भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वज्ञानसंसिद्धि · अध्याय 4

4.1

वस्त्रान्नपानधनधान्यविशालभूमिः प्रासाददिव्यशयनासनसाधनानि ।
तस्योद्भवन्ति दयिता विविधाश्च विद्या, यो भावयत्यशनिकोलमुखीं सचक्रां ॥ 12 ॥
इति तत्वज्ञानसंसिद्धौ सानुशंसा शिष्यानुग्रहविधिः ॥
मंत्रोद्धारमतः परमधिधास्ये वज्रयोगिनीहृदयं ।
कर्णात्कर्णमुपागतमास्यादास्यं तथाक्रमतः

4.2

पूर्वोदितमिव चक्र संलिख्यं मरुद्गणालयोपेतां ।
तत्र लिखेत्परिपाटित आलिकालिं तथैव कोणं

4.3

झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तं ।
त्रिकमादितो विलिख्यं सदक्षरं तत्वपरिदीपि

4.4

भोर्द्धगतं छोर्द्धस्थितसमेतटोर्द्धस्थितं तदनु लेख्यं ।
डाधरयुतं षाधारगं षोर्द्धस्थितयुक्तशोर्द्धगतं

4.5

ञाधरयुतऌतलस्थं टाधरयुतपोर्द्धसंस्थितं ।
तदनु ठाधरगान्वितफोर्द्धगं ऐवामयुतं हटान्तस्थं

4.6

चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितं ।
तदनु हथमध्यगतं तवामयुक्तं ठलमध्यग पश्चात्

4.7

सर्वकरान्तफमध्यगं तृतीयवर्गादिवामगसमेतं ।
णोर्द्धयुतं लाधरगं छोर्द्धस्थं भतलगं ठसव्ययुतं

4.8

तोर्द्धगयुतं षाधरगं थोर्द्धदसंयुक्तं णाधरगं पश्चात् ।
फाधरगं ठाधरसंयुक्तं फोर्द्धस्थं णोर्द्धयुक्तं लाधरगं

4.9

डाधरशून्यसमेतं त्रिवतलगं चोर्द्धस्थितं रतलं ।
थाधरयुतं शाधरगं ञाधरसमायुक्तं चापि

4.10

सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः ।
मंत्रोयमशनीदेव्या लेख्यो जप्यो विभाव्यश्च

4.11

चिन्तामणिः कल्पकुठाग्रकुम्भः श्रीकामदुग्धेनुरपि प्रशस्ताः ।
ते साध्यमाना ददतीह वित्तान्ययन्तु सौख्यं सधनं ददाति

मूल पाठ: Tattvajñānasaṃsiddhi · Edition: Janardan Pandey: Tattvajñanasamsiddhih, with Marmakalikapanjika of Viryasrimitra. Sarnath, Varanasi : Rare Buddhist Texts Research Unit, 2000 (Rare Buddhist Text Series, 23) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc