भाषा

ENहिગુ
ग्रंथ पाठ

तर्कताण्डव (टीका सहित) · अध्याय 3

3.1

अथादो 1 विशिष्टेष्टदेवतानतिरूपं मङ्गलमाचरति - अनन्तेति । सत्वादिषु गुणत्वप्रसिद्धेर्दुःखादीनां गुणत्वेन परैः
परिगणनाच्च तद्व्युदासायानन्दज्ञानबलद्युतिप्रभुतिशुभधर्मलाभाय कल्यणगुणेत्युक्तिः । तार्किकरीत्या गुणगुणिनोर्भेदभ्रमनिरासाय गुणैकराशिमित्युक्तः ।"अष्टावेवेश्वरे गुणा"इति धीनिरासायानन्तेति ।"दोषैकदृक्पुरोभागी"इत्यमरे"ह्लादैकमयीं"
इत्यादिकाव्यप्रकाशादौ प्रयोगदर्शनात्संख्यार्थकस्यैवैकशब्दस्य"पूर्वकालैक"इति
पूर्वनिपातो न केवलार्थस्येति तत्वनर्णयटीकाद्युक्त्या गुणैकराशिमित्यस्य साधुत्वं
ध्येयम् । उक्तरूपगुणानां मुख्यराशिमिति वा भेदशून्यराशिमिति वार्थः । गुणवद्दोषो नाशङ्क्य इत्याह - ॥अशेषेति ॥ चिन्तासन्तापादिदोषहीनमित्यर्थः । ननु गुणविशिष्टस्य मायाशबलत्वात्कथं 1 दोषोज्झितत्वमित्यतो नेदं मायाशबलमिति भावेनोक्तं अप्रमेयं - देशतो ऽपरिच्छिन्नमिति । शबलं तु परिच्छिन्नमित्यभ्युपेतत्वादिति भावः । तत्र हेतुर्नित्यमिति - अनिवर्त्यं । शबलन्तु मिथ्यात्वान्निवर्त्यमित्यर्थः । एवं देश एकालगुणानन्त्यरूपब्रह्मशब्दार्थस्यात्रोक्त्या रमेश एव ब्रह्मशब्दार्थ इति सूचितम् । अत एव मुमुक्षुभिः सेव्यं; न तु मन्दोपास्यमित्यर्थः । किंफलं? अनन्तसौख्यप्रदं- अविनाशिसुखप्रदमित्यर्थः । स्वार्थे ष्यञ् ।अत्र न्यायचिन्तापरे ग्रन्थे ब्रह्मतन्त्राध्यायचतुष्टयोक्तगुणवैशिष्ट्योक्तिः -
"प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम्"॥
इत्युक्त्या ब्रह्मत्त्रोक्तप्रमेयनिर्णयोपयुक्तप्रमाणन्यायचिन्तापरत्वात्तद्विषयादिनैवास्य
विषयादिमत्तेति सूयनार्था । एवं च न्यायपञ्चाध्यायानुरोधेन कुसुमाञ्जलौ पञ्चपरिच्छेदकृतिवद्ब्रह्मत्त्रानुरोधेन परिच्छेदचतुष्टये कार्येपि प्रमाणत्रित्वद्योतनाय परिच्छेदत्रयकृतिरिति

3.4

देवतानतिसमनन्तरं भाष्यकर्तृनर्थयते -- श्रीशेति ।
1 कथमशेष.- अ.
स्वमते ज्ञप्तौ स्वतस्त्वनिरुक्तिः प्रामाण्यवादः पु-3
---- ---- --
श्रीमदानन्दतीर्थार्यस्वामिनः कमलापतेः ।
प्रीतये क्रियते व्यासयदिता तर्कताण्डवम्

3.5

स्वतःप्रमाणैराम्नायैरादरेणादिवर्जितैः ।
आख्यातानन्तकल्याणगुणं श्रीरमणं भजे

मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc