तत्त्वज्ञानसंसिद्धि · अध्याय 3
इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः ॥ 2 ॥
अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाव्जनतैः ॥
मन्त्री तिथौ दशम्यां विदधीतानुग्रहन्तेषां
संपूज्य मंत्ररूपां देवीं चक्रस्थितां विहितयोमः ।
आदाय मंत्रजप्तं परमाद्यं निष्क्रमेत्तस्मात्
अथ विहितपञ्चमण्डलमूर्द्धस्थां तदन्तदक्षिणंशिष्यं ।
कुसुमस्रजं दधानं ध्यातकेनाथं गुरुः पश्येत्
तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत् ।
ध्यात्वान्तबासिगात्रे वज्रभृत्तस्य संदद्यात्
एवं स्यादावेशस्तत्कलिका प्रकम्पनं वाष्पः ।
पातो ज्ञानोत्पादः स्वारूपञ्चापि परिपाद्याः
तदनु कथयेत्समाधिं पूजामंत्रं च वज्रयोगिन्याः ।
श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः
कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धंवा ॥
श्रद्धाविरहितमनसो भक्तिविहीनशिष्यस्य
विदधाति यस्तु पूजां देवीचक्रस्य मंत्रयुक्तस्य ।
तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति
दुर्भगता दारिद्र्यं व्याधिजरादुःखदौर्मनस्यानि ।
भ्रमकलिकलुषक्लेशाः पीडा नानाविधाश्चापि
यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचासौ ।
प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञांस्तथाष्टगुणान
ध्यायति यः किरवक्त्रां प्रतिदवसं यत्नतश्चतुःसंध्यं हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति
मूल पाठ: Tattvajñānasaṃsiddhi · Edition: Janardan Pandey: Tattvajñanasamsiddhih, with Marmakalikapanjika of Viryasrimitra. Sarnath, Varanasi : Rare Buddhist Texts Research Unit, 2000 (Rare Buddhist Text Series, 23) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0