तर्कताण्डव (टीका सहित) · अध्याय 22
पररीत्येति॥ सिद्धान्ते तत्रापि व्याप्यत्वाङ्गीकारादिति भावः। इत्येवास्तु लाघवादित्युक्तदोषं तात्पर्यतो ऽनुवदति -- गौरवमिति॥
परोक्तवक्रव्याप्तिलक्षणभङ्गः
खक्त-व्यानियानु-त्तिभङ्गः) व्याप्तिवादः पु - 35.
अथ खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः ॥ 3.॥
व्याप्तिग्रहोपायस्तु पदशक्ति 1 प्रस्तावे दर्शितः।
ननु तर्कं विना व्याप्त्यग्रहात्तर्कस्य च व्याप्तिधीसापेक्षत्वादनवस्थेति चेत्। अत्र केचित् -- यत्राप्तवाक्येन व्याप्तिर्न तत्र तर्कापेक्षा। न च तत्र व्याप्तिनिश्चयो ऽनुमानादेवेति वाच्यम्। पित्रादौ स्वतः सिद्धश्रद्धयानाप्तत्वशङ्कानुदयात्। प्रात्यक्षिकी व्याप्तिधीपरंपराप्यनत्तोत्रैव विश्राम्यतीत्याहुः॥
अथ खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः
नन्वस्तु भवदुक्तैर्वानुपपत्तिरूपा व्याप्तिर्न तु परोक्ता। तद्ग्रहोपायस्तु न संभवति। अनुगतजातेर्निरासेन सामान्यप्रत्यासत्तेरभावादित्यत आह-- व्याप्तीति॥ सादृश्यादिना तदग्रहस्योपपादितत्वादिति भावः। 2 खण्डनोक्तां व्याप्तिग्रहनुपपत्तिं निरसितुमाशङ्कते -- नन्विति॥ तर्कं विना व्याप्त्यग्रहादिति॥ अनिष्टप्रसञ्जनरूपतर्काभावे व्यभिचारादिशह्कया प्रतिबन्धेन व्याप्त्यनिश्चयादित्यर्थः। अत्रैव विश्राम्यतीति॥ आप्तवाक्यजन्यव्याप्तिधियामेवेत्यर्थः। अत्रारुचिबीजं तु श्रद्धया सिद्धत्वेपि न्यायतोनुपपादितत्वे न्यायासाध्ये निःशङ्कप्रवृत्तेरयोगात् तदर्थं न्यायानुसंधाने स्यादेवानवस्थेत्येवं ज्ञेयम्॥ अनादीति॥
1.क्तिग्रह-ट.रा. ग्रहण-ग. 2.मण्ड-ठ.ड.
पु-36. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अपिचानादिसिद्धकार्यकारण 1 मूलाः केचन तर्काः। न चात्र देहात्मत्वादाविव बाधोस्तीति न तत्र तर्का 2 पेक्षा। 3 यत्रापि जन्मान्तरानुभूतव्याप्तिस्मृतिहेतुः न तत्र तर्कापेक्षा। इतरापि व्याप्तिधीरन्ततोत्रैव पर्यवस्यतीत्यस्तु। किञ्च या निर्देषश्रुत्या नर्देषज्ञानरूपसाक्षिणा वा सिद्धाव्याप्तिर्न तत्र तर्कापेक्षा।
अनादिसिद्धत्वेन ज्ञाता निःशङ्कमवगम्यमानाः ये कार्यकारणभावाः तन्मूलाः केचन तर्का बीजाभावे अङ्कुराभाव इत्यादयः इत्यर्थः। देहात्मत्वादाविति॥ तत्र युक्त्यादिबाधो यथा न तथानादिसिद्धकार्यकारणभावमूलतर्केष्वस्तीति न तत्र तर्कापेक्षेत्यर्थः॥
नन्वयं पक्षः मणावेव कार्यकारणभावादेरनादिसिद्धत्वेपि तत्र प्रमाणानुसारणे ऽनुमान एव पर्यवसानादनवस्थैवेति दूषित इत्यतः पक्षान्तरमाह-- किञ्चेति॥ यस्तर्को व्याप्त्यनुभवमूलकस्तत्र तर्कान्तरापेक्षायामपि
व्याप्तिस्मृतिमूलतर्के न तर्कान्तरापेक्षेति नानवस्थेत्यर्थः। हेतुरिति॥ तर्कस्येति योज्यम्। व्याप्त्यनुभवमूलतर्के का गतिरित्यत आह-- इतरापीति॥ अनुभवरूपव्याप्तिधीरपीत्यर्थः। नन्वयमपि पक्षः स्तन्यपानादावनवस्थोद्धारोपि बह्वनिधूमयोर्व्याप्तौ गृह्यमाणायामनवस्थेति पक्षधरादौ दूषित इति चेन्न। अन्ततोप्यत्रैव सर्वापि व्याप्तिधीः
पर्यवस्यतीत्युक्तत्वेनादोषत्वात्॥
पक्षान्तरं चाह-- किञ्च येति॥ श्रुत्येति ॥ ब्राह्मणो न हन्तव्यः। गौः न पदा स्पृष्टव्येत्यादौ यो ब्राह्मणः स न हन्तव्य इत्यादिव्याप्तिः श्रुतिसिद्धा।
1.णाभावमू-- ट.ग.रार्. 2.कान्तरापे-उ.ट.रा. 3.किञ्चेत्यधिकम्-ट. क.ग.रा.
खक्त-व्यानियानु-त्तिभङ्गः) व्याप्तिवादः पु-37.
अन्यापि व्याप्तिधीरत्रैव विश्राम्यतीति नानवस्था। उक्तं हि --
"न परीक्षानवस्थास्यात्साक्षिसिद्धे त्वसंशयादि"ति॥
अपिच न तर्कः साक्षाद्व्याप्तिग्राहकः। भूयोदर्शनव्यभिचारादर्शनसहकृतप्रत्यक्षेणैव तद्ग्रहात्। यातु व्याप्तिग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाधायभावनिश्चयाः सहकारिण इति पद्धतौ उपाध्यभावनिश्चयस्य सहकारित्वोक्तिः सोपाधिशङ्कास्थलाभिप्राया न तु सार्वत्रिकाभिप्राया। अन्यथोपाध्यभावनिश्चयस्य व्याप्तिसापेक्षतर्काधीनत्वेनानवस्थापातात्। पद्धतावेव तर्कस्य क्वाचित्कत्वोक्तेश्च।
यज्जलपानं तत्सुखसाधनमित्यादिव्याप्तिः साक्षिसिद्धा । श्रुत्याद्यन्यस्थलीयव्याप्तिधीः कथमित्यत आह-- अन्यापीति॥ उक्तंहीति॥ ज्ञानपादीयानुव्याख्याने । परीक्षा नाम तर्क एव॥
सर्वव्याप्तिधियस्तत्रैव पर्यवसानं विवादिनं प्रति भूयोदर्शनवादे मणौ सिद्धान्तितं पक्षमुपेत्याह-- अपि चेति॥ न साक्षाव्द्याप्तिग्राहक इत्यस्य किन्त्वत्यनेनान्वयः। किं तर्हि साक्षाव्द्याप्तिग्राहकमित्यत आह-- भूयोदर्शनेति॥ बहुषु स्थलेषु साध्यसाधनयोः सहचारदर्शन 1 त्यर्थः। व्यभिचारेति॥ हेतोः साध्याभावसंबन्धादर्शनेत्यर्थः।
1. नेने -ड.
पु- 38. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
पार्थिवत्वलोहलेख्यत्वयोस्तु वज्र एव व्यभिचारदर्शनात्तदग्रहः। उक्तं हि --
"अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम्।
ज्ञायते साक्षिणावाद्धा मानाबाधे न तद्भवेत्"॥
इति। किन्तु व्यभिचारशङ्कानिवृत्तिद्वारा। शङ्का तु क्वचित्कैव। सा च क्विचित्केन 1 तर्केण निरस्यत इति न 2 तत्र तर्कापेक्षा । ननु तर्कानवतारे विशेषादर्शनस्य सर्वत्र सत्वात् --
"सर्वत्र शङ्कया भाव्यं नियामकमपश्यताम्"।
प्रत्यक्षेण -- चक्षुरादिना। नन्वेवं यत्पार्थिवं तल्लोहलेख्यमिति बहुषु स्थलेषु सहचारदर्शनाव्द्यभिचारादर्शनाच्च व्याप्तिग्रहः स्यादित्यत आह -- पार्थिवत्वेति॥ वज्रे-- वज्रमाणौ॥ उक्तं हीति॥ भक्तिपादीयानुव्याख्याने व्यभिचारादर्शनादिसहकृतं प्रत्यक्षं व्याप्तिनिश्चायकमित्येतदुक्तमित्यर्थः। तुरवधारणे॥ तल्लिङ्गं धूमादिकं वह्न्यादिसाध्यव्यभिचारेद्धा सर्वथाप्यदृष्ट एव सति तस्य वह्नेः साधकं व्याप्यं न तु व्यभिचारदर्शने 3 प्रमाणबाधे तु साधकं न भवेदित्यर्थः। शङ्कानिवृत्तिद्वारेति॥ तर्को व्याप्तिग्राहक इत्यनुकर्षः। विशेषादर्शनस्य व्यभिचारिव्यावृत्तविशेषादर्शनस्य 4 सर्वत्र सत्वादित्यत शङ्का सार्वत्रिकी स्यादित्यन्वयः। व्याघातावधिराशङ्केति वक्ष्यमाणोदयनवाक्यं वक्ष्यमाणाव्द्याघातावधित्वाच्छङ्काया इति भक्तिपादीयछललक्षणोक्तिप्रस्तावगतसुधावाक्यं ह्रदि कृत्वा व्याघातभिया एवं शङ्का
एवं न कार्येति॥ भावेन
व्याख्यातमाह-- एवं शङ्कायामिति॥
1.नैव त -ट.रा. 2.न सर्वत्र त- ट.क.ग.रा. 3.न प्र-ड. 4.स्य तत्र सत्वादि-ड. स्य अत्र -ठ.
खक्त-व्यानियानु-त्तिभङ्गः)
व्याप्तिवादः पु- 39.
इति न्यायेन शङ्का सार्वत्रिकी स्यादिति चेन्न। किमियं शङ्का स्वार्थानुमाने स्यात् परार्थानुमाने वा। आद्येपि स्वारसिकी वा आधेया वा। नाद्यः। एवं शङ्कायां चार्वाकस्य प्रत्यक्षेपि करचरणादिविशेषदर्शने ऽद्वैतिनोपि वेदनिर्देषत्वज्ञाने उपक्रमादिलिङ्गनां तात्पर्याव्यभिचारज्ञाने च स्वार्थव्यभिचारशङ्कापातात्। शङ्काविषकज्ञानोपि स्वार्थस्य व्यभिचारशङ्क्या त्वदुक्त 1 व्यभिचारशङ्काया एव सिद्ध्यापत्तेश्च। यदि च तत्र त्रिचतुर 2 कक्ष्यानन्तरं कोटिस्मरणाद्यभावान्न शङ्का। तर्हीहापि न विशेषादर्शमात्रं संशयसामग्री। किन्तु कोटिस्मरणादिसचहितम्। तथा च कतिपयकक्ष्यानन्तरं कुत्रचित्कोट्यस्मरणस्य कुत्रचिदुत्कटविषयान्तरसंचारस् कुत्रचिज्जिज्ञासाभावस्य कुत्रचित् --"3 यत्वादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम्"। इति न्यायेन स्वारसिकविश्वासस्या 4 वश्यकत्वान्न सर्वत्र शङ्का।
एवं शङ्कायां। अनुमानाप्रामाण्यवादीचार्वाक एवेति चार्वाकस्येत्युक्तम्। सर्वखण्डनवादी मण्डनमिश्रोप्यद्वैतवादीत्यद्वैतिनोपीत्युक्तम्। अनेन स्वक्रियाविरोध उपपादितः॥
परमुखेन समाधिं वाचयित्वा समं प्रकृतेपीत्याह-- यदीति॥
1.व्यभिचारपदं न -क.ट.ग. त्वदक्तेति नास्ति-रा. 2.रादिक-रा. 3.यत्रादौ -ट.ग.रा. 4.स्य चाव-ट.ग.रा.
पु-40. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न हि कश्चिदपि यावज्जीवं कोटिस्मरण 1 धारायामेव व्याप्रियमाणोनुभूयते। न चाविरललग्राशङ्काधारानुभूयते। येन फलबलात्कोचिस्मरणादिधाराया अविच्छेदः कल्प्येत। अन्यथा प्रत्यक्षेपि विशेषदर्शनधारायां वेदेप वेदनिर्देषत्व 2 ज्ञानधारायां च व्याप्रियेत। उक्तं हि --
यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने।
दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम्॥
इति। द्वितीयेपि स्वार्थानुमाने शङ्काधायकं न ताव्तप्रतिवादिवाक्यम्। अतिप्रसङ्गात्। तस्य तदानुपस्थितेश्च नाप्युपाधिशङ्का। तस्या अप्युक्तन्यायेन सर्वत्रासंभवात्।
फलबलादिति॥ शङ्कारूपफलबलादित्यर्थः। अन्यथेति॥ शङ्काभावेपि परंपराकल्पन इत्यर्थः। उक्तं हीति॥ विश्वासादिना प्रमाणत्वेन सिद्धस्य शङ्कनास्पदत्वं ज्ञानपादीयानुव्याख्याने उक्तमित्यर्थः। परीक्षायां सत्यां प्रमाणत्वेन निश्चितस्येति शेषः। अशोधिते॥ तर्कादिना अप्रमाणादविवक्ते। उपजीवकेन बाधेपि न दोषः। ननु उपजीव्यं कथं बाध्यमित्यत आह-- उपजीव्यत्वमस्त्वलमिति॥ उपजीव्यत्वमात्रमप्रयोजकमिति भावः॥ द्वितीयेपीति॥ स्वार्थनुमाने आहितशङ्का भवतीति पक्षेपीत्यर्थः। अतिप्रसङ्गादिति॥ प्रत्यक्षेपि करचरणादिविशेषदर्शन इत्युक्तस्थेष्वपि प्रतिवादिवाक्याच्छशङ्काप्रसङ्गादित्यर्थः। उपाधिशङ्केति॥ शङ्काधायिकेत्यनुकर्षः।
1.णादि-ग.रा. 2.ज्ञापकादि-ट.ग.रा. ज्ञापक-क.
खक्त-व्यानियानु-त्ति-भङ्गः) व्याप्तिवादः पु -41.
क्वाचित्क्यास्तु क्वाचित्केनैव तर्केण निरासात्। निरासस्त्वेवम्-- धूमस्याग्निना संबन्धे उपाधिरैन्द्रियकश्चेदुपलभ्येत। न चोपलभ्यते। अतीन्द्रियोपि प्रमाणान्तरवेद्यः स्यात्। न च तत्प्रमाणमुपलभ्यत इति। अत एव पद्धतौ"सोयं कश्चित्प्रमाणान्तरानुग्राहको भवती"ति तर्कस्य क्वचित्कत्वमेवोक्तम्। प्रमाणेनानुपलभ्यमानोपि कश्चिदुपाधिर्भविष्यतीति नर्बीजाशङ्कापिशाची तु प्रामाणिकत्वेन त्वदभिमततेप्यद्वैतादौ बाधकसहस्रं अप्रामाणिकत्वेन त्वदभिमतेपि द्वैतादौ साधखसबस्रं निर्देषत्वेन त्वदभिमते 1 त्वद्वाक्ये दोषसहस्रं च भविष्यतीत्याद्यतिप्रसङ्गहेतुत्वात् सप्तमरसादिशङ्कसमाना न व्याप्तिनिश्चयोत्पत्तिप्रतिबन्धिका। नाप्युत्पन्नस्य व्याप्तिनिश्चयस्य
कार्यप्रतिबन्धिका। उत्पन्नेन निश्चयेनैव शङ्कोत्पत्तिप्रतिबन्धात्। न हि ग्राह्यसंशयमात्रं तन्निश्चयप्रतिबन्धकम्। न चोत्पन्नस्य व्याप्तिनिश्चयस्य बलवद्बाधकमस्ति।
उक्तेति॥ कोटिस्मरणाद्यभावादित्यादिनोक्तन्यायेनेत्यर्थः। अत एवेति। क्वाचित्कोपाधिस्थल एव तर्कानुसरणादित्यर्थः। त्वदभिमतेति॥ खण्डनकारं प्रत्युच्यते। न व्याप्तिनिश्चयोत्पत्तिप्रतिबन्धिकेत्येतव्द्यनक्ति-- न हीति॥ तथात्वे संशयोत्तरप्रत्यक्षस्यानुमित्यादेश्चानुदयापातादिति भावः॥
1. तेपि त्व - ट.ग.रा.
पु-42. न्यायदीपयुततर्कताण्जवम् (तृ.परिच्छेदः
येनौत्सर्गिकं प्रामाण्यमपोद्येति। उक्तं हि --
"उत्सर्गतोपि यत्प्राप्तमपवादविवर्जीतम्।
व्यभिचार्यपवादेन मानमेव भविष्यति"॥
इति। उक्तं च खण्डनेपि --
"अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि।
अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलाम्"॥
इति । कथं च प्रत्यक्षसिद्धे अन्नादौ निःशङ्कस्य प्रत्यक्षसिद्धायां व्याप्तौ शङ्का। उक्तं च -- व्याप्तिप्रत्यक्षस्यापि सहकारिसामर्थ्यात्प्रभिज्ञावदतीतादिविषयकत्वमिति।
उक्तं हीति॥ बलवद्बाधकाभावे प्रमाणमेवेत्येतद्भक्तिपादीयानुव्याख्याने उक्तमित्यर्थः। अपवादेन व्यभिचार्यपि मानमेवेत्यर्थः। स्वतः प्रामाण्यनिश्चलां प्रमां शब्दः करोतीत्यन्वयः॥
ननु-- प्रत्यक्ष 2 व्याप्तौ शङ्कानुदयेप्यन्वयव्याप्तौ सा भविष्यति। परिचितप्रत्यक्षस्थलेषु हेतोः साध्यव्यभिचारज्ञानप्यतीतादौ तच्छङ्कया 2 सास्यादेवेत्यत आह-- उक्तं चेति॥ यद्वा
सन्निकृष्टकतिपयधूमादिव्यक्तिव्याप्तिग्रहेप्यतीतदिव्यक्तिषु तद्ग्रहोपायाभावात्कथं सर्वत्र व्याप्तिग्रह इत्यत आह-- उक्तं चेति॥ शक्तिव्याप्त्यादिग्रहसमर्थनवादे. एवमियता ग्रन्थेन तर्कानवतारे विशेषादर्शनस्य सर्वत्र सत्वादित्या 3 दिना पूर्वपक्षिणोक्तं विशेषादर्शनमभ्युपेत्य स्वार्थानुमाने स्वारसिकाहितशङ्कयोः स्वव्याघातप्रसङ्गेनानुवाद उक्तः। अधुना नास्त्येव विशेषादर्शनमित्याह-- वाचयिष्यते चेति॥ अत्रैव भङ्गे किञ्च व्यभिचारिव्यावृत्तिविशेषस्यादर्शन इत्यादिग्रन्थेनेति भावः॥
1. क्षे शङ्कानु-ट.ठ.ड. 2.सा इतिनास्ति-ठ.ड. 3.दिना पू -ट.ड.
खक्त-व्यानियानु-त्ति-भङ्गः) व्याप्तिवादः पु-43.
वाचयिष्यते च परमुखेनैव व्याप्तिधीकाले व्यभिचर 1 व्यावृत्तविशेषदर्शनमप्यस्तीति॥
नाप्यनुमानप्रामाण्यवादिना तदप्रामाण्यवादिनं प्रतिप्रयुक्ते परार्थनुमाने शङ्का। तत्र प्रति वादिना मयेदं साध्यं व्यभिचारिष्यतीति सर्वत्र शङ्कोत्थापनादिति द्वितीयः। 2 तथापि तृप्त्यर्थं भोजने परबोधनार्थं शब्दोच्चारणे एवं तत्तत्कार्योद्देशेन तत्तत्कारणे च प्रवृत्तिरूपस्वक्रियाव्याघातेन शङ्कानुदयात्। अत्र --
परार्थानुमाने वेति प्राग्विकल्पितं द्वितीपक्षं विवृण्वन्नेति निराह-- नापीति॥ द्वितीय इत्यन्वयः। मया चार्वाकेण खण्डनकारेण वा स्वक्रियाव्याघातेन व्याघातो विरोधो हानिर्वा। यदि सर्वत्र शङ्का त्वयोत्थाप्यते तर्हि भोजनमपि 3 तृप्तिं व्यभिचरिष्यति शब्दोच्चारणमपि परबोधं व्यभिचरिष्यतीति भोजनादौ न प्रवृत्तिः स्यात्। अस्ति च सा। अतो न सर्वत्र शङ्का कार्येत्यर्थः। एवं व्याघातावधिराशङ्केत्येतद्वृदि कृत्वा व्याघातदण्डभयेन सर्वत्र शङ्का नोत्पत्तुमर्हतीत्युक्तम्। तस्य खण्डनोक्तं रदोषमुद्धर्तुमाह-- अत्रेति॥
1.चारि-क.ग.रा. 2.तत्रापि-क. तवापि-ग.रा. 3.प्रवृत्ति व्यभि-ठ.
पु-44. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
"शङ्का चेदनुमानस्त्येव न चेच्छङ्का ततस्तराम्।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः"॥
इत्युदयनोक्तदूषणार्थं चार्वाक 1 भूषणार्थं चोक्तं खण्डने --
"व्याधातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम्।
व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः"॥
इति। अस्यार्थः। यदि व्याघातः तर्हि शङ्कास्त्येव। व्याघातो हि स्वक्रियायाः शङ्कया सह विरोधः।
-- व्याघातभयाच्छङ्का नोदेतमर्हतीत्युक्तप्रमेये खण्डने उक्तमित्यर्थः॥ शङ्काचेदिति॥ कालान्तरे देशान्तरे वा अयं हेतुः साध्यं व्यभिचारिष्यतीति शङ्का चेदुत्पन्ना तदानुमानं प्रमाणमस्त्येव। अनुमानं विना कालान्तरदेशान्तरयोरनुपस्थितेः। न चेदेवं शङ्का तदा सुतरां निःसन्देहमनुमानं प्रमाणमस्त्येव। नन्व 3 नुमानं प्रमाणं शङ्का तु कथं निवर्त्येति सुहृद्भावेन पृच्छन्तं प्रत्याह-- तर्कः शङ्कावधिर्मतः। यावच्छङ्कं तर्कप्रवृत्या तर्केण सा निवर्तनीयेति। ननु तर्केपि व्याप्तेरावश्यकत्वात्तत्रापि शङ्कायां तर्कान्तरान्वेषणेनवस्थेति चेत्तत्रोत्तरं -- व्याघातावधिराशङ्केति॥ आशङ्का परम्पराजायमाना सती क्वचिद्विश्राम्यति। यत्र शङ्कायां क्रियणायां स्वक्रियाव्याघातादिर्भवति तत्र न शङ्कोत्पत्तुमर्हतीति तृतीयपरिच्छेदे कुसुमाढ्जल्युक्तश्लोकार्थः। 4 दुर्गमार्थत्वाद्दूषणसौकर्यार्थमाह--
अस्यार्थ इति॥
1.तोक्त भू-क. 2.न्वयः-ठ. 3.न्वस्त्वनु-ठ. 4.दूषणसौकर्यायार्थमाह-- इत्यस्ति -ठ.ड.
खक्त-व्यानियानु-त्ति-भङ्गः) व्याप्तिवादः पु - 45.
तथा च शङ्का प्रतियोगितया व्याघातनिरूपकत्वेन तन्निर्वाहिकेति कथं शङ्कां विना व्याघातः। नचेव्द्याघातस्तदा निवर्तकाभावात्सुतरां शङ्कास्त्येवेति। ब्रूमः।
किमनुमानप्रामाण्येपि व्याप्तिनिश्चयो न संभवतीत्युच्यते न संभवतीत्युच्यते किं वानुमानमात्रमप्रमाणमिति। नाद्यः।
"अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्"।
इति न्यायेन ममेष्टसिद्धेः। न ह्यहमुपेये अनुमानप्रामाण्ये सिद्धेप्युपायविशेषे ऽभिनिविष्टोस्तमि। व्यभिचारिणापि साध्यसिद्धिप्रसङ्गाच्च। स्थापनायां विरक्तस्यापि तव दृष्टप्रकारत्यागेनादृष्टेन ---
तथा च शङ्केति॥ तन्निर्वाहिकेत्यन्वयः। व्याघातनिर्वाहिकेत्यर्थः। कथं -- प्रतियोगितयेत्यादि। एवं च व्याघातावधिराशङ्केति तर्कः शङ्कावधिरिति च कुत इत्युत्तरार्धस्य स्वष्टत्वादर्थो नोक्तः। व्याप्तिनि 1 श्चयो न संभवतीति तत्संभवस्य तर्काधीनत्वात्। तर्कस्य व्याप्तिसापेक्षत्वे नानवस्थापत्यानुत्थानादिति भावः। 2 अर्के चेदिति॥"इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेदि"ति वाक्यशेषः। अयं च श्लोकः शाबरभाष्यादावुक्तः। ननु तर्काधीनव्याप्तिनिश्च 3 हेतुकं प्रामाण्यं न प्राप्तमेवेत्यत आह-- न हीति॥ अनुमानप्रामाण्यं स्वीकुर्वता व्याप्तिनिश्चय 4 संभवोवश्यं वाच्योन्यथातिप्रसङ्गादिति भावेनाह-- व्यभिचारिणामपीति॥ अनुमानप्रामाण्यस्वीकारस्तवायुक्त इत्याह-- स्थापनायामिति॥ कश्चिदपि मम स्थाप्यः पक्षो नेति वदतः खण्डनकारस्येत्यर्थः। अनुमानप्रामाण्यमुपेत्य व्याप्तिनिश्चयखण्डनं स्वव्याहतमित्याह-- व्याप्तिसापेक्षेणेति॥
र्1.न सम्भवतीति-ठ. 2.तर्केचे -ड. 3.श्चायकं-ड. 4.योवश्यं-ट.ठ.
पु-46. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
--प्रकान्तरेणानुमानप्रामाण्यसाधना 1 पाताच्च। व्याप्तिसापेक्षेण तर्केणानवस्थापादनायोगाच्च। प्रमाणतर्काभ्यां व्यावर्तव्यमिति समयबन्धायोगाच्च। व्याप्तेरनिश्चये शब्दशक्तेरप्यनिश्चयेनाद्वैतश्रुतेरबोधकत्वापाताच्च। लक्षणाया अप्यभिधायमूलकत्वात्॥
नान्त्यः। परकीयशङ्कादेरप्यनुमेयतया तच्छङ्कानिवृत्यर्थं तव वाक्यप्रयोगात्।
अनुमानस्येव तर्कस्यापि व्याप्तिनिश्चयं विनैव साधखत्वसंभादिति भावः। यद्वा तत्प्रामाण्यनिर्वाहकोपायान्तराभावात् अस्मदुक्तनिर्वाहस्यैव त्वयापि वाच्यत्वात्तद्दूषणोक्तिरयुक्तेत्याह-- व्याप्तीति॥ व्याप्तिसापेक्षत्वेन तर्कस्य खण्डनं व्याहतमित्याह-- प्रमाणेति॥ परमार्थाद्वैतदृष्ट्या नास्ति समयबन्धादिव्यवहार इत्यत आह-- व्याप्तेरिति॥ यद्वा व्याप्तिनिश्चयो न संभवतीत्येतत्स्व 2 व्याहतमित्याह-- व्याप्तेरिति॥ केवलव्यतिरेकणिणान्वयव्यतिरेकिणा वा प्रमाणलक्षणटीकाद्युक्तदिशा शक्तेर्ग्राह्यत्वादिति भावः। यद्वा वृद्धव्यवहारादावापोद्वापाभ्यां शक्तिग्रहाव्द्याप्तिनिश्चयोपेक्षित इति भावः। लक्षणयाद्वैतज्ञानमस्तु किं शक्तिग्रहणेनेत्यत आह-- लक्षणाया इति॥ मुख्यार्थसंबन्धपूर्वकत्वाल्लक्षणाया इति भावः॥
नान्त्य इति॥ अनुमानमात्रमप्रमाणिति पक्ष इत्यर्थः।
1.नायासापाताच्च-ट.ग.रा. 2.त्यत आह-- ट. त्येतद्व्यारूपयातमित्याह-ठ.
खक्त-व्यानियानु-त्ति-भङ्गः) व्याप्तिवादः पु-47.
अनुमानाप्रामाण्यस्यापि प्रत्यक्षाद्यसिद्धत्वेन तत्रानुमानस्यैव प्रमाणयितव्यत्वाच्च। अनुमानाप्रामाण्ये कालान्तरादेरप्यसिद्ध्या तत्र व्यभिचारशङ्कायोगाच्च। प्रवर्तकनिवर्तकयोरिष्टानिष्टसाधनत्वयोरप्यनुमेयत्वेन तव
कुत्रापि प्रवृत्तिनिवृत्ययोगाच्च। अद्वैते षड्विधतात्पर्यलिङ्गानां प्रपञ्चमिथ्यात्वानुभूतस्वप्रकाशत्वादौ दृश्य 1 मानत्वानुभूतित्वादिलिङ्गानां चोक्त्ययोगाच्च। संदिग्धानैकान्तिके व्यावहारिकप्रामाण्यस्या 2 भावात्। विश्वमिथ्यात्वादेरव्यावहारिकत्वाच्च। प्रत्यक्षशब्दाभ्यामिव लिङ्गेनापि ज्ञानोत्पत्तेरुत्पन्नज्ञानस्य बाधाभावेन प्रामाण्यनिश्चयस्य तदधीननिष्कम्पप्रवृत्तेः प्रवृत्तिसामर्थ्यस्य चानुभवेनानुमाने विशेषापराधाभावाच्च॥
कालान्तरादेरसिद्ध्येति॥ पररीत्या कालदेशयोरानुमानिकत्वमुपेत्य इदं दूषणं ध्येयम्। सिद्धान्ते साक्षिसिद्धत्वात्। व्यावहारिकप्रामाण्यमुपेत्य तदुक्तिरित्यत आह-- संदिग्धेति॥ कालान्त 3 रादौ साध्यं व्यभिचरिष्यति किमिति शङ्कास्पद
इत्यर्थः। तात्विकप्रामाण्यमेव दृश्यत्वादि हेतूनां उपेयं तद्बोध्य 4 मिथ्यात्वादेस्तात्विकत्वात् । अन्यथा व्यावहारिकप्रमाणसिद्धप्रपञ्चवन्मिथ्यात्वमपि मिथ्यैव स्यादिति भावेनाह-- विश्यमिथ्यात्वादेरिति॥ ज्ञानोत्पत्तेरित्यादिषष्ठ्यन्तचतुष्टयस्यापि अनुभवेनेत्यन्वयः।
1.श्यत्वानु-ट.क.ग.रा. 2.स्याप्य-क.ग.रा. 3.रे सा-ठ. 4.विश्वयमिथ्यात्वांशतात्वि इत्यस्ति- ठ.
पु -48. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः।
अन्यथानुमानमेव प्रमाणं न तु प्रत्यक्षादीति। प्रत्यक्षेपि नेत्रमेव प्रमाणं न तु श्रोत्रादि वेदेपि द्वैतवाक्यमेव प्रमाणं नत्वद्वैतवाक्यमिति च स्यात्॥
एतेनानुमानात्संभावनामात्रेण प्रवृत्यादिकं संवादाच्च प्रामाण्याभिमान इति निरस्तम्। अनुमानाज्ज्ञानं जायते तच्च 1 संवादीतित वदता त्वयैव तत्पामाण्ययोपगमात्। संभावनात्वे 2 नापि कोट्यन्तरोल्लेखापाताच्च। निष्कम्पप्रवृत्यनुपपत्तेश्च। एवंविधस्य पारिभाषिकसंभावनात्वस्य मया 3 भ्युपगमाच्च। प्रत्यक्षादिनापि संभावनामात्रमित्यापाताच्च। औत्सर्गिकाबाधः क्वाचित्कबाधश्चोभयत्रापि समः॥
नेत्रमिति चक्षुरित्यर्थः। संभावनामात्रेणेति॥ उत्कटकोटिकसंदेहमात्रेणेत्यर्थः। वह्न्याद्यनुमितिस्थ इति योज्यम्। संभावनमात्रेण प्रवृत्तौ सकम्पैव प्रवृत्तिः स्यात् न तु निष्कम्पेतयाह-- निष्कम्पेति॥ ननु मयोपेता संभावना निष्कम्प 4 प्रवृत्तिजनिकैवेत्यत आह -- एवमिति॥ परिभाषामात्रस्यानुमिति प्रामाण्यापरिपन्थित्वादिति भावः। ननु प्रत्यक्षशब्दयोरुत्सर्गतः सर्वत्राबाध एव। क्वचिदेव शुक्तिरूप्यादौ बाधः। अतो न तत्र संभावनामात्रोपगमेन प्रत्यक्षादेरप्रामाण्यापात इत्यत आह-- औत्सर्गिकेति॥
1.ज्ञानमित्यधिकम्-ट.क.ग.रा. 2.त्वेह्यनुमिताविति का-ट. त्वे हीनत्वेनापि को- गा.रा. 3.याप्युपग-क.ग.रा. 4.निवृ-ट.ठ.
खक्त-व्यानियानु-त्तिभङ्गः) व्याप्तिवादः पु -49
किञ्च व्यभिचारिव्यावृत्तविशेषस्यादर्शने संभावनैव कुतः। अन्यथा संदिग्धव्यभिचारिण्यपि सा स्यात्। दर्शने तु यद्दर्शने तव संभावना तद्दर्शनेनैव मम निश्चयोस्तु। स विशेषः क इति चेदात्मानमेव पृच्छ। यस्त्वं दर्शनेन संभावितवान् निष्कम्पं प्रवृत्तश्च॥
यदि तव समकोटि 1 शह्कासामग्रीविरहो संभावना हेतुः। तर्हि मम समकोटिविषमकोटिकोभयशङ्कासामग्रीविरहो निश्चयहेतुः॥
यदि च तवान्वेषणेपि व्यभिचारादर्शनसहकृतमुपाध्यदर्शनं वा उपाध्य 2 दर्शनसंभावना वा यावच्छक्तिपरीक्षा
वा संभावनाहेतुः। तर्हि ममापि त एव व्याप्तिनिश्चयहेतवः॥
एवं च यदुक्तं व्याघातो यदीत्यादि तदपराद्धोषेर्धानुष्क्सयेव वल्गितमात्रम्।
उभयत्रेति॥ प्रत्यक्षादावनुमाने चेत्यर्थः। निष्कम्पं प्रवृत्तश्चेति। यस्त्वमित्यनुकर्षः॥
परमुखेनैव विशेषस्वरूपं वाचयन् समं ममापीत्याह -- यदि तवेति॥ अपराद्धेषोरिति॥ अपराद्धः लक्ष्यादन्यत्र गतः इषुः शरो यस्य तस्येत्यर्थः।
1.टि कसं-ट. टिकशङ्कासा- ग.रा. 2.ध्यसंभा -ट.ग. भवसं-रा.
पु-50. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
नहि मया 1 निष्पन्न भोजन 2 क्रिया वा क्रियायाः शङ्कायाः शङ्कया सह विरोधो वा तज्ज्ञानं वा शङ्कानिवर्तकमित्युच्यते। येन क्रियायां सत्यां शङ्कानिवृत्य तृप्तिकारणत्वनिर्णयः तस्मिंश्च सति क्रियेति त्वदुक्तोन्योन्याश्रयः त्वदुक्तविरोधि 3 प्रतियोगिशङ्कावश्यंभावश्च 4 स्यात्। किन्तु त्वमपि 5 क्रियामूलभूतेन शङ्काविरुद्धकोट्यालम्बन 6 विशेषदर्शनेन निवृत्तशङ्कः सन् मनसा व्याप्तिं निश्चिनुषे। वाचा तु नेति ब्रूषे। तस्माद्वाङ्मनस 7 विसंवादं कुरुषे।
न हि ततर्थं तत्र निष्कम्पं प्रवर्तते तच्च तत्कारणं नेति शङ्कते चेति संभवति। तस्मात्वद्वचनं मूकोहमितिवत्स्वक्रिया विरुद्धमित्येवोच्यते॥
1.मायानि -ट.क. 2.नादि क्रि-ट.क.ग.रा. 3.घप्र -ट.रा. स्यादर्श -ग.रा. 5.स्वक्रि-ट.ग.रा. 6.नेन वि-ट.ग.रा. 7.विवा-ट.ग. 8.ल्गिगितमे-ठ. 9.धु-ठ.ड.
स्वक्त-व्यानियानु-त्तिभङ्गः) व्याप्तिवादः पु - 51.
किञ्च शङ्कानिवर्तकेन व्याघातेन 1 निवर्त्यायाः शङ्कायाः स्वस्मात्पूर्वसत्वमेवापेक्ष्यते। तावतैव ध्वंसं प्रतीव प्रतियोगित्वोपपत्तेः। न तु यावत्स्वावस्थानं सहभावः। तथात्वे हि विरोध एव न स्यात्। नहि विशेषदर्शननिवर्त्या शङ्का बाध निवर्त्या भ्रान्तिः ब्रह्मज्ञाननिवर्त्याविद्या तेजोनिवर्त्यं तिमिरं च निवर्तकसमकालं दृष्टम्। भिन्नकालीना च शङ्का व्याघातेन निवर्तितत्वान्न व्याघातकालेस्ति। येन तर्कापेक्षा स्यात्। अन्यथा ब्रह्मज्ञानाद्यनन्तरमप्यविद्यादिकं स्यात्॥
एतेन --"व्याघातस्य स्वरूपसतः शङ्कानिवर्तकत्वे शङ्का नित्यनिवृत्ता स्यात्। व्याघातोद्भावनवैयर्थ्यं च स्यात्। ज्ञातस्य निवर्तकत्वे --
शङ्कायाः सत्वमुपेत्यापि न दोष इत्याह-- किं चेति॥ विरोध एव न स्यादिति॥ सहानवस्थानरूपत्वाद्विरोधस्येति भावः। नाजात एकोन्यं हन्ति नाप्यन्याधार इति न्यायेन वध्यघातकस्थले सहावस्थानमावश्यकमित्यतो देशतस्तथात्वेपि न कालतस्तथात्वं किन्तु पौर्वापर्यमेवेति भावेनाह-- न हीति॥ निवर्त्याविद्येत्यत्राविद्येति विभागः॥
ननु यदाङ्कढाचिच्छङ्कायाः सत्वे स्यादेव तन्निवृत्यर्थं तर्कापेक्षेत्यनवस्थापत्तिरेवेत्यत आह-- भिन्नेति॥ इष्टापत्तिरित्यत आह-- व्याघातेति॥
1.न स्वनि-ट.क.ग.रा.
पु-52. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्याघातरूपविरोधस्य तदभावव्याप्यत्वात्मकतया व्याप्तिगर्भितत्वेन तज्ज्ञानाय पुनस्तक्रापेक्षेति"खण्डनश्लोकस्य व्याख्यानान्तरमप्यपास्तम्। स्वक्रियामूलभूतविशेषदर्शनमेव शङ्कानिवर्तकमित्युक्तत्वात्। व्याघातावधित्वाच्छङ्काया इति सुधाया अप्ययमेवाभिप्रायः। केचित्तु-- व्यभिचारज्ञानाभावसमानकालीनमन्वयव्यतिरेकानुविधायित्वज्ञानं शङ्कानिवर्तकम् न तु तत्प्रयोज्या क्रिया न च क्रियाज्ञानं शङ्कानिवर्तकम् येनान्योन्याश्रयः स्यात् इत्याहुः॥
इति खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः ॥ 3. ॥
तदभावेति॥ शङ्काभावव्याप्येत्यर्थः। व्याख्यानान्तरेति॥ व्याघातो यदि स्वरूपसन् शङ्कानिवर्तकस्तर्हि शङ्कानित्य 1 निवृत्ता स्यात् इति शेषः। व्याघातस्य स्वरूपसतः सर्वदाभावात्। न चैत 2 त्स्वरूपसन्निवर्तकोन चेत्तज्ज्ञानाय व्याप्तिज्ञानापेक्षायां व्यभिचारशङ्कास्त्येवेत्येवं व्याख्यानान्तरमित्यर्थः। स्वक्रियेति॥ प्रवृत्यादिरूपस्वक्रियेत्यर्थः। उक्तत्वादिति॥ न हि मयेत्यादिपूर्वग्रन्थेनोक्तत्वदित्यर्थः। सुधाया अपीति॥ भक्तिपादीयाद्यनये --
"जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तर"
मित्येतव्द्याख्यानसुधाया अपि नहि मयेत्यादिनोक्त एवाभिप्राय इत्यर्थः। अन्वयेति॥ भोजनादौ सति तृप्त्यादि तदभावे तदभाव इत्यन्वयव्यतिरेकानुविधायित्वज्ञानमित्यर्थः। अन्योन्येति॥ प्रागुक्तान्योन्याश्रयः इत्यर्थः। अत्रारुचिबीजं तु यत्राप्तवाक्यादिजन्यविशेषदर्शनेन स्वक्रिया तत्रान्वयव्यतिरेकज्ञानाभावात्। अन्वयव्यतिरेकानुविधायित्वज्ञानस्यापि विशेषदर्शनास्मदुक्तरीतेरेवानुसर्तव्यत्वात् किमनेनेति॥
इति खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः ॥ 3.॥
प्रत्वाभित्व-योव्याहे-खक्त-साप्र-ङ्गङ्गः) व्याप्तिवादः पु - 53.
अथ प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहे खण्डनोक्त सार्वड्यप्रसङ्गभङ्गः
1 अत्रोक्तं खण्डने --
एवं चेत्प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृह्णतः सार्वज्ञ्यं स्यात्। तथाच सर्वान्तर्गताशेषविशेषाणां ज्ञातत्वादयं घटो ने 2 ति संशयादिकं न स्यात्।
अथ प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहे खण्डनोक्तसार्वज्ञ्यप्रसङ्गभङ्गः
अत्रेति ॥ व्याप्तिज्ञानविषये दूषणमुक्तमित्यर्थः। एवं चेदिति॥ व्यभिचारा 3 भावसहचारज्ञानसहकृतप्रत्यक्षेण व्याप्तिग्रहश्चेदित्यर्थः। अस्त्वित्यत आह-- 4 तथाचेति॥ संशयादिकं संशयविपर्ययज्ञानादिकं न स्यादित्यर्थः।
1.यच्चोक्तं-ट. 2.न चेति-क. 3.नवेति-ग.ट.रा. 3.रज्ञानाभावसहकृतप्रत्यक्षेण व्याप्तिश्चेदित्यर्थः। इत्यस्तु-ठ. 4.ततश्चेति-ठ.
पु - 54. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न च प्रमेयमिति ज्ञानं सर्वविषकमपि प्रमेयत्वप्रकारमेव न तु घटत्वादिप्रकारकं, समानप्रकारकमेव च ज्ञानं संशयादिविरिधीति वाच्यम्। तत्प्रकारकत्वं हि तद्वैशिष्ट्यविषयकत्वम्। प्रमेयमिति ज्ञानं 1 च सर्वविषयकत्वाद्घटत्वादिवैशिष्ट्यविषयकमेवेति॥
अत्र 2 केचिदाहुः -- यद्यपि प्रमेयमिति ज्ञानं 1 घटत्वादिवैशिष्ट्यविषयकत्वम्। तथापि न घटत्वादिविशेषणज्ञानजन्यं प्रमेयमिति ज्ञानात्पूर्वं घटत्वादिज्ञाननियमे मानाभावात्। जन्यज्ञानस्य संशयादिविरोधित्वे च तद्विशेषणज्ञानजन्यत्वं तन्त्रमिति संशयादिकं युक्तमिति॥
यद्वा यथा ज्ञानस्य स्वाभावेन स्वविषयेण च सह संबन्धे 3 विशिष्टेप्यभावाद्व्यावृत्तो विषयेण सह संबन्धविशेषो ऽन्त्य एव, यथा वा घटयमित्यत्र घटघटत्वयोर्विषयत्वे ऽविशिष्टेपि घटत्वांशे विशेष्यव्यावृत्तः।
सबन्धो ऽन्य एव।
संशयाद्युपपत्तिमाशङ्क्य निराह-- न चेति॥ समानेति॥ अयं घटो न वेत्यादिसंदेहस्य घट एवायमिति घटत्वादिप्रकारकनिश्चयनिवर्त्यत्वादिति भावः। घटत्वादिप्रकारकमपि भवति प्रमेयत्वेन ज्ञानमित्याह-- तत्प्रकारकत्वं हीति॥ घटत्वादिपरामर्शः। वैशिष्ट्येति। भासमानवैशिष्ट्यप्रतियोगित्वरूपत्वात्प्रकारत्वस्येति भावः। केचित्तु 4 तार्किकाः॥
विशेष 5 ज्ञानं कारणं नेति मतेनाह-- यद्वेति॥ अन्य एवेति॥
1.नस्य सर्व -ग. 2.तत्र के- ग.रा. 3.अवि- क.ग.ट. सवि-ग.रा. 4.त् तार्कि-ट.ठ.ड. 5.णज्ञा-ट.ठ.
प्रत्वाभित्वयोर्व्याहे-खक्त-साप्र-ङ्गःङ्गः) व्याप्तिवादः पु - 55.
तथा घटोयं प्रमेयमिति ज्ञानद्वयेपि घटत्वस्य भासमानवैशिष्ट्यप्रतियोगित्वरूप 1 प्रकारत्वे ऽविशिष्टेपि घटोयमितिज्ञानस्य 2 प्रमयेमिति ज्ञानाद्व्यावृत्तो घटत्ववैशिष्ट्यांशे संबन्धो ऽन्य एव। तेन च स्वरूपसता संबन्धेन घटत्वविषयकत्वं संशयविरोधित्वेन तन्त्रम्। तच्चप्रमेयमिति ज्ञाने नास्तीति संशयादिकंयुक्तम्॥
एततेवाभिप्रेत्योक्तमाचार्यैः --
"सर्वं सामान्यतो यस्मात्सर्वै 3 रेवानुभूयते"।
इति। सामान्यतः स्वरूपसता सम्बन्धसामान्येन हेतुनेत्यर्थः॥
यद्वा 4 यथा श्वैत्यसाक्षात्कारानुमित्योर्विषयकृतविशेषाभावेपि --
प्रतियोग्यनुयोगिभावात्स्वाभावंसबन्धार्द्विषयविषयीभावरूपो ऽन्य एवेत्यर्थः। घटत्वां 5
शे घटत्वेन 6 सह ज्ञानस्य विशेष्यव्यावृत्तो ऽन्य एवेत्यर्थः। ततश्च किमित्यत आह-- तेन चेति॥ उक्तमिति॥ तैत्तिरीयभाष्ये । प्रकृतोपयोगितयार्थमाह-- सामान्यत इति॥ संबन्धसामान्येति॥ यादृशसंबन्धेन ज्ञानं संशयादिविरोधि तदन्येन सबन्धेनेत्यर्थः। तादृशसंबन्धे विवादिनं प्रत्याह-- यद्वेति॥ शङ्खः श्वेत इति साक्षात्कारस्य शङ्खत्वादि 7 हेतुजन्यानुमितेश्चेत्यर्थः॥
1.पत्वे ऽवि-ग. 2.प्रमेयमतिज्ञानस्य इत्यधिकम्-क. 3.रप्य-ग.रा. 4.यथेति न -क.ट. 5.त्वादौ -ट. घटत्वाघ-ड. 6.घटत्वादिना-ट.ठ. 7.दितिहे-ड.
पु-56. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
-- करण 1 वैजात्यप्रयुक्ताज्जातिभेदादेव पीतत्वभ्रमविरोधित्वाविरोधित्वे; यथा वा मण्डूकवसाज्जनाक्तनयनस्य
पुंसो वंशे चाक्षुषस्पार्शनयोः साक्षात्कारयोर्विषयकृतविशेषाभावेपि जातिभेदादेवोरगभ्रमनिवर्तकत्वानिवर्तकत्वे; तथा विषयकृतविशेषाभावेपि सामान्यप्रत्यासत्यजन्यं ज्ञानं संशयविरोधि। न तु तज्जन्यम्। कारणवैजात्यप्रयुक्ताद्वैधर्म्यात्॥
एतदप्युक्तम्-- सामान्यत इति। सामान्यप्रत्यासत्तिमपेक्ष्येत्यर्थः॥
अथवा संशयविरोधित्वे न 2 घटत्वप्रकारकत्वमात्रं तन्त्रम्।
ननु -- शङ्घगतरेखोपरेखपरिमाणादिविषयकत्वं साक्षात्कारस्यास्ति नत्वनुमितेरतः कथं विषयकृतविशेषाभावः। मैवम्। यद्वियषयकत्वेन भ्रमविरोधित्वं तदम्शे विशेष्यस्याभिप्रेयतत्वात्। न हि श्वैत्यांशे द्वयोः कश्चिदपि विशेषोस्तीति भावः। निवर्तकत्वानिवर्तकत्वे इति ॥ 3. यथायोगमन्वयो न तु यथाक्रमम्। चाक्षुषत्वजात्याक्रान्तस्यानिवर्तकत्वं प्रत्युतभ्रमजनकत्वमेव स्पार्शत्वजातियुक्तस्य न निवर्तकत्वमित्यर्थः॥ न तु तज्जन्यमिति॥ प्रमेयत्वज्ञानं च प्रमेयत्वरूपसामान्यप्रत्यासत्तिजन्यमिति वाक्यशेषः॥ इत्यर्थ इति॥
1.कारणे वै- क कारणवै- ग.रा. 2.त्वे घ-क.रा. 3.त्वं घ-ग. 3.यथाक्रममन्वयः चाक्षुषेति निर्देषचाक्षुषेत्यर्थः न तु तज्जन्यमिति इत्यस्ति-ठ.
प्रत्वाभित्वयोर्व्याहे-खक्त-साप्र-ङ्गङ्गः) व्याप्तिवादः पु - 57.
किन्तु विरोधिकोट्यव्यावृत्तरूपानालिङ्गतघटत्वप्रकारकनिश्चयत्वम्। तच्च घटोयमिति निश्चयोस्ति। न तु प्रमेयमिति निश्चये। तत्र घटत्वस्य विरोध्यव्या 1
वृत्तप्रमेयत्वालिङ्गितत्वेन प्रकारत्वात्॥
नन्वेवं चेत्-- प्रमेयत्वविशिष्टघटत्वानयं इति ज्ञानमपि संशयविरोधि न स्यात्। तत्र घटत्वस्य विरोधिसाधारणप्रमेयत्वालिङ्गितत्वेनैव प्रकारत्वा1 दिति चेन्न। उदाहृतज्ञाने घटत्ववत्वस्य प्रमेयत्वालिङ्गितत्वेनाप्रतीतेः। प्रमेयमितिज्ञाने तु स्वस्मिन्भासमानस्य सर्वस्यापि प्रमेयत्वालिङ्गितत्वेन प्रतीतेः॥
यद्यपि सिद्धान्ते सामान्यप्रत्यासत्तिर्नास्ति। अनुगतधर्मा 2 पाकरणात् पूर्वपरिच्छेदे। तथापि परमतावष्टम्भेनेदं समाधानम्॥
यद्वा सामान्यं तु समानानां सदृशानां भावः सामान्यमिति सादृश्यमेवेत्यनुगतजातिभङ्गोक्तिदिशा प्रमेयत्वविशिष्टसादृस्यप्रत्यासत्तिं वा प्रमयेनिष्ठसादृश्यरूपप्रत्यासत्तिं वापेक्ष्येति स्वमतरीतिरेवेयमपीति ध्येयम्॥
संशयविरोधित्व इति विभागः। न तत्न्रमिति नञोन्वयः। विरुद्धेति 3। विरुद्धा या कोटिः तदव्यावृत्तं तस्यां विद्यमानं यद्रूपं यो धर्मः तदनालिङ्गितेत्यर्थः। उदाहृतज्ञान इति॥ प्रमेयत्वविशिष्टघटत्ववानयं इत्युक्तज्ञानाकार इत्यर्थः॥ घटत्ववत्वस्येति॥
1.व्यावर्तकप्र-ग.रार्. 2.मनिराकरणात्-ठ. 3.विरोधीति विरोधिनी या को-ठ.
पु-58. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
एतदप्युक्तं सामान्यत इति। विरोधिकोट्यव्यावृत्तधर्मालिङ्गितत्वेनेत्यर्थः॥
यद्वा सामान्यप्रत्यासत्तिसापेक्षं ज्ञानं, घटस्य प्रमेयत्वेनैव सह गुणप्रधानभावलक्षणसंबन्धं गृह्णाति न तु घटत्वादिना सह तदा तदग्रहेपि अन्यदा तद्ग्रहसंभवेन हान्यभावादिति न संशयविरोधि॥
एतदप्युक्तं सामान्यत इति। गुणप्रधानभावरूपसंबन्धं विनेत्यर्थः॥
यद्वा व्याप्तिज्ञानं विप्रकृष्टव्याप्यांशे न निश्चयरूपं किन्तु संभावनारूपम् व्याप्त्यंशे तु निश्चयरूपमिति नरसिंहाकारमिति न कोपि दोषः। अत एव पद्धतौ"यद्यन्यत्रापि धूमः स्यात्तर्हि तस्याप्येवमित्येवं व्याप्तिग्रहो भवतीत्यतः कात्रा 1 नुपपत्तिरि"त्यनेनैतमेव पक्षमुक्त्वा"एतेन प्रमेयत्वाभिधेयत्वयोर्व्याप्तिं गृङ्णतः
सार्वज्ञ्यप्रसङ्ग इत्यपि परास्तिमि"त्युक्तम्।
घटत्व 2 स्यैव तदालिङ्गितत्वप्रतीतेरिति भावः। गुणप्रधानभावेति॥ विशेषणविशेष्यभावेत्यर्थः। पद्धत्यनुरोधेन पक्षान्तरमाह-- यद्वा व्याप्तिज्ञानमिति॥ न निश्चयरूपमिति विभागः। संभावनारूपं उत्कटकोटिक 3 संशयरूपम्॥ न कोपीति॥ सार्वज्ञ्यापत्तिदोषो वा संशयाद्यभावापत्तिदोषो वा नेत्यर्थः। एवंरूपं ज्ञानमदृष्टचरमित्यतोलौकिकवैदिकदृष्टान्तावाह-- दृष्यत इति॥
1.का वा नु-ग.रा. 2.वत्व-ड. 3.टिसं-ट.ड.
प्रत्वाभित्वयोर्व्याहे-खक्त-साप्र-ङ्गङ्गः) व्याप्तिवादः पु - 59.
दृश्यते हि यद्यतिथिरागच्छे 1 त्तर्हि भोजयितव्यः यदि रथंरसामा सोमः स्यादैन्द्रवायवाग्रात् गृह्णीयादि 2ति वाक्यजन्य 3 ज्ञानस्य निमित्तांशे संभावनात्वेपि तस्मिन्सति नैमित्तिकं कार्यमित्यंशे निश्चयत्वम्॥
एतदप्युक्तं सामान्यत इति। सांमुग्ध्येन निर्धारणौदासीन्येनेत्यर्थः। अन्यथा तवापि सर्वं खल्विदं ब्रह्मेत्यादिवाक्यार्थदीर्न स्यात्। सर्वशब्दप्रयोगाश्च न स्यात्। सार्वज्ञ्यापत्तिरित्यापादनं च न स्यादित्युक्तम्॥
इति प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहे खण्डनोक्तसार्वज्ञ्यप्रसङ्गभङ्गः
यदि रथन्तरेति॥ सोमो ज्योतिष्टोमः। ज्योतिष्टोमे हि रथन्तरं पृष्टं बृहत्पृष्टं भवतीति वैकल्पिके रथन्तराख्यबृहदाख्यसामनी श्रुते तथाग्निदेवतेत्युपांशुमासादयति सोमो देवतेत्यन्तर्याम्यस्येत्यादिनोलूखलाकाराः ग्रहशब्दिताः पात्रविशेषाश्च श्रुताः। तत्र सोमो ज्योतिष्टोमो यदि रथन्तराख्यसोमयुक्तः स्यात् तदा ऐन्द्रवायव एवाग्रः प्राथमिको येषां तानैन्द्रवायवाग्रान्गृह्णीयादित्यर्थः। विचारितं चैतद्वाक्यं द्वितीयस्य तृतीयपादीयाद्यनये॥ अन्यथेति॥ पूर्वोक्तपक्षषट्के ऽन्यतमस्याप्यनङ्गीकार इत्यर्थः॥ तवापीति॥ खण्डनकारस्यापीत्यर्थः॥
इति प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहे खण्डनोक्तसार्वज्ञ्यप्रसङ्गभङ्गः
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0