तत्त्वज्ञानसंसिद्धि · अध्याय 1
ओम् नमः श्री वज्रवाराह्यै
उद्याता तलचक्रतो ऽनिलधुता विद्युच्छटाभास्वरा,
दग्धालित्रितया त्रिलोकमहिता पीयूषधाराप्लुता ।
बुद्धज्ञानरसाविला विकलुषा स्वानन्दसन्दोहदा
भावाभावविचारणाविरहिता वाराहिका पातु वः
निर्माणालिदिनेशमण्डलगता काद्यादिवर्णावृता,
प्रज्बालज्वलनोज्वलामृतसवा सूक्ष्माजसूत्रोपमा
विद्याबुद्धकदम्वकं दहति या चक्रत्रयोर्भेदिनी
सानन्दा ललितोर्द्वगा स्फुरतु वो वाराहिका चेतसि
प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीम् ।
शिरसा स्वस्मृतये वक्ष्ये ऽहं तत्त्वज्ञानस्य संसिद्धिम्
विजनमनो ऽनुकूलस्थानं नाथांककः प्रविशेत्सुधीः ।
तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिं
तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयं ।
संलिख्यानामिकया, लोहितकुसुमार्चितं कुर्यात्
तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा ।
विदधीत सवनं यथोपदेशं शयस्पर्शात्
प्रविधाय करन्यासं बृद्धाङ्गुष्ठाङ्गुलिसमायोगात् ।
कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः
तदनु चक्रवज्रवरोपरि रङ्गारुणोयोगजसमममन्त्रं ।
भुजगभवैः सुविशिष्टैः सिचयगतैरवकिरेच्छनकैः
तत्र जिनहृदयचक्रं शिखिकोटिकं समभिलिख्य ।
तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत्
चक्रस्य वाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे ।
सत्स्वस्तिकानभिलिखेत्क्रमेण वामहस्तेन
आकृष्य वज्रदेवीम्प्रविश्य मन्त्राक्षरेषु बद्ध्वा परितोषयेत् ।
सुविधानात् जः हुं वं होरिति पठित्वा
तदनु सपर्या विविधास्तस्या विदधीत मंत्ररूपायाः ।
भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः
विविधैर्वलैः समदनैरुपहारैः पञ्चभिरतिपरार्ध्यैः ।
गीतैवद्यैर्न्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च
प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्यां ।
कुर्याद्यथोक्तपूजाविधिमस्याः सिद्धिमाकांक्षणः
मूल पाठ: Tattvajñānasaṃsiddhi · Edition: Janardan Pandey: Tattvajñanasamsiddhih, with Marmakalikapanjika of Viryasrimitra. Sarnath, Varanasi : Rare Buddhist Texts Research Unit, 2000 (Rare Buddhist Text Series, 23) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0