भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 7

7.1

महायोगमयी देवी खेचरी परमा कला
योगज्ञानं विना सिद्धिर् नास्ति सत्यं सुरेश्वर ॥

7.2

ब्रूहि मे देवदेवेश क्षुद्रब्रह्माण्डमध्यतः
किमाधारे स्थिता नाथ सप्तद्वीपा वसुंधरा ॥

7.3

समुद्रसप्तकं नाथ किमाकारं प्रतिष्ठति
मूलाधारे महीचक्रे संस्थिता मानवादयः ॥

7.4

क्षुद्ररूपा जनाः सर्वे किमाकारेण संस्थिताः
स्वकीयाङ्गुलिमानेन मारुतं कथय प्रभो ॥

7.5

मूलाधारे स्थिता देवि सप्तद्वीपा वसुंधरा
वलयाकाररूपेण समुद्राः सप्त संस्थिताः ॥

7.6

जम्बुद्वीपं मध्यदेशे तद्बाह्ये लवणाम्बुधिः
शाकद्वीपं महेशानि तद्बाह्ये दधिसागरः ॥

7.7

तद्बाह्ये शाल्मलीद्वीपं सागरो दुग्धतद्बहिः
तद्बाह्ये पाटलाद्वीपं तद्बाह्ये तु जलान्तकः ॥

7.8

पृथिव्यां वर्तते देवि यद्रूपा मानवादयः
तेन रूपेण देवेशि मूलाधारे तु जन्तवः ॥

7.9

षण्णवत्यङ्गुलं देवि मारुतं परिकीर्तितम्
मार्तण्डस्थितिमानं तु अधिकं परिकीर्तितम् ॥

7.10

कियद् भुवं तु ब्रह्माण्डं वद भूतलवासिनः
अङ्गुल्येकेन किं मानं कथयस्व दयानिधे ॥

7.11

अङ्गुल्येकेन देवेशि सहस्राब्दं प्रजायते
षण्णवतिसहस्राब्दं भवेद् भूतलवासिनः ॥

7.12

पादाङ्गुष्ठादिगुल्फान्तं प्रिये रन्ध्रसहस्रकम्
रन्ध्रं चन्द्रसहस्राब्दं गुल्फादिजानुसंधिषु ॥

7.13

जान्वादिगुदपर्यन्तं मानं विंशसहस्रकम्
मूलाधारादिलिङ्गान्तं चतुर्वर्षसहस्रकम् ॥

7.14

लिङ्गादिनाभिपर्यन्तं भवेदृषिसहस्रकम्
नाभ्यादिहृदयान्तं च ग्रहसंख्यसहस्रकम् ॥

7.15

हृदादिकण्ठपर्यन्तम् ऋषिसंख्यसहस्रकम्
विशुद्धादिकमाज्ञान्तं मानं रुद्रसहस्रकम् ॥

7.16

आज्ञाचक्राच्छिवान्तं वै दिक्सहस्रं सुरेश्वरि
सूर्यसंख्यासहस्रं तु समीरश्चाधिकः स्मृतः ॥

7.17

शरीरसहकारेण हासो वृद्धिश्च जायते
षड्गुणो रतिकाले च त्रिगुणो भोजनाद्बहिः ॥

7.18

धमने चाष्टधा प्रोक्तः समीरो वृद्धितां गतः
सद्गुरोर् उपदेशेन मन्त्रमार्गेण पार्वति ॥

7.19

यदि चैकाङ्गुलं ह्रस्वं सहस्राब्दं स जीवति
एवं क्रमेण देवेशि समता यदि वा भवेत् ॥

7.20

जित्वा मृत्युं महेशानि शम्भुवद् विहरेत् क्षितौ
अत एव महेशानि योनिमुद्रा मयोदिता ॥

7.21

प्राणायामेन देवेशि तथैव योनिमुद्रया
तथैवाभ्यासयोगेन यदि वायुः समो भवेत् ॥

7.22

जित्वा मृत्युं महेशानि खेचरो जायतेऽचिरात्
प्रमाणं कथितं सर्वं मनुष्यस्य प्रियंवदे ॥

7.23

श्वासोच्छ्वासविकासेन कुण्डली गगनं चरेत्
इदानीं पृथिवीमानं वद मे परमेश्वर ॥

7.24

सप्तस्वर्गस्थितो यो यो या या शक्तिः स्थिता सदा
तत्सर्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मां प्रति ॥

7.25

मूलाधारे महीचक्रे संस्थिता मानवादयः
तेषां मानेन देवेशि चार्धं चैव द्विसप्ततिः ॥

7.26

द्विगुणः परमेशानि तद्बाह्ये लवणाम्बुधिः
एवं क्रमेण देवेशि द्विगुणं परिकीर्तितम् ॥

7.27

डाकिनीसहितो ब्रह्मा मूलाधारे तु सुन्दरि
राकिणीसहितो विष्णुः स्वाधिष्ठाने व्यवस्थितः ॥

7.28

लाकिनीसहितो रुद्रो मणिपूरे सुरेश्वरि
अनाहते महापद्मे काकिनीसहितो हरः ॥

7.29

विशुद्धाख्ये वसेन्नित्या साकिनी च सदाशिवः
हाकिनी परशिवो देवश् चाज्ञाचक्रे सुरेश्वरि ॥

7.30

सहस्रारे महापद्मे विश्वरूपः परः शिवः
महाकुण्डलिनी तत्र स्थिता नित्या सुरेश्वरि ॥

7.31

कुत्र मूले महापीठे वर्तते परमेश्वर
मूलाधारादधोभागे पातालं कीदृशं प्रभो ॥

7.32

मूलाधारे कामरूपं हृदि जालंधरं प्रिये
पूर्णगिरिम् अधोभागे उड्डीयानं तदूर्ध्वके ॥

7.33

वाराणसी भ्रुवोर्मध्ये ज्वलन्ती लोचनत्रये
मायावती मुखवृत्ते कण्ठे चाष्टपुरी तथा ॥

7.34

नाभिमूले महेशानि अयोध्यापुरी संस्थिता
काञ्चीपीठं कटीदेशे श्रीहृट्टं पृष्ठदेशके ॥

7.35

मूलाधारात् शतं चैव अतलं परिकीर्तितम्
सुतलं च वर्षशतं तलातलशतं प्रिये ॥

7.36

ऋषिबाणेन्दुवर्षान्तं संस्थितं च महातलम्
शतद्वयान्तं पातालं द्विशतं वै रसातलम् ॥

7.37

मूलाधाराच्च देवेशि द्वेऽङ्गुली चान्तिके स्थिते
तयोर्मध्ये च पातालास् तिष्ठन्ति परमेश्वरि ॥

7.38

इति ते कथितं कान्ते योगसारं समासतः
न वक्तव्यं पशोर् अग्रे प्राणान्तेऽपि कदाचन ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc