भाषा

ENहिગુ
ग्रंथ पाठ

तोडलतन्त्र · अध्याय 1

1.1

ब्रूहि मे जगतां नाथ सर्वविद्यामय प्रभो
महाविद्यासु सर्वासु पूज्यासु भुवनत्रये ॥

1.2

एतासां दक्षिणे भागे नानारूपं पिनाकधृक्
पृथक् पृथक् महादेव कथयस्व मयि प्रभो ॥

1.3

शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम्
महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् ॥

1.4

महाकालेन वै सार्धं दक्षिणा रमते सदा
ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् ॥

1.5

समुद्रमथने देवि कालकूटं समुत्थितम्
सर्वे देवाः सदाराश्च महाक्षोभम् अवाप्नुयुः ॥

1.6

क्षोभादिरहितं यस्मात् पीतं हालाहलं विषम्
अत एव महेशानि अक्षोभ्यः परिकीर्तितः ॥

1.7

तेन सार्धं महामाया तारिणी रमते सदा
महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् ॥

1.8

पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि
तेन सार्धं महादेवी सदा कामकुतूहला ॥

1.9

अत एव महेशानि पञ्चमीति प्रकीर्तिता
श्रीमद्भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् ॥

1.10

स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी
एतासु रमते येन त्र्यम्बकस्तेन कथ्यते ॥

1.11

सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः
भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् ॥

1.12

पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि
छिन्नमस्तादक्षिणांशे कबन्धं पूजयेच्छिवम् ॥

1.13

कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत्
धूमावती महाविद्या विधवारूपधारिणी ॥

1.14

वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत्
महारुद्रेति विख्यातं जगत्संहारकारकम् ॥

1.15

मातंगीदक्षिणांशे च मतंगं पूजयेच्छिवम्
तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् ॥

1.16

कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम्
पूजयेत् परमेशानि स सिद्धो नात्र संशयः ॥

1.17

पूजयेदन्नपूर्णाया दक्षिणे ब्रह्मरूपकम्
महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् ॥

1.18

दुर्गाया दक्षिणे देशे नारदं परिपूजयेत्
नाकारः सृष्टिकर्ता च दकारः पालकः सदा ॥

1.19

रेफः संहाररूपत्वान् नारदः परिकीर्तितः
अन्यासु सर्वविद्यासु ऋषिर् यः परिकीर्तितः ॥

1.20

स एव तस्या भर्ता च दक्षभागे प्रपूजयेत्
या चाद्या परमा विद्या द्वितीया भैरवी परा
त्रैलोक्यजननी नित्या सा कथं शववाहना ॥

1.21

या चाद्या परमेशानि स्वयं कालस्वरूपिणी
श्रीशिवस्य हृदम्भोजे स्थिता संहाररूपिणी ॥

1.22

अत एव महाकालो जगत्संहारकारकः
संहाररूपिणी काली यदा व्यक्तस्वरूपिणी ॥

1.23

तदैव सहसा देवि शवरूपः सदाशिवः
तत्क्षणाच् चञ्चलापाङ्गि सा देवी शववाहना ॥

1.24

शवरूपो महादेव मृतदेहः सदाशिवः
मृतदेहं महादेव सलिलं वा कथं नहि ॥

1.25

यस्मिन् व्यक्ता महाकाली शक्तिहीनः सदाशिवः
शक्त्या युक्तो यदा देवि तदैव शिवरूपकः
शक्तिहीनः शवः साक्षात् पुरुषत्वं न मुञ्चति ॥

मूल पाठ: Toḍalatantra · Edition: Gopinath Kaviraj in: Tantrasamgraha, vol. 2, Varanasi : Varanaseya Sanskrit Vishvavidyalaya 1970 (Yogatantra-Granthamala, 4) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc