तोडलतन्त्र · अध्याय 8
सार्धत्रिकोटिनाडीनाम् आलयं च कलेवरम्
क्रमेण श्रोतुम् इच्छामि तद् वदस्व मयि प्रभो ॥
लोम्नि कूपे सपादार्ध कोटयश्चैव सुन्दरि
हस्तास्ये च तदा पादे ऽग्निलक्षनाडयः स्थिताः ॥
उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्तिताः
हृदादिसर्वगात्रेषु नवलक्षाः प्रकीर्तिताः ॥
अथ पार्श्वे तथा चर्मे तथैव सर्वसंधिषु
रुद्रान्न्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये ॥
इडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा
ब्रह्मनाडी च तन्मध्ये पञ्चनाड्यः प्रकीर्तिताः ॥
कुहूश् च शङ्खिनी चैव गान्धारी हस्तिजिह्विका
नर्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता ॥
एता नाड्यः परेशानि सुषुम्नायाः प्रजायते
वेदाक्षिवसुरन्ध्रास्तु बाणसंख्यजलान्तकाः
किमाधारे पद्ममध्ये संस्थिताः परमेश्वर ॥
योगपद्मस्य माहात्म्यं मया वक्तुं न शक्यते
मूलाधारे पद्ममध्ये लंबीजं चातिशोभनम् ॥
लंबीजस्य बिन्दुमध्ये पृथ्वीचक्रं मनोहरम्
वलयाकाररूपेण समुद्राः सप्तकाः स्थिताः ॥
बिन्दुमानं महादेव कथयस्व मयि प्रभो
क्रमेण योगपद्मस्य प्रमाणं वद शंकर ॥
परमाणुत्रिभागैक भागं बिन्दुं सुविस्तरम्
तन्मध्ये सागराः सर्वे सप्तद्वीपा वसुंधरा ॥
अव्ययं परमं सूक्ष्मं बिन्दुरूपं परं शिवम्
प्रमाणं चास्य देवस्य किं वक्तुं शक्यते मया ॥
ब्रह्मलोकं परेशानि नादोपरि विचिन्तयेत्
डाकिनीसहितो ब्रह्मा तथैव निवसेत् सदा ॥
लकारं पार्थिवं बीजं शक्तिरूपं सुरेश्वरि
पृथ्वीचक्रस्य मध्ये तु स्वयम्भूलिङ्गम् अद्भुतम् ॥
सार्धत्रिवलयाकार कुण्डल्या वेष्टितं सदा
लिङ्गच्छिद्रं स्ववक्त्रेण कुण्डल्याच्छाद्य संस्थिता ॥
तेनैव वर्तते वायुर् इडापिङ्गलयोः सदा
सहस्रारदर्शनाय सदा जाग्रत्स्वरूपिणी ॥
यदैव ब्रह्ममार्गेण सहस्रारे समुत्थिता
तदैव परमेशानि श्वासोच्छ्वासविकाशनम् ॥
केसरस्य तु मध्ये च चतुःपत्त्रे सुरेश्वरि
अनन्तरूपिणी दुर्गा शम्भुश् चानन्तरूपधृक् ॥
नानासुखविलासेन सदा कामेन वर्तते
लिङ्गच्छिद्रं समाकृष्य संस्थिता कुण्डली कथम् ॥
कथयस्व सदानन्द सर्वज्ञस्त्वं सुरेश्वर
लिङ्गमध्ये महत्तेजो वह्निरूपं च सुन्दरि ॥
यत् किंचिद् वायुयोगेन ब्रह्माण्डो दह्यते यतः
अतः सा कुण्डली देवी मुखेनाच्छाद्य संस्थिता ॥
तेनैव पार्थिवे लिङ्गे बिन्दुशक्तिं नियोजयेत्
बिन्दुशक्तिं समुत्थाप्य लिङ्गपूजा प्रकीर्तिता ॥
मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0