भाषा

ENहिગુ
ग्रंथ पाठ

तर्कताण्डव (टीका सहित) · अध्याय 10

10.2

स्वतस्त्वे प्रमाणं तु ,
तदन्यस्य पक्षत्वे चार्थान्तरता । किञ्च प्रमावानयं समर्थप्रवृत्तिमत्त्वात् इत्याद्यनुमितिग्राह्यत्वेननार्थान्तरता । मीमांसकमते
सामान्यप्रत्यासत्त्यभावेन ग्रह्यप्रमाव्यक्तेरनुमितिजनकज्ञानोगोचरत्वात् । तदन्यप्रामाण्यस्य पक्षत्वं तु सामान्यविप्रतिपत्त्यननुगुणमित्याद्यभिप्रेत्याह -- इति दिगिति ॥ यद्वा एवं विप्रतिपत्त्यन्तराण्यपि तत्तद्बुध्युत्प्रेक्षितानि निरस्यानीति भावेनाह -- इतिदिगिति ॥ तन्निरासश्च गुरुटीकायां व्यक्तः ॥
परोक्तस्वतस्त्व 1 निरुक्तिभङ्गः

मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc