तर्कताण्डव (टीका सहित) · अध्याय 19
भिन्नदेशकालयोरपि व्याप्यव्यापकभावपक्षे इत्यर्थः। न तु पक्ष इति॥ येन नदीपूरादिरसिद्धः स्यादिति भावः। नत्विति॥ येन नदीपूरादिर्व्यभिचारी स्यादिति ध्येयम्। तद्देशकालयोरन्यत्रेति। संबन्धसामान्ये षष्ठी। ताभ्यामन्यत्रेत्यर्थः। एवमग्रेपि॥ एवमिति समुच्चये। उक्तयोर्यद्देशे यत्कालेनुपपत्तिर्हेतोः साध्येन विना तयोरन्यत्र
ताभ्यामन्यत्रेत्यर्थः। तदुक्तमिति॥ प्रमाणलक्षणे । प्रकृतोपयोगाय तस्यार्थमाह-- सामानाधिकरण्य इति॥
इति स्वमते व्याप्तिनिरूपणम्
1.प्रपञ्चयिष्यते चैतद्व्यधिकरणासिद्धेरदोषत्वप्रस्तावे इत्यधिकम्-- ग.रा.ट. 2.अत एवेत्यादि नास्ति-ग.रा.
पु-16. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ परोक्तवक्रव्याप्तिलक्षणभङ्गः
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0