भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 5

5.1

त्वत्प्रसादान्महादेव पवित्राहं न चान्यथा
शम्भुनाथार्चनं देव श्रोतुम् इच्छामि साम्प्रतम् ॥

5.2

शृणु पार्वति वक्ष्यामि यन्मां त्वं परिपृच्छसि
नकुलीशं समुद्धृत्य मनुस्वरविभूषितम् ॥

5.3

बिन्दुनादकलायुक्तं प्रासादाख्यं महामनुम्
अस्य मन्त्रस्य माहात्म्यम् ऊर्ध्वाम्नाये मयोदितम् ॥

5.4

नमस्कारं समुद्धृत्य वान्तं नेत्रविभूषितम्
वारुणं मुखवृत्तं च वायुं ललाटसंयुतम् ॥

5.5

अयं पञ्चाक्षरो मन्त्रः पञ्चाम्नायफलप्रदः
प्रणवादि यदा देवि तदा मन्त्रं षडक्षरम् ॥

5.6

प्रासादाख्यं समुद्धृत्य अर्धनारीश्वराय च
पुनः प्रासादमुद्धृत्य मन्त्रं परमगोपनम् ॥

5.7

एवं बहुविधाकारं विग्रहं मे नगात्मजे
कण्ठे तु गरलं देवि न कलौ भावयेत् क्वचित् ॥

5.8

यदीच्छेदात्मनो मृत्युं यदि उन्मत्तम् इच्छति
तदैव सहसा देवि नीलकण्ठम् उपासते ॥

5.9

दुरदृष्टवशाद् देवि नीलकण्ठस्तवादिकम्
करोति कारयेद्वापि मम हत्यां करोति सः ॥

5.10

अत एव महेशानि स पापिष्ठो न चान्यथा
निषिद्धाचरणं पापं करोति यदि पामरः ॥

5.11

पुत्रदाराधनं तस्य नाशमेति न संशयः
कण्ठे तु गरलं देवि यदि पूजापरो भवेत् ॥

5.12

इहलोके दरिद्रः स्यान् मृते शूकरतां व्रजेत्
नीलकण्ठस्य यन्मन्त्रं यदि कुर्यात् पुरस्क्रियाम् ॥

5.13

पक्षान्तरे महेशानि तस्य मृत्युर्न चान्यथा
शृणु देवि प्रवक्ष्यामि पार्थिवं शिवपूजनम् ॥

5.14

तत्रादौ परमेशानि गुरुदेवं नमेत् सुधीः
ओं हराय नमस्कारं मृत्तिकामाहरेत् सुधीः ॥

5.15

महेश्वराय नमस्कारं लिङ्गं निर्माय यत्नतः
शूलपाणे इहोच्चार्य सुसंप्रतिष्ठितो भव ॥

5.16

अनेन मनुना देवि जीवन्यासो विधीयते
शकारं बिन्दुसंयुक्तं दीर्घमुक्तं षडङ्गकम् ॥

5.17

तस्य ध्यानं प्रवक्ष्यामि शृणुष्व सुसमाहिता
ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्
पद्मासीनं समन्तात् स्तुतम् अमरगणैर् व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

5.18

पुष्पं शिरसि संधार्य मानसैः पूजनं चरेत्
पुनर्ध्यात्वा महेशानि शिवे पुष्पं निधाय च ॥

5.19

पिनाकधृगिति चोच्चार्य इहागच्छ द्वयं वदेत्
इह तिष्ठ ततो द्वंद्वं संनिधेहि द्वयम् इह ॥

5.20

इह सन्नि ततो रुद्ध स्वशब्दं च ततो वदेत्
यावत् पूजां समुच्चार्य ततश्चैवं करोम्यहम् ॥

5.21

स्नानीयं च पशुपतिं ङेयुक्तं च नमश्चरेत्
वेदाद्यं योजयेद्देवि ब्राह्मणः साधकोत्तमः ॥

5.22

एतत् पाद्यं महेशानि षडक्षरमनुं ततः
नमस्कारं समुच्चार्य सर्वं दद्याद् विचक्षणः ॥

5.23

पूजयित्वा महेशानि चाष्टमूर्तिं प्रपूजयेत्
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ॥

5.24

महादेवं च ईशानं ङेयुतं कुरु यत्नतः
क्षितिं जलं तथा चाग्निं वायुं चाकाशमेव च ॥

5.25

यजमानं तथा सोमं सूर्यं च मूर्तिना सह
सर्वत्र ङेयुतं कृत्वा पूजयेत् साधकोत्तमः ॥

5.26

प्रणवादिनमोऽन्तेन वामावर्तेन पूजयेत्
मूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः ॥

5.27

आग्नेय्यान्ताः प्रपूज्याथ विद्यां लिङ्गिशिवं यजेत्
अष्टोत्तरसहस्रं वा शतं वा प्रजपेत्ततः ॥

5.28

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम्
सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर ॥

5.29

ततस्तोयं समादाय जपं चैव समर्पयेत्
मुखवाद्यं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः ॥

5.30

संहारेण महादेव क्षमस्वेति विसर्जयेत्
एवं पूजा प्रकर्तव्या शक्तिमन्त्रान् यजेद् यदि ॥

5.31

प्रासादादीन् महामन्त्रान् यदि दीक्षापरो भवेत्
शक्तिदीक्षा न कर्तव्या कदाचिदपि मोहतः ॥

5.32

स शैव इति विख्यातः सर्वतन्त्रेश्वरो भवेत्
अथातः सम्प्रवक्ष्यामि सूत्रं परमगोपनम् ॥

5.33

हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक्
पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥

5.34

अष्टमूर्तिस् ततो देवि पूजयेत् साधकोत्तमः
ततो जपेन्महेशानि मुखवाद्यं ततः परम् ॥

5.35

एतदन्यन्न कर्तव्यं शक्तिदीक्षापरो यदि
निषिद्धाचरणाद्देवि पापभाग् जायते नरः ॥

5.36

न्यूनाधिकं महादेवि यदि पूजादिकं चरेत्
स गुरुं चापि शिष्यं च शिवहत्यां प्रयच्छति ॥

5.37

न्यूनाधिकं महेशानि यदि चैकाक्षरं भवेत्
वर्णसंख्या महेशानि ब्रह्महत्या भविष्यति ॥

5.38

अत एव स पापिष्ठः सत्यं सत्यं सुरेश्वरि
एवं पूजां विधायादौ ततश्चान्यं प्रपूजयेत् ॥

5.39

आदौ शिवं पूजयित्वा शक्तिपूजा ततः परम्
यत् किंचिद् उपचारं हि तस्य किंचिन्निवेदयेत् ॥

5.40

अन्यथा मूत्रवत् सर्वं गङ्गातोयं भवेद् यदि
अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥

5.41

शिवस्नानोदकं देवि मूर्ध्नि संधारयेद् यदि
सत्यं सत्यं महेशानि शिवतुल्यो न संशयः ॥

5.42

शिवरूपी स्वयं भूत्वा देवीपूजां समाचरेत्
शैववैष्णवदौर्गार्क गाणपत्यैन्द्रदीक्षितः ॥

5.43

आदौ लिङ्गं पूजयित्वा यदि चान्यत् प्रपूजयेत्
तत्फलं कोटिगुणितं सत्यं सत्यं न संशयः ॥

5.44

अन्यदेवं पूजयित्वा शिवं पश्चाद् यजेद् यदि
तस्य पूजाफलं चैव भुज्यते यक्षराक्षसैः ॥

5.45

इति ते कथितं कान्ते तन्त्राणां सारमुत्तमम्
बहु किं कथ्यते देवि भूयः किं श्रोतुमिच्छसि ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc