तिकनिकयात्र · अध्याय 7
लग्नोपगतैः सौम्यैर् आरोग्यं भवति चित्तसौख्यञ् च।
अर्थस्थैर् अर्थचयो योधविवृद्धिस् तृतीयस्थैः॥
वाहनसुहृदां वृद्धिश् चतुर्थगैः पञ्चगैश् च मन्त्रिबलम्।
रिपुनाशः षष्ठस्थैः भृगुवर्जं सप्तमेषु हिताः॥
रक्षन्त्य् आयुन्नि(र्नि)धने शशिवर्जं नवमभेषु वसुसम्पत्।
कर्मणि सिद्धिर् लाभो बलसम्पातश् च दशमाद्यैः॥
भौमार्कार्किशशाङ्कैर् लग्ने वधबन्धमरणसन्त्रासाः।
अर्थक्षयो द्वितीयैस् तृतीयसंस्थैर् यशो द्युतिमत्॥
वाहनबन्धुवियोगो मन्त्रखावो रिपुक्षयश् चेति।
हिबुकादिषु सप्तमगैः स्वविषयनाशो भृगुसुते च॥
मृत्युर् निधनोपगतैः सेनाव्यसनं महन् नवमसंस्थैः।
कुजसूर्यौ दशमस्थौ जयदौ भङ्गप्रदः सौरिः॥
जयम् एकादशसंस्थैः क्रूरैर् अन्त्योपगैः स्वबलभेदः।
उपचयवर्जं सौम्यैर् यातुः पापैर् विपर्यस्तम्॥
क्रूरो ऽप्य् अनुकूलस्थः शस्तो लग्ने शुभो ऽपि वानिष्टः।
वक्री न शुभः केन्द्रे तदहस् तद्वर्गलग्नञ् च॥
सामपती जीवसितौ भेदस्य तु राहुकेतुबुधसौराः।
दण्डस्यार्कक्षितिजाबुध(व् अथ) प्रदानस्य शीतांशुः॥
आटविको(क)देशरिपुमन्त्रिमौलि(क)श्रेणिभृतकवीर्येशाह्।
सूर्यादिभिर् अनुकूलैस् तद् उदयवर्गैश् च तत्सिद्धिः॥
नीचस्था ग्रहविजिता रव्यभिभूता विरश्मयो ह्रस्वाः।
भुजगा इव मन्त्रहता भवन्त्य् अकार्यक्षमा लग्ने॥
येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् त्रीतीयरिपुलाभगताश् च पापाः।
आयान्ति ते स्वभवनानि पुनः कृतार्थाः दत्ता द्विजातिषु तथा विधिवद् यथार्थाः॥
एकस्मिन्न् अपि केन्द्रे यदि सौम्यो न ग्रहो ऽस्ति यात्रायाम्।
जन्मन्य् अथ वा कर्मणि न तच् छुभं प्राहुर् आचार्याः॥
राह्वर्कारशिखिसिता यायिन इति शर्वरीश आक्रन्दः।
गुरुबुध्हसौराः पौराः पौरः सूर्यो ऽपि पूर्वाह्णे॥
यायिभिर् अनुकूलस्थैर् यानं पौरैर् विगृह्य चासीनम्।
पौरेतरैर् अपि शुभैर् यायाद् अर्धेन सैन्यस्य॥
सर्वैर् अप्य् अशुभकरैः शुभदैवं संश्रयेत् प्रधाननृपम्।
बलसिद्धिः सौम्यफलैर् बलिभिः क्रूरैर् जयो युद्धे॥ए16
मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0