तिकनिकयात्र · अध्याय 9
व्यतिपातविष्टिवैधृतिपापग्रहलग्नवर्गदिवसेषु।
चौर्यावस्कन्दानृतसंग्रामासिद्धिम् आयान्ति॥
हुत्वानलं नमस्कृत्य देवताः स्वस्ति वाच्य विप्रांश् च।
ध्यायन् दिगीशम् अविलम्बितं व्रजेद् भूपतिः सुमनाः॥
कार्यवशात् स्वयम् अगमं भूभर्तुः केचिद् आहुर् आचार्याः।
छत्रायुधाद्यम् इष्टं वैजयिकं निर्गमे कुर्यात्॥
नाकालवर्षवि(द्यु)त्स्तनिते ष्ठिष्ट(ष्विष्टं?)कथञ्चिद् अपि मानम्।
आसप्ताहाद् दिव्यान्तरिक्षभौमैस् तथोत्पातैः॥
दक्षिणपार्श्वस्पन्दनम् इष्टं हृदयं विहाय पृष्ठं च।
मनसश् चागमशुद्धिः श्लोकश् चायं मुनिभिर् उक्तः॥
शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः।
एकतश् च मनो याति तद् विशुद्धं जयावहम्॥
आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगो ऽन्यतुरगं प्रतिहेषितश् च।
वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं यो ऽश्वः स भर्तुर् अचिरात् प्रचिनोति लक्ष्मीम्॥
मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यमानो ऽप्य् अनुलोमयायी।
अकार्यभीतो ऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगो ऽभिधत्ते॥
स्खलितगतिर् अकस्मात् त्रस्तकर्णो ऽतिदीनः श्वसति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्।
द्रुतमुकुलितदृष्टिः स्वप्नशीलो विकोमो भयकृद् अहितभक्षी नैकशो ऽसृक्शकृत्कृत्॥
वल्मीकस्थाणुगुल्मतृणतरुमथनः स्वेच्छया हृष्टदृष्टिर्
यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नम्य चोच्चैः।
कक्षासन्नाहकाले जनयति सुमहच्छीकरं वृहंते वा
तत्कालं वा मदाप्तौ जयकृद् अथ रदं वेष्टयन् दक्षिणं च॥
सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः।
उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि॥
दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशङ्खाः।
सितवृषकुसुमाम्बराणि मीना द्विजगणिकाप्तजनाश् च चारुवेषाः॥
ज्वलितशिखिफलाक्षतेक्षुभक्षा द्विरदमृदङ्कुशचामरायुधानि।
मरकतकुरविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः॥
स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि।
स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य॥
कर्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसा
पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः।
मत्तोन्मत्तजडीकृतान्धवधिरक्षुत्क्षामतक्रारयो
मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश् चाशुभाः॥
पटुपटहमृदङ्गशङ्खभेरीपणवरवं सपताकतोरणाग्रम्।
प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं भजेच् च मार्गम्॥
यान्य् अत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि।
स्वप्नेष्व् अपि तानि शुभाशुभानि विड्लेपनं धन्यम्॥
मृदुर् अनुकूलः स्निग्धपवनः तद्वद् वीना(णा)श् च शस्यन्ते।
ललाटं धनुर् अथेन्द्रं(नुरैन्द्रं)न शुभदम् अन्यत्र शस्तं(स्त)फलम्॥
पुन्नामान(नः)छुछु(च्छु)गृहगोधिकपिंगला(लाः) शिवा श्यामा।
कोकिलशूकरिका(क)रला(लाः)प्रस्थाने वामतः शस्ताः॥
स्त्रीसंज्ञा भासभषक(क)पिञ्जलाप्लवकम्बुकिंत्सका(?)।
शिखिश्रीकष्ठपयीक(पिप्पीक)रुरुश्येनाश् च दक्षिणाङ्ग(लचुन)॥
भारद्वाजमयू(र)चापनकुलावलोकनं धन्यः(न्यम्)।
गोधाहिरप(?)जाहकसरटा(ट)शशानाम् अनिष्टफलम्॥
कीर्तनम् इष्टं चाषकशशगोधाहिसूकर(गोधासूकराहि)जातीनाम्।
रुतदर्शनं त्व् अधन्यं विपरीतं वानरर्क्षानां(णाम्)॥
मृगविहगा शस्यन्ते प्रदक्षिणं विषमसंख्यया च मृगाः।
नृपदर्शने गमण(न)वत् तद्विपरीता प्रवेशे तु॥
आक्षेपशीलः पु(प)रुषावि(भि)धायी विरक्तभृत्यः परदारगामी।
लुब्धो ऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः॥
विस्रम्भहा क्रोधवशे(शो) नृशंसे(सः) क्षुद्रा(द्रः) प्रमादी न बहुश्रुता(त)श् च।
दिव्यान्तरिक्षक्षितिजौ(जै)र् विकारैर् निपीडितो (यश् च) स दैवहीनः॥
अतो विपर्यस्तगुणेन राज्ञा तादृग्विधो ऽरिस् त्व् अभियुक्तमात्रः।
तरुर् घुणैर् जग्ध इवात्तकार्यो महान् अपि क्षिप्रम् उपैति भङ्गाः(ङ्गम्)॥
तद्विष्टप्रवरनरप्रतापहीना नी(निः)शौर्या वरवारणाश्वयोधमुखाः(ख्याः)।
सोत्पातप्रकृतिविपर्या(र्य)यान(नु)याता शोकार्त्ता रिपुबलम् आशुर्या(या)ति सेनाः(ना)॥
संग्रामे व(य)म् अमर(द्विज)प्रसादा(त्) ज्येष्यामो रिपुबलम् आश्व् असंशयेन।
यस्ये(स्यै)वं भवति बले जनप्रवादाः(दः) स्वल्पो ऽपि प्रवरबलं निहन्ति राजा॥
पुरं रिपोर् भूमिपतिनि(र्नि)हन्याच् छत्रोर् अनिष्टग्रहदिटि(ङ्नि)विष्टिः(ष्टः)।
युद्धस्य यात्रासम एव कालः कू(क्रू)रेषु लग्नेषु च कूटायुधः(कूटयुद्धं)॥
अन्तर्मुखाः पौरभयं विहङ्गाः प्र(प्रा)कारसंस्था विनिवेदयन्ति।
आगन्तुनाशाय बहिर्मुखास् ते तुल्यं विहङ्गैः सरमात्मजौ(जा)श् च॥
केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः
सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि।
क्रोष्टुश्वात्ति(हि)पिपीलिकाशशमृगधाक्ष(ध्वाङ्क्षा)दयो वा पुरे
सैन्ये वापि यतो विशन्ति हि ततः शत्रो(त्रोः) पुरं घातयेत्॥
पातालर्क्षे राहुकेत्वो(त्वोः) पुरे ऽरेतो(स् तो)योच्छित्तिः सालपातश् च कार्यः।
जामित्रस्थे भूमिजा(जे ऽ)स्यांशके वा पुत्रेणेन्दोर् वीक्षिते ऽग्निः प्रदेयः॥
परविषयपुराप्तौ साधुदेवद्विजस्वां(जस्वं)
कुलजनवनितां(ता)श् च क्ष्माधिपो नोपरुन्ध्यात्।
विगजतुर(ग)शस्त्राना(न्न् आ)र्तभीतां(ता)श् च हन्याच्
छुभतिथिदिवसर्क्षे हृष्टसैन्ये(न्यो) विशेत् तु॥
दिग्दाहक्षतजरजो ऽश्मवृष्टिपातैः निर्घातक्षितिचलनादिवैकृतैश् च।(
युद्धान्ते मृगशकुनैश् च दीप्तनादैः नो भद्रं भवति जिते परि(ऽपि) पार्थिवस्य॥
शुभा मृगपतत्रिणो मृदुसमीरणो द(द्रोप् द)ह्लादकृत(त्)
ग्रहाः स्थूटा(स्फुट)मरीचयो द्वि(वि)गतरेणुदिन्द(लचुन)लः(दिङ्मण्डलं)।
यद् अन्यम् अ(द)पि विकृतै(तं) न विजयावसाने भवेत्
तदा सुखम् अकण्टकं नृपतिर् अत्ति देशे रिपुः(रिपोः)॥ए35
मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0