भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 3

3.1

देवदेव महादेव संसारार्णवतारक
बद्धयोनिं महामुद्रां कथयस्व दयानिधे ॥

3.2

शृणु देवि प्रवक्ष्यामि बद्धयोनिं समासतः
उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ॥

3.3

गुदच्छिद्रे महेशानि स्वलिङ्गाग्रं निवेशयेत्
श्रोत्रे चैव तथा नेत्रे नासायां च ततो मुखे ॥

3.4

अङ्गुष्ठादि महेशानि क्रमेण योजयेत् सुधीः
नासिकायां मुखे चैव समीरं बहुयत्नतः ॥

3.5

पूरयेत् परमेशानि किंचिद् अपि न रेचयेत्
शब्दप्रत्यक्षतां कृत्वा वर्णमालां विचिन्तयेत् ॥

3.6

अष्टोत्तरशतं मूल मन्त्रं तु प्रजपेत् सुधीः
सो ऽहंमन्त्रेण देवेशि आनयेत्तेन वर्त्मना ॥

3.7

षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया
कृते फलं महेशानि कथयिष्यामि ते ऽनघे ॥

3.8

वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर
मन्त्रमार्गेण देवेश कालिकायाः सुदुर्लभम् ॥

3.9

शृणु देवि सदानन्दे कालिकामन्त्रमुत्तमम्
यस्याः प्रसङ्गमात्रेण जीवन्मुक्तो भवेन्नरः ॥

3.10

शिवाद्यं बिन्दुनादाढ्यं वामनेत्राग्निसंयुतम्
सिद्धविद्या त्व् इयं भद्रे विद्याराज्ञी सुदुर्लभा ॥

3.11

इदं बीजत्रयं चाद्यं गगनं बिन्दुभूषितम्
वामश्रवणसंयुक्तं द्वंद्वं चापरकं शृणु ॥

3.12

ईशानं वह्निसंयुक्तं वामनेत्रेन्दुसंयुतम्
द्वितीयं परमेशानि सम्बोधनपदं ततः ॥

3.13

पुनर् बीजत्रयं कूर्चं मायाद्वंद्वं च ठद्वयम्
द्वाविंशत्यक्षरं मन्त्रं विद्याराज्ञी सुदुर्लभा ॥

3.14

वाग्भवाद्या महाविद्या श्रीकाली देवता स्मृता
प्रणवाद्या महाविद्या देवता सिद्धिकालिका ॥

3.15

निजबीजद्वयं कूर्चं बीजैकं परमेश्वरि
त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्मृता ॥

3.16

एतस्याः सदृशी विद्या सिद्धिदा नास्ति सुन्दरि
यथा षडक्षरी विद्या तथा विद्या च त्र्यक्षरी ॥

3.17

निजबीजत्रयं भद्रे श्मशानकालिका ततः
पुनर् बीजत्रयं भद्रे वह्निकान्तां समुच्चरेत् ॥

3.18

चतुर्दशाक्षरी विद्या त्रिषु लोकेषु पूजिता
दक्षिणाकालिका सिद्ध कालिका गुह्यकालिका ॥

3.19

श्रीकालिका भद्रकाली चामुण्डाकालिका परा
श्मशानकालिका देवि महाकालीति चाष्टधा ॥

3.20

निजबीजं महेशानि सम्बोधनपदं ततः
पुनश्च कालिकाबीजं ततो वह्निवधूं न्यसेत् ॥

3.21

इति चाष्टविधं मन्त्रं सर्वतन्त्रेषु गोपितम्
श्रुतं महाकालिकाया मन्त्रं परमगोपनम् ॥

3.22

ताराया मन्त्रराजं तु श्रोतुमिच्छामि साम्प्रतम्
यस्याः प्रसङ्गमात्रेण भवाब्धौ न निमज्जति ॥

3.23

तन्मन्त्रं वद ईशान यदि स्नेहोऽस्ति मां प्रति
चन्द्रबीजं समुच्चार्य आद्यं वह्निसमागतम् ॥

3.24

वामनेत्रेन्दुसंयुक्तं मन्त्रराजमिमं प्रिये
एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता ॥

3.25

ईशानबिन्दुसंयुक्तं वामकर्णविभूषितम्
एकाक्षरी महाविद्या मन्त्रराजद्वितीयकम् ॥

3.26

शिरं बिन्दुसमारूढं वामनेत्रेन्दुसंयुतम्
आद्यबीजं द्वितीयं च अस्त्रमन्त्रं समुच्चरेत् ॥

3.27

प्रणवाद्या यदा विद्या सोग्रतारा प्रकीर्तिता
विद्या चैकजटा प्रोक्ता महामोक्षप्रदायिनी ॥

3.28

तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती
वाग्भवाद्या यदा विद्या वागीशत्वप्रदायिनी ॥

3.29

श्रीबीजाद्या महाविद्या सदा लक्ष्मीप्रदायिनी
मायाद्या परमा विद्या सदा सिद्धिप्रदायिनी ॥

3.30

कूर्चबीजादिका चैषा शब्दराशिप्रकाशिनी
गगनाद्या महाविद्या निर्वाणमोक्षदायिनी ॥

3.31

प्रासादाद्या महाविद्या शिवसायुज्यदायिनी
प्राणबीजादिका चैषा वाञ्छासिद्धिप्रदायिनी ॥

3.32

कालिकाद्या महाविद्या मुक्तिदा सिद्धिदा सदा
कालिकायाश्च ताराया आराधनम् इहोच्यते ॥

3.33

प्रातरुत्थाय मन्त्रज्ञः सहस्रारे गुरुं यजेत्
षट्चक्रं भेदयित्वा तु चाष्टोत्तरशतं जपेत् ॥

3.34

ततः प्रणम्य विधिवत् स्नानकर्म समारभेत्
अद्येत्यादि समुच्चार्य सौरमासं समुच्चरेत् ॥

3.35

देवताप्रीतये पश्चात् स्नापयेच्छुद्धवारिणा
ओंकारं च समुच्चार्य गङ्गे चेति समुच्चरेत् ॥

3.36

यमुनेति ततः पश्चाद् गोदावरि सरस्वति
नर्मदेति समुच्चार्य सिन्धुकावेरिसंयुतम् ॥

3.37

अस्मिन् जले च संनिधिं कुरु शब्दमथो वदेत्
आनयेदङ्कुशाख्येन रविसंयुक्तमण्डलात् ॥

3.38

मुद्राचतुष्टयं देवि दर्शयेद् बहुयत्नतः
रुद्रसंख्यं जपेन्मन्त्रम् आच्छाद्य मीनमुद्रया ॥

3.39

सूर्यायाभिमुखं तोयं निःक्षिप्य रविसंख्यया
मूलमन्त्रं समुच्चार्य क्षालयेच्चरणद्वयम् ॥

3.40

चरणान्निःसृते तोये त्रिर् निमज्य जपेन्मनुम्
मूलमन्त्रं त्रिर् जप्त्वा तु मुद्रया कुम्भसंज्ञया ॥

3.41

जलादुत्थाय देवेशि तिलकं कुलवर्त्मतः
आत्मविद्याशिवैस् तत्त्वैर् आचामेत् पयसा ततः ॥

3.42

वह्निजायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः
गङ्गे चेत्यादिना देवि तीर्थमावाहनं चरेत् ॥

3.43

मूलेन दर्भया भूमौ त्रिवारं निक्षिपेत् सुधीः
तज्जलेन सप्तवारम् आत्माभिषेकमाचरेत् ॥

3.44

अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि
गगनं वायुबीजं च वरुणं भूमिबीजकम् ॥

3.45

वह्निबीजं बिन्दुयुक्तं त्रिवारं जपमाचरेत्
अनेन मनुना देवि तज्जलं चाभिमन्त्रितम् ॥

3.46

मूलमन्त्रं समुच्चार्य सप्तधा तत्त्वमुद्रया
अभिषेचनमात्रेण मुच्यते सर्वपातकैः ॥

3.47

शेषं जलं महेशानि दक्षहस्ते समानयेत्
इडया पूरयेत्तोयं क्षालयेद् देहमध्यगम् ॥

3.48

ततः पिङ्गलया देवि तत्तोयं तु विरेचयेत्
कृष्णवर्णं तदुदकं पापरूपं विचिन्तयेत् ॥

3.49

पुरतो वज्रपाषाणे फट्कारेण विनिक्षिपेत्
हस्तं प्रक्षाल्य चाचम्य प्राणायामपुरःसरम् ॥

3.50

तर्पयेत् कुलदेवं च सूर्यायार्घ्यं निवेदयेत्
देवतार्घ्यं ततः पश्चाद् गायत्रीं परमाक्षरीम् ॥

3.51

प्रणवं च समुद्धृत्य कालिकायै ततो वदेत्
विद्महे इति संलिख्य श्मशानं च समुद्धरेत् ॥

3.52

वासिनीं ङेयुतां देवि धीमहीति ततो वदेत्
तन्नो घोरे महेशानि प्रजपेत्तु प्रचोदयात् ॥

3.53

गायत्रीं प्रपठेद् धीमान् त्रिवारं जलमुत्क्षिपेत्
ततो जपेन्महामन्त्रं गायत्रीं परमाक्षरीम् ॥

3.54

अङ्गन्यासं ततः कृत्वा आचम्य परमेश्वरि
इष्टदेवीं महेशानि ध्यात्वा तु परिमण्डले ॥

3.55

ओं तारायै विद्महे इति महोग्रायै ततो वदेत्
धीमहीति ततः पश्चात् ततो देवि प्रचोदयात् ॥

3.56

प्राणायामं ततः कृत्वा चाष्टोत्तरशतं जपेत्
सूत्राकारेण देवेशि पूजाविधिरिहोच्यते ॥

3.57

स्वस्तिवाचनसंकल्पं घटं संस्थाप्य यत्नतः
मन्त्रेणाचमनं कार्यं सामान्यार्घ्यं ततो न्यसेत् ॥

3.58

तज्जलैर् द्वारम् अभ्युक्ष्य द्वारपूजां समाचरेत्
त्रिविधं विघ्नम् उत्सार्य भूतापसरणं ततः ॥

3.59

आसनं च समभ्यर्च्य गुरुदेवं नमेत् सुधीः
करशुद्धिं च तालं च त्रयं दिग्बन्धनं ततः ॥

3.60

वह्निना वेष्टनं कार्यं भूतशुद्धिम् अथाचरेत्
मातृकायाः षडङ्गं च कुर्याद् आन्तरमातृकाम् ॥

3.61

मातृकाध्यानम् उच्चार्य बाह्ये तु मातृकां न्यसेत्
पीठन्यासं ततः कृत्वा प्राणायामं समाचरेत् ॥

3.62

ऋष्यादिकं कराङ्गं च वर्णन्यासं समाचरेत्
षोढान्यासं ततो देवि व्यापकं तदनन्तरम् ॥

3.63

एवं समाहितमनास् तत्त्वन्यासं समाचरेत्
बीजन्यासं ततो देवि व्यापकं विन्यसेत् सुधीः ॥

3.64

मूलेन सप्तधा ध्यानं मानसैः पूजनं चरेत्
विशेषार्घ्यं पीठपूजां पुनर्ध्यानं सनेत्रकम् ॥

3.65

मुद्रादिदर्शनं कार्यम् आवाहनषडङ्गकम्
धेन्वादिकं ततः प्राण प्रतिष्ठां मूलपूजनम् ॥

3.66

आज्ञाप्रार्थनमङ्गानि काल्यादीन् परिपूजयेत्
ब्राह्म्यादीनसिताङ्गादीन् महाकालं प्रपूजयेत् ॥

3.67

खड्गादीन् गुरुपङ्क्तिं च पुनर्देवीं प्रपूजयेत्
बलिदानं ततो होमं प्राणायामं ततो जपम् ॥

3.68

जपं समर्पयेद्धीमान् प्राणायामं ततश्चरेत्
एतस्मिन् समये देवि कारणादीन् समाहरेत् ॥

3.69

अर्घ्यं दत्त्वा महेशानि चात्मानं च समर्पयेत्
स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः ॥

3.70

शिवोऽहम् इति संचिन्त्य संहारेण विसर्जयेत्
ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् ॥

3.71

अर्घ्यं संधार्य शिरसि चन्दनं तु ललाटके
नैवेद्यं किंचित् स्वीकृत्य विहरेच्च निजेच्छया ॥

3.72

संक्षेपपूजामथवा कुर्यान्मन्त्री समाहितः
आदौ ऋष्यादिकं न्यासं करशुद्धिस्ततः परम् ॥

3.73

अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च
तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ॥

3.74

ध्यानं मानसयागं च अर्घ्यस्थापनमेव च
पीठपूजां पुनर्ध्यानं ततश्चावाहनं चरेत् ॥

3.75

जीवन्यासं ततः कृत्वा पूजयेत् परदेवताम्
अङ्गपूजां च काल्यादीन् ब्राह्म्यादींश्चाष्टभैरवान् ॥

3.76

महाकालं पूजयित्वा गुरुपङ्क्तिं यजेत्ततः
खड्गादीन् पूजयित्वा तु पुनर्देवीं प्रपूजयेत् ॥

3.77

प्राणायामं ततः कृत्वा पूजयेत् साधकाग्रणीः
देव्या हस्ते जपफलं समर्पणमथाचरेत् ॥

3.78

प्राणायामं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः
स्तुतिं च कवचं स्मृत्वा विशेषार्घ्यं प्रदापयेत् ॥

3.79

आत्मसमर्पणं कृत्वा संहारेण विसर्जयेत्
ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम्
नैवेद्यं किंचित् स्वीकृत्य विहरेच्च निजेच्छया ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc