तर्कताण्डव (टीका सहित) · अध्याय 18
सत्तर्कसहिता वेदाः प्राहुर्यं पूर्णसद्गुणम्।
धर्माराध्यं देवतेड्यं वन्दे तं कमलापतिम्॥
पूर्वेण सङ्गतिं दर्शयन्नुत्तरार्थमाह-- अथेति॥ सपरिकर 2 शब्दप्रमाणस्वरूपनिरूपणानन्तरमनुमानप्रमाणं सपरिकरं अस्मिन्परिच्छेदे कथ्यते।
1.एवमित्यधिकम् - क. 2.रं श-ट.ठ.ड.
पु-2 न्यायदीपयुततर्कताण्डवम् (तृतीयपरिच्छेदः
वेदरूप 1 शब्दः प्रधानमित्युक्तत्वात्तदनुग्राहकमनुमानमुच्यते॥
निर्देषोपपत्तिरनुमानम् । उपपत्तिर्व्याप्यम्।
किं कारणम्। तदनुग्राहकम्- हेतुगर्भमिदम्। शब्दप्रमाणानुमानुग्राहकत्वादुच्यत
इत्यर्थः। तदनन्तरम् कुतः। वेदरूपः शब्दः 2 प्रमाणमित्युक्तत्वात्। प्रधानोक्त्यनन्तरमेवानुग्राहकोक्तेरवसरादित्यर्थः। यद्वा प्रमाणान्तरानुग्राहक 3 मनुक्त्वा वेदानुग्राहकोक्तिः कुत इत्यतो वेदरूपः शब्दः प्रधानमित्युक्तत्वादिति।"याथार्थमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः"इति युक्तिपादीयानुव्याख्याने"याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः"इति ब्रह्मतर्के च। तद्यायार्थ्यं ज्ञाने केवलप्रमाणे वेदरूपप्रमाणे च मुख्यमित्यस्य तात्पर्यं - प्रधानमित्युक्तत्वादिति ॥ वेदानुग्राहकत्वं च-- वेदे आरोपितानि यानि अप्रामाण्यकारणानि अनृतव्याघातपुनरुक्त्यशक्यार्थाभिधायित्वगुरूपायबोधकत्वार्थबोधोपायशून्यत्वादीनि तत्सर्वनिरासेन प्रामाण्यस्थिरीकरणं, तथा वेदबोध्येर्ऽथे आरोपितान्यथाकारशङ्कानिरीसेन तद्बाध्यधर्मदेवब्रह्मस्वरूपस्थिरूकरणम्॥
अनुमानसामान्यलक्षणं प्रमाणलक्षणे भगवत्पादोक्तमेवाहः-- निर्देषेति॥ अनुमेत्यनुमानमुच्यते। निष्क्रान्ता दोषेभ्यः निर्देषा सा च सा उपपत्तिश्च निर्देषोपपत्तिः। उपपत्तिदोषाश्च स्वमते अनुमानदोषोक्तिवादे व्यक्ताः। अत्रोपपत्तिपदं अर्थवादोपपत्ती चेत्यादाविव हेत्वाभासविविक्तयुक्तिपरं चेत् निर्देषेति व्यर्थमित्यत आह --
उपपत्तिर्व्याप्यमिति॥
1.पः श-क.ग.ट.रा. 2.प्रधनमि-ठ.ड. 3.ऽत्वऽ इति पूरितम्-ड.
स्वते-व्यानि-रूणम्) व्याप्तिवादः पु - 3.
निर्देषत्वेन विशेषणान्नासिद्धादावतिव्याप्तिः। उक्तिं हि पद्धतौ"उपपत्तिर्युक्तिर्लिङ्ग्व्याप्यमिति पर्याय1"इति। अत्रोपपत्तिर्व्याप्यमित्येतावतैव पूर्तावपि युक्तिलिङ्गग्रहणं भगवत्पादैः"रनुमा युक्तिरेवोक्ते"ति"लिङ्गं हेतुरि"ति चोक्तत्वेन 2 तद्विरोध इति शङ्कानिरासाय। प्रमाणलक्षणटीकायान्तु -- साहचर्येणार्थगमकं लिङ्गमिति साहचर्यनियमरूपव्याप्तौ नियमांशत्यागेन साहचर्यमात्रमुक्तम्। तदावश्यकनिर्देषग्रहणादेव साधारणादौ नातिव्याप्तिरित्यभिप्रेत्य॥
ननु -- लक्षणटीकायामुपपत्तिर्लिङ्गमित्युक्तम्। अत्रतूच्यते व्याप्तमिति।
तत्कथमित्यतः पर्यायत्वान्न दोष इति भावेनाह-- उक्तं हीति॥ चतुर्णां शब्दानामुक्तेः कृत्यमाह- अत्रेति॥ पूर्ताविति॥ तावतैव निर्देषपतसार्थक्यस्य 3 लक्षणोक्तेर्वा संभवादिति भावः।"अनुमायुक्तिरेवेति"युक्तिपादीयानुव्याख्याने,"लिङ्गं हेतुरिति"मिथ्यात्वानुमानखण्डने चोक्तत्वादित्यर्थः॥
ननु -- व्याप्यं नाम व्याप्तेः कर्म। व्याप्तिश्चसाहचर्यनियम इति वाच्यम्। तथा च लक्षणटीकाविरोध एव। तत्रोपपत्तिर्लिङ्गमित्युक्त्वा साहचर्येणार्थगमकं लिङ्गमित्येवोक्तेरित्यतो नियमांशोभिप्रेत एव तत्फलस्य विशेषणान्तरलभ्यत्वात्तदनुक्तिरितिभावेन विरोधं निराह-- प्रमाणलक्षणटीकायां त्विति॥ साधारणेति॥ साधारणानैकान्तिकहेत्वाभासादावित्यर्थः॥
1. या इ- क.ट. 2.त्वात्त -ग.ट.रा. 3.क्यसंभवा-ट.ठ.ड.
पु -4 न्यायदीपयुतर्कताण्डवम् (तृ.परिच्छेदः
अविनाभावो व्याप्तिः॥
नन्वविनाभावः- साध्येन विना साधनस्याभावो वा; साध्येनाविना साध्यसाहित्येन साधनस्य भावो वा। नाद्यः। केवलान्वयिनि साध्या 1 भावाप्रसिद्ध्याव्याप्तेः। अस्य व्यतिरेकव्याप्तित्वेन त्वन्मतेनुमानानङ्गत्वाच्च। न द्वितीयः। साध्यसाहित्यस्य व्यभिचारिण्यपि सत्वात्। साध्यसाहित्यनियमोभिप्रेतश्चेत् नियमस्य निरूच्यमानव्याप्तिरूपत्वेनात्माश्रयात्।
ननु व्याप्तेः कर्म व्याप्यमिति व्याप्यस्वरूपं व्याप्तिज्ञानाधीनज्ञानमिति का व्याप्तिरिति जिज्ञासायां पद्धत्युक्तलक्षणमाह -- अविनाभाव इति॥ तत्परिष्कर्तुं व्याप्तिवादपूर्वपक्षे मण्याद्युक्ति2 दिशाक्षिपति-- नन्विति। नञो व्यत्यासेनान्वयमुपेत्याद्यः कल्पः। यथाश्रुतान्वयमुपेत्य द्वितीयः। फलितार्थमाह-- साध्यसाहित्येनेति॥ केवलान्वयिनीति॥ शब्दोभिधेयः ज्ञेयत्वात् गुणत्वात् इत्यदिकेलान्वयिसाध्यकहेतावित्यर्थः॥ साध्यादीति॥ साध्यसाधनाभावेत्यर्थः॥
सिद्धान्तिनो मते सर्वस्य व्यतिरेकित्वादभावाप्रसिद्धिर्नेत्यरूचेराह -- अस्येति॥
साध्येन विनाभाव इत्यस्य साध्याभावे साधनाभावे इत्यर्थकतया अस्य व्यतिरेकव्याप्तित्वात्। सिद्धान्ते 3 च व्यतिरेकवादे वक्ष्यमाणदिशानुमानानङ्गत्वाच्चेत्यर्थः। त्वन्मते - सिद्धान्तिनो मते।
"अविनाभावो व्याप्तिः साहचर्यनियम इति यावदि"ति पद्धत्युक्तेराह-- साध्यसाहित्येति॥ आत्माश्रयात्--
ज्ञप्ताविति भावः।
1.ध्याद्य- ग. 2. क्तदि-ट.ड. 3.न्तिनाप्य -ठ.
स्वते-व्यानि-रूणम्) व्याप्तिवादः पु - 5.
अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योर्देशतः कालतो वा साहित्यासंभवाच्च। एतेन साहचर्यनियमो वानोपाधिक 1 संबन्धो वा स्वाभाविकसंबन्धो वा साध्याभाववदवृत्तित्वं वा व्याप्तिरिति निरस्तम्। व्यधिकरणयोः पूरवृष्ट्योर्देशतः कालतो वा साहचर्यस्य संबन्धस्य 2 चाभवात्। नदीपूरस्य वृष्टिरूपसाध्याभाववदधोदेशवृत्तित्वाच्चेति॥
उच्यते। यद्देशकालसंबद्धस्य यस्य यद्देशकालसंबद्धे येन विनानुपपत्तिस्तस्य तेन सा व्याप्तिः।
अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योरिति॥ तयोरपि लिङ्गलिङ्गिभावदर्शनात् भिन्नदेशत्वाद्भिन्नकालत्वाच्चेति भावः। एतेनेति॥ भिन्नदेशकालव्याप्यव्यापकभावापन्नपूरवृष्टिस्थलीयव्याप्ताव्याप्तत्वेनेत्यर्थः॥ साहचर्यनियम इति॥ पूर्वमविनाभाव इत्यस्याभिप्रेतत्वमुपेत्य साहित्यनियमो दूषितो ऽत्र तु पृथग्व्या 3 प्तिलक्षणत्वेन साक्षादुक्त 4 त्वमुपेत्य पुनरुपन्यास इति न पुनरुक्तिदोषः॥
एतेनेत्युक्तं व्यनक्ति -- व्यधिकरणयोरिति॥ समानदेशकालभिन्नदेशकालसर्वव्याप्तनिष्ठव्याप्तिं निरूपयति॥ यद्देशेति। येन विनेति॥ केवलान्वयिन्यव्याप्तिस्तूद्धरिष्यत इति भावः। इयं च सर्वसाधारणीति स्वयमेवोपपादियिष्यति। अनुपपत्तिस्वरूपं चानुपपत्तिश्चासंभव इत्यादिना स्वयमेव वक्ष्यति॥
1.कः स-क. 2.वासं-क. चासंभ-ग.ट.रा. 3.प्तल-ठ. 4.द्दुष्टत्वमभिप्रेत्यपु-ठ.
पु-6. न्यायदिपयुततर्कताण्डवम् (तृ.परिच्छेदः
अनुपपत्तेर्व्याप्तित्वं च - प्रमाणलक्षणे परिशेषोर्थापत्तिरनुमानमित्यविशेष इत्य 1 र्थापत्तिरिवानुमानमप्यावश्यकानुपपत्त्यै गमकमित्युक्तत्वात्; उपमानेपि न हि स्वसदृषेनादृशं क्व 2 च्चिद्दृष्टमित्यनेन गवयनिष्ठगोसादृश्यस्य गोनिष्ठगवयसादृश्यं विनानुपपत्तेरेवोक्तत्वात्; पद्धतौ च निर्देषोपपत्तिरनुमेति प्रमाणलक्षणस्थो 3 पपत्तिशब्दो न पर्यायान्तरमात्रम् किं तु साध्ये सत्युपपद्यते अन्यथा तु ने 4 त्युपपत्तिरिति भावेनोपपत्तिर्व्याप्यमति व्याख्यातत्वात्; प्रमाणलक्षणटीकायामपि जीवनवत्वे सति गृहे असत्वरूपे व्याप्ये अनुपपद्यमानार्थप्रमितिरर्थापत्तिरित्यनुपपद्यमानपदयोगात् परिशेषादेरनुमानत्वानङ्गीकारे धूमोप्यनुपपत्या गमयन्नानुमानं स्या 5 दिति चोक्तत्वात्; --
अनुपपत्तेर्व्याप्तित्वं चेति॥ भाष्यकाराद्यभिप्रेतमेवेत्यन्वयः। अविशेषशब्दार्थं टीकोक्तरीत्याह -- अर्थापत्तिरिवेत्यादि॥ उपमानेपीति॥ शबरोपमानस्यानुमानान्तरर्भावोक्तिप्रस्तावेपीत्यर्थः॥
पद्धतावुपपत्तिर्युक्तिर्लिङ्गव्याप्तमिति शब्दाः। पर्याया इत्युक्तेर्ग्रन्थान्तराविरोध एकोभिप्रापय उक्तः। अभिप्रायान्तरमपि प्रकृतोपयोगायाह-- पद्धतो 6 चेति॥ प्रमाणलक्षणाख्यन्थगतस्य नर्देषोपपत्तिरनुपेत्येतदेव ---
1.त्यनेनार्था -ग.ट.रा. 2.किञ्चिद्दृ -ग.क.रा.ट. 3.स्थ उ -ग. स्धं उ -रा. 4.नेति भावेन -ग.रा. 5.दित्युक्त-ग.रा.ट. 6.तैवे-- ठ.ड.
स्वते-व्यानि-रूणम्) व्याप्तिवादः पु - 7.
सुधायां च"अनुमायुक्तिरेवोक्ते"त्यनुव्याख्यानस्थयुक्तिशब्दस्य युज्यत एवेति
युक्तिरिति व्याख्यातत्वाच्च; भाष्यकाराद्यभिप्रेतमेव॥
यत्तु -- विमतो गौर्गवयसदृशः गवयगतसादृश्यप्रतियोगित्वादिति प्रमाणलक्षणटीकायां हेतुसाध्ययोः सामानाधिकरण्यसंपादनं तत्परमतमाश्रित्य। अत एव तत्रैव इति प्रयोगसंभवादित्युक्तम्। अत एव 1 पद्धतौ च असौ गौरेतद्गवयसदृशः अस्य गवयस्य 2 तद्गोसदृशत्वादिति वैयिधिकरण्येनैव प्रयुक्तम्। अत एव 3 सुधायां --"रोहिण्युदय आसन्नः कृत्तिकाभ्युदितायत"इत्यनुव्याख्यानोक्ते व्यधिकरणप्रयोगे कालादिपक्षीकारेणैकाधिकरण्यमाशङ्क्यैवं प्रयोगविपरिणाम 4 प्रमाणं नेत्युक्तम्॥
-- पद्धतावपन्यस्य 5 व्याप्यमिति व्याख्यानात्प्रमाणलक्षणस्थेत्युक्तम्। एतच्च मूलाकारसम्मतमेतदिति ज्ञापनार्थम्। नन्वेवं शाबरोक्त 6 प्रमाणान्तर्भावप्रस्तावे गौर्गवयसदृशी गवयस्य गोसदृशत्वादिति प्रयोगे वैयधिकरण्यमाशङ्क्य सामानाधैकरण्येन प्रयोगोक्तिः कथम् तया व्यधिकरणस्य गमकता नेति प्रतीतेरित्यत आह-- यत्त्विति॥ इत्यनुव्याख्याने 7 ति॥ भक्तपादीयानुव्यख्यानोक्तेः 8 ॥
1.वहिप- ग.रा. 2.स्यैत-ग.रा. 3.वचसु-क.रा. 4.मेप्र-ग.ट.रा. 5.तत्रस्थोपपपत्तिशब्दस्य इत्यधिकम्-ठ. 6.शाबरोपमानान्तर्भा--ठ. 7. नोक्त इति --ट.ठ. 8.क्ते-ठ.ड.
पु -- 8. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अनुपपत्तिश्चा 1 घटनं प्रमाणविरोध इति यावत्। उक्तं हि प्रमाणलक्षणटीकायां अनुपपत्तिश्चासंभव इति॥
या तु -- परेण व्याप्त्या गमकमनुमानम् अनुपपत्या गमिकार्थापत्तिरित्यनुमानार्थापत्योर्भेदे शङ्किते तं प्रति टीकाकारीया, केन चिद्विना कस्य चिदनुपपत्तिर्हि तयोर्व्याप्तिं विना नोपपद्यत इत्यनुपपत्तिव्याप्त्योर्भेदोक्तिः सानुपपत्तिनियामकोर्ध्वाधरीभावकार्यकारणभावाद्यभिप्राया,
नियतसामानाधिकरण्यानौपाधिकसंबन्धादिरूपपराभिमतव्याप्त्यभिप्राया वेति न टीकाविरोधः॥
इयमेव च व्याप्तिः साध्येन विना साधनस्याभावो ऽनुपपत्तिरिति भावेनाविनाभाव इति साहचर्यनियम इति चोच्यते।
एवमनुपपत्तेर्व्याप्तित्वे संमतमुक्त्वा तत्स्वरूपमिदानीमाह-- अनुपपत्तिश्चेति॥ येन विना यस्य सत्ता प्रमाणविरुद्धा सा तेन तस्य व्याप्तिरित्यर्थः। उपपत्तेश्च व्याप्त्यपेक्षा 2 सर्वथाङ्गीकार्येति प्रमाणलक्षणवाक्यटीकोक्तिविरोधं निराह -- यात्विति॥ पराभिमतेति॥ न त्वनुपपत्तिरूपव्याप्त्यभिप्रायेत्यर्थः। नन्वेवमविनाभावो व्याप्तिः। साहचर्यनियम इति यावत् इति पद्धत्युक्तिविरोध इत्यत आह-- इयमेवेति॥
नन्वनुपपत्तिर्व्याप्तिरिति पक्षे व्याप्यव्यापकवस्थेत्यत आह -- यस्येति॥
1.श्चासंभवः-ग.रा. 2.क्षेति प्रभा -ठ.ड.
स्वते-व्यानि-रूपणम्) व्याप्तिवादः पु - 9.
यस्यानुपपत्तिः स व्याप्यः। येन विनानुपपत्तिः स व्यापकः॥
इयं च व्याप्तिः प्रसिद्धेषु धूमाद्यनुमानेषु अधोदेशे 1 न दीपूराद्यनुमानेष्वर्थापत्यादिरूपानुमानेषु
आत्माश्रयान्योन्याश्रयचक्रकानवस्थाव्याघाता 2 पादकेषु तर्केषु केवलव्यतिरेकिषु केवलान्वयिषु च सर्वत्रानुगता आवश्यकी च । अन्यथाप्रयोजकत्वापातात्। हेतुरस्तु साध्यं मास्त्वि 3 त्येवाव्याप्तेः शङ्क्यमानत्वात् 4 । न चात्माश्रय 5 त्वादिकमापाद्यं अपादकसमानाधिकरणत्वेन क्वचित्प्रमितम्। तथात्वे ऽनिष्टत्वायोगात्। उक्तं च टीकाकारैः। न हि कुत्राप्यात्माश्रयादि 6 कं प्रमाणसिद्धमिति॥
अनोपाधिकसंबन्धादिरूपव्याप्तिं हित्वैतदुपादाने को विशेष इत्यत आह-- इयं चेति॥ केवलान्वयिषु चेति पररीत्या। सिद्धान्ते सर्वस्य व्यतिरेकित्वात्। यद्वा
देशकालरूपकेवलान्वयिसाध्य 7 कहेत्वपेक्षयैतदुक्तिः। एकसादृश्यसंबन्धिधर्महेत्वभिप्राया वैतदुक्तिः। आवश्यकी चेत्युक्तं व्यनक्ति-- अन्यथेति॥ अप्रयोजकतेति॥ व्याप्यत्वेनाभिमतस्येति योज्यम् । इयमेव व्याप्तिर्युक्तेत्येतव्द्यतिरेकमुखेनाप्युपपादयति -- हेतुरिति॥
नन्वात्माश्रयादौ मण्याद्युक्तसामानाधिकरण्यघटितव्याप्तिरेवास्तु किमनयेत्यत आह-- न वेति॥ उक्तं चेति॥ प्रमाणलक्षणटीकायामात्माश्रयान्योन्याश्रयेत्यादिवाक्यव्याख्यानावसरे ।
1.शनदी-ट.रा. 2.ताद्यापादकतर्के-ग.ट.रा. 3.भूदित्ये-ग.रा. 4.त्वाच्च-ग.रा. 5.यादिक-क.ग.रा. 6.दिप्र-क.ग.रा. 7.ध्यहे -- ठ.ड.
पु -- 10 न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ननु -- धूमस्यानुपपत्तिः किं वह्निसामान्यं विना किं वा पर्वतीयवन्हिं विना। नाद्यः। तया पर्वतीयवह्न्यसिद्धेः। नान्त्यः। पर्वतीयवह्न्यसिद्धौ तेन विनानुपपत्तेर्दुर्ज्ञानत्वात्। सिद्धौ च तस्या एवानुमितिरूपफलत्वेन तत्कारणत्वायोगात् इति1 । उक्तं हि खण्डने -- यतो ऽन्यत्वं तत्सिद्धेरग्रे तदसिद्धेरित 2 इति चेत्। 3 धूमस्य सामानाधिकरण्यमपि किं वह्निसामान्येन किं वा पर्वतीयवह्निनेति विकल्प्य तद्दूषणयोः साम्यात्॥
ननु -- धूमसामान्यस्य वह्निसामान्येन सामानाधिकरण्यज्ञानं करणम्। वस्तुगत्या पर्वतीयस्य वह्नेर्वह्नित्वेन ज्ञानं 4 फलम्। वह्नेः पर्वतीयत्वसिद्धिस्तु पक्षधर्मताबलादिति चेत्सममनुपपत्तावपि॥
अस्यां व्याप्तौ बाधकमाशङ्कते -- नन्विति॥ असिद्धौ अज्ञाने सतीत्यर्थः। एवं सिद्धावित्यपि ॥ तत्सिद्धेरग्रे तदसिद्धेरिति॥ पर्वतीयवह्निसिद्धेः पूर्वं तद्वह्न्यिसिद्धेः। न च सामान्यसिद्ध्या तत्सिद्धिः यतो ऽन्यत्वं सामान्यविशेषयो 5 रित्यर्थः। तन्मुखेन समाधिं वाचयितुं प्रतिबन्द्योत्तरमाह-- धूमस्येति॥ यत्तु -- अस्य व्यतिरेकव्याप्तित्वेन त्वन्मते ऽनुमानानङ्गत्वाच्चेति तदाशङ्क्य निराह--
1. इति पदं न -ट.रा. 2.तीति चे-ग.रा. 3.चेन्न-क.ग.रा. 4.-तत्फ-ग.ट.रा. 5.न चेत्यादि नास्ति -ट.ड.
स्वते-व्यानि-रूणम्) व्याप्तिवादः पु - 11.
न चेयं व्यतिरेकव्याप्तिः। केवलान्वयिन्यपि साध्यं विनानुपपत्तेः सद्भावात्। वृष्टिरूपसाध्याभाववत्यधोदेशे पूररूपसाधनाभावस्याभावेन व्यतिरेकव्याप्त्यभावे ऽपि पूरे वृष्टिं विनापपत्ति 1 दर्शनात् 2 । किं च वह्निं विनानुपपत्तिर्धूमगता। व्यतिरेकव्याप्तिश्च वन्ह्यभावगतेति कथं तयोरभेदः। वह्न्यभावस्य धूमाभावेन व्याप्तिरपि धूमाभावं विनानुपपत्तिरेव। सा च वह्न्यभावेन धूमाभावे साध्ये व्याप्यगतत्वादन्वयव्याप्तित्वेनैवाङ्गम्। धूमानैव वह्नौ साध्ये तु धूमानिष्टत्वान्न साक्षादङ्गम्।
-- न चेय 3 मिति ॥ सामानाधिकरण्यगर्भा 4 व्यतिरेकव्याप्तिरियं भविष्यतीति वादिनं प्रत्याहं -- किं चेति॥ नन्वस्त्वियं सर्वान्वय्यनुमानेषु वह्न्यभावादिना धूमाभावाद्यनुमानुमानस्थलेन्यैव व्याप्तिर्वाच्येति तदनुगतेयं न भवतीत्यत आह-- वह्न्यभावस्येति॥ इयमेव 5 धूमानुमाने ऽप्यङ्गं कथं न व्यतिरेकव्याप्तिरित्यत आह -- धूमेनेति॥ न साक्षादिति॥ किं तु व्यभिचारनिरासद्वारैवाङ्गमति भावः। केवलान्वयिनि साध्या 6 भावाप्रसिद्ध्याव्याप्तिरित्युक्तदोषं निराह--न च केवलान्वयिनीति॥
1.तेर्द -ग.ट.रा. 2.नाच्च-ग.ट.रा. 3.चैवमिति-ठर्. 4.भव्य-ठ.ड. 5.चेद्धू-ठ.ट.ड. 6.ध्याप्र-ठ.ड.
पु-12. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न च केवलान्वयिन्यव्याप्तिः। तत्र साध्याभावा 1 सत्वेनैव साध्याभावे सति साधनस्य योपपत्तिः तदभावरूपानुपपत्तेः सत्वात्। मन्मते अप्रामाणिकस्यापि निषेधप्रतियोगित्वात्॥
तथा च -- रसस्य समानदेशकालेन रूपेण विनेव, पाकजरूपादेः समानदेशेन भिन्नकालेन पाकेन विनेव 2 च, कृत्तिकोदय 3 स्याभिन्नकालया 4 भिन्नदेशया रोहिण्युदयासत्या विना, अधोदेशनदीपूरस्य भिन्नदेश 5 कालेर्ध्वदेशवृष्ट्या विनानुपपत्तिरस्तीति, सामानाधिकरण्य इव वैयधिकरण्येप्युक्तरूपा व्याप्तिर्युक्ता। प्रत्युत नदीपूरादौ सामानाधिकरण्य एवोक्तरूपा व्याप्तिरयुक्ता । न ह्यूर्ध्वदेशगतो नदीपूरः 6 ऊर्ध्वदेशगतां वृष्टिं विनानुपपन्नः। किं तु ततोप्यूर्ध्वदेशघताम्॥
अप्रामाणिकस्यापीति॥ यथा चैतत्तथोपपादितं न्यायामृते प्रथमपरिच्छेदे। सर्वत्रानुगतेति प्रागुक्तमुदाहरणनिष्ठतया व्यनक्ति-- तथा चेत्यादिना॥ सामानाधिकरण्य इवेति॥ यथा तत्र न्यायमते कथञ्चित्सामानाधिकरण्यं संपाद्य व्याप्तिरुपपाद्यते तथा क्लेशेन विनैव यथास्थितलिङ्गलिङ्गनोर्वैयधिकरण्ये सत्यपीत्यर्थः॥
ननु त्वन्मतेपि तत्र सामानाधिकरण्यमादायैव व्याप्तिरुच्यतामित्यत आह-- प्रत्युतेति 7 ॥ यथास्थितलिङ्गलिङ्गिनोर्व्यधिकरणयोर्व्याप्यव्यापकभावेन बाधकमाशङ्क्य प्रतिबन्द्योत्तरमाह-- नन्वित्यादिना॥
1.सत्वादेन -क.ग. वस्यासत्वादेव -ट.रा. 2.च इति नास्ति-ग.ट.रा. 3.यस्य समानका -ग.ट.रा. 4.यारो-ग.रा. 5.कालयो-ग.ट.रा. 6.स्वदे-ग.ट.रा. 7.ततः ऽव्यधिकरणऽ इत्याद्येवास्ति-ट.ड.
स्वते-व्यानि-रूणम्) व्याप्तिवादः पु - 13.
ननु साध्याभावेनैव संबन्धस्य नदीपूरस्य वृष्टिरूपसाध्येन कथं व्याप्तिरितिचेत् साध्याभावेन नियमेन संबन्द्धस्य द्रव्यत्वस्य संयोगरूपसाध्येन कथं व्याप्तिः। यदितु तत्र फलबलेन व्याप्तिलक्षणे प्रतियोग्यसमानाधिकरणेति विशेषणाव्द्याप्तिसिद्धिः। तर्ह्यत्रापि फलबलेनैव व्याप्तेर्लक्षणान्तरस्योक्तत्वात्तत्सिद्धिरिति समम्॥
ननु वैयधिकरण्ये साध्यस्य देशनियमः कथमिति चेत्। सामानाधिकरण्येपि -- धूमेन तदधोभाग एव वह्नेः, तुलोन्नमनेन भागान्तर एवावनमनस्य, व्याप्यवृत्तिना
द्रव्यत्वेनाव्याप्यवृत्तेः संयोगस्याव्याप्यवृत्तिना संयोगेन व्याप्यवृत्तिद्रव्यत्वस्य, सिद्धिरिति कथं पक्ष एव प्रदेशनियमः।
साध्याभावेनेत्यादि॥ परमते संयोगस्याव्याप्यवृत्तित्वेन वृक्षः संयोगीद्रव्यत्वादित्यत्र द्रव्यत्वस्य
साध्याभावसंबन्धस्येत्युक्तम्। फलेति॥ अनुमितिलक्षणफलबलेनेत्यर्थः॥ प्रतियोगीति॥ प्रतियोग्यसामानाधिकरणसाध्यप्रतियोगिको योःऽभावः तदसंबद्धत्वे सति साध्यसामानाधिकरण्यं व्याप्तिरिति विशेषणादित्यर्थः। तथाच संयोगाभावस्य प्रतियोगिसामानाधिकरण्यान्न दोष इति भावः। व्यधिकरणयोर्लिङ्गलिङ्गिभावे बाधकान्तरमाशङ्क्य प्रतिबन्द्या निराह--नन्विति॥ सामानाधिकरण्येपि पक्ष एव प्रदेशनियम इत्यन्वयः। कुत इत्यतो ऽन्यत्रान्यथादर्शनादिति भावेनाह-- धूमेनेत्यादिना॥ वह्नेरित्यादिष्ठ्यन्तानां सिद्धिरितीत्यनेनान्वयः। इति शब्दो हेतौ। अत एव पद्धतौ तुलोन्नमनादीनामनेकेषामपि लिङ्गलिङ्गिभावो दर्शितः।
पु- 14. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
कथं च समानकालत्वेपि कादाचित्केन पतनेन स्थायिगुरुत्वस्य, स्थायिना शरीरत्वेन कादाचित्कनाशस्य च, सिद्धिरिति कालनियमः॥
व्याप्तिस्वभावादिति चेत्समम्। यत्र यदा रसस्तत्र तदा रूपमिति समानदेशकालत्वेनेव, यत्र पाकजं 1 तत्र पाक इति समानदेशत्वसात्रेणेव, यदाकृत्तिकोयस्तदा रोहिण्युदयासत्तिरिति समानकालत्वमात्रेणेव 2 च, यदायत्र नदीपूरस्तत्पूर्वकाले तदूर्ध्वदेशे वृष्टिरिति भिन्नदेशकालत्वेनैव व्याप्तिग्रहात्॥
ननु -- देशथः कालतश्च वैयिधिकरण्ये कथं व्याप्तिगहः। यत्रेदं तत्रेदमिति वा यदैवं 3 तदैवमिति वा देशतः कालतो वा सामानाधिकरण्येनैव व्याप्तेर्ग्राह्गत्वादिति चेन्न 4 । यदीदं तर्हीदमित्येवानुपपत्तिरूपव्याप्तिग्रहस्य सर्वानुगतत्वात्॥
"व्याप्तिप्रकारमपेक्ष्यलिङ्गस्य लिङ्ज्ञानजनकत्वनियमादि"ति पद्धत्युक्तदिशा परेण समाधानं वाचयित्वा सममित्याह -- व्याप्तीति॥ व्याप्तिस्वभासादित्युक्तं
व्यनक्ति-- यत्र यदेति॥ व्याप्तिग्रहप्रकारानुपपत्तिमाशङ्क्य समाधत्ते-- नन्वित्यादिना॥
ननु वैयिधिकरण्येपि व्याप्यव्यापकभावे हेतुतदाभासव्यवस्था न स्यादित्यत आह-- अत्रचेति॥
1.जरू --ग.रा. 2.च इति नास्ति-ट.रा. 3.यदेदं तदेदमिति-ट.रा. 4.त्। य-ग.रा.
स्वते-व्यानि-रूणम्) व्याप्तिवादः पु - 15.
अत्र च यद्देशकालसंबद्धस्य हेतोरनुपपत्तिः तद्देशकाले हेतोरभाव एवासिद्धिः। न तु पक्षे ऽभावः। एवं यद्देशकालसंबद्धस्य हेतोरनुपपत्तिः तद्देशकालयोरन्यत्रापि भावो व्यभिचारः। न तु साध्याभाववति वृत्तिः। एवमुक्तयोर्देशकालयोरन्यत्रैव वर्तमानो विरुद्धः। न तु नियमेन साध्याभाववति वर्तमान इति न कश्चित्क्षुद्रोपद्रवः॥
तस्माद्वैयधिकरण्येपि व्याप्तिरस्त्येव। 1 तदुक्तं भगवत्पादैः॥"असत्यपि व्यापिरस्त्येवेति"। सामानाधिकरण्ये असत्यप्यनुपपत्तिरूपा व्याप्तिरस्त्येवेत्यर्थः। 2 अत एव व्यधिकरणासिद्धिर्न दोष इति वक्ष्यते॥
इति स्वमते व्याप्तिनिरूपणम्
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0