भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 4

4.1

श्रुता पूजा कालिकायास् ताराया वद साम्प्रतम्
यस्याः प्रसङ्गमात्रेण वाचश् चित्तायते नृणाम् ॥

4.2

शृणु चार्वङ्गि सुभगे तारायाः पूजनं महत्
मन्त्रेणाचमनं कृत्वा गुरुदेवं नमेत्ततः ॥

4.3

जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः
मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् ॥

4.4

शिखां बद्ध्वा ततो देवि त्रिविधं विघ्ननाशनम्
भूम्यासनं च संशोध्य वस्त्रे ग्रन्थिं विधाय च ॥

4.5

कायवाक्शोधनं कृत्वा ततः पुष्पविशोधनम्
यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यं च विन्यसेत् ॥

4.6

द्वारपालांश्च संपूज्य पीठपूजां समारभेत्
पीठशक्तीश्च लक्ष्म्याद्यास् ततः पीठमनुं जपेत् ॥

4.7

भूतशुद्धिं प्रवक्ष्यामि विशेषमिह यद्भवेत्
कूर्चयुक्तेन हंसेन पूरकेण सुरेश्वरि ॥

4.8

कुण्डल्या सह चात्मानं चतुर्विंशतिबीजकम्
तत्र लीनानि देवेशि परमात्मनि साधकः ॥

4.9

मायया संदहेत् पापं पुरुषं कज्जलप्रभम्
कुम्भकेन वरारोहे भस्म कुर्याद् विचक्षणः ॥

4.10

वधूबीजेन देवेशि भस्मना सह रेचयेत्
पूरकेण तु कूर्चेन ललाटेऽमृतसंचयम् ॥

4.11

चिन्तयेत् परमेशानि कुम्भकेनामृताम्बुधिम्
आं ह्रीं क्रों वह्निबीजान्तं हृदि चैकादशं जपेत् ॥

4.12

ततस्तु चिन्तयेद् धीमान् ओंकाराद् रक्तपङ्कजम्
तस्योपरि पुनर्ध्यायेत् हुंकारं नीलसंनिभम् ॥

4.13

तस्योपरि पुनर् ध्यायेद् बीजभूषितकर्तृकाम्
तस्योपरि परं बिन्दुं शिवरूपं च अव्ययम् ॥

4.14

वालुकायाः सहस्रैक भागं बिन्दुं सुदुर्लभम्
बिन्दुमध्ये मणिद्वीपं शतयोजनविस्तृतम् ॥

4.15

बिन्दुमध्ये परं ज्योतिर् बुद्बुदाकारमण्डलम्
यथैव बुद्बुदे देवि प्रतिबिम्बं प्रपश्यति ॥

4.16

तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा
मणिद्वीपं तु तन्मध्ये सुवर्णवालुकामयम् ॥

4.17

परितो भावयेन्मन्त्री परिखातो मनोहरम्
मध्ये कल्पद्रुमं ध्यायेद् आत्मानं तारिणीमयम् ॥

4.18

उद्यदादित्यसंकाशं ज्योतिर्मण्डलमुत्तमम्
चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् ॥

4.19

बहुचामरघण्टादि देवकन्यासुशोभितम्
मन्दवायुसमायुक्तं गन्धधूपैर् अलंकृतम् ॥

4.20

तन्मध्ये वेदिकां ध्यायेन् नानारत्नोपशोभिताम्
सुवर्णसूत्ररचितं चिन्तयेच्छत्त्रम् उत्तमम् ॥

4.21

तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये
तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः ॥

4.22

योगसारे यथोक्तैस्तु उपचारैः प्रपूजयेत्
प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् ॥

4.23

वर्णन्यासं ततः कृत्वा कराङ्गन्यासमाचरेत्
तालत्रयं छोटिकाभिर् दशदिग्बन्धनं चरेत् ॥

4.24

षोढान्यासं ततः कृत्वा व्यापकं तदनन्तरम्
विशेषार्घ्यं च संस्थाप्य पञ्चतत्त्वं विशोधयेत् ॥

4.25

सुधादेवीं समानीय पञ्चीकरणमाचरेत्
कुम्भे पुष्पं समादाय त्रिकोणे त्रिः प्रपूजयेत् ॥

4.26

वामदेहं त्रिधा चोक्त्वा खेचरीं दशधा जपेत्
तथा चानन्दगायत्रीम् ऋचं च त्रिर् जपेत् सुधीः ॥

4.27

ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि
दिग्जपान्नाशयेद्धीमान् ततो मन्त्रत्रयं जपेत् ॥

4.28

छुरिकां चामृतं चैव प्रीतिसंरक्षणीं तथा
पावमानं च त्रिर् जप्त्वा शोषणादीन् समाचरेत् ॥

4.29

वारुणं त्रिर् जपेद्देवि चामृतं सप्तधा जपेत्
विद्यातत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा ॥

4.30

कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः
मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् ॥

4.31

शक्तिं च कुलपुष्पं च शोधयेत् साधकोत्तमः
देवान् पितॄन् ऋषींश्चैव तर्पयेदिष्टदेवताम् ॥

4.32

शोधितं द्रव्यमादाय विशेषार्घ्ये विनिक्षिपेत्
ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् ॥

4.33

नासारन्ध्रात् समानीय पीठे पुष्पं निधाय च
ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् ॥

4.34

षडङ्गेन च सम्पूज्य पुनर्मुद्रां प्रदर्शयेत्
जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् ॥

4.35

षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः
गुरुपङ्क्तिं पूजयित्वा दशमूलेषु पूजयेत् ॥

4.36

महापूर्वांश् च काल्यादीन् यजेद्वैरोचनादिकान्
पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः ॥

4.37

प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत्
जपं कृत्वा महेशानि देव्या हस्ते समर्पयेत् ॥

4.38

प्राणायामं पुनः कृत्वा तत्त्वस्वीकारमाचरेत्
तस्मै दत्त्वा स्वयं नीत्वा प्रजपेत् साधकाग्रणीः ॥

4.39

पीत्वा पीत्वा जपित्वा च मुक्तः कोटिजनैः सह
प्रतिपात्रे जपेन्मन्त्रम् अष्टोत्तरशतं सुधीः ॥

4.40

स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः
विशेषार्घ्यं प्रदातव्यम् आत्मानं च समर्पयेत् ॥

4.41

रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत्
योनिमुद्रां ततो बद्ध्वा क्षमस्वेति विसर्जयेत् ॥

4.42

अङ्गन्यासं महेशानि प्राणायामं ततः परम्
ऐशान्यां मण्डलं कृत्वा निर्माल्येन प्रपूजयेत् ॥

4.43

निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः
निर्माल्यं धारयेत् शीर्षे चन्दनं च ललाटके ॥

4.44

गुरुस्थाने लिखेद् यन्त्रं विचरेद् भैरवो यथा
संक्षेपपूजनं देवि मानसं तत्त्ववर्जितम् ॥

4.45

अत्रोक्तमाचरेदत्र नान्यत् संचारयेत् सुधीः
अन्यत्संचारणाद्देवि क्रुद्धा भवति तारिणी ॥

4.46

तत्त्वज्ञानं च मानं च शक्तिमात्रे हि पार्वति
इत्येतत् कथितं देवि किमन्यत् श्रोतुमिच्छसि ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc