भाषा

ENहिગુ
ग्रंथ पाठ

तिकनिकयात्र · अध्याय 6

6.1

सेन्दुष्यभे नवाङ्गौ क्रूराणानिर्गविग्नस्थः?।
यौवनदुर्ललितैर् इव विचक्षणो ऽन्त्येषु दिवसेषु॥

6.2

पुष्टिर् भवति यियासोः शुभग्रहाणां नवाङ्गलग्नेषु।
यौवनकान्तारम् इव प्रतीत्य कुशलेन धर्मवताम्॥

6.3

सौम्ये नवङ्गकलग्ने रिपुबलभोगं करोत्य् असाहार्यम्।
यद्यस्य फलं दिवसिस् तदशेषं कालहोरायाम्॥

6.4

उपचयकरस्य वर्गं कू(क्रू)रस्यापि प्रशस्यते लग्नो(ग्ने)।
चन्द्रे पादद्युक्ते(?) तन्त्राधिपतेस्य(श्च)सौम्यस्य॥

6.5

इत्यष्टमगाः पापा विवर्जा(र्ज)ये(द)ष्टमं विलग्नं च।
चन्द्र(द्रोप्.)चन्द्रञ्च (लचुन) निधनस्थं सर्वारम्भः(म्भ)प्रयोगेषु॥

6.6

लग्नेन रहिता यात्रा योसेतोन्मन्त(या सैवोन्मत्त?)भामिनी।
दुर्जानं(तं)जनि(न)मासाद्य यात्य् अभावः(वं)शनैः शनैः॥

6.7

लग्नप्रधान(ना) या यात्रा शीलेनैव कुलाङ्गना।
भावास्तमन्त्र(नु)हर्तन्ते गुण(णा)रूपम् इवोत्तमः(माः)॥ए7

मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc