तत्त्वज्ञानसंसिद्धि · अध्याय 2
अथ कृतवाह्यार्चनविधिरुरुकरुणो निर्मितारिध्याव्जे ॥
व्यसुहृयोष्णगुविम्वां ध्यायात्पूर्वोदितां देवीम्
संध्यासिन्दूरवर्णां खरकरनिकरायास्तसप्तार्क्ककान्तीं ।
कर्त्त्रीं सर्वार्त्तिहंत्रीं स्फुरदमृतघृणीं विभ्रतीं सव्यदोष्णा ॥
विभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वजाढ्यां ।
काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्द्धोखहस्तां
मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां,
सव्ये चोर्द्धंकिरास्यां वरशुभगमनां क्रोधमूलाननान्तां ।
सानन्दां सानुरागां विविधरसयुतामर्द्धपर्य्यङ्कनृत्यां
मुद्राषण्मुद्रिताङ्गीं व्यपगतवसनां षोडशाव्दां वराङ्गीम्
ज्ञानाकर्षादिविधिः प्रागिव कृत्वा विधानविन्मंन्त्री ।
स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रूतं ध्यायात्
तदनु वियद्वती धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रं ।
प्रागुक्तमिव ध्यायाद्रक्तं जाज्यल्यमानं सत्
तत्र स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तं ।
द्रावयेदुरुसुखचक्रं श्रवदमृतसारकृतसवनम्
कायत्रयस्वभावं परमं सहजात्मकं जगद्व्यापिनं ।
स्फुरदमितशान्तसन्ततिं पश्येत्पश्चात्सुखं पश्चात्
प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणम्वा विभावयेदेतत् ।
यावत्सिद्धिनिमित्तं तावदिदमुच्यते व्यक्तम्
अयत्नजप्रीतिलयानुबन्धनात् यदा भवेद्व्यक्तमिदं विभावितम् ॥
कशाचपेटादिह नैव वेदना तदा भवेत्सिद्धिरदूरवर्त्तिनी
प्रताडितानां पणवादिकानां पटुध्वनिर्नश्रुतगोचरश्चेत् ।
यदाप्यते बोधिरनुत्तराग्रा स्वप्ने चिराद्ध्यानवताग्रसिद्धिः
दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ ।
निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात्
सिद्धौ वसुधादीनां भवती लयो ह्युत्तरोत्तरक्रमशः ।
ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत्
जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः ।
अत एव तानि योगी समाहितो लक्षयेन्मनसा
प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नं ।
खद्योतवत्तृतीयं चतुर्थं दीपोज्वलं स्पष्टं
विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पं ।
एवं लव्धनिमित्तो मुद्रां महतीमवाप्नोति
उत्थातुकामः प्रणिपत्य योगिनीं नाथं च कस्थं समुदीर्य मूः कृतिं ।
उत्थाय कृत्यं विदधीत तत्वधीस्तिष्ठेत्सदा योगयुगेन योगवित्
मूल पाठ: Tattvajñānasaṃsiddhi · Edition: Janardan Pandey: Tattvajñanasamsiddhih, with Marmakalikapanjika of Viryasrimitra. Sarnath, Varanasi : Rare Buddhist Texts Research Unit, 2000 (Rare Buddhist Text Series, 23) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0