादेवसमो भवेत्
आसां ध्यानादिकं सर्वं कथितं मे पुरा तव ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc