भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 2

2.1

शृणु देवि प्रवक्ष्यामि योगसारं समासतः
ऊर्ध्वमूलम् अधःशाखं वृक्षाकारं कलेवरम् ॥

2.2

ब्रह्माण्डे यानि तीर्थानि तानि सन्ति कलेवरे
बृहद्ब्रह्माण्डं यद्रूपं तद्रूपं क्षुद्ररूपकम् ॥

2.3

ब्रह्माण्डे वर्तते तीर्थं सार्धकोटित्रयात्मकम्
द्विसप्ततिसहस्राणि प्रकाशं वीरवन्दिते ॥

2.4

चतुर्दशं तु तन्मध्ये तन्मध्ये त्रितयं शुभम्
तन्मध्ये परमेशानि महाधीरा च मुक्तिदा ॥

2.5

वासुकी या महामाया भुजगाकाररूपिणी
सार्धत्रिवलयाकारा पातालतलवासिनी ॥

2.6

सप्तस्वर्गं परेशानि क्रमेण शृणु सादरम्
भूर्लोकं च भुवर्लोकं स्वर्लोकं महसं तथा ॥

2.7

जनलोकं तपश्चैव सत्यलोकं वरानने
सप्तस्वर्गमिदं भद्रे पातालं शृणु यत्नतः ॥

2.8

अतलं वितलं चैव सुतलं च तलातलम्
महातलं च पातालं रसातलमतः परम् ॥

2.9

रसातलाच्च सत्यान्तं महाधीरा प्रतिष्ठिता
मेरुमध्यस्थिता नाडी महाधीरा च मुक्तिदा ॥

2.10

सत्यलोके महाविष्णुं शिवं ब्रह्माण्डसंज्ञकम्
तस्य संदर्शनार्थाय वासुकी व्याकुला सदा ॥

2.11

स्वर्गषट्कं भेदयित्वा उत्थिता वासुकी यदा
सर्वाः समुद्रगामिन्य ऊर्ध्वस्रोता भवन्ति हि ॥

2.12

एवं क्रमेण देवेशि शरीरे नाडयः स्थिताः
इडा च पिङ्गला चैव सुषुम्णा मध्यवर्तिनी ॥

2.13

नाडीद्वयेन देवेशि समीरं पूरयेद् यदि
ततस्तु प्राणमन्त्रेण कुण्डली च क्रमं चरेत् ॥

2.14

सहस्रारे महापद्मे नित्ये चाव्ययपङ्कजे
त्रासयुक्ता कुण्डलिनी प्रविशेन्नित्यमन्दिरम् ॥

2.15

सर्वाः पातालगामिन्य ऊर्ध्वस्रोता भवन्ति हि
एतस्मिन् समये देवि वर्णमालां विचिन्तयेत् ॥

2.16

अष्टोत्तरशतं मूल मन्त्रं ज्ञानेन संजपेत्
आनयेत्तेन मार्गेण मूलाधारे पुनः सुधीः ॥

2.17

षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया
अथान्यत् सम्प्रवक्ष्यामि योनिमुद्रासनं प्रिये ॥

2.18

उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः
जानुद्वयं कराभ्यां च प्रकुर्याद् दृढबन्धनम् ॥

2.19

ऋजुकायेन देवेशि आजानु नासिकां नयेत्
प्राणमन्त्रेण देवेशि समीरं बहुयत्नतः ॥

2.20

पूरयेत् परमेशानि किंचिद् वायुं न रेचयेत्
ऋजुकायं परेशानि विपरीतं प्रयत्नतः ॥

2.21

पूर्वोक्तेनैव विधिना अष्टोत्तरशतं जपेत्
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ॥

2.22

आनयेत्तेन मार्गेण मूलाधारे वरानने
अशेषरोगशमनं योनिमुद्रासनं प्रिये ॥

2.23

बहु किं कथ्यते देवि महाव्याधिविनाशनम्
बहु किं कथ्यते देवि मन्त्रचैतन्यकारणम् ॥

2.24

आत्मसाक्षात्करी मुद्रा महामोक्षप्रदायिनी
शतवक्त्रं यदि भवेत् तदा वक्तुं न शक्यते ॥

2.25

पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना
कुष्ठरोगविशिष्टोऽपि स भवेत् कामरूपकः ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc