तिकनिकयात्र · अध्याय 8
अयनानुकूलगमनं हितम् अर्केन्द्वोर् द्वयोर् असंपत्तौ।
द्युनिशं जयाय यायाद् विपर्यये क्लेशभङ्गवधाः॥
उदितो यतो यतश् च भ्रमणे यद्वारभेषु चारगते।
तद्रि?बिधं प्रतिशुक्रं त्याज्यस् तत्रोदयो यत्नात्॥
न प्रतिशुक्रे सिद्धिं स्वल्पो ऽप्य् अर्थः प्रयाति यातृणाम्।
कामं व्रजेत् प्रतिभृगुं जिजीविषुर् नास्तगे शुक्रे॥
कलुषि वपुषि ग्रहहते प्रतिलोमे नीचगे ऽस्तगे च भृगौ।
बलसंपन्नो ऽपि नृपो याता शत्रोर् वशं याति॥
एवंविधे ऽपि यायाद् यदि शुक्रे चन्द्रजो ऽनुकूलस्थः।
प्रतिबुधयातस्यान्ये न परित्राणे ग्रहाः शक्ताः॥
यो ऽपि पतिर् दिशि यस्यां तस्मिन् तत्स्थे न तां दिशं यायात्।
अनुकूले च दिगीशे गतव्यं कण्टकोपगते॥ए6
मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0