तर्कताण्डव (टीका सहित) · अध्याय 21
मण्युक्तानीति॥ वक्राणि व्याप्तिलक्षणानि निरस्तानीति वक्ष्यमाणेनान्वयः। तानि चाव्यभिचारितसंबन्धानौपाधिकसंबन्धस्वाभाविकसंबन्धविवरणरूपतया त्रैराश्येन निष्कृष्यावान्तरभेदपूर्वमनुवदति॥ अव्यभिचरितः संबन्ध इत्यस्येत्यादिना॥ तत्रापि वद्विवरणरूपेष्वपि। तत्राप्यत्यन्ताभावगर्भष्वपीत्यर्थः॥ धूमजातीयस्य वह्निजातीयेनेति॥ पर्वतीयवह्निनेव महानसादिस्थवह्निनापीत्येवं समानाधैकरणव्यधिकरणसर्वधूमवह्निव्यक्तिसाधारणव्याप्तिलक्षणानीत्यर्थः॥
प्रतियोगीति॥ प्रतियोग्यसमानाधिकरणः यच्छब्दनिर्दिष्टसाधनधूमादिरूपसमानाधैकरणो योत्यन्ताभावः घटाद्यत्यन्ताभावः तत्प्रतियोगितामवच्छेदकं घटत्वादिकं तदनवच्छिन्नं तेनाव्यावर्तितं यद्वह्न्यादि तेन येन केनापि सह तस्य धूमादेः सामानाधिकरण्यं संयोगसंबन्धेनैकाधिकणवृत्तित्वं धूमादेर्वह्न्यादिना व्याप्तिरित्यर्थः।
1.तसं -क.ग.रा.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 17.
-- सामानाधिकरण्यं व्याप्तिरित्यादीनि, तथा अत्यन्ताभावगर्भेष्वेव --
महानसादिवह्नेः पर्वतीयधूमसमानाधिकरणात्यन्ताभावप्रतियोगित्वेपि तत्प्रतियोगिता च वह्नित्वेनावच्छिद्यते। धूमवति वह्निर्नास्तीत्यप्रतीतेः। अनवच्छेदकवह्नित्वेना 1 वच्छिन्नमहानसीयवह्निसामानाधिकरण्यस्य पर्वतीयधूमे अभावेपि पर्वतीयवह्निरपि महानसीयवह्निरिव वह्नित्वेनावच्छिन्न इति तत्सामानाधिकरण्यमादाय व्यधिकरणधूमवह्न्योरपि व्याप्तिरित भावः। अत्र यद्यपि पर्वतीयधूमसमानाधिकरणात्यन्ताभावप्रतियोगिता महानसीयवह्निनिष्ठा महानसवह्नित्वेनावच्छिद्यते। पर्वते महानसवह्निर्नास्तीति प्रतीतेः। तथा च न सर्वधूमस्य सर्वेण वह्निना व्याप्तिः सिध्यति। तथापि प्रतियोगितानवच्छेदकावच्छिन्नं यदिति नञ्व्यत्यासेन पक्षधराद्युक्तदिशा व्याख्येयम्। एवं यत्समानाधिकरणेत्यत्रापि यदवच्छिन्नेत्यपि ध्येयम्। तेनायं धूमवान् वह्निमत्वादिति व्याभिचारिणि
यत्किञ्चिन्महानसादिनिष्ठसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधूमत्वावच्छिन्नसामानाधिकरण्यस्य
सत्वाव्द्याप्यतापत्तिर्नेति ध्येयम्। धूमत्वस्य चायोगोलकीयवह्निसमानाधिकरणतादृशाभावप्रतियोगितावच्छेदकत्वात्। एवं तेनेत्यत्र तदवच्छिन्नेन समं तदवच्छिन्नस्येत्यपि व्याख्येयम् । अत एवादिपदप्रयोगः एवंरूपाणां टीकाकृदाद्युत्प्रेक्षितानां परिग्रहाय कृतः। अत्रावच्छेदकत्वं प्रतियोगितानधिकदेशवृत्तित्वं विशेषणताविशेषो वा। न त्ववच्छित्तिप्रत्ययजनकत्वम्। जनकत्वस्य नियमगर्भतया आत्माश्रयापत्तेरिति।
1. नानव - ट. ठ.
पु - 18. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
समानाधिकणयोरेव धूमाग्निव्यक्तिविशेषयोर्व्याप्तिरिति मताश्रितानि
प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगि यन्न भवति तेन समं
समानाधिकरण्यं व्याप्तिरित्यादीनि, तथा प्रतियोग्यसमानाधिकरणेति --
अत्र संयोगादिसाध्यकद्रव्यत्वादिनिष्ठव्याप्तावव्याप्तिवारणाय प्रतियोगिसमानाधिकरणेत्यभावविशेषणमिति रुचिदत्तादिः। अयं कपिसंयोगी एतद्वृक्षत्वादित्यस्योपसंग्रायेत्याहतुः पक्षधरशिरोमणी॥
समानाधिकरणयोरिति॥ पर्वतीधूमस्य पर्वतीयवह्निना महानसादिनिष्ठधूमस्य तत्तनिष्ठवह्निनेवेत्येवंरूपेणेत्यर्थः॥ प्रतियोगीति॥ प्रतियोग्यसमानाधिकरणपर्वतीयधूमादिसमानाधिकरणो योत्यन्ताभावः घटाद्यत्यन्ताभावः तत्प्रतियोगि यन्न भवति पर्वतीयवह्न्यादिर्न भवति तेन समं सामानाधिकरण्यं पर्वतीधूमस्य व्याप्तिः। एवं महानसादिधूमस्यापि ध्येयम्। घटो गन्धवान्पृथिवीत्वादित्यादिनिष्ठव्याप्तावव्या 1 प्तेः गन्धव्यक्तीनां प्रत्याश्रयं 2 भिन्नत्वेन सर्वस्यापि गन्धस्य पृथिवीत्वसमिनाधिकरणात्यन्ताभावप्रतियोगित्वादित्यत आदिपदप्रयोगः। तेन प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकं यन्न भवति तदवच्छन्नसामानाधिकरण्यमित्यादिटीकाकाराद्युत्प्रेक्षितग्रहः। एवमग्रेपि। अत्यन्ताभावस्याव्याप्यवृत्तित्वेप्यन्योन्याभावस्य व्याव्यवृत्तित्वेन
संयोगसाध्यकद्रव्यत्वादिनिष्ठव्याप्तावव्याप्त्यनापत्तेरिति विशेषणत्यागाल्लघूनीत्युक्तम्।
1. प्तिः - ठ.ड. 2.यभि-ट.ठ.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 19.
-- विशेषणा 1 दानाल्लधून्यन्योन्याभावगर्भाणि यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं यन्न भवति तेन समं तस्य 2 सामानाधिकरण्यं व्याप्तिरित्यादीनि, तथा यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य 3 सामानाधिकरण्यं व्याप्तिरित्यादीनि;
समानाधिकरणयोरेव व्याप्तिरिति मताश्रितानीत्यप्यनुकृष्यते। यत्समानाधिकरणेत्यादि॥ यदिति साधनं धूमादि। तत्समानाधिकरणो योन्योन्याभावः घटाद्यन्योन्याभावः, न तु वह्निमदन्योन्याभावः, धूमवान्घटादिर्नेतिवद्वह्निमान्नेत्यप्रतीतेः। तत्प्रतियोगितावच्छेदकं यन्न भवति, वह्निर्न भवति। किं तु घटत्वादिकमेव। तेन वह्निना समं धूमस्य सामानाधिकरण्यं व्याप्तिरित्यर्थः। अस्य लक्षणस्य मणावनक्तत्वेपि अत्यन्ताभावगर्भलक्षणे अवच्छेदकघटितस्योक्त्या अन्योन्याभावगर्भलक्षणेप्युक्तप्रायतया तदभिप्रेतत्वादुपन्यासः॥
मणौ कण्ठोक्तमाह--- तथा यदिति॥ यद्वा यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं
तस्य सामानाधिकरण्यं वा स्वसमानाधिकरान्योन्याभावप्रतियोगि यद्वन्न भवति तत्कत्वं वेत मण्युक्तलक्षणद्वयस्यापौनरुक्त्याय परिष्कारपूर्वं एवं द्वेधानुवादो बोध्यः। आदिपदेन यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं यदवच्छिन्नं न भवति तदवच्छिन्नेन येन यस्य सामानाधिकरण्यं तयोर्व्याप्तिरित्येवं रूपाणां संभावितानां ग्रहः ॥ अनौपाधिकेति॥
1.णत्यागाल्ल-क.ट.ग.रा. 2.तस्येति नास्ति-ग.रा. 3.तस्येति नास्ति-क.ग.रा.
पु - 20. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
1 अनौपाधिकसंबन्ध इत्यस्य विवरणरूपाणि तत्रापि साध्यव्यापकेषु साधनाव्यापुकत्वनिषेधपर्यवसितानि यावन्तः साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगिनः तत्प्रतियोगिकात्यन्ताभावासामानाधिकरण्यं व्याप्तिरित्यादीनि, तथा साधनाव्यापकेषु साध्यव्यापकत्वनिषेधपर्यवसितानि यावन्तः साधनसमानाधिकरणात्यन्ताभावप्रतियोगिनः तत्प्रतियोगिकात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यं व्याप्तिरित्यादीनि;
धूमवह्न्यादिसंबन्धस्यानौपाधिकत्वं हि उपाधेस्तत्राभावे भवति
साध्यव्यापकसाधनाव्यापकरूपोपाध्यभावश्च साध्यव्यापकानां साधनां 2 व्यापकत्वेन वा साधनाव्यापकानां साध्याव्यापकत्वेन वेति द्वेधेति हृदि कृत्वा पक्षधराद्युक्तरीत्याह-- तत्रापीति॥ अप्रतियोगिन इत्यन्तस्य साध्यव्यापका इत्यर्थः। प्रमेयत्वाभिधेयत्वादय इति भावः। तत्प्रतियोगिकतेत्यादेस्तव्द्याप्यत्वमित्यर्थः। धूमादिहेतोरिति योज्यम्। साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमित्येवोक्तावात्माश्रयापत्तेरेवमुक्तिः। एवमग्रे ऽपि। व्यभिचारिणि हेतावतिव्याप्तिनिरासाय यावदित्यत्रोत्तरत्र चेति ज्ञेयम्। यावन्त इति। अत्रापि प्रतियोगिन इत्यन्तस्य साधनाव्यापका इत्यर्थः। तत्प्रतियोगिकेत्यादेस्तदव्यापकं यत्साध्यमित्यर्थः।
1.तथा इत्यधिकम्-क.ट.ग.रा. 2.नव्या-ट.ठ.ड.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 21.
तथा स्वाभाविक 1 सम्बन्धो व्याप्तिरित्यस्य विवरणरूपाणि यत्सामानाधिकरण्यावच्छेदकरूपवत्वं यस्य तस्य सा व्याप्तिरित्यादीनि च; साध्यसाधनसामानाधिकरण्यशिरस्कानि वक्राणि व्याप्तिलक्षणानि ---
निरस्तानि ॥
उक्तासु वक्ष्यमाणासु च सकललोकसिद्धासु ----
मणौ पश्चादुक्तस्य पूर्वमनुवादः पूर्वमुक्तस्य पश्चादनुवादस्तु साध्यव्यापकत्वस्य भावरूपतया पूर्वभावित्वाच्च पश्चात्तनसाधनाव्यापकत्वाभाव एव पूर्वं वाच्यमित्यभिप्राय इत्येके। बोधसौकर्यायेत्यपरे। पश्चात्तनस्य तत्प्रतियोगिताकात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यपर्यन्तं वक्तव्यत्वादिति॥ यत्सामानाधिकरण्येति॥ यत्संबन्धितावच्छेदकरूपवत्वं यस्येत्येव मणिपाठस्तथापि यथाश्रुतघटकारणतालक्षणतत्संबन्धितावच्छेदकदण्डत्वावच्छिन्ने दण्डे घटव्याप्यतापत्तिदोषात् तव्द्याख्यात्रुक्तदिशा यत्सामानाधिकरण्येत्युक्तम्। धूमे वह्निसामानाधिकरण्यावच्छेदकं रूपं धूमत्वं तद्वत्वं धूमस्य व्याप्तिरित्यर्थः।
यत्सामानाधिकरण्यं यस्य तस्य साव्याप्तिरित्युक्तौ व्यभिचारिणो ऽपि व्याप्यतापत्तेरवच्छेदकेत्युक्तम्। चर्चितमेतल्लक्षणमीश्वरस्यानुमानिकत्वभङ्गे कार्यहेतोः प्रतिपक्षोक्तिप्रस्तावे॥
अव्याप्त्यतिव्याप्त्यसंभवैः सर्वलक्षणानि निराह-- उक्तास्विति॥ ऊर्ध्वदेशवृष्ट्यधोदेशनदीपूरादिनिष्ठव्याप्तिषु॥ वक्ष्यमाणास्विति॥
1. कः सं - ग.ट.रा.
पु- 22. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्यधिकरणसाध्यसाधनव्याप्तिषु आत्माश्रयान्योन्याश्रयचक्रकाश्रयानवस्थाव्याघाताद्यापादकतर्काङ्गभूतासु सामानाधिकरण्यरहितापाद्यापादकव्याप्तिषु व्यातिरेकव्याप्तिषु चाव्याप्तेः। त्वयापि 1 व्याप्तित्वेनास्वीकृते नीलधूमस्य वह्निसामानाधिकरण्ये अतिव्याप्तेश्च। न हि नीलधूमवति वह्न्यत्यन्ताभावः॥
व्यधिकरणासिद्धेरदोषत्वोक्तिप्रस्तावे वक्ष्यमाणास्वित्यर्थः॥ अतिव्याप्तेश्चेति॥ नीलधूमादिनिष्ठवह्निसामानाधिकरण्ये त्वदभिमताव्यभिचरितसंबन्धत्वानौपाधिकसंबन्धत्वस्वाभाविकसंबन्धत्वानां सत्वादिति भावः। तदेव व्यनक्ति -- न हीति॥ अत्यन्ताभाव इत्युपलक्षणम्। वह्निमदन्योन्याभावो न हित्यपि 2 ध्येयम्। नीलधूमनिष्ठवह्निसामानाधिकरण्ये न्यूनवृत्तित्वेन गुरुत्वेन च नीलधूमत्वास्यानवच्छेदकत्वे ऽपि धूमत्वस्यावच्छेदकत्वेन वह्निसामानाधिकरण्यावच्छेदकरूपवत्वस्यापि तत्र सत्वात्। ननु धूमत्वावच्छिन्नवह्निसामानाधिकरण्यं नीलधूमनिष्ठमपि व्याप्तित्वेनोपेयते। नीलधूमत्वावच्छिन्ने सामानाधिकरण्यमेव व्याप्तित्वेन नोपेयते। अवच्छेदकान्तरोपपन्नव्याप्यताश्रयवृत्तित्वेन नीलधूमत्वस्यानवच्छेदकत्वादिति चेत्। अस्त्वेवं तथापि लक्षणान्तरे अतिव्याप्तेरनिवारणात्॥
ननु यथाश्रुते प्रतियोग्यसमानाधिकरणेत्यादिलक्षणेपि नीलधूमसमानाधिकरणात्यन्ताभावप्रतियोगितायां
तुषजन्यादिवह्निविशेषत्वेनावच्छिन्नत्वान्नातिव्याप्तरिति मन्वानं प्रत्याह-- किञ्चेति॥
1.अपि इत्यधिकम्-ग.रा. 2.द्रष्टव्यम्-ट.ठ.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 23.
किञ्च महानसीयवह्नेः पर्वतीयधूमसमानाधिकरणात्यन्ताभावप्रतयोगितावच्छेदकेन महानसीयवह्नित्वेनावच्छिन्नत्वादसंभवः। प्रतियोगितानवच्छेदकावच्छिन्नेति नञ्व्यत्यासे च धूमरूपसाध्यस्यापि वह्निसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकेन प्रमेयत्वेनावच्छिन्नत्वात् तत्समानाधिकरणवह्निरपि धूमव्याप्यः स्यात्॥
अवच्छिन्नत्वादिति॥ तथाच तादृशाभावप्रतियोगितावच्छेदकानवच्छिन्नेन सामानाधिकरण्यं नास्ति। किं तु अवच्छिन्नेनैव तदस्तीति भावः। ननु महानसीयवह्नेस्तादृशधर्मावच्छन्नत्वेपि पर्वतीयवह्नेर्महनसीयवह्नित्वेनानवच्छिन्नत्वात्। तत्सामानाधिकरण्यमादाय पर्वतीयधूमस्य व्याप्यता स्यादेवेति चेन्न। पर्वतीयधूममासमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नवह्निसामानाधिकरण्यमेव महानसीयधूमस्य, तथा महानसीयधूमसामानाधिकररणाभावप्रतियोगितावच्छेदकं पर्वतीयवह्नित्वमिति तदवच्छिन्नसामानाधिकरण्यमेव पर्वतीयधूमस्येत्येवं सर्वधूमेष्विति, न क्वाप्युक्तरूपाभावप्रतियोगितावच्छेदकानवच्छिन्नसामानाधिकरण्यं धूमस्य लभ्यत इत्यसंभव इति तात्पर्यात्। नव्यञ्त्यासेन प्रतियोगितानवच्छेदकावच्छिन्नत्वमर्थ इति पक्षधरोक्तमनूद्य निराह-- प्रतियोगितेति॥ धूमरूप 1 साध्यस्येति॥ धूमाख्यसाध्यस्येत्यर्थः।
अयं धूमवान् वह्निमत्वादिति व्यभिचारिप्रयोगे
हेतुभूतवह्निसमानाधिकरणात्यन्ताभावप्रतियोगितायां न प्रमेयत्वमवच्छेदकं वह्निमतिप्रमेयं नास्तीत्यप्रतीतेः। तथाच तदवच्छिन्नधूमरूपसाध्यसामानाधिकरण्यं वह्नेरप्यस्तीति सोपि व्याप्यः स्यादित्यर्थः॥
1.साध्यपदं न -ट.ठ.ड.
पु -24. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च यस्य यदत्यन्ताभावासमानाधिकरणत्वे सति येन सामानाधिकरण्यं तेन तस्य सा व्याप्तिरित्येवास्तु। लाघवात्। न च केवलान्वयिनि साध्यात्यन्ताभाव 2 स्याप्रसिद्ध्याव्याप्तिः।
ननु प्रमेयत्वेन रूपेण धूमादिसाध्यव्याप्यता वह्नेरस्त्येव। अयं प्रमेयवान् वह्निमत्वादित्येवंरूपत्वात्तस्य प्रमेयत्वपदेन प्रमेयधूमत्वविवक्षायामवच्छेदकत्वस्येहानतिप्रसक्तवृत्तित्वरूपत्वेन प्रमेयधूमत्वस्यापि उक्तरूपाभावप्रतियोगितावच्छेदकत्वात्। महानसीयवह्निविशेषमादाय प्रमेयधूमत्वस्योक्तरूपाभावप्रतियोगितानवच्छेदकत्वेपि यदीत्यत्र यदवच्छिन्नेति विवक्षायामयोगोलकीयवह्निमादाय वह्नित्वावच्छिन्नसमानाधिकरणात्यन्ताभावप्रतियोगिप्रतियोगितावच्छेदकत्वं प्रमेयधूमत्वेप्यस्तीत्युक्तप्रतियोगितानवच्छेदकावच्छिन्नसामानाधिकरण्यं व्यभिचारिणि वह्नौ नास्तीति वक्तारं प्रत्याह-- किं च यस्येति॥ यस्य धूमादेः। यदत्यन्तेति॥ वह्न्याद्यत्यन्ताभावेत्यर्थः। येन -- वह्न्यादिना। सामानाधिकरण्यं यस्येत्यनुकर्षः। तस्य धूमादेः। तेन वह्न्यादिना। व्याप्तिरित्यर्थः। लाघवादिति॥ अनवच्छेदकावच्छिन्नेत्यादिविशेषणा 3 दानात्
अव्यभिचरितसामानाधिकरण्यरूपत्वादस्येति भावः। न च प्रतियोग्यसमानाधिकरणेत्यनुक्तौ संयोगसाध्यकहेतुनिष्ठव्याप्तावव्याप्तिः। संयोगस्य व्याप्यवृत्तित्वेन तदभावस्याप्यैकाधिकरण्याभावादिति भावः॥
1.ऽतस्य तेन व्याप्तिऽ इत्यस्ति-ट.ग.रा. 2.वाप-ट.ग.रा. 3.णानुपादानात्-ठ.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु- 25,
अत्यन्ताभावस्याभावादेव तत्सामानाधिकरण्याभावस्य शुक्तिरूप्यतादात्म्याभावस्येव
सुतरां सिद्धेः। उक्तं चैतद्योग्ताप्रस्तावे॥
किञ्चात्राधिकरणं देश एव वा काल एव वा उभयं वा उभयानुगतमधिकरणसामान्यं वा। नाद्यः। कालिक्यां गोत्वाश्वत्वव्याप्तावव्याप्तेः। अस्ति हि तयोरपि यदा गोत्वं तदाश्वत्वमिति व्याप्तिः। न द्वितीयः। दैशिक्यां पाकपाकजरूपादिव्याप्तावव्याप्तेः। अस्ति हि तयोरपि 1 यत्रपाकजं रूपं तत्र पाक इति व्याप्तिः। न तृतीयः। अस्य रूपरसादिव्याप्तितो ऽन्यत्र सर्वत्राव्याप्तेः। न चतुर्थः। गोत्वरूपहेतुं प्रति देशरूपाधिकरणे गव्यश्वत्वाभावेन तद्व्याप्तावव्याप्तेः। द्वैशिक्यां व्याप्तौ देशोधिकरणं कालिक्यां काल इति चेत् न। अननुगमात्।
सदुपरागेणासदेव तादात्म्यं भातीति मतावष्टम्भेनाह-- शुक्तिरूप्यतादात्म्येति॥ एतदिति॥ अप्रामाणिकस्याप्यभावप्रतियोगित्वम्। रूपरसादिव्याप्तितोन्यत्रेति॥ कृत्तिकोदयरोहिण्युदय 2 नदीपूरवृष्ट्यादिगोत्वाश्वत्व(पाक)पाकजरूपादिस्थले च सर्वत्रेत्यर्थः॥ गोत्वरूपेति॥ अयमश्वत्ववान् गोत्ववत्वात् इत्यादिहेतावत्यर्थः। गत्यन्तराभावादेव --
1.तयोरपीति नास्ति -क.ट. 2.यासत्ति-ठ.
पु -26. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्याप्तेरिदानीमेव निरुच्यमानत्वेनात्माश्रयाच्च। कृत्तिकोदयरोहिण्युदयासत्त्योरपि कालतः सामानाधिकण्यसत्वेन तत्र वैयधिकरण्योक्त्ययोगाच्च। मदुक्तरीत्यानुगमसंभवाच्च॥
किञ्च त्वन्मतेपि नित्यद्रव्याणां निरधिकरणत्वात्तेषां यदाकाशः तदा 1 नित्यद्रव्यमिति व्याप्तिर्न स्यात्॥
ननु काल आकाशादेरधिकरणं आकाशः सदा 2 स्तीत्यबाधितप्रतीतेरपि चेत्। तर्हि गगनात्यन्ताभावः केवलान्वयी न स्यात्। किं च सर्वत्राकाश इत्यपि प्रततीतेर्देशोप्याकाशाधिकरणं स्यात्॥
ननु -- स्वरूपसंबन्धेनाकाशः सदा सर्वत्रास्ति समवायवृत्त्या तु नास्तीति तया वृत्या 3 रूपादेः प्रमेयत्वादेश्चात्यन्ताभावोपि केवलान्वयी स्यात्।
-- मा 4 श्रयते इत्यत आह-- मदुक्तेति॥ यद्देशकालसंबन्धस्य यस्येत्यादिना पूर्ववादे मदुक्तरीत्येर्थः॥
सामानाधिकरण्यघटितव्याप्तिलक्षणेषु स्थलान्तरे ऽव्याप्तिमाह-- किञ्चेति॥ केवलान्वय्यभाप्रतियोगित्वं सदा सर्वत्र सत्वं च संबन्धभेदेन युक्तिमित्याशङ्क्य प्रतिबन्द्या निराह-- नन्वित्यादिना॥
1.कालीदिरिति व्या-ट. दिगिति व्या-ग.रा. 2.अपि पदं मधिकम्-ग.ट. 3.त्या गगनात्यन्ताभावः केवलान्वयीति चेत्। तर्हि रूपादिकं प्रमेयत्वादिकं च संयोगवृत्या कुत्रापि नेति तया वृत्या रूपादेः प्रमेयत्वादेश्चात्यन्ताभावोपि केवलान्वयी स्यात्। गगनात्यन्ताभावोपि स्वरूपसंबन्धेनैव सर्वत्रास्ति। न तु संयोगादिवृत्त्येति गगनात्य- क.ट.ग. 4.श्रीय-ठ.ड.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु- 27.
गगनात्यन्ताभावोपि स्वरूपसंबन्धेनैव सर्वत्रास्ति न तु संयोगादिवृत्त्येति गगनात्यन्ताभावात्यन्ताभावरूपं गगनमपि केवलान्वयि स्यात्॥
अपि च प्रतियोगिसमानाधिकरणेति विशेषणं व्यार्थम्। संयोगतदत्यन्ताभावयोर्भिन्नावयववृत्तित्वस्यान्यत्रोक्तत्वात्॥
किञ्च प्रतियोगित्वस्य त्वन्मते स्वरूपसंबन्धरूपत्वात्तस्य च व्याप्तिरूपनियमगर्भितविशिष्टप्रतीतिजनकत्वगर्भितत्वात्माश्रयः॥
अपि चैवं समानाधिकरणसाधायसाधनव्यक्तिविशेषयोरेव व्याप्तिरिति मते पृथिवीत्वस्य गन्धं प्रति व्याप्यत्वं न स्यात्। सर्वस्यापि गन्धस्य प्रत्येकं पृथिवीत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वात्। नहि पृथिवीत्वमिवैकैव गन्धव्यक्तिः सर्वपृथिवी निष्ठाः॥
अन्यत्रेति॥ चन्द्रिकायां तत्वविवेकादिप्रकरणे वैशेषिकाधिकणसुधायां चेत्यर्थः। व्याप्तिरूपनियमगर्भितेति जनकत्वविशेषणम्। नियमपूर्ववृत्तित्वरूपत्वात् जनकत्वस्येति भावः॥
प्रथमलक्षणं निरस्य द्वितीयलक्षं च निराह-- अपिचैवमिति॥ ननु तादृशात्यन्ताभावप्रतियोगितावच्छेदकं यन्न भवति तदवच्छिन्नसामानाधिकरण्यं लक्षणार्थः। भवति च गन्धत्वमनवच्छेदकं पृथिवीगन्धवती नेत्यप्रतीतेरितिचेत्तर्हि पूर्वलक्षणाभेद एव॥ कथञ्चिद्भेदभिमाने तु तुष्यतु दुर्जन इति न्यायेन दोषान्तरमाह-- अपि च गोत्वस्येति॥
पु- 28. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अपि च गोत्वस्य गोव्यक्तिं प्रति कालिकी व्याप्तिः स्यात्। गोत्ववति प्रलयकाले गोव्यक्तिध्वंसस्य सत्वेपि गोव्यक्त्यन्ताभावाभावात्। एवं पृथिवीत्वस्य गन्धेन सह कालिकी व्याप्तिः स्यात्। गन्धोत्पत्तेः प्राग्गन्धाभावस्य 1 सत्वेपि गन्धात्यन्ताभावाभावात्॥
न चात्यन्ताभावपदेन विरोध्यभावमात्रं विवक्षितम्, ध्वंसप्रागभावौ च कालतः प्रतियोगिविरुद्धाविति वाच्यम्। तथात्वे प्रतियोग्यसमानाधिकरणपदवैयर्थ्यात्। नच गोव्यक्तेः क्विचिदत्यन्ताभावस्तावदस्ति। तथात्वे हि गोत्वस्याश्वत्वं प्रत्यपि कालिकी व्याप्तिर्न स्यात्।
पक्षधराद्युक्तानूद्य निराह-- न चात्यन्ताभावेति॥ कालत 3 इति॥ एककाले। वैयर्थादिति॥ संयोगात्यन्ताभावस्य संयोगाविरुद्धत्वेन यत्समानाधिकरणप्रतियोगिविरोध्यभावप्रतियोगितानवच्छेदकेत्याद्युक्तौ संयोगसाध्यकद्रव्यत्वादिनिष्ठव्याप्तावव्याप्त्यनापत्तेरिति भावः। यदुक्तं गोत्वस्य गोव्यक्तिं प्रतीत्यादि तन्न। तस्य गोव्यक्त्य 4 न्तराभावसमानाधैकरणत्वादित्याशङ्क्य निराह-- न च गोव्यक्तेरिति॥ कालिकीति॥ यदा गोत्वं तदाश्वत्वमिति कालिकीत्यर्थः। तद्व्यनक्ति क्वचिदिति॥
1.न्धप्रागभावस्य -क.ट.ग.रा. 2.स च -ट.ग. 3.ल इ-ठ.ड. 4.त्यन्ताभाव-ट.ठ.ड.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 29.
क्वचिद्देशे सतो ऽश्वत्वा 1 भावस्यापि काले सत्वात्॥
किञ्च धूमोपि वह्निव्याप्यो न स्यात्। वह्नेः समवायवृत्याधूमसमानाधिकरणात्यन्ताभावप्रतियोगित्वात्॥
न च साध्यस्य व्याप्तिशरीरान्तर्गतया वृत्या साधनसमानाधिकरणात्यन्ताभावा 2 प्रतियोगित्वं विवक्षितम्, धूमाग्न्योश्च संयोगवृत्यैव व्याप्तिरिति वाच्यम्। व्याप्तेरिदानीमेव निरुच्यमानत्वेनात्माश्रयात्॥
न च समवायवृत्या वह्न्यत्यन्ताभावस्य संयोगवृत्या वह्निसमानाधिकरणतया प्रतियोगिव्यधिकरणपदेनैव तन्निरास इति वाच्यम्। येन हि सम्बन्धेन यत्र हि 3 प्रतियोगिनो भावः तेनैव सम्बन्धेन तत्र प्रतियोगिनो ऽवृत्तिरेव हि प्रतियोगिवैयधिकरण्यम्।
यत्तु तदाश्वत्थात्यन्ताभावस्य काले सत्वेपि तस्य प्रतियोगिसमानाधिकरणत्वात् प्रतियोगिव्यधिकरणपदेन तन्निरास इति तन्न। येन हि संबन्धेनेत्यादिवक्ष्यमाणदिशा तस्यापि प्रतियोगिव्यधिकरणत्वाद्व्य 4 क्त्यन्तराभावस्यापि व्यक्तिदशायां प्रतियोगिसमानाधिकरणत्वेनोक्तदोषापरिहाराच्च ॥
पक्षधाद्युक्तमाशङ्कते -- न च साध्यस्येति॥ ननु -- मास्तु व्याप्तिशरीरेत्यादिविवक्षा । 5 अथापि समवायवतृत्या वह्न्यभावसमानाधिकरण्येन धूमस्याव्याप्यतापत्तिर्नेत्याशङ्क्य निराह -- न च समवायेति॥
1.त्वात्यन्ता-ट.ग.रा. 2.वप्र-क.ट. 3. हिर् न -ग.रा.ट. 4.व्यक्त्यत्यन्ता-ट.ठ.ड. 5.अथापि इति नास्ति-ट.ठ.
पु - 30. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
सम्बन्धेन तत्र प्रतियोगिनो ऽवृत्तिरेव हि प्रतियोगिवैयधिकरण्यम्। अन्यथा काले सर्वाभावानां प्रतियोगिसमानाधिकरणतया प्रतियोगिव्यधिकरणा 1 सिद्धेः॥
किं च प्रतयोगिव्यधिकरणपदेन यत्किञ्चित्प्रतियोगिव्यधिकरणत्वं विवक्षितम्
यावत्प्रतियोगिव्यधिकरणत्वम्। नाद्यः। अयं संयोगविशेषाभाववान् द्रव्यत्वादिति सदनुमानाव्याप्तेः। साध्याभावरूपस्य संयोगस्य स्वप्रतियोगिभूतसंयोगसामान्याभावव्यधिकरणत्वात्। नान्त्यः। अयं संयोगसामान्याभाववान् द्रव्यत्वादित्यसदनुमाने ऽति व्याप्तेः। साध्याभावरूपस्य संयोगस्य संयोगविशेषाभावप्रतियोगिसामानाधिकरण्येन यावत्प्रतियोगिव्यधिकरणत्वाभावात्॥
2 यच्चोक्तमन्योन्याभावगर्भलक्षणेषु प्रतियोग्यसमानाधिकरणेति विशेषणत्यागाल्लाघवमिति। तन्न। संयोगात्यन्ताभावस्याव्याप्यवृत्तित्वे 3 न संयुक्तान्योन्याभावस्यापि तत्वावश्यं भावात्।
प्रतियोगिनोवृत्तिरित्यत्र प्रतियोगिनो अवृत्तिरितिपदविभागः। समवायसंबन्धेन च वह्नेरवर्तनात् प्रागुक्तदोषः सुस्थ एवेति भावः। एवमत्यन्ताभावगर्भलक्षणं निरस्यान्योन्याभावगर्भं च निराह-- यच्चोक्तमिति॥
1.णाप्रसि-क.ग.ट. 2.किञ्चेत्यादिकं नास्ति-ट.ग.रा. 3.त्वे सं- ग.ठ.रा.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 31.
मूले कपिसंयोगो नेतिवत् मूले वृक्षः कपिसंयुक्तो नेत्यबाधितप्रतीतेः। न चेयं धीः संयोगाभावविषया। घटः पटो नेतिवत्तादात्म्यनिषेधरूपत्वात्। अन्यथान्योन्याभावोच्छेदः स्यात्। विरोधस्य च संयोगतदत्यन्ताभावयोरिवावच्छेदकभेदेन परिहारात्॥
ननु -- यः संयोगाभाववान्वृक्षः स एव संयुक्त इति प्रत्यभिज्ञाविरोध इति चेन्न। प्रत्यभिज्ञा हि किमभेदं विधत्ते किं वा भेदं निषेधति। नाद्यः। एतद्वृक्षत्वेन तयोरभेदस्यापि सत्वात्। नान्त्यः। मूले संयुक्तो नेति भेदधीविरोधेन तन्निषेधायोगात्। 1 मूले संयुक्तान्योन्याभावो ----
अत्यन्ताभाप्रतीतिं दृष्टान्तयति-- नेतिवदिति॥ नास्तीतिवदित्यर्थः। अन्योन्याभावोच्छेद इति॥ घटः पटो नेत्यादिषु सर्वत्र घटे
पटत्वात्यन्ताभावविषयकत्वेनोपपत्तेः सुवचत्वादिति भावः। नन्वेकस्मिन्नेव वृक्षे संयुक्ताभेदः संयुक्तभेदश्च कथं विरोधादित्यत आह-- विरोधस्य चेति। यथाग्रावच्छेदेन वृक्षे कपिसंयोगो मूलावच्छेदेन तदत्यन्ताभावः एवमग्रावच्छेदेन संयुक्तवृक्षाभेदो मूलावच्छेदेन भेद इत्युपपत्तेरित्यर्थः॥
अन्योन्याभावस्याव्याप्यवृत्तित्वे बाधकशङ्कते-- नन्विति॥ तयोरिति ॥ संयोगाभाववतः संयुक्तस्य चेत्यर्थः। अन्योन्याभावस्याप्यव्याप्यवृत्तित्वाभावे बाधकमाह-- किञ्च मूल इति॥ अनुमितिज्ञानपर्यालोचनयाप्यस्मदुक्तव्याप्तिज्ञानमेव कारणं न त्वदुक्तमतोपि न त्वदुक्तव्याप्तिलक्षणं युक्तमित्याह -- किञ्चानुमतीति॥
1.किं चेत्यधिकम्-क. ग. रा.
पु - 32. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
-- न चेन्मूले संयुक्तान्योन्याभावात्यन्ताभावरूपो यः 1 संयोगस्तद्धीश्च स्यात्। त्वन्मतेन्योन्याभावात्यन्ताभावस्यान्योन्याभावप्रतियोगितावच्छेदकधर्मरूपत्वात्। प्रकते च संयोगस्य तदवच्छेदकत्वात्॥
किं चानुमितिहेतुः किमत्यन्ताभावादिगर्भाणामुक्तसर्वव्याप्तीनां ज्ञानं किं वा लध्व्या अन्योन्याभावगर्भाया एव ज्ञानं यद्वा कदाचित्क 2 स्यचिज्ज्ञानम्। नाद्यः। एकैकज्ञानेप्यनुमितिदर्शनात्। न द्वितीयः।
अत्यन्ताभावगर्भव्याप्तिज्ञानेप्यनुमितिदर्शनात्। अन्योन्याभावपक्षे लाघवस्य निरासाच्च। न तृतीयः अननुगमात्। अनुपपद्यमानज्ञानत्वेन क्रोडीकारे चावश्यकत्वाल्लाघवाच्चानुपपत्तिरेव व्याप्तिरस्त्विति दिक्॥
ननु -- अत्यन्ताभावगर्भव्याप्तिज्ञानेनानुमितिदृष्टावपि लाघवादन्योन्याभावगर्भव्याप्तिज्ञानमेव हेतुः। भूयोदर्शनवादे मणिकृता तथैवोक्तेरित्यत आह-- अन्योन्याभावेति॥ अन्योन्याभावस्याव्याप्यवृत्तित्वत्वोक्त्त्या प्रतियोगिसमानाधिकरणेति तत्राप्यवश्यं वाच्यत्वादिति भावः॥
इति दिगिति॥ अयं भावः॥ अनौपाधिक 3 संबन्धत्वस्य द्वेधा विवरणं यत्कृतं तत्र साध्यव्यापकव्याप्यत्वपर्यवसितानौपाधिकरत्वज्ञानमनुमितिहेतुरुत
1.यः इति नास्ति-क.ट.रा. 2.स्याश्चि-ग.क.ट.रा. 3.धिकत्वस्य द्वेधा- ड. कसंबन्धत्वस्य द्वे -ठ.
पक्त-वव्याप्ति-लभङ्गः) व्याप्तिवादः पु - 33.
तस्मात्परोक्तव्याप्तिलक्षणानां अधोदेशनदीपूरोर्ध्वदेशवृष्ट्यादिव्याप्तिष्वात्माश्रयादितर्काङ्गव्याप्तुषु व्यतिरेकव्याप्तिषु चाव्याप्तिः --
-- साधनाव्यापकव्याप्यसाध्यकत्व 1 पर्यवसितमनौपाधिकत्वज्ञानमथोभयं कदाचित् किञ्चिच्ज्ञानमिति वा। नाद्यत्रयं युक्तम्। यत्किञ्चिज्ज्ञानादप्यनुमितिदर्शनात्। न चतुर्थः। अननुगमात्। किञ्च सर्वत्रापि सामानाधिकरण्यंनाम समानेनाधिकरणेन संबन्धः। संबन्धत्वं च विशिष्टधीनियामकत्वम्। नियामकत्वं च विशिष्टधीजनक्वेसत्यविशिष्टज्ञानजनकत्वम्। जनकत्वं चानन्यथासिद्धनियतपूर्ववृत्तित्वमित्यात्माश्रयापत्तिः। नच नियामकत्वं संसर्गविधयैव संबन्धविशेष्यकं संबन्धविशेषणकं वा व्याप्तिज्ञानहेतुरिति वाच्यम्। अन्यथा सामानाधिकरण्यसंदेहप्रतिबन्धकत्वानुपपत्तेः। तथा च संबन्धत्वं प्रकार एवेत्यवश्यं वाच्यत्वेनात्माश्रयापरिहारात्। यत्तु विशिष्टधीनियामकत्वरूपसंबन्धत्वस्य प्रकारत्वेन भानावश्यंभावस्तदापि संयोगत्वादिना रूपेणैव भानमिति। तन्न तथात्वे ऽननुगगमापत्तेः। समवायत्वेन
भावस्थले समवायत्वस्यापि नित्यसंबन्धत्वरूपत्वेनात्माश्रयानिरासाश्च। किञ्चावच्छेदकत्वमप्यवच्छिन्नप्रत्ययजनकत्वं चेदात्माश्रयाद्ययापत्तिः। अन्यीनानतिरिक्तवृत्तित्वं चेत् धूमस्यापि वह्निसामानाधिकरण्यन्यूनवृत्तित्वादन्त्यलक्षणमलक्षणं स्यात्। इत्यादिरूपेण तदभिमतलक्षणानि सर्वाण्यपि दूष्याणीति॥
तस्मादिति॥ दोषाणां सम्यगुपपादितत्वादिति वा अपरिहार्यत्वादिति वार्थः। परोक्तवक्रव्याप्तिलक्षणानां चतुर्दशदोषा इत्यनेनान्वयः। उक्तान्दोषान् सङ्ग्रहेणानुवदति-- अधो देशेति॥
1.ध्यव्यापकत्वप-ड. साध्यपदं विहाय -ऽकाव्यापकत्वपर्यऽ -ट.
पु - 34. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
पररीत्या नीलधूमस्य वह्निसामानाधिकरण्येतिव्याप्तिः, महानसीयवह्नेः पर्वतीयधूमव्याप्त्यादावभावेनासंभःष गौरवम्, अननुगमः, आत्माश्रयादिकम्, यदा आकाशः तदा दिगित्यादिव्याप्तावव्याप्तिः, विशेषणवैयर्थ्यम्, आत्माश्रयः, पृथिवीत्वस्य गन्धेन सह व्याप्तावव्याप्तिः, गोत्वस्य गोव्यक्त्या पृथिवीत्वस्य गन्धेन 1 संबन्धे ऽतिव्याप्तिः, आत्माश्रयः, अन्योन्याभावगर्भलक्षणे परोक्तलाघायोगः, अननुगमः; इति चतुर्दश दोषाः॥
इति परोक्तवक्रव्याप्तिलक्षणभङ्गः
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0