भाषा

ENहिગુ
ग्रंथ पाठ

तर्कताण्डव (टीका सहित) · अध्याय 9

9.1

यत्तु मणावुक्तम् ।"तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्री । ग्राह्यत्वं स्वतस्त्वं तदभावश्च 1 परतस्त्वम्"इति तन्न ।
स्वमते 2 ज्ञप्तौ स्वतस्त्वनिरुक्तिः

9.2

मीमांसकत्रितयसाधारणीं परोक्तस्वतस्त्वनिरुक्तिमनूद्य निराह -- यत्त्विति ॥ मणिग्रन्थे"ज्ञानप्रामाण्याश्रये ऽयं घट इत्यादिज्ञाने अप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री गुरुमते घटमहं जानामीत्येवमाकारस्वप्रका 3 शव्यवसायजनिका चक्षुर्घटसंयोगादिरूपा मिश्रमते तदनुव्यवसायजनकमनःसंयोगादिरूपा भट्टमते घटो ज्ञानविषयः ज्ञातताधारत्वादित्याद्यनुमितिजनकव्याप्तिज्ञानादिरूपा । तावत्या ग्राह्यत्वं स्वतस्त्वमित्यर्थः । अत्र निरुक्तौ तत्रेत्युक्त्या यत्र
शुक्तिरजतादिज्ञाने विसंवादादीलिङ्गेनाप्रामाण्यानुमित्यनन्तरमिदमप्रमात्वेन जानामीत्यनुव्यवसायः तत्राप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपाप्रामाण्यघटितानुमितिनिष्ठप्रामाण्यस्य प्रथमज्ञाननिष्ठाप्रामाण्यग्राहिणैवानुव्यवसायेन ग्रहणाद्बाध इति शङ्का अप्रामाण्याग्राहकेत्युक्त्या इदं ज्ञानमप्रमेत्यादावप्रामाण्यग्राहकसामग्र्या तज्ज्ञाननिष्ठस्यप्रामाण्यस्याग्रहणा 4 द्बाध इति शङ्का यावदित्युक्त्या न्यायमते ज्ञानग्राहकानुमितिसामग्र्या क्वचिदनुव्यवसायेन च प्रामाण्यग्रहात्सिद्धसाधनमिति शङ्का निरस्ता । विधिकोटौ बाधवारकाणां तदभावकोटौ सिद्धसाधनतावारकत्वं तद्वारकस्य च बाधवारकत्वं ज्ञेयम् ।
1. ऽचऽइति नास्ति -छ. 2 ऽज्ञप्तौऽ इति नास्ति -आ. इ. 3. शानु- कुं.
4 . ग्रहात् - कुं . इ.
"प्रामाण्यवादः पु- 19.
--- ------ -----
गुरुमते सर्वज्ञाननां प्रमात्वेपि तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यस्येच्छायां प्रसिद्धस्येदं ज्ञानमप्रमेत्यादौ स्मरणसंभवेनागृहीतासंसर्गरूपाप्रामाण्यग्रहसंभवात्तन्मतेप्यप्रामाण्याग्राहकपदवैयर्थ्यं नेति ॥ अत्र यदुक्तं प्रामाण्यग्राहणाद्बाधवारणाय तत्र ग्राह्यप्रामाण्याश्रयज्ञाने इत्यर्थकं तत्पदमिति तन्न । इमौ वह्नी इति वह्निद्वयगोयरैकज्ञानविषयकानुव्यवसायादिरूपज्ञानेन दोषशादन्यतरांशाप्रामाम्यग्राहिणा 1 प्यन्यतरांशे प्रामाण्यग्रहणेन बाधात् । यत्तु तदिस्यस्य तत्र तदंशे ग्राह्यप्रामाण्याश्रयज्ञानांशे अप्रामाण्यग्राहकेत्यर्थत्वान्न दोष इति तन्न । तथापि तदंशे भावरूपाप्रामाण्यग्राहिणापि नेदं ज्ञानं 2 प्रमाणमिति तदंशे प्रामाण्याभावावगाहिना प्रामाण्याग्रहणेन बाधादिति मूलोक्तदोषग्रासात् । यदपि तत्पदं ग्राह्यपरं 3
सत्प्रामाण्यपदेनान्वीयमानं ग्राह्यप्रामाण्यविरोधीत्यर्थसाभार्थमतो न दोष इति तदपि न । तथात्वे ऽतत्प्रामाण्येति निर्देशापातेन यथोक्तनिर्देशे तत्पदस्य प्रामाण्यपदेनासामर्थ्यात् । गुरुमते इदं ज्ञानमप्रमेत्यादावप्रमेति स्मृतेरप्रामाण्यग्राहकत्वेपि इदं ज्ञानमितिग्रहणात्मकस्याप्रामाण्यस्मृतिप्रतिबन्धेन प्रामाण्या 4 ग्रहणेन बाधापत्त्योक्तस्वतस्त्वनिरुक्तेर् गुरुमतसाधारण्यायोगाच्च । न चोप्तत्तिप्रामाण्यग्रन्थे मणिकृतैव"प्राभाकरास्त्वि"त्यादिना गुरुमते संशयानुपपत्त्युपपादनप्रस्तावे इदं ज्ञानं प्रमा न वेत्त्यादावपि प्रामाण्यचग्रहोस्तीत्युपेत्य संशयस्यान्यवीषयत्वोपपादनात्तादृशस्थलेपि प्रामाण्यग्रहसद्भावान्न बाध इति शङ्क्यम् । तथात्वे तन्मते तदप्रामाण्याग्राहकपदवैयर्थ्यापत्तेः ।
1.ऽप्यऽ इति नास्ति - कुं . 2. ज्ञानपदं न -अ. 3 सदप्रमाण्य - मु . अ.
4 ग्रहेण - अ.
प्रामाण्यवादः पु- 20 .
------------ -------
तदभाववति तत्प्रकारकत्वरूपाप्रामाण्याग्राहकस्यापि तद्वति तत्प्रकारकत्वरूपप्रामाण्यात्यन्ताभावविषयकस्य ज्ञानज्ञानस्य प्रामाण्याग्राहकत्वेन बाधात् । अप्रामाण्यपदेन प्रामाण्यविरोधिविवक्षायामपि --
तादृशस्थले प्रामाण्यग्रहमुपेत्याग्राहकपदेन ग्राहकसामग्र्यसमवधान विवक्षायां च मिश्रादिमते ऽप्रामाण्यग्रहस्थले तत्सामग्र्यभावेन तदसमवाहितेनापि ज्ञानग्राहकेण तत्र प्रामाण्याग्रहाद्बाध 1 एवेत्यादिदूषणं स्फुटत्वादुपेक्ष्योक्तनिरुक्तौ
यावज्ज्ञानविषयकज्ञानविषयत्वमित्येव सामञ्जस्ये ग्राहकसामग्रीत्युक्तिवैयर्थ्या 2 द्गौरवाच्चेत्युपेत्य ग्राहकसामग्रीपदत्यागेन ज्ञानपदेन 3 वानुवदन्यथाश्रुताप्रामाण्यपदार्थे तावद्दोषमाह -- तदभाववतीति ॥ अप्रामाण्यग्राहकस्यापीति ॥ उक्तविधभावरूपाप्रामाण्यात्यन्ताभावव्याप्याप्यविषयकस्येत्यपि ज्ञेयम् 4 । तेन नञो ऽभानार्थविवक्षापि प्रयुक्ता ध्येया ।
ननु नञो विरोधार्थत्वे प्रामाण्याभावतद्व्ययाप्याप्रामाण्यतद्व्याप्यानां चकुर्णामप्यप्रामाण्यपदेन प्रामाण्यविरोधिवाचिना ग्रहणसंभवान्नोक्तदोषः । विरोधित्वस्य प्रामाण्यनिश्चयप्रतिबन्धकज्ञानविषयत्वरूपत्वादित्याशयेन
पक्षधराद्युक्तविवक्षामनूद्यनिराह -- अप्रामाण्येति ॥ अपिपदेनैतत्सूचयति । यद्यपि ग्राह्यप्रामाण्यविरोधिलाभो नैतावता भवति । तत्पदमिलितेनाप्यसामर्थ्यादलाभ एव । विरोधिमात्रत्वप्रयोजकम् । तथाप्यभ्युपगमोयमिति -- इत्यादिवाक्येति ॥
1.बाध इत्यादि-कुं. 2.गौरवपदं नास्ति-अ. 3.नैवा-कुं. 4. ध्येयम्- कुं.
प्रामाण्यवादः पु-21.
------ --------------------
--ज्ञानं गुण इत्यादिवाक्यजन्यस्य ज्ञानं प्रमेयमिति सामान्यप्रत्यासत्तिजन्यस्य च ज्ञानज्ञानस्य प्रामाण्याविषयक 1 त्वाद्बाधतादवस्थ्यात् 2 । ज्ञानग्राहकपदेन स्वविषयघटितत्वेन ज्ञानग्राहकत्वविवक्षायामपि घटज्ञानमित्यादिशब्दजन्यस्य 3
ज्ञानज्ञानस्य प्रामाण्याविषयकत्वेन बाध एव ।
--------------------------------------------------------------------------- ज्ञानं समवेतं ज्ञानसमूर्तमित्यादीवाक्यजन्मस्य गुणत्वादीप्रकारकज्ञानविशेष्यकस्येत्यर्थः । ज्ञानज्ञानस्येत्यन्वयः । साक्षाज्ज्ञानत्वव्यापकधर्माप्रकारकेत्यपि ग्राहकविशेषणमस्त्वित्यत उक्तम् -- ज्ञानं प्रमेयमितीति ॥ ज्ञाने प्रमेयत्वं ज्ञातं सत् प्रत्यास 4 त्तीभूय स्वविशेषणतासंबन्धेन स्वाश्रयभूतानि सर्वज्ञानरूपवस्तून्युपस्थापयतीति प्रमेयत्वप्रकारकज्ञानविशेष्यकज्ञान 5 ज्ञानस्य प्रमेयत्वाश्रयज्ञाने प्रमाण्यविषयकत्वादित्यर्थः । उक्तदोषपरिहाराय 6 शङ्कते -- ज्ञानग्राहकपदेनेति ॥ प्रामाण्याविषयकत्वेनेति ॥ अपदार्थत्वादवाक्यार्थत्वाच्च घटत्ववद्विशेष्यकत्वादेस्तेन सर्वथा भानाभावादिति भावः । यत्तु शब्दानुपस्थितमपि प्रामाण्यमन्वयितावच्छेदकतया घटज्ञानमिति ज्ञाने भातीति पक्षधरोत्प्रेक्षितं मतं 7 तत्तेनैव दूषितमित्युपेत्योक्तम्-- बाध
एवेति ॥ विवृतं 8 चैतद्गुरुपादैः । ननु शब्दान्यत्वे सति स्वविषयघटितत्वेन ज्ञानग्राहकत्वविवक्षास्तिति चेन्न । तथाप्ययं घटज्ञानवान् तद्व्यवहरवत्वात् इत्याद्यनुमानजन्यज्ञानज्ञानस्यापि प्रामाण्याविषयकत्वेन बाधात् । ज्ञानं प्रमेति शब्दजन्यज्ञानस्य प्रामाण्याविषयकत्वापाताच्चेति भावः ॥
1.त्वेन-क. 2.स्थ्यम्-कुं. छ. क. 3.जन्यज्ञान-कुं. 4.त्तिरूपं-अ. 5.ऽज्ञानऽइति नास्ति -कुं. 6. या-कुं. 7.त्तु-कुं . 8. च गुरु-कुं .
परो-स्व-नि-भं.) प्रामाण्यवादः पु- 22.
----------- ---------- ----

ननु ज्ञानग्राहकपदेन ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्य1 तया च तद्विषयत्वं विवक्षितम् । अत्र च विशेषणद्वयेन तवघटविशेष्यकं ज्ञानमिति, तव घटत्वप्रकारकं ज्ञानमिति च शब्दाभ्यां जन्ययोः घट 2
ज्ञानविषयकज्ञानयोः प्रामाण्याविषयत्वाद्बाध इति शङ्कद्वयं क्रमेण निरस्तमिति चेदुच्यते । त्वदुक्तं यद्ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारतया तत्प्रकारवद्विशेष्यतया च तद्विषयत्वं तत्प्रामाण्यविषकत्वमेव । स्वप्रकारकवद्विशेष्यत्वस्यैव प्रामाण्यरूपत्वात् ।
नन्वस्तु तर्हि स्वाश्रयप्रकारकतया स्वाश्रयविशेष्यविशेष्यकतया स्वाश्रयग्राह्यत्वमिति यज्ञपतिनोक्तं मतम् । तत्र यद्यापि यथाश्रुते घटत्वप्रकारकं किञ्चिद्विशेष्यकं इति 3 ज्ञानेनापि प्रामाण्याग्राहत्स्वाश्रयप्रकारप्रकारकतया स्वाश्रयप्ररारवद्विशेष्यतयेति वाच्यम् । तत्रापि प्रकारवदित्यत्र प्रकारस्योपलक्षणत्वे प्रगुक्तदोषापत्या तत्प्रकारविशिष्ट 4 विशेष्यकतयेच्युच्यते । अतो न
कोपि दोष इति भावेन शङ्कते -- नन्विति । तत्प्रकावदिति । तत्प्रकारविशिष्टविशेष्यकतयेत्यर्थः-- तद्विषयत्वम् । व्यावसायविषत्वम् । 5 अस्मिन्पक्ष इत्यादि वक्ष्यमाणदोषदार्ड्याय दलद्वयकृत्यं व्यनक्ति -- अत्रचेति । विवक्षायामित्यर्थः । किमेतद्वादिमते तद्वत्वरूपं वेशिष्ट्यमनुव्यसायविषय एव नेति मतिरुत स्वातन्त्र्येण ? आद्ये दोषमाह-- त्वदित्यादिना । स्वप्रकारवदिति । स्वप्रकारविशिष्टेत्यर्थः ।
1. क.-छ.कुं 2. ऽघटऽ इति नास्ति -कुं.छ.क. 3. घटत्वप्रकारककिञ्चिद्विशेष्यकं-कुं. 4. ऽविशेष्यऽ इति नास्ति- कुं. ऽधर्मिऽ इत्यधिकं-अं. 5. अ. पुस्तके नास्ति.
परो-स्व-नि-भं) प्रामाण्यवादः पु- 23.
---------- ---------- -------
तथा च यावती प्रामाण्यविषयिका सामग्री तद्गाह्यत्वं स्वतस्त्वमित्युक्तं स्यात् । तथा चैतादृशस्वस्त्वस्य परतस्त्वपक्षेपि सत्वात्सिद्धसाधनम् । एतदभावरूपपरतस्त्वसाधने ऽपसिद्धान्तश्च । न हि परस्त्वपक्षे अनुव्यवसायाविषयोपि प्रामाण्यं प्रामाण्यं प्रामाण्यानुमितेरप्यविषयः ।
सिद्धसाधनापसिद्धान्तौ व्यनक्ति -- नहीति ॥ प्रामाण्यमिति ॥ तद्वत्त्वादिरूपमित्यर्थः । वैशिष्ट्यमनुव्यवसायविषय एव नेति पक्षे तादृशानुव्यवसायविषयत्वमादाय सिद्धसाधनादिदोषाभावेपि इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिजनकत्वात् इत्यनुमितिसामग्रीरूपा यावती त्वदुक्तलक्षणा ज्ञानग्राहिका सामग्री तावत्त्यापि प्रामाण्यग्रहात्सिद्धसाधनपापसिद्धान्तावित्यर्थः। अनुमितिविषयत्वोक्तौ तत्सामाग्रीविषयत्वं सिद्धमेवेत्युपेत्य अनुमितेः इत्येवोक्तम् । न त्वनुमितिसामग्र्या अपीति । यद्वातेन सामग्रीत्युक्तावपि ग्राहकज्ञानेत्येव युक्तम् । न तु सामग्रीत्युपेत्यैवमुक्तम् । द्वितीये स्वातन्त्र्येण तद्वद्विशेष्यकत्वग्राहकत्वमिति मतम्, उत ग्राहकत्वमा 1 त्रमिति ? स्वातन्त्र्येण तद्वद्विशेष्यकत्वादिविषयिकेत्यर्थः -- अनुव्यवसायाविषयोपि ॥ स्वातन्त्र्येण तद्वद्विशिष्टधर्मविशेष्यकत्वादिविषयकानुमितेरपीत्यर्थः । द्विदीयेपि ग्राह्यमित्यत्र ग्राह्यत्वमात्रमभिमतम् उत
स्वातन्त्र्येण ? आद्ये तादृशानुव्यवसायविषयत्वमादायापि सिद्धसाधनतापसिद्धान्तौ स्पष्टौ ।
1 . मात्रं -कुं .
परो-स्व-नि-भं ) प्रामाण्यवदः पु- 24.
---------------- --------------- --------
अस्मिन्पक्षे ऽप्रामाण्यग्राहकत्वविशेषणवैयर्थ्यं च ॥
द्वितीयेतूक्तरूपानुव्यवसायं प्रति प्रामाण्यस्य न्यायमते स्वातन्त्र्येणाविषयतया यावतीति ज्ञानग्राहकसामग्रीविशेषणेनैव सिद्धसाधनापत्तेर्देषान्तरमाह-- अस्मिन्पक्ष इति ॥ ग्राह्यत्वमित्यत्रैव स्वातन्त्र्येण
ग्रह्यत्वमिति पक्ष इत्यर्थः । तथा अस्मिन्पक्ष इत्यस्यं स्वातन्त्र्येण तद्वद्विशेष्यकत्वादिग्राहिकेति पक्ष इत्यप्यर्थमुपेत्य प्राचीनपक्षेप्ययं दोषोबोध्यः । तद्वद्विशेष्यकत्वग्रहे तदभाववद्विशेष्यकत्वरूपाप्रामाण्यग्रहासंभवेनोक्तविवक्षया तद्वारणादिति भावः ॥
ननु तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यग्राहिकापि तद्वद्विशेष्यकत्वग्राहिकैव । तत्प्रकारकत्ववित्तवेद्यत्वात्तद्वद्विशेष्यकत्वस्य । तद्वद्विशेष्यकत्वाभाने तत्प्रकारकत्वाग्रहणायोगादिचेत् तर्हि अप्रामाण्याग्राहकत्वरूपविशेषणदाने ऽपि तव घटत्वप्रकारं ज्ञानमिति शब्दजन्यज्ञनेनाप्रामाण्याग्राहकेण क्वदुक्तदिशा प्रकारवित्तिवेद्यतया तद्वद्विशेष्यकत्वग्राहिणापि प्रमाण्याग्रहणाद्बाधापत्तेः । यदि चात्र तद्वत्तेन विशेष्यस्याभानान्न बाधः। तर्हि अप्रामाण्यग्राहकसामग्र्यामपि तत्तुल्यम् । अत एव पूर्वं दलद्वयकृत्यं व्यक्तीकृतम् ॥
यदत्रोक्तं नरहरिणा"अप्रामाण्याग्रा 1 हकेत्यत्र नञ्व्यत्यासेनाप्रामाण्याभावग्रा 2 हकेत्यर्थे प्रामाण्यग्राहकेति पर्यवसानात्
प्रामाण्यग्राहतयावज्ज्ञानग्राहकग्राह्यत्वं विधिकोट्यर्थ"इति तदपि"यावती प्रामाण्यविषयिका सामग्री तद्ब्रह्मत्वं स्तवतस्त्वमित्युक्तं स्यात्"इति ग्रन्थकृदुक्त्येव सिद्धसाधनादितोषेण निरस्तं भवति । न च ग्राह्यपदेन स्वातन्त्र्येण ग्राह्यमित्यभिमतत्वाद्यावदित्युक्तैव सिद्धसाधनत्वदोषाभावः, तथात्वे नानुव्यवसायविषयत्वस्य न्यायमते ऽभावदिति वाच्यम् । नञो प्रामाण्याभावार्थकत्वे पूर्वपदेन समासायोगात् , नञ्द्वयवैयर्थ्यात्, तत्पदवैयर्थ्याच्चेतिध्ययेम्।तदेतदाह -- अप्रामाण्याग्राहकत्वविशेषणवैयर्थ्यमिति ॥
परो-स्व-नि-भं) प्रामाण्यवादः पु - 25.
---------- ------- --------
ननु यथा 1 ज्ञानग्राहकसामग्र्या ज्ञानग्रहार्थं यावदपेक्षितम् तावदेव विषयग्रहार्थमप्यपेक्ष्यते सैव सविषय 2 ज्ञानग्रहकसामग्री विवक्षिता ।
अनुव्यवसायसामग्री चैवं विधा । 3 तया व्यवसायग्रहे ऽपेक्षितस्य व्यवसाय 4 संप्रयोगस्यैवं तद्विषयघटग्रहे ऽप्यपेक्षितत्वात् । घटज्ञानमिति शब्दस्तु ज्ञानग्रहे ज्ञानपदगतानां शक्तिमपेक्षते । घटग्रहे तु घटपदगतां शक्तिमिति चे 5 न्न ।
पक्षधरोक्तशङ्क्य निराह -- नन्विति ॥ तावदेवेति ॥ ज्ञानग्राहकत्वप्रयुक्तमेव यस्यां विषयग्राहकत्वं सैवेत्यर्थः । अस्मिन्मते च भ्रम इति पदजन्यज्ञानेन प्रामाण्याग्रहाद्बाधवारणायाप्रामाण्याग्राहकत्वविशंषणमर्थवत् । विषयोपरक्तज्ञानग्राहकेण प्रमेति पदजन्यज्ञानेनोक्तरूपेण प्रमाण्यग्रहणात्सिद्धसाधनवारणाय -- यावदिति विशेषणम् । बाधः सिद्धसाधनता च नेति क्रमेण व्यनक्ति-- अनुव्यवसायसमग्रीति ॥ षष्ठीतत्पुरुषः।
आत्ममनःसंयोगादिरित्यर्थः । स्वप्रकाशव्यवसायादिसामग्र्यपि ग्राह्य-- व्यवसायसंयोगस्य ॥ व्यवसायस्य मनसा सह संयुक्तसमवायरूपसंबन्धस्यैवेत्यर्थः । बाह्यर्थरूपविषयग्रहे व्यवसायरूपप्रत्यासत्तेरपेक्षाया इवानुव्यवसायजननेपि विषयता व्यवसायापेक्षायास्तुल्यत्त्वादिति भावः । तत्पदेनेत्युपलक्षणम् तत्पदादिनेत्यर्थः ।
1.यया सामग्र्या-कुं.छ.क. 2.क- कुं. छ.क. 3.तथाहि-छ. 4.संबन्धस्यैव- छ. 5. त् -क.

परो-स्व-नि-भं ) प्रामाण्यवादः पु -26.
-------- -------- ----
तथाप्येकयैव शक्त्या प्रकरणप्राप्तघटज्ञानपरामर्शकेन तत्पदेन जनितज्ञानस्य प्रामाण्याविषयकत्वेन बाधतदवस्थ्यात् ।
नापि तज्ज्ञानविषयकज्ञानाजन्यज्ञानविषयत्वं स्वतस्त्वम् । अस्मिंश्च पक्षे संभवमात्रं साध्यं न तु नियमः ।
यदत्र मणिसारादावुक्तम्"असर्वनामत्वेनग्राहकविशेषणान्न दोष"इति तन्न । तथापि लक्षणया घटज्ञानोपस्थापकेन लाक्षणिकज्ञानपदेन प्रामाण्याग्रहाग्बाधात् ।
अलक्षणिकत्वेनापि विशेषणे 1 तु घटज्ञाने ज्ञानपदं शक्तामिति भ्रमे सति तादृशेन ज्ञानपदेनापि प्रामाण्याग्रहाद्बाध एव । भ्रमाघटितत्वेनापि विशेषणे तु अप्रामाण्याग्राहकपदवैयर्थ्यम् । प्रमायामप्रामाण्यानुमानस्य व्याप्तिपक्षधर्मतान्यतरभ्रममूलत्वादेव तत्र बाधवाहणात् ।
यत्तु इदं ज्ञानमप्रमाणमिति मनसाप्रामाण्यारोपस्थले ऽन्यत्र गृहीताप्रामाण्यस्मृतिसंभवेन तया भ्रमाघटितयापि सामग्र्या प्रामाण्याग्रहाद्बाधवारणायाप्रामाण्याग्राहकेति विशेषणं 2 सार्थकमिति तन्न । तत्र ज्ञानग्राहकत्वप्रयुक्तविषयग्राहत्वरूपसवनषयज्ञानग्राहकत्वस्याभावादेव बाधवापणात् । विस्तरस्तु गुरुटीकायाम् ।
साधारणं निरुक्त्यन्तरमप्यनूद्य निराह -- नापीति ॥ तज्ज्ञानं ग्राह्यप्रामाण्याश्रयज्ञानम् । तद्विषयकं ज्ञानं गुरुमते तदेव । भट्टमते ज्ञाततालिङ्गक 3 तदवुमितिः । मिश्रमते त 4 दनुव्यवसायः । तदजन्यं यज्ज्ञानं तदेव । तद्विषत्वमित्यर्थः ।
1.ऽतु ऽ इति न -कुं. 2. सार्थकपदं न -आ. 3. कानु-कुं. 4.त्त- आ.
परो-स्व-नि-भं ) प्रामाण्यवादः पु - 27.
------------- ---------- ----
स्वतस्त्वपक्षे ऽपि प्रामाण्यस्य तज्ज्ञानविषय 1 ज्ञानजन्यानुमित्यापिग्राह्यत्वेन तदजन्यज्ञानस्यैव विषय इति नियमस्य तज्ज्ञानविषयकज्ञानाजन्येन घटज्ञानेनाप्यग्राह्यत्वेन गृह्यत एवेति नियमस्य 2 ----
अत्र ज्ञानजन्येत्युक्त्यानुमितिविषयत्वेन सिद्धसाधनतेति शङ्का, ज्ञानविषयकेत्युक्त्या गुरुमते ऽनुमित्यादीप्रामाण्यांशे भट्टमते मिश्रमते च सर्वत्र प्रामाण्यानुमित्यनुव्यावसाययोर्व्याप्तिज्ञानव्यवसायाभ्यां जन्यत्वेन बाध इति शङ्का, तदित्युक्त्या पुनरपि गुरुमते लिङ्गज्ञानस्य स्वप्रकाशत्वेन ज्ञानविषयकज्ञानत्वात्तज्जन्यानुमितिप्रामाण्यांशे बाध इति 3 भट्टमते ज्ञाततालिङ्गकानुमितेर्ज्ञानविषयव्याप्तिज्ञानजन्यत्वाद्बाध इति 3 मिश्रमतेप्यनुव्यवसायस्य व्यवसायविषयकस्य तज्जन्यतया तन्निष्ठप्रामाण्यांशे बाध इति शङ्का निरस्ता 4 । भट्टमते सामान्यप्रत्यासत्तेरभावेन व्याप्तिज्ञानस्य ग्राह्यप्रामाण्याश्रयज्ञानाविषयत्वम् । मतान्तरे तु व्यक्तम् । अत्राद्यज्ञानपदं तत्पदस्य तद्ग्रन्थे पूर्वनिर्दिष्टप्रामाण्यपरामर्शितया सिद्धसाधनत्ववारणाय । द्वितीयं तु व्यापारनुबन्धितया तज्ज्ञानविषयकैरात्मादिभिः
प्रामाण्यज्ञानजननद्वार
5 सिद्धिवारणाय प्रतिपत्त्यनुबन्धितया तद्विषयकत्वलाभार्थम् । तृतीयमपि व्यापारानुबन्धितयात्मादिभिरेव सिद्धसाधनतावारणाय प्रतिपत्त्यनुबन्धितया विषयत्लाभायेत्याहुः।
ग्रन्थकर्तुः कुतो नियमो नाभिमत इत्यत आह -- स्वतस्त्वेति ॥ तज्ज्ञानविषयकज्ञानजन्येति ॥ पक्षज्ञानजन्यत्वादनुमितेरिति भावः । ग्राह्यत्वेन -- विषयोकार्यत्वेनेत्यर्थः । अग्राह्यत्वेन -- अविषयीकार्यत्वेन ।
1.क-कुं क. 2.वा-छ. 3.इयं पङ्क्तिर्नदृश्यते -मु. 4.व्युदस्ता-कुं आ. 5.प्र-कुं.आ.
परो-स्व-नि-भं) प्रामाण्यवादः पु- 28.
---------- ------- --------
चासंभव 1 इति वाच्यम् । स्वतस्त्वपक्षे व्यवसायप्रामाण्यग्रहकस्यानुव्यवसायस्य
व्यवसायविषयकेश्वरज्ञानजन्यतया तदजन्यज्ञानं 2 त्वाभावेन बाधात् । परतस्त्वपक्षे तदजन्येश्वरज्ञानविषयत्वेन सिद्धसाधनाच्च । नापि तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्यज्ञानविषयत्वं वा तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्यसमानाधिकरणज्ञानविषयत्वं वा स्वतस्त्वम् ।
गृह्यत एव -- विषयीक्रियत एवेत्यर्थः । किमिदं स्वतस्त्ववादिमात्रसाधारणम् उत निरीश्वरमीमांसकमात्रसाधारणम् निर्वचनम् ? आद्य आह -- स्वतस्त्वपक्ष इति ॥ सिद्धान्ते साक्षिशब्दितानुव्यवसायज्ञानस्य नित्यत्वेपि प्रामाण्यविषयकत्वरूपविशिष्टवेषेण जन्यत्वादिति भावः । अन्त्य आह -- परतस्त्वपक्ष इति ॥ एवं रूपे स्वतस्त्वे त्वां प्रत्युच्यमाने ग्राह्यप्रामाण्याश्रयविषयं 3 यदीश्वरज्ञानं तदजन्यं तदेव । तद्विषयत्वेन त्वया सिद्धसाधनताया वक्तुं शक्यत्वादिति भावः। अयं च 4 दोषः प्राचीनपक्षेपि समः । यत्त्वीश्वरनिरासाभिप्रायेणौवं साध्यस्य मीमांसकेनोच्यमानत्वान्न सिद्धसाधनता दोष इति । तन्न । अर्थान्तरानिवारणादिति रुचिदत्तेनैवदीषितत्वात् । यज्ञपतिनोक्तविवक्षामनूद्य निराह -- नापीति ॥ सर्वस्यापी जन्यज्ञानस्य तज्ज्ञानविषयकेश्वरज्ञानजन्यत्वेनाप्रसिद्धिवारणायाद्यं जन्यपदम् ।
द्वितीयन्त्वीश्वरज्ञानमादाय सिद्धसाधनतानरासार्थम् । एवमग्रे समानाधिकरणपदद्वयकृत्यं ध्येयम् । युगपदेव विवक्षाद्वयेपि दोषमाह -- परतस्त्वेति ।
1.वात्- कं. 2. ऽज्ञानऽ इति न - कुं-छ-क. 3.कं-कुं. 4.दोषपदं नास्ति- आ.
परो-स्व-नि-भं. ) प्रामाण्यवादः पु - 29.
----------- ---------- --------
परतस्त्वपक्षे ऽपि प्रामाण्यस्यैवं विधं सामान्यप्रत्त्यासत्तिजन्यं प्रमेयमिति यज्ज्ञानं दद्विषयत्वेन सिद्धसाधनात् ।
विषयपदेनप्रकारत्वविवक्षायामपि स्वतस्त्वपक्षेपि प्रामाण्यस्य सर्वं ज्ञानं गुण इति शब्दजन्यव्यवसायविषयकानुव्यावसायस्य सर्वज्ञानान्तर्भूतस्वविषयकव्यवसायजन्यत्वेन तदजन्यत्वाभावेनांशे बाधात् ।
एवंविधं ॥ तज्ज्ञानविषयकजन्यज्ञानाजन्य 1 जन्यरूपम् । तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्यसमानाधिकरणरूपम्
चेत्यर्थ्यः -- प्रमेयम् ॥ प्रमेयत्वप्रकारकं प्रमेयविशेष्यकं यज्ज्ञानं तद्ग्राह्यप्रामाण्याश्रयविषयकं घटादिज्ञानरूपजन्यसमानाधिकणज्ञानाजन्यं जन्यं 2 समानाधिकरणं प्रमेयत्वप्रकारेण प्रामाण्यविषयकं चेति तद्विषयत्वेन सिद्धसाधनमित्यर्थ्यः । एतच्चोपलक्षणम् । निरीश्वरमते व्यर्थविशेषणत्वं च बोध्यम् । एतेन समानाधिकरणेति विशेणणीयमिति शिरोमणिपक्षोपिप्रयुक्तः । ननु प्रमेयमितिज्ञाने विशेष्यतया प्रामाण्य 3 स्य विषयत्वेपि न प्रकारतया । तथात्वेन विषयत्वं च निरुक्तो विवक्षीतम् । इत्यत आह-- विषयेति । प्रामाण्यस्येत्यस्यानुव्यवसायेनेत्यत्रान्वयः । प्रामाण्यगोचरस्येत्यर्थः । गुणत्वप्रकारकसर्वज्ञानविशेष्यकशाब्दज्ञाननिष्ठप्रामाण्यग्राहकोनुऽव्यवसायो व्ववसायजन्यः । स च व्यवसायः सर्वज्ञानविषयको ज्ञानत्वेन स्वात्मानमपि विषयीकरोतीति तत्प्रामाण्यस्य

तज्ज्ञानविषयकज्ञानजन्यज्ञानप्रकारत्वमेवास्ति । तदजन्यज्ञानप्रकारत्वं नेति सर्वं ज्ञानं गुण इति ज्ञाननिष्ठ प्रामाण्यांशे बाध इत्यर्थः ; सर्वज्ञानान्तर्भूतं च तत्वस्वं चेति विग्रहः ।
1. एकं जन्यपदं न - आ. 2. न्यासा - आ. 3. ण्यवि - आ.
परो-स्व-नि-भं ) प्रामाण्यवादः पु - 30.
एतदभावरूपपरतस्त्वसाधनेंऽशे सिद्धसाधनाच्च । न चैवंविधव्यावसायप्रामाण्यस्यापक्षत्वान्न बाध इति वाच्यम् । सामान्ये 1 विप्रतिपत्तौ विशेषे 2 साध्यसाधनेर्ऽथान्तरात् ।
एतेन तज्ज्ञानविषयकज्ञानाजन्यज्ञानविषयत्वमेव स्वतस्त्वम् । न तु जन्यपदद्वयं वा समानाधिकरणपदद्वयं वा प्रक्षेप्यम् । न चैवं पूर्वोक्तेश्वरज्ञानमादाय बाधसिद्धसाधनते स्यातामिति वाच्यम् ।
तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपजन्यस्याभावरूपमजन्यत्वं हि द्वेधा ।
स्वपदेन व्यवसायः । केनचिदुक्त 3 समाधिमाशङ्क्य निराह -- नचैवं विधेति ॥ अर्थान्तरादिति । सामान्यधर्मावच्छिन्नस्वतस्त्वपरतस्त्वसंशयनिवर्तनानुपयोगादर्थान्तरादि 4 ति भावः ।
पक्षधरोक्तमप्यनूद्य निराह -- एतेनेति ॥ तद्व्यतिरेकेति ॥ अत्रोभयत्र व्यतिरेकशब्दः प्रगभावपरः । अन्यथा आद्यस्य संसर्गाभावमात्रपरत्वे तज्ज्ञानविषयकव्याप्तिज्ञानात्यन्ताभावरूपव्यतिरेकाप्रयुक्तप्रागभावप्रतियोगिनीं इदं ज्ञानं प्रमेत्यनुमितिमादायैव 5 सिद्धसाधनतापत्तेः । अन्त्यस्यापि तत्परत्वे पूर्वोक्तानुमितिमादायैव सिद्धसाधनतापत्तेः । ध्वंसरूपतद्व्यतिरेकस्य तज्ज्ञानविषयकज्ञानव्यतिरेकेण केनाप्यजन्यत्वादिति ध्येयम् । यद्यपि नैतद्रूपं जन्यत्वम् । आकाशादिजन्य शब्दादावभावात् । तथापि । व्यतिरेकिपदार्थेषु भवतीदं जन्यत्वमिति भावः -- द्वेधेति ॥ उत्तरदलेन नञो ऽन्वयेन पूर्वभागेन नञो ऽन्वयेन वा द्वेधेत्यर्थ्यः --
1. न्यवि - कुं. 2. षसाध्य - कुं. 3. त्यर्थः - आ. 5. य सि - कुं. य.आ.
परो-स्व-नि-भं ) प्रामाण्यवादः पु - 31.
------ -------- -----------
तद्वतिरेकप्रयुक्तव्यतिरेकाप्रतियोगित्वेन वा तद्व्यतिरेकाप्रयुक्तव्यतिरेकप्रतियोगित्वेन वेति । तत्राद्यस्याजन्यत्वस्येश्वरज्ञाने सत्वेपि मया विवक्षितस्य द्वितीयस्याभावात् । न हीश्वरज्ञानं प्रागभावरूपव्यतिरेकप्रतियोगीति निरस्तम् । तथापि पूर्वोक्तस्य प्रमेयमिति ज्ञानविषयत्वेन सिद्धासाधस्य सर्वं ज्ञानं गुण इत्यादिनोक्तस्य बाधस्य--
प्रयुक्तेति ॥ तदन्वयाद्यनुविधाय्युत्तरकालसंबन्धित्वं प्रयुक्तम् । तद्भिन्नत्वमप्रयु क्तत्वामित्यर्थः-- सत्वेपीति ॥ तस्य व्यतिरेकमात्राप्रतियोगित्वादिति भावः-- मयेति ॥ स्वतस्त्वनिर्वचनकर्त्रेत्यर्थः । अभावादित्येतद्वनक्ति -- नहीति ॥ तथा च न प्रागुक्तदोषाविति भावः । एतेनेत्युक्तं व्यनक्ति-- तथापीति ॥ एवं विवक्षायामपीत्यर्थः । विषयपदेन प्रकारत्वविवक्षामुपेत्याह -- सर्वं ज्ञानमिति ॥ बाधस्ये 1 ति । एतदभावरूपपरतस्त्वसाधने सिद्धसाधनाच्च । तस्या 2
पक्षत्वे चार्थान्तरता । इदं ज्ञानं प्रमेति सामान्यप्रत्यासत्तिजन्यज्ञाने प्रामाण्यस्य प्रकारत्वेन सिद्धसाधनापरिहाराच्च । न च सामान्यस्या 3 ज्ञानस्य प्रत्यासत्तित्वे ऽतिप्रसङ्गेन ज्ञातस्यैव प्रत्यासत्तित्वात्प्रमात्वज्ञानस्य चानुमित्यादिरूपस्य प्रमात्वाश्रयरूपपक्षादिज्ञानजन्यतया तज्ज्ञानविषयकज्ञानजन्यत्वमेवेत्युक्तस्थले तज्ज्ञानविषयकज्ञानाजन्यज्ञानप्रकारत्वं नेति न दोष इति वाच्यम् । इच्छायां गृहीतं तद्वति तत्प्रकारकत्वं स्मृतं सज्ज्ञानत्वेन गृह्यमाणे रूप्यभ्रमे यत्रारोप्यते यत्र वा रूप्यत्ववति रूप्यत्वप्रकारकत्वेन गृह्यमाणायामिच्छायां --
1. स्य चे - कुं. आ. 2. पि - आ. 3. अज्ञातपदं न - आ.
परो-स्व-नि-भ) प्रामाण्यवादः पु - 32.
--------- ---------- ------
- ज्ञानत्वमारोप्यते तत्रोभयत्र प्रमात्वाश्रयज्ञानविषयकज्ञानं विनापि रूप्यत्ववति रूप्यत्वप्रकारकज्ञानत्वरूपं प्रमा 1 त्वं गृहीतुं शक्यमिति ज्ञातया 2 तद्रूपसामान्यप्रत्यासत्या जनितं ज्ञानमादाय सिद्धसाधन 3 त्वस्य दुर्वारत्वात् । किं च त्वन्मते गङ्गास्नानादिसत्कर्मजन्यं योगिज्ञानं तज्ज्ञानविषयकज्ञानजन्यमेवेति तादृशज्ञान 4 प्रकारत्वमादाय सिद्धसाधन 5 मेव । न हि तदपि निदिध्यासनजन्यम् । मानाभावात् । येन योगिज्ञानं तज्ज्ञानविषयकज्ञान जन्यं स्यात् । तत्तत्कार्मणां त 6 त्त्वज्ञानविशेष एव जनकत्वमित्यनुमानखण्डे त्वयैवोक्तेः । प्रमात्वस्य प्रकारत्वार्थं
पूर्वोपस्थितेरावश्यकत्वे ऽपि उक्तदिशा प्रमात्वाश्रयज्ञानं विनापि प्रमात्वज्ञानसंभवात् । यत्तु अनागताविषयकेति द्वितीयतृतीयज्ञानयोर्विशेषणमतो न को ऽपि दोष इति तन्न । 7 वर्तमानघटप्रामात्वप्रत्यासत्त्या दोषतादवस्थ्यात् । अनागतवृष्ट्यादिज्ञानप्रामाण्यांशे बाधात् । तदन्यस्य पक्षत्वे चार्थान्तरत्वात् । यद्यपि तज्ज्ञानविषयकज्ञानव्यतिरे 8 का प्रयुक्तव्यतिरे 9 कप्रतिगितदकेज्ञानमात्रविषयकज्ञानग्राह्य 10 मिति तदर्थ इति । तदपि न । एवं हि पूर्वदलेन प्रामाण्यानुमिति 11 मादाय तदेकज्ञानमात्रविशेषण सामान्यप्रत्यासत्तिजन्यज्ञानयोगिज्ञाने 12 श्वरज्ञानान्यादाय 13 सिद्धसाधनत्वाभावे ऽपि ज्ञानं गुण इत्यादि 14 ज्ञानज्ञानप्रामाण्यानुव्यवसायस्य ग्राह्यप्रामाण्याश्रयज्ञानविषयकतया तदेक 15 विषयकत्वाभावेन तदंशे बाधात् ।
1.ण-कुं. 2.तया-आ. 3.ऽत्वऽ इति न -आ. 4. विषयत्वं- आ. 5.त्व-आ.
6.त्तज्ज्ञा -कुं. 7. वर्तमानपदं न -आ. 8.क-कुं 9.का-कुं. 10. त्व-आ.
11. मीश्वरज्ञानंवा- आ. 12. चादाय- आ. 13. च-कुं. 14. ज्ञानप्रा-कुं.
15. ज्ञान-आ.
स्वतस्त्वे अनुमानानि प्रामाण्यवादः पु - 33
----------------- -------------- -------
चापरिहारादिति दिक् ॥
परोक्तस्वतस्त्वनिरुक्तिभङ्गः

मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc