तत्त्वज्ञानसंसिद्धि · अध्याय 0
तत्वज्ञानसंसिद्धिः
ओम् नमः श्रीभगवत्यै वज्रवाराह्यै ॥
आनन्दाम्बुधिमण्डनादुपगता सम्बुद्धलक्ष्मीरसौ
सर्वाकारगुणान्विता जगदघध्वान्तौघविध्वंसिनी ।
ज्योतिर्ज्ञाननिधेर्धृतिः स्मृतिनिधेः शान्तिर्मनीषानिधेः
पायाद्वज्रविरासिनी भगवती लोकत्रयं दुर्गतेः
श्रीवज्रदेवीपदपद्मरेणु, राजिं नमस्कृत्य गुरोः पदं च ।
श्रीसम्बरं संवृतवोधिचित्तं, प्रज्ञाकृपाद्वैतपदं प्रशस्तम्
वज्रदेवीपदद्वंद्ववन्दनानन्दवर्त्तिना ।
भिक्षुणा ज्ञानन्द्रेण चन्द्रेवसुवशर्मणा
साधनं वज्रवाराह्याः स्वार्थंकिञ्जिद्विभज्यते ।
सुभाषितप्रदे नित्यं मतिः कल्पनसोत्सुका
ततःश्रद्वापरेणेदं मन्दस्वल्पधिया मया ।
कर्त्तव्य न मम दोषो वीक्षणीयो महाजनैः
मूल पाठ: Tattvajñānasaṃsiddhi · Edition: Janardan Pandey: Tattvajñanasamsiddhih, with Marmakalikapanjika of Viryasrimitra. Sarnath, Varanasi : Rare Buddhist Texts Research Unit, 2000 (Rare Buddhist Text Series, 23) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0