तोडलतन्त्र · अध्याय 6
श्रुतं महाकालिकाया मन्त्रं परमगोपनम्
संक्षेपं कथितं नाथ वासनां वद मां प्रति ॥
शृणु देवि महामन्त्र वासनां सर्वसिद्धिदाम्
यस्याः श्रवणमात्रेण मन्त्राः सिद्धा भवन्ति हि ॥
ककारस्योर्ध्वकोणेषु प्राणो वायुः प्रतिष्ठितः
अपानो वायुकोणे च समानो मध्यदेशतः ॥
उदानो ऽङ्कुशकोणे च मात्रायां व्यान एव च
बीजं तु कालिकारूपं प्रकारं शृणु पार्वति ॥
कलाभागे जटाजूटं केशं च परमेश्वरि
बिन्दुमस्तकभालं तु नासा नेत्रं च पार्वति ॥
श्रोत्रयुग्मं तथा वक्त्रं स्कन्दनाद् अव्यवस्थितम्
चतुर्बाहुं तथा देहं स्तनद्वंद्वं कटिद्वयम् ॥
हृदयं जठरं पादं तथा सर्वाङ्गुलिः शिवे
ब्रह्मरूपं ककारं च सर्वाङ्गं तनुसंशयः ॥
शकारं कामरूपं च योनिरूपं न चान्यथा
चन्द्रसूर्याग्निरूपं च रेफं परमदुर्लभम् ॥
सर्वाङ्गद्योतनं तेजो जगदानन्दरूपकम्
बिन्दुनिर्वाणदं नादं महामोक्षप्रदं सदा ॥
सर्वविघ्नहरं देवि ककारं तोयरूपकम्
सर्वपापहरं रेफं तस्माद् वह्निर्न चान्यथा ॥
ईकारं परमेशानि शक्तिं चाव्ययरूपिणीम्
महामोक्षप्रदा देवी तस्मान्माया प्रकीर्तिता ॥
ककारं ब्रह्मरूपं च मकारं विष्णुरूपकम्
रेफः संहाररूपत्वाच् छिवरूपो न चान्यथा ॥
ब्रह्मविष्णुशिवः साक्षात् ककारं परमेश्वरि
अनुच्चार्यं तदेव स्याद् विना मायायुतं शिवे ॥
मायायुक्तं यदा देवि तदा मुक्तिप्रदं महत्
अत एव महेशानि मायाशक्तिर्निगद्यते ॥
ककारं धर्मदं देवि ईकारश्चार्थदायकम्
रकारं कामदं कान्ते मकारं मोक्षदायकम् ॥
एकत्रोच्चारणाद्देवि निर्वाणमोक्षदायिनी
माहात्म्यं देवदेवेशि किं वक्तुं शक्यते मया ॥
जिह्वाकोटिसहस्रेण वक्त्रकोटिशतेन च
जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते ॥
विधिवल्लक्षजापेन पुरश्चरणम् उच्यते
एतद्रूपं महामायां कूर्चबीजं तु सुन्दरि ॥
वाग्भवं प्रणवं देवि एतद्रूपं न संशयः
अग्निजाया महाविद्या एतद्रूपं न संशयः ॥
द्रुतसिद्धिप्रदा विद्या वह्निजाया परा मनुः
सम्बोधनपदेनैव सदा संनिधिकारिणी ॥
अथ वक्ष्ये महाविद्या पुरश्चरणम् उत्तमम्
कथितं मन्त्रराजस्य त्रिपुरश्चरणं शृणु ॥
दिवा लक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः
दिव्यवीरमते देवि रात्रौ लक्षं जपेत् सुधीः ॥
अथ षडक्षरस्यास्य शृणु देवि पुरस्क्रियाम्
दिव्यवीरमतेनैव विंशत्येकेन पार्वति ॥
तथा च त्र्यक्षरं मन्त्रं प्रजपेत् साधकाग्रणीः
ध्यानपूजादिकं सर्वं समानं वीरवन्दिते ॥
एतस्याः सदृशी विद्या फलदा नास्ति योगिनि
सर्वमन्त्रस्य चैतन्यं शृणु पार्वति सादरम् ॥
सहस्रारे महापद्मे बिन्दुरूपं परं शिवम्
कुण्डलिनीं समुत्थाप्य हंसेन मनुना सुधीः ॥
नासाग्रे या स्थिरा दृष्टिर् जायते परमेश्वरि
तदैव मन्त्रचैतन्यं कुण्डलीचक्रगं भवेत् ॥
सहस्रारे महापद्मे कुण्डल्या सहितं गुरुम्
भावयेत् सर्वमन्त्राणां चैतन्यं जायते प्रिये ॥
तदैव प्रजपेन्मन्त्रं सिद्धिदं नात्र संशयः
इदानीं तारिणीमन्त्र वासनां वद शंकर
कालिका मोक्षदा नित्या तारिणी भववारिधौ ॥
कलाकेशं महेशानि बिन्दुमस्तकमीरितम्
नादं च वक्त्रं भालं च नासां नेत्रं च पार्वति ॥
भुजचतुष्टयं देहं स्तनद्वंद्वं च वक्षसम्
मकारेण तु देवेशि पृष्ठं चैव कटिद्वयम् ॥
तकारेण योनिदेशं गुदं पादद्वयं तथा
सर्वाङ्गुलीर् नखं चैव भावयेत् साधकोत्तमः ॥
चन्द्रसूर्यात्मकं रेफं वह्निबीजं न चान्यथा
सर्वा नाड्यस्तथा ज्योती रोमं च भूषणादिकम् ॥
शकारं च महामाया शक्तिरूपप्रकाशिनी
मूर्धादिपादपर्यन्तं शक्तिबीजं सुदुर्लभम् ॥
अस्य मन्त्रस्य माहात्म्यं किं मया कथ्यतेऽधुना
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
काश्यादितीर्थं देवेशि सार्धकोटिभुवात्मकम्
पूर्णां शस्येन देवेशि सप्तद्वीपां वसुंधराम् ॥
मेरुतुल्यसुवर्णं तु ब्राह्मणे वेदपारगे
सदक्षिणं व्रतं सर्वं चतुर्वेदसुविस्तरम् ॥
गां चैव भूमिसंस्थं च हस्त्यश्वं च तथैव च
बलिदानं महेशानि पितृयज्ञं तथैव च ॥
विहितं च महापुण्यं यदुक्तं शास्त्रवेदिभिः
सकृज्जपान्महेशानि कलां नार्हन्ति षोडशीम् ॥
एकोच्चारेण देवेशि किं पुनर्ब्रह्म केवलम्
सृष्टिस्थितिलयादीनां कर्तारो नात्र संशयः ॥
सगुणं निर्गुणं साक्षात् निराकारं च मूर्तिमत्
वैखरीयं महाविद्या वर्णाश्रिता सुनिश्चला ॥
यतो निरक्षरं वस्तु अतस्तारा प्रकीर्तिता
ब्रह्मविद्यास्वरूपेयं भोगमोक्षफलप्रदा ॥
जन्मकोटिसहस्रेण वर्णितुं नैव शक्यते
पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना ॥
एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता
एकाक्षरीविहीनो यो मन्त्रं गृह्णाति पार्वति ॥
कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते
सकारो विष्णुरूपश्च तकारश्च प्रजापतिः ॥
रेफः संहाररूपत्वाच् छिवः साक्षान्न संशयः
या चाद्या परमा विद्या सा माया परमा कला ॥
निराकारं परं ज्योतिर् बिन्दुं चाव्ययसंज्ञकम्
बिन्दुशब्देन शून्यं स्यात् तथा च गुणसूचकम् ॥
बिन्दुचक्रामृता देवि प्लवन्ती चार्धमात्रया
अर्धमात्राकृतिर्नादो व्यापको विश्वपालकः ॥
यथेयं वैखरी विद्या कूर्चविद्या तथैव च
माहात्म्यं चैव पूजायां भेदो नास्ति सुरेश्वरि ॥
सतारं च तथा बिन्दुं माया पञ्चाक्षरी परा
विभक्ते चाक्षरे चैव क्रियते मूर्तिकल्पना ॥
सार्धपञ्चाक्षरी विद्या तारिणी मूर्तिमत् स्वयम्
तद्रूपं पक्षिरूपं हि वाग्भवश्च हरिप्रियाम् ॥
प्रणवं कामबीजं तु गगनश् च शिवं शिवे
अस्त्रबीजं तदेव स्याद् वह्निजायां सुरेश्वरि ॥
सम्बोधनपदेनैव सदा संनिधिकारिणी
पञ्चाक्षरेण देवेशि तारिणी कामरूपिणी ॥
तथा पञ्चाक्षरं पश्य ब्रह्मविष्णुशिवात्मकम्
शक्तिरूपं निराकारं तथा पञ्चाक्षरेण तु ॥
यथा पञ्चाक्षरी विद्या तथा विद्या षडक्षरी
तथैव षोडशी विद्या तथा विद्या च व्यक्षरी ॥
तथैवाष्टाक्षरी विद्या तथा नवाक्षरी परा
माहात्म्यं ध्यानपूजायां भेदो नास्ति सुरेश्वरि ॥
अतिस्नेहेन देवेशि किं मया न प्रकाशितम्
प्राणान्तेऽपि पशोरग्रे वैखरीं न प्रकाशयेत् ॥
मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0