भाषा

ENहिગુ
ग्रंथ पाठ

तर्कताण्डव (टीका सहित) · अध्याय 11

11.1

तत्र किं प्रमाणमित्यत आह -- स्वतस्त्वे प्रमाणं त्विति । अनुमानमिति वक्ष्यमाणेनान्वयः । यद्यपि --
"पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये"
इति कथालक्षणोक्तेः ग्रन्थस्य च वादकथा रूपेण प्रवृत्तेः--
"ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ।
पुराणानि च 2 यानीह वैष्णवानि विदो विदुः
स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते"॥
1. परतस्त्व - छ-क. 2. तु - अ .
स्वत-अनु) प्रामाण्यवादः पु - 34.
--------- --------- -----
ज्ञानप्रामाण्यं स्वतो ग्राह्यं , परतो ऽगृह्यमाणत्वे सति गृह्यमाणत्वात् यद्यदन्येनागृह्यमाणत्वे सति ग्राह्यं तत्तेन ग्राह्यम् । यथा चक्षुरन्ये 1 नागृह्यमाणं रूपं चक्षुर्ग्राह्यम्

11.3

इत्यादिरागम एव वाच्यः । तथापि हैतुकस्य तार्किकस्यागमे ऽत्यादराभावात्तं प्रत्यागमानुकूला न्याया एवात्रोच्यन्त इत्यदोषः ।
"ज्ञानगतं 2 याथार्थ्यं तद्गाहकेणैव ग्राह्यं, ग्राहकान्तरानुपपत्तौ सत्यां गृह्यमाणत्वात् यद्यतो ऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव 3 गृह्यते, यथा चक्षुषोन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपादि चक्षुषा साक्षात्क्रियते"
इति तत्वनिर्णयटीकोक्तमनुमानं तात्पर्यतो ऽनुवदति--ज्ञानप्रामाण्यमिति ॥ याथार्थ्यरूपमित्यर्थ्यः । तत्स्वरूपमुक्तंप्रागस्माभिः । चक्षुरादिरूपानुप्रमाणव्यावृत्तस्य साक्षाज्ज्ञेयविषयीकारित्वस्य लाभाय ज्ञानेति विशेषणं तत्तज्ज्ञानपदम् । घटत्ववति घटत्वप्रकारक 4 ज्ञानत्वादिरूपं प्रामाण्यमित्यर्थ्यः । यदा तु प्रामाण्यपदेन केवलप्रामाण्यग्रहः तदा ज्ञानपदं स्पष्टार्थम् । अत एव सुधायां"प्रामाण्य"मित्येव -- पक्षोक्तिः -- स्वत इति ॥ ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग्र्यसमविहितत्तज्ज्ञानविषयकसाक्षिविषय एवेत्यर्थः । विशेषणकृत्यं प्राग्वत् । साक्षी च लौकिकप्रत्य 5 क्षादिरूपानुव्यवसाय एव-- परत इति ॥ प्रामाण्यं परतो ग्राह्यं सांशयिकत्वात् इत्यादौ यत्पराभिमतं साध्यं उक्तविशेषेणकसाक्षिज्ञानादन्येनैव ग्राह्यत्वादिरूपं तदभावे सति ग्राह्यत्वादीत्यर्थ्यः ।
1. घ्राणादि - कुं. छ. क. 2. त - कुं. 3. ऽ एव ऽ पदं नास्ति - अ.
4. ज्ञानेति न - आ. 5. क्षानु - कुं. आ.
स्त- अनु .) प्रामाण्यवादः पु - 35.
--------- ----------- ----
सुखमनुभवामीति प्रत्ययः ( प 1 ). दोषशङ्काद्यकलिङ्कितज्ञानस्यानुव्यवसायो
वा ( प 2 ).
तेनानुमित्यादिग्राह्यत्वेपि नासिद्धिः"परस्यस्वतस्त्वात्स्वस्य च परतत्वादि"त्यादि मण्युक्तखण्डनस्याप्यनवकाशः । केचित्तु परतोग्राह्यत्वं नाम उक्तविशेषणकोक्तरूप 1 प्रत्यक्षाग्राह्यत्वं साक्षिज्ञानादन्योत्पाद्यप्राथमिकप्रतीतिकत्वं
2 परतोग्राह्यम् । तच्छून्यत्वे सतीत्यर्थः । तेन स्ततस्त्ववादे प्रामाण्यस्यानुमित्यादिग्राह्यत्वेपि न विशेषणासिद्धिरित्याहुः । अत्र सत्यन्तमात्रस्याप्रयोजकत्वाद्ग्राह्यत्वादित्युक्तिः । घटादिगतगन्धादो सत्यपि ग्राह्यत्वे स्वाश्रयग्राहककोक्तरूपप्रत्यक्षाग्राह्यत्वं
नेति व्यभिचारनिरासाय सत्यन्तम्।
प्रामाण्यस्य स्वतो ग्राह्यत्वे क्कचित्संशयाद्युपपादनक्लेशनिरासाय विशिष्याप्याह -- सुखमिति ॥ 3 स्ववृत्तिवर्तमानसुखसाक्षात्कारगोचरः साक्षिरूपः प्रत्ययः इत्यर्थः । ज्ञानांशे लौकिकप्रत्यक्षादिरूपानुव्यवसायः प्रामाण्यविषयको न वेति विप्रतिपत्त्यनानुगुण्यादर्थान्तरत्वमिति न शङ्क्यम् । बाह्याभ्यन्तरसाधारणपक्षान्तराण्याह -- दोषेति ॥ दुष्टकरणजन्यत्वङ्का तन्निश्चयाप्रामाण्यादिशङ्कातन्निश्चयाद्यनास्कन्दिघटादिज्ञानस्येत्यर्थः । न चैवं अन्त्यपक्षाभेद इति शङ्क्यम् । तत्रानुव्यवसायविशेषणत्वेन इह व्यवसायविशेषणत्वेन तत्र प्रामाण्यविरोध्युपस्थापकसामग्रीत्वेन अत्र तु तत्कार्यदोषशङ्कादित्वेन च प्रवेशेनात्यन्तभेदात् - उपस्थापकसामग्रीति ॥ उपस्थितितत्सामग्रीत्यर्थ्यः ।
1. ऽप्रत्यक्षाग्राह्यत्वंऽ इति नास्ति -कुं. आ.-अ. 2. इदं नास्ति - कुं. 3. इयं पङ्क्तिः - अ पुस्तके नास्ति.
स्वत- अनु.) प्रामाण्यवादः पु - 36.
1 निष्कम्पप्रवृत्तिहेतुभूतज्ञानस्यानुव्यवसायो वा ( प 3 ) प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितो ऽ 2 नुव्यवसायो वा ( प. 8 ) स्वाग्राह्यज्ञान प्रामाण्य--
अत्र सर्वत्रापि ज्ञानस्येत्यनेन दोषाजन्यप्रमारूपज्ञानस्याभिमतत्वादिदं रूप्यमित्यादिभ्रमगोचरानुव्यवसायस्यापेक्षतया तस्य तत्र प्रामाण्यग्राहकत्वेपि न बाध इति बोध्यम् । तत्रप्रामाण्यग्रहणस्य मानसत्वेन सिद्धान्तेपि भ्रमगोचरानुव्यवसायेन प्रामाण्याग्रहात् । यद्वा वक्ष्यमाणदिशात्रानुव्यवसायत्वस्य भ्रमानुव्यावसाये ऽभावेन तस्यापत्रेत्वान्न बाधः । अत एव ज्ञानांशे लौकिकप्रत्यक्षादिरूपस्येहानुव्यवसायस्याभिमततया स्मृत्युपनीतप्रामाण्यविषयकानुव्यवसायमादाय न न्यायमते सिद्धसाधनं शङ्क्यम् ॥ स्वग्राह्येति ॥ स्वेन अनुव्यवसायेन ग्राह्यं यज्ज्ञानं आद्ये सिद्धान्ते सुखविषयकम् स्वप्रकाशरूपं साक्षिज्ञानमेव । परमते मानसं सुखव्यवसायरूपम् । तदन्यपक्षत्रये 3 च घटादिगौचरं मनोवृत्तिरूपं व्यवसायाख्यं साक्षिज्ञानादन्यत् । तन्नष्ठं यत्प्रामाण्यं सुखत्ववति
सुखत्वप्रकारकत्वादिरूपं घटत्ववति घटत्वप्रकारकत्वादिरूपं वा तद्विषयक इत्यर्थः । घटज्ञानानुव्यवसायस्य पटज्ञानप्रामाण्याविषयकत्वाद्बाधविरासाय स्वग्रह्यज्ञानेत्युक्तम् । यद्वा प्रामाण्यविषयक इत्येवोक्तौ स्वनिष्ठप्रामाण्यविषयकत्वमादाय सिद्धान्ते अर्थान्तरत्वनिरासाय -- स्वग्राह्यज्ञानेति ॥ एवं च नार्थान्तरता ।
1. निष्कलङ्क -क. 2. ता - कुं . 3. कुं . पुस्तके नास्ति .
स्वत-अनु.) प्रामाण्यवादः पु - 37.
--------- ---------------- --------
- विषयकः ( सा. 1 ) तत्प्रकारको वा ( सा. 2 ) --
न चैवं साक्ष्यंशे स्वग्राह्यव्यवसायप्रामाण्यविषयकत्वाभावाद्व्यभिचारः शङ्क्यः ।
स्वग्राह्यं यावत्स्वयमन्यच्च तावति प्रामाण्यग्रहकत्वलाभेन साक्ष्यंशे हेतूनामव्यभिचारात् । यद्वा सुखत्ववद्विशेष्यकज्ञानत्वादिरूप्रामाण्यलाभाय स्वग्राह्यज्ञानप्रामाण्येत्युक्तिः । प्रामाण्यविषयत्वं च साध्यं यन्मते वैशिष्ट्यमनुव्यवसाय वैद्यमेव न तन्म 1 तेन बोध्यम् । तद्वेद्यमपि स्वातन्त्रेण न तद्वेद्यमिति मते तु सत्वेन प्रामाण्यविषयकत्वमभिमतम् । तेन तत्पक्षे सिद्धसाधनतेति शङ्कानवकाशः । अत एव वक्ष्यति"सत्तया तदुल्लेखस्य
साध्यत्वात्"इति । न च वादिनः सत्वेनेति विशेषमं व्यर्थम् व्यावर्त्याप्रसिद्धेरिति शङ्क्यम् । शुक्तिरूप्यज्ञाने प्रामाण्यविषयकस्यापि मानसदर्शनस्य स्वविषयसत्वानिर्णयकस्यापि सिद्धान्ते सत्वात् । परप्रसि 2 द्धत्वमात्रेण व्यावर्त्यत्वोपपत्तेश्च । परार्थानुमाने परं प्रति सिद्धसाधनोद्धारस्यापि वादिप्रयोजनत्वाच्च । जन्यकृत्यज 3 न्यानीत्यत्र मीमांसकं प्रति जन्यत्वस्येवेहापि वादिनं प्रति प्रमेयत्वादिवदुपरञ्जरकत्वेन विशेषणत्वोपपत्तेश्च।
उक्तं च उत्पत्तिप्रामाण्यवादे मणावपि"उभयसिद्धव्यावर्तकत्वं तन्त्रम् । न तु व्यावर्त्यस्योभयसिद्धिः । गौरवात्"इति
भावः ।
प्रामाण्यमनुव्यवसायविषयोपि प्रागनुपस्थित्वान्न प्रकारतयेति वदन्तं प्रत्याह -- तत्प्रकारको वेति ॥ स्वग्राह्यज्ञानप्रामाण्यप्रकारकोवेत्यर्थः । विशेषणज्ञानहेतुताया निर्विकल्पभङ्गे निरसिष्यमाणत्वादिति भावः -- तद्विरुद्धेति । ग्राह्यप्रामाण्यविरुद्धं यत्प्रामाण्याभावतद्व्याप्याप्रामाण्यादि तदविषयकत्वे सतीत्यर्थः ।
1. ते. बोध्यम् - अ. 2 . द्धिमात्रेण - कुं 3. न्येत्यत्र- कुं.
स्वत-अनु.) पामाण्यवादः पु - 38.
---------- ----------- --------

तद्विरुद्धाविषयकत्वे सति तद्व्याप्यत्वाविषयकत्वे 1 सति तत्संशयविरोधिप्रत्ययत्वात् ( हे. 1 ) तद्व्याप्यत्वाविषयकत्वे सति तदभावनश्चयविरोधिनिश्चयत्वात् ( हे. 2 ) तद्विषयकव्यवहारहेतुप्रत्ययत्वात् ( हे. 3
) तज्ज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया च तद्विषयकत्वाच्च ( हे. 4 ) प्रामाण्यानुमितिवत् इत्याद्यनुमानम् ॥
विरुद्धत्वं च तज्ज्ञानप्रतिबन्धकज्ञानविषयत्वम् -- तद्व्याप्येति ॥ सुखानुभवादिनिष्ठसुखत्ववद्विशेष्यकत्वादिरूपप्रामाण्यव्याप्यत्वेत्यर्थः -- तत्संशयविरोधीति ॥ प्रामाण्यसंशयविरोधित्वं नाम तदनुत्पत्तिव्याप्यत्वादिरूपं ज्ञेयम् । विशेषणकृत्यान्यग्रे व्यक्तानि-- तद्विषयकेति ॥ प्रामाण्यविषयकेत्यर्थः-- तज्ज्ञानेति ॥ ग्राह्यप्रामाण्याश्रयज्ञानेत्यर्थः । साध्यवैशिष्ट्यनिरासो ऽग्रेस्पुटः-- तद्विषयकत्वात् ॥ व्यवसायविषयकत्वादित्यर्थः-- प्रामाण्यानुमितिवदिति ॥ इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिहेतुत्वात् इतिप्रामाण्यानुमितावुक्तस्य हेतुचतुष्टयस्य साध्यद्वयस्य च सत्वादिति भावः । 2 आदिपदेन"प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यं अप्रामाण्येतरज्ञानसमवेतधर्मत्वात् ज्ञानत्ववत्"इत्यादि सुधोक्तानुमानग्रहः 2 ।
आद्यविशेषणस्य यथाश्रुतव्याप्याकृत्यसंभवेपि द्वितीयविशेषण तदसंभवात् यद्यद्विरुद्धाविषयकत्वे सति यद्व्याप्यविषयकत्वे सति यत्संशयविरोधिज्ञानं तत्तद्विषयकमित्यादिसामान्यव्याप्तिमुपेत्य कृत्यमाह ।
1. कुं - क. 2. अयं ग्रन्थः- मु पुस्तके कुण्डलितः.
स्वत-अनु ) प्रामाण्यवादः पु - 39.
-------- ---------- --------
अत्राद्ये हेतौ तद्विरुद्धाविषयकेत्युक्तत्वात्प्रामाण्य विरुद्धापामाण्यनिश्चये, तद्व्याप्यत्वाविषयकेत्युक्तत्वाद्विह्निमत्वाविषयके, तत्संशयविरोधिनि तद्व्याप्यतया धूमनिश्चये , तत्संशयविरोधीत्युक्तत्वाद्घाटादिज्ञाने, प्रत्ययेत्युक्तत्वाद्धर्म्यज्ञाने कोट्यस्मरणे च न व्यभिचारः । न चोल्बणविषयान्तरज्ञाने व्यभिचारः । विषयान्तरे मनःसंचारादिरुपतज्ज्ञानसामग्र्या एव तद्विरोधित्वात् ।
वह्नमत्वाविषयक इति ॥ अयं वह्निमान् धूमवत्वादित्यत्र वह्निव्याप्यधूमवानयमितिनिश्चये सति अयं वह्निमान्नवेति संशयानुदयेनोक्तरूपहेतुभावेपि वह्निम 1 त्वाविषयकत्वाभावेन तत्र साध्याभावाद्व्यभिचार इति शङ्का तद्व्याप्यस्याविषयकत्वविशेषणान्निरस्तेत्यर्थः।
विशिष्यव्याप्तौ तु घटत्ववद्विशेष्यकत्वरूपप्रामाण्याविषयकेपि तत्संशयविरोधिनि
तद्व्याप्यतयाकंबुग्री 2 वादिमद्विशेष्यकत्वनिश्चये व्यभिचारो नेति ज्ञेयम् -- धर्म्यज्ञाने ॥ व्यवसायरूपधर्मिणो ज्ञानाभाव इत्यर्थः । धर्मिज्ञानस्य संशयहेतुतया तदभावस्य कार्यानुत्पादव्यप्यत्वे न तत्र हेतुसत्वादिति भावः । धर्मिज्ञानं न संशयहेतुरिति मतेनाह -- कोटीति ॥ कोटिस्मरणाभाव इत्यर्थः । एतच्चोपलक्षणम् । कुङ्कुमगन्धादिसंशयविरोधिनि तदभिव्यञ्जकगोघृतसंयोगादौ च न व्यभिचारः इत्यपि ध्येयम् । विशिष्टस्यापि हेतोर्व्यभिचारमाशङ्क्य निराह -- न चेति ॥ सामग्र्या एवेति ॥ तथा च तत्र प्रत्ययत्वाभावेन हेतोरेवाभावादिति
भावः ।
1. द्वि - अ. 2. वत्वा - कुं - अ.
स्वत-अनु ) प्रामाण्यवादः पु - 40.
---------- ---------------- -------
ननु तथापि व्यञ्जकस्य करचरणादेः स्वरूपेणैव ज्ञानं व्यङ्यपुरुषत्वादिजातिसंशयविरोधि । न तु व्याप्यतया । करादिज्ञानस्यालोकवत्स्वरूपेणैव व्यङ्ग्यधीहेतुत्वात् । तच्च न व्यङ्ग्यविषयकमिति तत्र व्यभिचार इति चेन्मैवम् । व्यङ्ग्यसंशयो हि द्वैधा । व्यञ्जकभूतं यज्ज्ञान 1 कारणं तदभावेन सामग्र्यभावाद्वा यथान्धकारस्थितघटसंशयः ।
न च सामग्र्या विरोधित्वे तज्जन्यज्ञानस्यापि सामग्रीविरोधित्वप्रयुक्तं संशयविरोधित्वं स्यादेव । विरोधिनिश्चय 3 प्रतिबन्धकत्वस्य विरोधिनिश्चयसामग्रीप्रतिबन्धकत्वप्रयुक्तत्वदर्शनात् ।"यद्वीसामग्री यत्र प्रतिबन्धिका तद्वीरपितत्रप्रतिबन्धिका"इति पक्षधरोक्तेरिति वाच्यम् । विरोधिनिश्चयस्य ग्राह्याभावावगाहित्वेनैव प्रतिबन्धत्वेनान्यप्रयुक्तत्वाभावात् । भिन्ने विषये अनुमितिसामग्र्याः प्रत्यक्षप्रतिबन्धकत्वेपि अनुमितेस्तददर्शनादिति भावः । स्थलान्तरेपि व्यभिचारमाशङ्कते - नन्विति ॥ स्वरूपेणैव ॥ करचरणादिनैवेत्यर्थः-- व्याप्यतया ॥ पुरूषत्वादिप्याप्यतयेत्यर्थः । हेतुसत्वमुक्ता साध्यं नेत्याह--तच्चेति ॥ एतदपि व्यभिचारचोदनं सामान्यव्याप्तिमुपेत्यैवेति 4 ध्येयम् । विवेकेन समाधिं वक्तमाह--व्यङ्ग्येति ॥ निश्चयसामग्र्यभावप्रयुक्तो वा सत्यां तस्यां तत्प्रतिबन्धकदोषप्रयुक्तो वेति भावेन 5 तद्वैविध्यं व्यनक्ति-- व्यञ्जकेति ॥ ज्ञानेति ॥ निश्चयेत्यर्थः । सामग्रीति ॥
निश्चयसामग्र्यभावादित्यर्थः-- यथेति ॥
1. करणं-क. 2.स्थघट-कुं छ क. 3."सामग्रीप्रतिबध्यस्य विरोधिनिश्चयप्रतिबध्यत्व"इत्याधिकं-कुं. 4.बोध्यम्-कुं अ. 5.ऽतत् ऽइति न- कुं.
स्व-अनु) प्रामाण्यवादः पु - 41.
------ ---------- -------
दूरादिदोषाद्वा । यथा स्थाणौ पुरुष 1 संशयः । तत्राद्ये व्यङ्ग्यनिश्चयसामग्र्येव संशयविरोधिनी । तस्यां च प्रत्ययत्वं नेति न व्यभिचारः । द्वितीये तद्व्याप्यत्वेन करादि 2 ज्ञानमेव दोषजन्यसंशयविरोधीति 3 तद्व्याप्यत्वाविषयकत्वं नेति न व्यभिचारः । न च तद्व्याप्यत्वाविषयकत्वमसिद्धम् । सुखसाक्षात्कारत्वादेः प्रामाण्यव्याप्यत्वाग्रहणे 4 ऽसंशयदर्शनात् ।
तत्रालोकरूपव्यञ्जकाभावादिति भावः-- दूरादीति ॥ सत्यां निश्चयसामग्र्यामिति भावः--- तद्व्याप्यत्व 5 ज्ञानमेवेति ॥ अन्वयव्यतिरेकाभ्यां तथावगमादिति भावः । अत एवोक्तं ज्ञप्तिप्रामाण्यवादान्ते रुचिदत्तेन"अनुव्यवसायत्वास्य प्रामाण्यनियतस्यापि तन्नियतत्वेनाग्रहत्कथं संशयनिवृत्तिः । न हि 6 व्याप्तिज्ञानमात्रात्संशयनिवृत्तिः । अन्यथा तैलं पृथिवी नवेति संशयो न स्यात्"इति । ननु घटत्वादिप्रकारकानुभवत्वस्य वल्मीकादौ घटत्वाद्विशेष्यकत्वादिरूपप्रामाण्यव्यभिचारेपि अत्र विवक्षितसुखानुभवत्वादिरूपव्यवसायधर्मस्य सुखत्ववद्विशेष्यत्वादिरूपप्रामाण्यव्यभिचारेण तद्व्याप्यत्वविषयकत्वं
तदनुव्यवसायस्यास्त्येवेति भावेन परिहरति--सुखेति ॥ दर्शनादिति ॥ व्याप्त्यनुसन्धानहीनबालमुग्धादाविति भावः । व्याप्यत्वाविषयकत्वांशे असिद्धिं निरस्य तद्विरुद्धाविषयकत्वांशे विवादाभावात्संशयविरोधित्वांशे तां निराह-- न च धर्मीति ॥
1.त्व-छ. 2.करादि पदंन-कुं.छ क. 3.ऽतत् ऽ इति न-कुं छ. 4. हे-मु.
5. त्वेन-कुं अ. 6. व्याप्य-कुं.
स्वत-अनु ) प्रामाण्यवादः पु - 42.
---------- ------------ ---------
न च धर्मिज्ञानाद्यभावादेवासंशयात्संशयविरोधित्वसिद्धमिति वाच्यम् । सुखादिज्ञानरूपधर्मिज्ञाने ज्ञानत्वरूपसाधारणधर्मदर्शने दैवात्कोटिस्मरणे विषयान्तरासंचारे च सत्यप्यसंशयदर्शनात् ।

नचाद्यो हेतुरप्रयोजकः; ज्ञानस्य तत्संशयविरोधित्वं हि तन्निश्चयत्वेन वा तदभावनिश्चयत्वेन वा तदभावव्याप्यनिश्चयत्वेन वा तद्व्याप्यनिश्चयत्वेन वेति चतुर्धा ।
कोट्यस्मरणविषयान्तरसंचारादिरादिपदार्थ-- धर्मिज्ञान इति ॥ धर्मिणो ज्ञाने सतीत्यनेनान्वयः । धर्म्याख्यज्ञान इति व्याख्याने तु न सतिपदेनान्वयः । अपि तु साधारणधर्मदर्शनपदेन । न चास्मिन्पक्षे धर्मिभूतज्ञानानुक्तिः । धर्मिज्ञानस्यसाधारणधर्मदर्शनत्वेनैव हेतुत्वात्तेनैव तदुक्तेरिति 1 -- असंशयेति ॥ तस्य प्रामाण्यनिश्चनिबन्धनत्वाभावे कदाचित्कस्यचित्तत्र धर्मिज्ञानाद्युदयसंभवेन रूप्यज्ञानं प्रमा न वेतिवत्सुखज्ञानं प्रमा न वेत्ति संशयः स्यात् । कदापि तददर्शनात्प्रामाण्यनिश्चयनिमित्त एव तदभाव इति तद्विरोधित्वं तस्य नासिद्धमिति भावः ।
एवं व्यभिचारासिद्धी निरस्य विपक्षे बाधकाभावदोषं च निराह --नचाद्य इति ॥ विपक्षे हेतूच्छित्तिं संभावितपक्षानुक्तेतरव्यवच्छेदपूर्वकमाह--ज्ञानस्येति ॥ स्वतो विरोधाभावात् 2 स्वविषयकृतस्यैव विरोधस्य वाच्यत्वादिति हि शब्दः।
1. एके - अ. 2. स्वपदं नास्ति - मु. अ आ.
स्वत-अनु ) प्रामाण्यवादः पु - 43.
तत्र द्वितीयतृतीययोस्तद्विरुद्धाविषयकत्वविशेषणेन चतुर्थस्य तद्व्याप्याविषयकत्वविशेषणेन निरस्ततया हेतोराद्यं प्रामाण्यनिश्चयत्वरू 1 पं साध्यं विनानुपपत्तेः ।
एतेन तद्वितीयहेतावप्यप्रयोजकतोद्धृता । पक्षीकृतज्ञाने प्रामाण्यविषयकत्वं प्रामाण्युव्याप्यविषयकत्वं प्रामाण्याभावविषयकत्वं प्रामाण्याभावव्याप्यविषययकत्वमुभयोदासीनविषयकत्वं चेति संभाविते प्रकारपञ्चके द्वितीयस्य तद्व्याप्यत्वाविषयकत्वविशेषणेन तृतीयादीनां च त्रयाणां तदभावनिश्चयविरोधिनिश्चयत्वेन निरासाद्धेतोराद्यं प्रामाण्यविषयकत्वरू 2 पसाध्यं विनानुपपत्तेः । तत्राद्यं निश्चयपदं तदभावसंशयविरोधिनि तदभावनिश्चये द्वितीयं तु तदभावनिश्चयविरोधिनि तदभावसंशये व्यभिचारवारकम् ।
एतेनेत्युक्तं व्यनक्ति -- पक्षीकृतज्ञानैत्यादिना ॥ उभयेति ॥ प्रामाण्यतद्व्याप्यप्रामाण्याभावतद्व्याप्यरूपोभयोदासीनेत्यर्थः । सङ्गतया प्रसक्तमप्रयोजकत्वं पूर्वं निरस्य विशेषणकृत्यमाह-- तत्राद्यमिति ॥ तत्र द्वितीयहेतावित्यर्थः । तदभावज्ञानविरोधिज्ञानत्वादित्युक्ते व्यभिचारादुभयत्र निश्चयपदेन तद्वारणमित्यर्थः--
तद्विषयव्यवहारहेतु प्रत्ययत्वादिति तृतीयहेतौ ॥ कुङ्कुमगन्धव्यङ्ग्यव्यवहारहेतौ घृतादिसंयोगरूपव्यञ्जकेव्यङ्ग्याविषयके व्यभिचारवारकं प्रत्ययपदं प्रामाण्याविषयकं घटादिज्ञाने व्यभिचारवारकं तद्विषयकव्यवहारहेत्वितिपदं इति स्पष्टमिति विशेषणकृत्यमनुक्त्वा सिध्यप्रयोजकत्वे क्रमेण निराह -- सुखेति ॥
1. पसाध्यं - छ. 2. पं - छ.
स्वत- अनु ) प्रामाण्यवादः पु - 44.
--------- -------------- ---------
सुखसाक्षात्कारस्य तत्प्रामाण्याभिलापस्य च मध्ये प्रामाण्यानुमित्यङ्गीकारे 1 चानुभवविरुद्धं व्याप्तिस्मरणादि बहु कल्प्यं
स्यात् । सुखसाक्षात्कारस्य तत्साक्षात्का 2 राभिलापस्य च मध्येपि तत्कल्य्यं स्यात् प्रामाण्यानुमिति प्रामाण्याभिलापर्योर्मध्ये ऽपि ज्ञानान्तरं कल्प्यं स्यादिति न तृतीयहेतुरसिद्धः । नाप्यप्रयोजकः व्यवहर्तव्यज्ञानस्य व्यवहारहेतुत्वात् ।
सुखमनुभवामीति प्रत्ययस्य न सुखानुभवप्रामाण्यव्यवहारहेतुत्वमस्ति किन्तु सुखसाक्षात्कारानन्तरं अयं सुखानुभावः प्रमा सुखसाक्षात्कारत्वात् पुर्वसुखसाक्षात्कारवदित्यादिलिङ्गजन्यप्रामाण्यानुमितेरेवेत्यभ्यासदशापन्नस्थले झडिति प्रामाण्यानुमितिसामग्रीसमवधानं स्वकारणाधीनमिति ज्ञप्तिप्रामाण्यान्ते मणिकृदुक्तदिशा प्रमाण्यानुमित्यङ्गीकार इत्यर्थः-- व्याप्तिस्मरणादीति ॥ परामर्शानुमिती आदिपदार्थः । अतिप्रसङ्गं चाह -- सुखेति ॥ तत्काल्यप्यमिति ॥ जातिव्यक्तयोरेकवित्तिवेद्यत्वनियममनुपेत्य 3 साक्षात्कारस्वरूपज्ञानान्तरं सुखज्ञानमिदं साक्षात्कारः स्ववृत्तिवर्तमानविषयकत्वादिति सुखसाक्षात्कारत्त्वानुमितिमुपेत्य तद्धेतुव्याप्तिस्मरणादिकं कल्प्यं स्यादित्यर्थः । ज्ञानान्तरं शाब्दादिरूपमित्यर्थः । अत्रापि हेतूच्छित्तिरेव विपक्षे बाधिकेत्याह -- व्यवहर्तव्येति ॥
1. वा -ग. 2. रत्वा - मु. 3. सुख - मु. अ. आ.
स्वत-अनु ) प्रामाण्यवादः पु - 45.
---------- ---------- --------
न च घटविशेष्यकत्वे सति घटत्वप्रकारकत्वलस्यैव प्रामाण्यरूपत्वाच्चतुर्थहेतौ साध्यवैशिष्ट्यम् । त्वयाप्यङ्गीकृतस्य प्रामाण्योल्लेखमात्रस्य हेतुत्वात् । त्वदनङ्गीकृतस्य सत्तया तदुल्लेखस्य च साध्यत्वात् । मन्मते केवलानुप्रमाणसाधारणस्य 1 याथार्थ्यरूपप्रामाण्यविषयकत्वस्य साध्यत्वात् केवलप्रमाणासाधारणस्योल्लेखस्य हेतुत्वाच्च ॥
तज्ज्ञानप्रकारेत्यादिचतुर्थहेतौ दलद्वयकृत्यं परोक्तनिरुक्तिभङ्गे व्यनक्तमिति व्यभिचारशङ्कानवशात्सन्दिग्धासिद्धिस्वरूपासिद्धी क्रमेण निराह -- नचेत्यादिना ॥ सुखं मे भूयादितीच्छायामुक्तरूपप्रकारकत्वे सत्यपि न प्रामाण्यमिति तदेव तदित्यसिद्धिमिति कश्चित् । तन्न । सुखत्ववद्विशेष्यकत्वादिरूपप्रामाण्यस्चेच्छायामपि सत्वात् । सुखत्ववद्विशेष्यकत्वादिकं तदित्यशक्यशङ्कम् । मन्मत इत्यादिवक्ष्यमाणविरोधात्-- उल्लेखमात्रस्य ॥ विषयत्वमात्रस्येत्यर्थः । मात्रपदेन सत्वव्यावृत्तिः । एतेन यन्मते तद्वत्वमनुव्यवसायस्य सर्वथैवाविषयो न तन्मते नायंहेतुर्वक्ष्यमाणदिशा प्रसाध्याङ्गकोवेति सूचितम् । ननु सिद्धान्ते 2 सत्वासत्वौदासीन्येन तद्विषयकत्वाभावात्साध्यावैशिष्ट्यं स्यादित्यत आह -- मन्मत इति ॥ वादजल्पकथयोः प्रयोगदशायामित्यर्थः । वह्निमात्रसाधने पर्वतीयवह्निना पर्यवसानमिव ज्ञानमात्रनिष्टप्रामाण्येन
पक्षधर्मताबलात्पर्यवसानमिति भावः ॥
1. णया - च. मु. 2. सत्वा इति. न - मु.
स्वत- अनु) प्रामाण्यवादः पु - 46.
--------- ------------- ----------
1 केचि 2 त्तु तथाङ्गीकर्तव्यत्वं साध्यमिति न साध्यावैशिष्ट्यमित्याहुः ॥
नाप्यसिद्धिः सुखमेव सुखत्वेनानुभवामि स्तम्भमेव स्तम्भत्वेन 3 जानामीत्यनुभवात् । एतेनोक्तवक्ष्यमाणानुमानेषु बाधो निरस्तः । सुखमेव सुखत्वेनानुभवामीत्यादिज्ञाने प्रामाण्यशब्दानुल्लेखेपि तदर्थस्य सुखत्ववति सुखत्वप्रकारकत्व 4 रूपस्य प्रामाण्यस्योल्लेखात् । यद्वा विमतः प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितो ऽनुव्यवसायः --
एतेनेति ॥ तद्वद्विशेष्यत्वोल्लेखा 5 देरनुभवसिद्धत्वेनेत्यर्थः । तदेव व्यनक्ति -- सुखमेवेति ॥ अनुल्लेखेपीति ॥ इदं ज्ञानं प्रमाणमित्यनाकरेपीत्यर्थः--उल्लेखात् ॥ विषयीकरणादित्यर्थः।

पूर्वोक्तहेतुविशेषणेषु प्रतिवादिविप्रतिपत्तेः प्रसाध्याङ्गकत्वं मन्वानः प्रागुक्तपक्षतावच्छेदकेष्वेकं पक्षतावच्छेदकं कृत्वान्य हेतुकृत्याह-- यद्वेति ॥ यद्वा पूर्वं प्रामाण्यं क्वापि नानुव्यवसायवेद्यमिति मतमुपेत्य प्रामाण्यानुमितिदृष्टन्तेन प्रयोगा उक्ताः इदानीं तु क्वचित्तद्वेद्यमिति मतमुपेत्य तदृष्टान्तेनाह -- यद्वेति ॥ विमत इति ॥ प्रामाण्यविषयकत्वाविषयकत्वाभ्यां विप्रतिपत्तिविषयैत्यर्थः विमतेरपि नियतविषयत्वायावच्छेदकमावश्यकमेव तत्किमित्यत आह -- प्रामाण्येति ॥ उपस्थापकेति ॥ उपस्थितितत्सामग्रीत्यर्थः। नन्वेवमुक्तरूपानुव्यवसायत्वस्यैव पक्षतावच्छेदकत्वसंभवे किं विमत्येतिचेन्न"यद्यपि विमतिरपि नियतविषयत्वायाच्छेदकसापेक्षा ।
1. इयं पङ्तिः नास्ति - छ.क.ग. 2. त्त-च. मु. 3. अनुभवामि - च. मु.
4. त्वादि - छ- क. मु. 5. कत्वादे - कुं.
स्वत-अनु ) प्रामाण्यवादः पु - 47.
--------- ----------- --------
स्वविषयव्यवसायप्रामाण्यविषयकः निष्कम्पप्रवृत्तिहेतुव्यवसायविषयकानुव्यवसायत्वात् ;
तथापि सावयवत्वसाधितेन कार्यत्वेन पृथिव्याः सकर्तुकत्वसाधनमिव स्वनियामकनयतया लध्ब्या विमत्या पक्षतावच्छेदो न विरुद्धः"इति न्यायामृतोक्तदिशोपपत्तेरिति तात्पर्यम् । अत्र प्रामाण्येति विशेषणोक्त्या प्रतिबद्धानुव्यवसाये बाधशङ्का अनुव्यवसाय इत्युक्त्या घटज्ञानमितिशाब्दज्ञाने बाधशङ्का निरस्तेति ध्येयम् । अतीताद्यविषयकप्रत्यक्षत्वादिरूपत्वादनुव्यवसायत्वस्य प्रथमज्ञानगोचरानुव्यावसायोत्र पक्षत्वेन पर्यवसितो ज्ञेयः । उत्तरज्ञानगोचरस्य दृष्टान्तत्वेनोपादानात् । स्वविषयेति साध्यांशः पूर्ववद्व्याख्येयः । प्रामाण्यप्रकारको वेत्यपि ध्येयम् । प्रगुपस्थितेरप्रयाजेकतया निर्विकल्पकभङ्गे व्यक्तत्वात् । निष्कम्पप्रवृत्तिहेत्विति व्यवसायविशेष 1 णेन संशयादिगोचरानुव्यवसायो अनुव्यवसायेत्युक्त्या तादृशज्ञानगौचरशाब्दज्ञाने च न व्यभिचारः । अनुव्यवसायत्वं चातीतानागताविषयकप्रत्यक्षत्वं न तु
तत्प्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया तज्ज्ञानत्वरूपमिति युक्तम् । निष्कम्पेत्यादिविशेषणवैयर्थ्यात् । पूर्वोक्तहेतुसाङ्कर्याच्च । नापि ज्ञानांशे लौकिकप्रत्यक्षत्वम् उत्तर 2 हेतुसाङ्कर्यात् । अत एव सामान्येत्यादिना वक्ष्यमाणज्ञानद्वयेपि न व्यभिचारः तस्यातीतादिविषयकत्वात् अत्र निष्कम्पप्रवृत्तीत्यस्य संवादिप्रवृत्तीत्यर्थः । तेन शुक्तिरूप्यज्ञानगोचरानुव्यवसायो साक्षिरूपे तत्र प्रामाण्यग्रहस्य मानत्वेन तन्निष्ठप्रामाण्याविषयके न व्यभिचारः -- उक्तरूपेति ॥
1.णन्तेन - मु. 2. हेतुपदं नास्ति - मु . अ.
स्वत-अनु ) प्रामाण्यवादः पु - 48.
--------- ---------- ---------
उक्तरूपव्यवसायांशे लौकिकप्रत्यक्षत्वाद्वा, गृहीतप्रामाण्येन ज्ञानेन समानविषयकस्योत्तरस्य ज्ञानान्तरस्यानुव्यवसायवत् ॥
अत्र द्वितीयहेतौ लौकिकपदम् सामान्यप्रत्यासत्त्या 1 दिजन्ये व्यवसायविषयके ज्ञाने व्यभिचारवारणाय । 2 ज्ञानांश इति
विशेषणं तु स्मुत्युपनीते ऽतीत 3 घटज्ञाने तद्विषयकमहं घटज्ञानवाना 4 समिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तत्रव्यभिचारवारणार्थम् । न च तव घटज्ञानमस्तीति शाब्दजन्यं यद्घटज्ञानविषयकं ज्ञानं तदनुव्यवसाये व्यभिचारः शङ्क्यः ।
निष्कम्पप्रवृत्तिहेतुव्यवसायांश इत्यर्थः । लौकिकत्वं चालौकिकप्रत्यासत्यजन्यत्वम् । संशयादिगोचरानुव्यावसाये व्यभिचारनिरासायोक्तरूपव्यवसायांश इत्युक्तिः । गृहीतप्रामाण्येनेति बहुव्रीहिः । 5 घटादिज्ञाने प्रवृत्तिसामर्थ्यादिना प्रामाण्यानुमित्यन्तरं तत्रैवायं घट इत्याद्युक्पन्नसमानाधिकरणज्ञाने प्रामाण्यं तदनुव्यवसायवेद्यमिति
प्राचीनन्यायमते ऽभ्युपगमादिति भावः । उपपादयिष्यते चाग्रे ग्रन्थ एव ।
सामान्यप्रत्यासत्त्यादीति ॥ ज्ञानत्वसामान्येत्यर्थः । आदिपदेन योगजप्रत्यासत्तज्ञानप्रत्यासत्योर्ग्रहः -- ज्ञानांश इति ॥ उक्तरूपव्यवसायांश इत्युक्तैकदैशानुवादः । विशिष्टस्य हेतोर्व्यभिचारमाशङ्क्य 6 विवेकेन समाधिमाह-- नचेत्यादिना ॥
1. त्तिजन्ये - छ. 2.व्यवसायांशे - छ. क. 3. ते- च छ क ग.
4. नि-कुं. 5.यत्र - मु. अ. 6. व्यतिरेकेण - आ.
स्वत-अनु ) प्रामाण्यवादः पु - 49.
--------- ---------- -----------
घटज्ञानांशेघटत्ववति घटत्वप्रकारकत्वरूपस्य तदीयस्य प्रामाण्यस्याग्रहणेन साध्या1 भावेपि लौकिकप्रत्यक्षत्वाभावेन हेत्वभावात् । घटज्ञानविषयकज्ञानांशे तु हेतोः सत्वे ऽपि घटज्ञानत्ववति घटज्ञानत्वप्रकारकत्वरूप्रामाण्य 2 ग्रहणेन साध्यसद्भावात् ॥
न च दृष्टान्तः साध्यविकलः । उत्तरस्य ज्ञानान्तरस्य पूर्वेण प्रामाण्यग्रहणेनाव्यवहितत्वे तस्यैव व्यवहितत्वे तु प्रामाण्यस्मरणस्यैव --
"स्वर्गसाधनं याग इति ज्ञानस्य प्रामाण्ये निश्चिते तत्समानविषयकज्ञानान्तरे अप्रामाण्यशङ्का भवतीति ज्ञानान्तरमगृहीतप्रमाण्यमपि"इत्यादिमणिकृदुक्तेरुत्तरज्ञानानुव्यवसाये प्रामाण्यविषयकत्वं विप्रतिपन्नमिति वदन्तं प्रति साध्यसत्वं दृष्टान्ते व्यनक्ति-- न च दृष्टान्त इत्यादिना ॥ उत्तरस्येति ॥
अनुमित्यादिना गृहिनप्रामाण्यकात् पूर्वज्ञानादुत्तरस्येत्यर्थः -- तस्यावेति ॥ विशेषणज्ञानतयेत्यन्वयः । प्रामाण्यानुमितिरेव प्रामाण्यघटकघटत्वादिविशेषणज्ञानत्वेन प्रामाण्यानुमित्यनन्तरमेव घटघटत्वनिर्विकल्पकं विनैव घटत्वादिविशिष्टव्यवसायोत्पत्तौ तदुत्तरकाले विनश्यत्प्रामाण्यज्ञानसत्वादिति भावः ।
न च वक्ष्यमाणदिशा पूर्वोत्तरज्ञानयोः प्रामाण्यस्यैकत्वेप्युत्तरज्ञानगतत्वेन पूर्वमभानान्न तत्रोपनय इति शङ्क्यम् ।
1. ध्यस्या - छ. 2. स्य - कुं.
स्वत- अनु ) प्रामाण्यवादः पु - 50.
---------- ----------- ---------
विशेषणज्ञानतया त्वदभप्रेताया विशेषणोपस्थितिविशेष्येन्द्रियसन्निकर्षतदसंसर्गा-
ग्रहरूपविशिष्टज्ञानसामग्र्याः सत्वेन ज्ञानान्तारानुव्यवसायस्य प्रामाण्यविशिष्टव्यावसायविषयकत्वात् ॥
ननु तज्ज्ञानविषयकेत्यादिस्वतस्त्वनिरुक्तौ तच्छेब्देन व्यक्तिविशेषो न विवक्ष्यते । किन्तु ग्राह्यप्रामाण्याश्रयीभूतज्ञानमात्रम् ।
यदवच्छेन यत्र यद्ग्रृहीतं तत्र तद्ग्रहत्वस्यैवौपनसामग्रीत्वात् । चन्दनखण्ड इत्यादिप्रत्यक्षे तथा दर्शनात् । तथाच तद्विषयकत्वावच्छेदेन पूर्वज्ञाने प्रामाण्यग्रहात्तद्विषयकत्वेन ज्ञाते द्वितीयज्ञाने तदुपनयो भवत्येवेति भावः -- सन्निकर्षेति ॥
संयुक्तसमवायरूपेत्यर्थः -- तदिति ॥ विशेषणविशेष्ययोः प्रामाण्यतदाश्रयज्ञानयोरसंसर्गेत्यर्थः ।

यत्तु मणावुक्तं"तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्यज्ञानविषयत्वं 1 स्वतस्तवम् । तदन्य 2 ग्राह्यत्वं हि परतस्त्वम् । मनसा चौवं प्रामाण्यग्रहस्य तज्ज्ञानविषयकजन्यज्ञानजन्यत्वान्न परतस्त्वहानि -"रिति तद्धृदि कृत्वा प्रकारान्तरेण साध्यवैकल्यमाशङ्कते -- नन्विति ॥ ग्राह्यप्रामाण्याश्रयज्ञानविषयकज्ञानाजन्यत्वे सति स्वग्राह्यज्ञानुप्रामाण्यविषयकत्त्वं साध्यार्थं मन्वानस्येयं साध्यवैकलयशङ्केति ध्येयम् । तज्ज्ञानविषयकज्ञानसापेक्षत्वोपपादनायाह -- तच्छब्देनेति ॥ मात्रमिति ॥ ग्राह्यप्रामाण्याश्रययत्किञ्चिज्ज्ञानामित्यर्थः । पूर्वज्ञानस्य ग्राह्यप्रामाण्याश्रयत्वलाभाय सापेक्षत्त्वोपपादनाय चाह -- समानेति । प्रामाण्यस्य भिन्नत्वे तज्ज्ञानसापेक्षत्वायोगात् । ततश्च किमित्यत आह -- एवञ्चेति ॥
1. वा - मु. 2. था- मु.
स्वत- अनु ) प्रामाण्यवादः पु - 51.
----------- -------- ---------
समानविशेष्यकत्वे सति समानप्रकारकयोश्च ज्ञानयो र्विशेष्यप्रकारघटितं प्रामाण्यमेक 1 मेव । एवं चोक्तानुव्यवसायस्य ग्राह्यप्रामाण्याश्रय द्वितीयज्ञानविषयकज्ञानानपेक्षत्वेपि प्रथमज्ञानविषयकज्ञानसापेक्षत्वा न्न स्ततस्त्वमिति साध्यवैकल्यमितिचेन्न । व्यवसायप्रामाण्यम 4 नुव्यवसायस्य 3 विषयो न वेति विप्रतिपत्ताव 4 नुव्यवसायविषयत्वमात्रसाधनत् । तस्य च दृष्टान्ते सत्वात् । तज्ज्ञानविषयकेत्यादिनोक्तस्वतस्त्वस्यापि पक्षधर्मताबलात्सिद्धेश्च ॥
तत्पदेनोक्तरूपज्ञानमात्रे ऽभिमते सति प्रामाण्यस्यैकत्त्वे च सतीत्यर्थः -- सापेक्षत्वादिति ॥ प्रामाण्यरूप विशेषणोपनायकत्त्वेनेति भावः-- साध्यवैकल्यमिति ॥ ज्ञानप्रामाण्यं तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति विप्रतिपत्तौ तदृशज्ञानग्राहत्त्वस्यैव स्वतस्त्ववादिना साध्यत्वात् । तस्य च द्वितीयज्ञानप्रामाण्ये ऽभावेन तदनुव्यवसाये तज्ज्ञानविषयकज्ञानाजन्यत्त्वे सति स्वग्राह्यज्ञानप्रामाण्यविषयकत्वरूपसाध्यस्याभावादिति भावः । परोक्तस्वतस्त्वेपि न दोष इत्याह -- तज्ज्ञानेति ॥ दृष्टान्ते साध्यानुगमार्थं 5 स्वग्राह्यज्ञानप्रामाण्यविषयक इत्येव साध्यकरणेपि त्त्वदभिमतविशिष्टसाध्यसिद्धिः हेतोः पक्षधर्मतो स्यादेव । निष्कम्पप्रवृत्तिहेतुव्यवसायविषयकानुव्यावसायत्वादिरूपहेतुना प्रथमज्ञानगोचरानुव्यवसायरूपपक्षनिष्ठेन --
1. प्रकार- क. 2. प्य - क. 3. यवि - छ - क. 4.प्य - क 5.स्वपदं न -आ.
स्वत - अनु) प्रामाण्यवादः पु - 52.
---------- ----------- ------------
यद्वा अनुमित्यनुव्यावसायो दृष्टान्तः । न च नवीनन्यायमते तत्रापि स्वतः प्रामाण्याभावात्साध्यवैकल्यम् । तथात्वे तत्प्रामाण्ये कदाचित्संशयविपर्ययव्यतिरेकप्रमान्यतरापातात् ॥
- प्रामाण्यविषयकत्वं सिद्ध्यत् 1 अनुव्यवसायस्य तज्ज्ञानविषयकज्ञानानपेक्षत्त्वादुक्तरुपमेव सिद्ध्यतीति भावः ॥
अनुमित्यादिप्रामाण्यं स्वत इति प्राचीनमतानुरोधेनाह-- यद्वेति ॥ एतेन भिन्नभिन्नदृष्टान्यकथनेन मन्मते सर्वत्र स्वतस्त्वमिव त्वन्मते न सर्वत्र प्रामाण्यस्य परतस्त्वम् । क्वचित्स्वतस्त्वस्या 2 भ्युपगमात् । तथाच किमर्धजरतीयेन सर्वत्रापि स्वतस्त्वमेवोपेयमिति सूचितम् ॥
ननु मणौ"यत्त्वनुमानस्य निरस्तसमस्त 3 भ्रमाशङ्कस्य स्वत एव प्रामाण्यग्रह इत्युक्तमाचार्यैः तद्धूमति वह्निज्ञानत्वमनुमितेः प्रामाण्यनियतमनुव्यवसायेचो 4 पनीतम् ततो विशेषदर्शनान्न तत्राप्रामाण्यशङ्केति । प्रामाण्यनिश्चचयादिवाप्रामाण्यशङ्काविरहादर्थं निश्चित्य निष्कम्पव्यवहार इत्यभिप्रायम् 5"इति
प्राचीनमतस्यान्यथातात्पर्यस्योक्तत्वात्कथं तन्मते ऽयन्दृष्टान्त इति भावेनाशङ्क्य तेनाप्यङ्गीकरयति -- यचेत्यादिना ॥
संशयेति ॥ अनुमितिः प्रमा न वेति संशयः अप्रमैवेति विपर्ययः प्रमा न भवतीति प्रामाण्यव्यतिरेकविषयप्रमा ना स्यात् । तद्विरोधिनः प्रामाण्यनिश्चयस्यानुदयादित्यर्थः । न चेष्टापत्तिः । निरस्तसमस्तविभ्रमेत्युक्तिविरोधात् ।
1. ति। प्रचीनमतस्यान्यथातात्पर्यस्यासिद्धत्वात् - अ. 2. प्य - आ मु.
3. वि - अ. 4. नो - कुं. 5. य"इत्युक्तत्वा - अ.
स्वत - अनु ) प्रामाण्यवादः पु - 53.
---------- -------- -------
ननु वह्निज्ञानप्रमाण्यनियतस्य धूमवद्विशेष्यकत्वे सति वह्निप्रकारकत्वस्यानुमित्यनुव्यावसायेन ग्रहणा 1 त्तत्रासंशय इति चेन्न । अनुमतेर्वह्निमत्वमात्रविषयकत्वेन बहिरर्थस्य धूमत्वस्योपनायकाभावेनानुव्यवसायाविषयत्वात् ॥
2 व्यतिरेकप्रमापत्तेरनिष्चत्वाच्चेति भावः । अत एव न धर्म्यज्ञानादिनोपपत्तिः । कदापि विभ्रमाभावोपगमात् । अत्र संशयविपर्यययोरेकराशीकरणादन्यतरेति साधु ।
मण्युक्तमेव संशयादिनिवृत्युपायमाश्कते -- नन्विति ॥ नियतस्येति ॥ यत्र धूमवद्विशेष्यकत्वे सति वह्निप्रकारकत्वं तत्र वह्निमद्विशेष्यकत्वे सति वह्निप्रकारकत्वमिति व्याप्तेरिति भावः । किं धूमवद्विशेष्यकत्वमनुमित्युपनीतमेव तदनुव्यवसायेन गृह्यत इत्युच्यते अथ परामर्शोपनीतमिति हृदि विकल्प्याद्यं निराह -- अनुमितेरिति ॥ उपनायकेति ॥ अनुव्यवसाये भावकाभावेनेत्यर्थः । उपलक्षणं चैतत् । प्रामाण्यनयतस्यापि तत्वेनाभाने संशया 3 निरासात् । धूमवद्विशेष्यकत्वादे र्वह्निमद्विशेष्यकत्वव्याप्यत्वस्य बहिरर्थस्यानुमितौ सर्वथाभानाभावेन तदनुव्यवसाये तस्योपनायकाभावेनानुव्यवसायाविषयकत्वादित्यापि ध्येयम् । यत्तु प्रामाण्यव्याप्यस्य स्वरूपेणैव ज्ञानं संशयादिविरोधीत्येतदिहैवानन्यगत्या कल्प्यत इति तन्न । स्वतस्त्वेनाप्युपपत्यानन्यगतेरभावात् ।
1. न्न तत्र संशय - छ. 2. व्यभिचार - आ. 3. देर - मु - अ- आ.
स्वत-अनु) प्रामाण्यवादः पु - 54.
-------- ---------- ---------
न च लिङ्गपरामर्शस्तदुपनायकः । यत्रानुमितिद्वयेच्छा तत्र परामर्शानन्तरं प्रथमानुमितिरूपसाध्यसिद्धेः सत्वेप्यनुमितित्साधीनपक्षतायाः सत्वेनानुमतित्यनन्ततरं तदनुव्यवसायकाले उपनायकपरामर्शनाशात् । ज्ञानान्तरोपनीतस्य ज्ञानान्तरानुव्यवसायेन ग्रहणे ऽपिप्रसङ्गाच्च । वह्नमनुमिनोमीत्यनुव्यवसायेन धूमत्वस्यानुल्लेखनात् 1।
द्वितीयं निराह -- न चेति ॥ अनुमितिद्वयेच्छेति ॥ ननु पूर्वं ममानुमितिद्वयं स्यादितीच्छा पश्चाल्लिङ्गपरामर्शः पश्चादनुमितिः । अनन्तरं द्वितीयानुमित्युत्पत्तिवेलायां धूमवत्त्वोपनायकस्य परामर्शस्यानाशेपि द्वितीयोत्पत्तिसमये पूर्वोत्पन्नेच्छाया अभावादनुमित्साया अभावेन द्वितीयानुमित्युत्पाद एवायुक्त इति चन्न । अनुमित्सापदेनानुमित्साविषयसिध्यननुगुणानन्तरितत्वस्य विवक्षितत्त्वात् । तथैव पक्षतालक्षणे ऽभिधावादिति भावः । पक्षताया इत्युपलक्षणम् । विनश्यदवस्थपरामर्शभावादित्यपि ध्ययम् ।

अनुमित्यनन्तरमिति ॥ द्वितीयानुमि 2 त्युत्पत्यनन्तरमित्यर्थः । अनुमित्यन्तरमिति पाठे जायत इति शेषः । ननु तदापरामर्शनाशेपि तज्जन्यसंस्कारसहितानुव्यवसायस्यास्तु तद्ग्रहणमित्यत आह -- ज्ञानान्तरेति ॥
घटज्ञानानुव्यवासाये पटज्ञानोपनीतस्य भानापत्तेरित्यर्थः । ननु तदुपनीतस्य तज्जन्यज्ञानान्तरूनुव्यवसायेन ग्रहणमित्युक्तौ न दोषैत्यत आह -- वह्निमिति ॥ एतेन परामर्शनिष्ठप्रामाण्यानुमित्युपनीतं धूमवद्विशेष्यकत्वमिति प्रत्त्यक्तम् ।
1. लेखात् - च, लेखाच्च - कुं. 2. उत्पत्तिपदं न - मु.
स्वत-अनु ) प्रामाण्यवादः पु - 55.
---------- ---------- --------
एतेनैव धूमवत्वे परामर्शोपनीते ऽनन्तरं वह्निमत्वविषयत्वेन जायमानानुमितिः सुरभिचन्दनमिति ज्ञानवद्विशिष्टवैशिष्ट्य 1 ज्ञानसामग्रीमहिम्ना लिङ्गोपहितलैङ्गिकविषयेति सैवोपनायकेति निरस्तम् । अनुमितेर्वह्निमत्वमात्रविषयत्वानुभवबलेन प्रत्यक्षज्ञान एव सामग्रीमहिम्नः संकेचात् । असंकोचे वा धूमवति धूमप्रकारकत्वरूपस्य 2 प्रामाण्यस्यानुमित्यनुव्यावसायेन ग्रहणे 3 धूमवत्त्वांशे 4 ऽनुमितिः स्वतः प्रामाण्यादृष्टान्तसिद्धिः । किञ्चैवं वह्निमत्वांशस्य
साक्षादनुमित्युपनीतत्वाद्वह्निमद्नशेष्यकत्वे सति वह्निप्रकारकत्वरूपं प्रामाण्यमेवानुमित्यनुव्यवसायस्य 5 विषयोस्त्विति न साध्यवैकल्यम् ।
सैवेति ॥ अनुमितिरेवेत्यर्थः । एतेनैवेत्युक्तं व्यानक्ति-- अनुमितेरित्यादिना ॥ स्वत इति ॥ ज्ञानानुव्यवसायवेद्यप्रामाण्यकत्वरूपस्वतःप्रामाण्यादित्यर्थः--दृष्टान्तेति ॥ धूमत्वांशे अनुमित्यनुव्यवासायवदिति दृष्टान्तेत्यर्थः । नन्वेवं तत्रेव क्वापि विप्रतिपन्नप्रामाण्यमनुव्यवसायवेद्यं न स्यात् । संशयाद्यभावस्य ज्ञानानुव्यवसाये प्रामाणय्यव्याप्यविषयकत्वादेवोपपत्तेः । तत एव निष्कम्पप्रवृत्त्युपपत्तेश्चेत्यत आह -- किञ्चैवमिति । धूमवत्वांशे स्वतः प्रामण्ये सतीत्यर्थः-- साक्षादिति। धूमवत्वांश इव ज्ञानान्तरनैरपेक्ष्येणेत्यर्थः ।
1. बोध- छ. 2.ऽस्यऽ इति न च.छ.क.मु. 3. णात् - छ. कुं.
4. एव -कुं. 5. ऽस्य ऽ इति न -मु,
स्वत-अनु) प्रामाण्यवादः पु - 56.
-------- --------------- -------------
यद्वा अहं सुखीति ज्ञानप्रामाण्यं तदनुव्यवसायविषयः तस्मिन्सत्यप्रकाशमानत्वरहितत्वात् व्यवसायवत् । न चासिद्धिः । तथात्वे 1 तत्प्रामाण्ये कदाचित्संशयाद्यापातात् ।
प्रामाण्यमेवेत्येवकारेण प्रामाण्यांश एव संशयाद्यभावस्योपगमेन तत्रैव तन्निश्चयस्वीकारो युक्तो न तु व्याप्यांशे तन्निश्चयस्वीकारः प्रामाण्यव्याप्यत्वेनापि तन्निश्चयावश्यंभा 2 वश्चेत्याचष्टे ।
एवं प्राचीनमते ऽविप्रतिपन्नं नवीनमते प्रसाध्याङ्गकं दृष्टान्तमुक्त्वा प्रयोग उक्तः । अधुना नवीनमतेप्यविप्रतिपन्नदृष्टान्तकं प्रयोगमाह-- यद्वेति ॥ यद्वा पूर्वमनुव्यवसायपक्षकान्प्रयोगानुक्त्वेदानीं तद्विषयपक्षकप्रयोगावाह -- यद्वेति ॥ वस्तुतस्त्विति च ॥
यद्वा तद्वत्त्वादेर्बाह्यार्थास्य नानुव्यवसायविषयतेत्यतस्तर्हि सुखत्ववत्त्वादेरबाह्यत्वात्तत्रास्तु स्वतो वेद्यतेति भावेनाह -- यद्वेति ॥ विषय इति ॥ सत्तयेत्यपि ध्येयम् । तस्मिन्नित्यनेन तदनुव्यवसायपरामर्शः । साध्याविशेषनिरासाय नञ्द्वयम् -- तथात्व इति ॥ ज्ञानानुव्यवासे सति तत्प्रामाण्याप्रकाश इत्यर्थः । 3 धर्म्यज्ञानाभावात्कोटिस्मृतेरपि कदाचित्संभवादिति भावः । ननु"आन्तरप्रामाण्यमपि न स्वतः । तस्य स्वतस्त्वे वा न सर्वस्य तथात्वम् । विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नत्वादिकं प्रामाण्यम् स्वतो गृहीतुमशक्यमिति परत एव गृह्यत"इति मणिकृदुक्तेः कथमनुव्यवसायवेद्यतासाधनमित्यत स्तत्स्वरूपं निर्धारयन्नेन विशिष्याप्याह -- वस्तुतस्त्विति ॥
1. कदाचित्प्रामाण्ये सं - च- छ. 2.वाच्चे -मु. 3. धर्मिज्ञानभावात् - मु.
धर्मिज्ञानस्य भावात् - अ.
स्वत- अनु ) प्रामाण्यवादः पु - 57.
---------- ------------ ---------
वस्तुतस्तु तद्वति तत्प्रकारकत्व 1 रूपं याथार्थमेव प्रामाण्यम् तज्ज्ञानस्यैव प्रवर्तकत्वात् । तत्रानुव्यवसायस्य व्यवसायगतं यत्किञ्चिद्विशेषयकत्वं रजतत्वप्रकारकत्वं 2 ज्ञानत्वं च विषय इत्यत्र न विवादः । किन्तु विशेष्यस्य यद्रजतत्ववैशिष्ट्यं तद्विषयकत्व एवेति तदेव साध्यते ।
निष्कम्पप्रवृत्तिहेतुव्यवसायविषयभूतं धर्मिधर्मिवैशिष्ट्यं सत्तयानुव्यवासय 3 विषयः निष्कम्पप्रवृत्तिहुतुव्यवसायविषयत्वात् विशेष्यवत् । नचाप्रयोजकता । वैशिष्ट्यप्रतीतिसामग्र्या वक्ष्यमाणत्वात् ;
तद्वतीति ॥ विशेष्यत्वं सप्तम्यर्थः । तद्वद्विशेष्यकत्वे सति तत्प्रकारकज्ञानत्वरूपेत्यर्थः । तद्वद्विशेष्यकत्वमात्रस्य भ्रमे ऽपि सत्वात् ।
निष्कम्पेति । सशङ्कप्रवृत्तिहेतुव्यवसायविषये बाधनिरासाय हेत्वन्तं व्यावसायविशेषणम् । हेतौ च व्यभिचारनिरासाय । वैशिष्ट्यं च परमते समवायादिभिः सिद्धान्ते स्वरूपसम्बन्धादिभिः । यन्मते वैशिष्ट्यमनुव्यवसायविषयोपि न स्वातन्त्र्येण तद्विषय इत्यभ्युपगमस्तन्मते सिद्धसाधनिरासाय सत्तयेति विशेषम् । वादिनं प्रति तत्सार्थक्यमाद्यसाध्य विवृतावस्माभिरुक्तं ध्येयम् -- वैशिष्ट्येति ॥ सत्तयेत्यपि योज्यम् -- वक्ष्यमाणत्वादिति ॥ उत्तर 4 भङ्गबाधोद्धारे नन्वेव मित्यादिग्रन्थेनेत्यर्थः । तथाच तादृशव्यवसायविषयत्वस्यैवोक्तसाध्ये सामग्रीत्वेन सामग्रीमुपेत्य कार्यानभ्युपगमे व्याघाताप्रसङ्गान्नाप्रयोजकत्वमि 5 त्यर्थः ।
1. ज्ञानत्व - छ. क. 2. ज्ञानत्वं, इतिनास्ति - कुं. 3. स्य -मु. 4.
4. रत्रबाधो - मु - अ - आ. 5. ति भावः - आ.
स्वत- अनु ) प्रामाण्यवादः पु - 58.
-------- ---------- ---------
यद्वा विमतो ऽनुव्यवसायः स्वग्राह्यज्ञानप्रामाण्यविषयीकरणयोग्यः । अनुव्यवसायत्वात् । गृहीतप्रामाण्यज्ञानविषयकज्ञानान्तरानुव्यवसायव्वसायवत् ।
अनुमित्यनुव्यवसायवद्वा । व्यवसायविषयभूतं धर्मधर्मिवैशिष्ट्यं वा स्वविषयव्यवसायविषयकानुव्यवसायं प्रति सत्तया विषयत्वयोग्यं --

द्वितीयनिरुक्त्यनुरोधेन प्रयोगत्रयमाह -- यद्वेति ॥ इति सामान्यतः स्वतस्त्वं साध्यमित्यन्वयः । तत्राद्यमनुव्यवसायपक्षकम् । उत्तरं तु द्वयं तद्विषयपक्षकम् । तत्राप्याद्यं व्यवसायविषयपक्षकम् । अन्त्यं 1 तन्निष्ठप्रामाण्यपक्षकमिति व्यक्तम् । विमत इति ॥ प्रामाण्यविषयीकरणयोग्यत्वतदयोग्यत्वाभ्यां विमतिविषयः । विमतेरपि नियतविषयत्वायावच्छेगकस्यापेक्षितत्वात्तदाह -- अनुव्यवसाय इति ॥ वक्ष्यमाणदिशा तत्प्रकारप्रकारकत्वादिरूपानुव्यवसायत्वेन नियता लध्वी विमतिरेव पक्षतावच्छेदकेत्यर्थः । अत एव प्रमानुव्यवसाये न बाधादिः । वक्ष्यमाणरूपानुव्यवसायत्वस्य तत्राभावात् । बाधनिरासाय स्वग्राह्यज्ञानेति साध्यविशेषणम् । योग्यत्वं च स्वविषयज्ञानद्वारा प्रामाण्यावच्छिन्नसहजशक्तिकत्वं ध्येयम् । वक्ष्यमाणरूपानुव्यवसायत्वादिति हेत्वर्थो ध्येयः । तेनाप्रमागोचरानुव्यवसाये न व्यभिचारः । गृहीतेति ॥ अयं
च दृष्टान्तो"न च दृष्टान्तः साध्यविकलः"
इत्यादिना प्रागेव साधित इति भावः । प्राचीनमतरीत्याह -- अनुमितीति ॥ अयमपि दृष्टान्तो नवीनमतेपि प्राक्साधितः -- व्यवसायेति ॥ प्रमारूपो व्यवसायो ऽत्राभामतः -- विशेष्यवदिति ॥
1. तु - मु. अ. आ.
स्वत-अनु ) प्रामाण्यवादः पु - 59.
-------- ---------- ----------
व्यवसायविषत्वात् विशेष्यवत् ; तत्तज्ज्ञानप्रामाण्यं वा स्वाश्रयज्ञानविषयकानुव्यवसायविषयत्वयोग्यं तद्विषयत्वयोग्योपाध्यघचितज्ञानधर्मत्वात् तत्तज्ज्ञानत्ववदिति सामान्यतः स्वतस्त्तवं साध्यम् ।
न चान्त्यहेतोरसिद्धिः । प्रामाण्योपाधोर्विषयसत्वस्य व्यवसायवियत्वेनानुव्यवसायविषयत्वयोग्यत्वात् । योग्यायोग्योपाधिघटिते प्रमाप्रमान्यतरत्वदौ व्यभिचारनिरासाय नञ्द्वयम् ।
तद्विशेष्यवदित्यर्थः ।"प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यं अप्रामाण्येतरज्ञानवृत्तिधर्मत्वात् ज्ञानत्ववत्"इति -
"प्रत्यक्षवच्च प्रामाण्यं स्वत एव"
इत्येतद्व्याख्यानसुधायामुक्तमनुमानं परिष्कृत्याह -- तत्तज्ज्ञानेति । योग्यमिति ॥ ऽयोग्यत्वं च साक्षिनिष्टां सहजां ग्रहणशक्तिं प्रति स्वविषयज्ञानद्वारावच्छेदकत्व"मिति पूर्वोक्तं ध्येयम् । तद्विषयत्वायोग्योपाध्यघटितेत्युक्त्या सुधास्थाप्रामाण्येतरपदार्थो विवृतः । तेन विशेष्यावृत्यप्रकारक 1 त्वरूपप्रामाण्ये व्यभिचारो निरस्तः । सामान्यतः ॥ प्रतिबद्धाप्रतिबद्धसाधारण्येनेति वा प्रामाण्यमात्रसाधारण्येनेति वा नत्वहं सुखीति ज्ञानप्रामाण्यमितिवद्विशिष्येत्यर्थः । वैशिष्ट्यसत्वाविषयकत्व एव विवादादाह -- विषयसत्वस्येति ॥ अन्यतरत्वादाविति ॥ तद्विषयत्वयोग्योपाधिघटित ज्ञानधर्मत्वादित्युक्तावुक्तस्थले हुतुसत्वेपि साध्याभावाद्व्यभिचारः प्रप्नोतीति तन्निरासाय तद्विषयत्वयोग्योपाध्यघटितेत्युक्तरित्यर्थः ।
1. त्वादि - मु - अ.
स्वत- अनु ) प्रामाण्यवादः पु - 60.
---------- ---------- ----------
अनुव्यवसायत्वं च व्यवसायप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया च तद्विषयप्रत्यक्षत्वं वा ज्ञानांशे लौकिकप्रत्यक्षत्वं वेति न कश्चिद्दोषः ।
विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नत्वतद्वतितत्प्रकारकत्वा 2 दिरादिपदार्थः । ज्ञानधर्मत्वादित्येवोक्तावप्रमात्वादौ व्यभिचार इति भावः ।
नन्वत्र सर्वानुमानेष्वभिमतमनुव्यवसायत्वं यदिज्ञानगौचरज्ञानत्वं तदा ज्ञानमिति शब्दजज्ञाने बाधादिर्देषः । सविषयकज्ञानगोचरज्ञानत्वे तु घटज्ञानमिति शाब्दज्ञाने दोषः । ज्ञानगौचरप्रत्यक्षत्वेत्वप्रमागोचरानुव्यवसाये सामान्यप्रत्यासत्तिजन्यज्ञानगोचरप्रत्यक्षे च बाधादिरेव । ज्ञानदौचरनित्यज्ञानत्वे 3 ईश्वरज्ञानमादाय सिद्धसाधनतेत्यत आह -- अनुव्यवसायत्वं चेति ॥ एतेन"तार्किकाभिमतानुव्यवसाय एवास्माकं साक्षीति"प्रगुक्तं विवृतं ध्येयम् । अत्र दलकृत्यं प्रगेव व्यक्तम् ।
ननु यदि व्यवसायप्रकारप्रकारकतयेत्यादिरूपमनुव्यवसायत्वं तर्हीदमेव प्रामाण्यविषयकत्वमिति सिद्धसाधनता 4 दोष इति चेन्न । सत्तया प्रमाण्योल्लेखस्यास्मिन्पक्षे साध्यस्याभिमतत्वात् । यदा तु प्रामाण्यविषयकत्वमात्रमेव साध्य 5 मिति मतं तत्पक्षे प्रकारान्तरेणाह -- ज्ञानांश इति ॥
1. इयं पङ्तिः छ- पुस्तके नास्ति. 2. न्यतरत्वा-मु. 3. त्वी-मु. 4. दिर्दे- मु -अ. 5.मभि-मु-अ.
स्वत-अनु) प्रामाण्यवादः पु - 61.
-------- ------------- ----------
अप्रामाण्यं तु विसंवादाद्यनुसंधाने सत्येव गृह्यत इति न स्वतस्त्वद्ग्रहः । प्रामाण्यधीस्तु संवादाद्यनुसंधानं विनापि दृष्टेति विशेषः ।
ननु गृहीताप्रामाण्यज्ञानसमानविषयकज्ञानान्तराप्रामाण्ये संशयादर्शनेन तत्रानुव्यवसायवेद्यत्वे सिद्धे ऽन्यत्रापि
तथेत्यप्रामाण्यधीरपि स्वतः स्यादिति चेन्न ॥ अप्रामाण्योपाधेर्व्यवसायविषयाभावस्य तदनुपनीतत्वेनानुव्यवसायायौग्यत्वात् ।
लौकिकत्वं तु सामान्यप्रत्यासत्याद्यजन्यत्वम् । ज्ञानांशे इति विशेषणं तु स्मृत्युपनीत अतीत 2 घटज्ञाने तद्विषयकमहं घटज्ञानवानिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तत्र बाधादिनिरासायेति भावः । नन्वेवं ज्ञानधर्मत्वबाह्यार्यत्वयोरविशेषाद्विसंवादापेक्षत्वस्योभयत्र साम्यादप्यप्रामाण्यमपि स्वतो गृह्यतेति ततः कः प्रामाण्यस्य विशेष इत्यत आह -- अप्रामाण्यं त्विति ॥
विवरिष्यते चैतत्प्रामाण्यानुमित्यसंभववादे -- दृष्टेति ॥ अभ्यासदशापन्नस्थल इति भावः ।
ननु अनुव्यवसायः स्वग्राह्यज्ञानाप्रामाण्यविषयीकरणायोग्यः । अनुव्यवसायत्वात्
गृहीताप्रामाण्यकज्ञानसमानवियकज्ञानान्तकरानुव्यवसायवदित्याभाससाम्यमाङ्क्य निराह--नन्वित्यादिना ॥ व्यवसायेति ॥ व्यवसाये इदं रूप्यमित्यादिभ्रमे अविषयो यो ऽभावो रजतत्वाभावस्तस्येत्यर्थः । तदभाववति तत्प्रकारकत्वपरूपत्वादप्रामाण्यस्य तद्घटकेपाधिरूपस्याभावस्येदं रूप्यमिति ज्ञाने ऽनुल्लेखेन नेदं रूप्यमिति ज्ञान एवोल्लेखेन कथं तस्यानुव्यवसाययोग्यत्वम् ।-------------------------------------------------------------------------
1.यसत्त्वाभा - छ. 2. ते - मु. आ. -आ .
स्वत-अनु) प्रामाण्यवादः पु - 62.
-------- ----------- ----------
तदुक्तं भगवत्पादैः"प्रामाण्यं च स्वत एव अन्यथानवस्थानात्"इति । ज्ञायत इति शेषः । उक्तानुमानसाध्यान विनोक्तहेतूनां पक्षे ऽवस्थित्ययोगादित्यर्थः ।
स्वतस्त्वे ऽनुमानानि

11.3

ननूक्तरूपं याथार्थ्यं न साक्षिणो -
तथा च तत्र बाध एव दोष इति भावः-- तदुक्तमिति ॥ स्वतस्त्वे एतान्यनुमानान्यनवद्यानीत्येतद्विष्णुतत्वनिर्णय उक्तमित्यर्थः । तत्पठित्वा प्रकृतानुगुणमर्थमाह -- प्रामाण्यं चेति ॥
स्वतस्त्वे ऽनुमानानि

11.4

ननु अप्रामाण्यघटकोपाधेरभावस्य व्यवसायाविषयतया तदनुव्यवसायवेद्यत्वमप्रामाण्यस्य बाधितमिति यथोच्यते तथैव प्रामाण्यघटकोपाधेर्धर्मिवैशिष्ट्यस्य व्यवसायविषयत्वेपि न तदनुव्यवसायविषयता । तस्य बहिर्थात्वात् अन्यथा धर्मधर्म्यंश इव वैशिष्ट्ये अस्ति न वेति कदापि संदेहो न स्यादीति भावेन"अस्तु तावदिदं प्रामाण्यं तथाप्यनुव्यवसायायानन्तरं व्यवसायस्य प्रामाण्ये अर्थस्य तद्वत्वे च संशयस्यानुभवसिद्धत्वान्नार्थतद्वत्त्वं तस्य विषयः"इति मणिकृदुक्तं हृदि कृत्वा शङ्कते -- नन्विति ॥ तद्वति तत्प्रकारकज्ञानत्वरूपमित्यर्थः ।
वक्ष्यमाणोपादानसौकर्यायैतदुक्तिः । स्वरूपज्ञानं साक्षीति सिद्धान्ता 2 वष्ठम्भेनाह-- साक्षिण इति ॥ मानसज्ञानानुभवो अनुव्यवसाय इति मतावष्टम्भेनाह--अनुव्यवसायस्य वेति ॥
स्वतस्वानुमानेषु बोधोद्धारः प्रामाण्यवादः पु - 63.
--------------------- ------------- -----------
अनुव्यवसायस्य 1 वा विषयः । रजतत्वप्रकारकत्वे सन्देहादर्शनेन तस्य तद्विषयकत्वेपि रजतत्ववद्विशेष्यकत्वे संदेहदर्शनेन रजतत्ववत्वरूपेबहिरर्थे तस्यासामर्थ्यात् । तथाच स्वतस्त्वानुमानानि बाधितविषयाणीति चेन्न । सुखत्ववत्वादेर्बहिरर्थत्वाभावेन साक्षिवेद्यसुखवेद्यसुखादिज्ञाने स्वतः प्रामाण्याप्रतिहतेः ।
किञ्च किं रजतत्वादिवैशिष्ट्यमनुव्यावसायाविषय एव किं वा व्यवासायविषयतया तद्विषयोपि स्वातन्त्र्येण तदविषयः । नाद्यः । अनुव्यवसायस्य ससंबन्धितावच्छेदकरजतत्वादिवैशिष्ट्यविशयकत्वनियमात् ।
तद्वद्दिशेष्यकत्वसन्देहस्य तद्वत्वसन्देहपर्यवसानाद्रजतत्ववत्वरूपेत्युक्तम्-- तस्येति ॥ अनुव्यवसायस्येत्यर्थः ।
सर्वप्रामाण्यस्य स्वतस्त्वानापत्तेराह--किञ्चेति ॥"नार्थतद्वत्वं तस्य विषयः"इति मण्युक्तेरुभयथा संभवात् स्वातन्त्र्येणेति कैश्चिद्व्याख्यानाच्च द्वेधा विकल्पः --संबन्धितेति ॥ व्यवसायसंबन्धिनि रजते या संबन्धिता तदवच्छेदकेत्यर्थः --नियमादिति ॥ संयोगप्रत्यक्षादौ तथा दर्शनादिति भावः । न च संयोगनिर्विकल्पे व्यभिचारः । तदभावस्य वक्ष्यमाणत्वात् । तस्यापि संयोग्यंशे सविकल्पकत्वाच्च ।
1. ससबन्धिकव्यवसायस्य - ग. 2. मता - अ.मु.
स्व-अ-वा-द्वारः) प्रामाण्यवादः पु - 64.
--------------- ---------- --------
धर्मधर्म्यंशयोरिव तद्वैशिष्ट्यांशेपि व्यवसायप्रत्यासत्तेः सत्वेन तदप्रतीतौ हेत्वभावाच्च । सजतं जानामीत्यनुव्यवसायेपि रजतरजतत्वयोः --
साक्षात्कारपदेनासाधारणधर्मप्रकारेण ससंबन्धिकसाक्षात्कारस्याभिप्रेतत्वाच्च । अत एव गुणत्वप्रमेयत्वादिसामान्यप्रत्यासत्तिजन्ये ससंबन्धीकसंयोगादिसाक्षात्कारे
न व्यभिचारः । न चैवमपि संयोगत्वसामान्यप्रत्यसत्तिजन्ये संयोगसाक्षात्कारे व्यभिचारः । एवं हि लौकिकेत्यपि साक्षात्कारो विशेषणीयः --धर्मेति । बाह्यार्थत्वेपि रजतस्थं रजतत्वं तदाधारभूतं विशेष्यं च यथानुव्यवसायस्य विषयः तथा रजते रजतत्ववैशिष्ट्यमपि विषयोस्तु, न हि व्यवसायः स्वविषयमध्ये धर्मधर्मिणोरेवोपनायको न वैशिष्ट्यस्येत्यत्र नियमकस्य सत्वेनेति वार्थः ।
ननु धर्मधर्म्यंशयोः संशयो न कदाचित् तद्वत्वांशे तु सोस्तीति संशय एव तदपातीतौ हेतु 1 कल्पक इति चेन्न । तस्यान्यथोपपत्तेर्वक्ष्यमाणत्वादिति भावः।
ननु वैशिष्ट्यस्यापि भाने भासमानवैशिष्ट्यप्रतियोगि 2 त्वरूपस्य रजतत्वादिगतस्य प्रकारत्वस्यापि भानप्रसङ्गेनेदं 3 रजतत्वेन जानामीत्येवानुव्यवायो भवेन्नत्विदं रजतं जानामीत्यत आह -- रजतमिति ॥
अपीत्यु 4 पगमवादः । रजतत्वेवेत्येवाकारो नत्वेवं तथापत्यिर्थः । यद्वा वैशिष्ट्यस्यानुव्यवसायाविषयत्वे दोषान्तरमाह--रजतमिति ॥ न कोवलं समूहालम्बन इत्यपेरर्थः ।
1. तुः - मु. 2. त्वादि - मु. 3. च -मु. 4. त्यभ्यु - अ. आ, मु.
स्व-अ-बा-द्धारः ) प्रामाण्यवादः पु - 65.
------------------ ------------- ----------
स्वरूपेणैव भाने तस्य पुरोवर्ति 1 रजतत्वे जानामीति समूहालम्बनरूपानुव्यवसायाद्विषयभेदाभावापाताच्च । व्यवसायगतस्य रजतत्ववैशिष्ट्यविषयकत्वस्यासिद्ध्यापाताच्च । नह्यनुव्यवसायादन्येन तत्सिद्धिः। न च वैशिष्ट्यमगृह्णन्नननुव्यवसायस्तद्विषयकत्वग्र 2 हणे शक्तः ।
ननु वैशिष्ट्यविषयकव्यवहारादिलिङ्गकानुमित्या व्यवसायप्रामाण्यानुमित्या वा तत्सिद्धिः । न त्वनुव्यवसायेन । इदं रजत्वेन जानामीतिहि तदाकारो नत्विदं रजतमिति । तृतीयार्थश्च न वैशिष्ट्यम् । व्यवसायेपि तदर्थोल्लेखापत्तेः । किं तु व्यवसायगतं रजतत्वप्रकारकत्वम् । तस्माद्वैशिष्ट्यं नानुव्यवसायविषय इति चेन्मैवं । वैशिष्ट्यविषयकत्वस्यानुमेयत्वे ऽनुमि 3 तितः प्राक्तत्र कदाचित्संशयाद्यापातात् ।
4 इदं रजतमिति व्यावसायमानाक्रारतयोत्पाद्यनेपीति वार्थः--स्वरूपेणैव ॥ असंबद्धवेत्यर्थः। असिद्धीति--रजतरजतत्वयोः स्वरूपेणैव भान इत्यनुकर्षः । तद्विषयकत्वेति ॥ वैशिष्ट्यविषयकत्वेत्यर्थः ।
व्यवहारादीति ॥ प्रवृत्तिरादिपदार्थः । व्यवसायो वैशिष्ट्यविषयकः तद्विषयव्यवहारप्रवृत्तिहेतुत्वात् संमतवदित्यनुमित्या इदं ज्ञानं प्रमाणं समर्थप्रवृत्तिहेतुत्वादित्यादिप्रामाण्यानुमित्या वेत्यर्थः ।
1. रजतत्वे -च. मु. 2. हे- च. छ. क.ग.मु. 3.तेः - च.
4. इयं पङ्क्तिः - अ. पुस्तके नास्ति.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 66.
---------------- -------------- --------
भासमानवैशिष्ट्यप्रतियोगित्वादन्यस्य प्रकारत्वस्याभावेनेदं रजतत्वेन जानामीत्याकारेणैवानुव्यवसाये 1 धर्मधर्म्यंशविषयकत्वस्येव वैशिष्ट्यविषयकत्वस्यापि भाने ऽनुभवसिद्धे तत्यागनान्यतस्तत्सिद्धिकल्पने धर्मधर्म्यंशविषयकत्वस्याप्यन्यतः सिद्धिकल्पनापाताच्च । न च व्यवसायस्य वैशिष्ट्यविषयकत्वमगृह्णन् धर्म्यंशादिविषयकत्वमात्रं गृह्णन्नन्यो ऽनुव्यवसायो ऽनुभूयते ।
न च व्यावर्तकत्वं वा तज्ज्ञानजनकज्ञानविषयत्वं वा --
तद्वद्विशेष्यकत्वस्य प्रामाण्यरूपत्वादिति भावः -- तत्सिद्धिः ॥ व्यवसायवैशिष्ट्यविषयकत्वसिद्धिरित्यर्थः ।"इदं रजतं जानामीति नानुव्यवसायाकारः । बहिर्विशेष्यके मनसो ऽसामर्थ्यात् । किं त्विदं रजतत्वेन जानामीती"त्यादिमण्युक्तमाह -- इदं रजतत्वेनेति ॥ वैशिष्ट्यविषयकत्वस्येति ॥ व्यवसायगतस्येत्यनुषङ्गः -- धर्म्यंशेति ॥ इदन्त्वविशिष्टेदमंशविषयकत्वस्येवेत्यर्थः । विशेष्यांशेति वार्थः--अन्यत इति ॥ अनु 2 व्यवसायादन्यतो व्यवहारादिलिङ्गतो व्यवसाय 3 प्रामाण्यानुमितितो वेत्यर्थः । संशयाभावतद्भावौ त्वन्यथोपन्नाविति भावः । ननु तदंशे ऽनुव्यवसायान्तरतः सिद्धिरनुभवसिद्धेत्यतो निराह -- न चेति ॥

अन्यस्य प्रकारत्वस्याभावेनेत्येतस्यासिद्धिमाशङ्क्य निराह --न च व्यावर्तकत्वमित्यादिना ॥ विशेष्यनिष्ठवृत्तिबुद्धिजनकत्वं व्यावर्तकत्वं--तज्ज्ञानेति ॥ वैशिष्ट्यज्ञानेत्यर्थः । विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वादिति--भावः-- वैशिष्ट्यवदिति ॥
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 67.
---------------- ------------- -----------
विशेष्यानिष्ठो रजतत्वादिनिष्ठो ज्ञानेन सह स्वरूपसंबन्धविशेषो वा प्रकारत्वमिति वाच्यम् । बहिरर्थानां तेषां वैशिष्ट्यवद्व्यवसायविषयत्वाभावेनानुव्यवसाये भानायोगात् । कॢप्तस्य भासमानवैशिष्ट्यप्रतियोगित्वस्य त्यागेन
स्वरूपसम्बन्ध 1 विशेषकल्पनायोगाच्च । इदं रजतत्व 2 विशिष्टतया जानामीत्यनुव्यवसायाच्च ।
वैशिष्ट्यस्य यथा व्यवसायविषयत्वं तथाभावेनेत्यर्थः । वैशिष्ट्यस्य बाह्यार्थत्वेपि व्यवसायविषयत्वात्तत्प्रतियोगित्वरूपप्रकारत्वस्यानुव्यवसाये भानं युक्तमिति भावः । ज्ञानेन सह स्वरूपसम्बन्धविशेषो न बहिरर्थ इत्यत आह-- कॢप्तस्येति ॥ अतीतादिस्थले व्यावृत्तिबुद्धिजनकत्वरूपव्यावर्तकत्वायोगात् । विशेषणज्ञानहेतुत्वपक्षे च द्वितीयस्यायोगेन तत्र भासमानेत्यादिरूपस्यैव प्रकारत्वस्य कॢप्तत्वादिति भावः ।"वैशिष्ट्यविषयकत्वस्यापि भाने ऽनुभवसिद्धे"इति प्रागुक्तसिद्धमित्यत आह -- इदं रजतत्वे 3 ति ॥
ननु इदं विशेष्यकरजतत्ववैशिष्ट्यप्रकारकज्ञानवानहमित्यनुव्यवसायादिति ह्यास्यार्थः । न च वैशिष्ट्यं व्यवसाये प्रकारः । प्रागनुपस्थितत्वेन संसर्गमर्यादयैव भानादिति चेन्न । विशेषणज्ञानहेतुताया निर्विकल्पकभङ्गे निरसिष्यमाणत्वेन
प्रागनुपस्थितस्यापि वैशिष्ट्यस्य व्यवसाये रजतत्वस्येव प्रकारतया भाने बाधकाभावादिति भावः ।
1. विशेषपदं नास्ति -छ. 2. त्वेन - मु. 3. त्वेनेति - मु.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 68.
व्यवसायस्य त्वदुक्तरजतत्वप्रकारकत्वेनैवेदं रजतमित्याकारस्येदं रजतमित्यभिलपनं रजतार्थि 1 प्रवृत्तिं च प्रति हेतुत्वस्य च सम्भवे तस्य वैशिष्ट्यविषयकत्वाभावापाताच्च ।
अनुव्यवसाय एव तृतीयार्थोल्लेखस्तु तत्र वैशिष्ट्यभाने ऽप्यधिकस्य रजतत्वे व्यवसायं प्रति प्रकारत्वस्यापि भानात् । अव एवानुव्यवसायस्येदं रजतमित्याकारत्वाभावोपि । वैशिष्ट्यस्य स्वातन्त्र्येणाभानात् ।
एवंरूपानुव्यवसाये विप्रतिपत्तिरिति चे 2 त्तर्हीदं रजतत्वेन जानामीत्याकारोपि वैशिष्ट्याभाने 3 प्युपद्यता 4 मित्यतिप्रसङ्ग इत्याह -- व्ववसायस्येति ॥ इत्याकारस्य हेतुत्वस्य च संभव इत्यन्वयः ।
वैशिष्ट्यस्य तृतीयार्थत्वे व्यवसायेपि तृतीयार्थोल्लिखापत्तेरिति प्रागुक्तदोषं निराह -- अनुव्यवसाय एवेति ॥ प्रकारत्वस्येति ॥ भासमानवैशिष्ट्यप्रतियोगित्वरूपस्येत्यर्थः । व्यवसाये त्वात्माश्रयापत्तेर् नोक्तरूपप्रकारत्वस्य भानामिति भावः । वैशिष्ट्यस्यापि भाने व्यवसायसमानाकारता स्यादित्यत आह -- अत एवेति ॥ अत एवेत्युक्तं व्यनक्ति -- वैशिष्ट्यस्येति ॥ स्वातन्त्र्येणेति ॥ व्यवसाय इव ज्ञानाविशेषणतयेत्यर्थः ।
"बहिर्विशेष्यके मनसोसामर्थ्या"दिति मणौ विशेष्यपदप्रयोगसूचितं"न च तन्मात्रं प्रामाण्यम् । भ्रमसाधारणत्वात् ।
1. नः - छ. 2. न्न । तर्ही -कुं. 3. वे-कुं. 4. तेचेत्तर्ह्यति - कुं.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 69.
----------------- ---------- ----------
नन्वनुव्यवसाये वैशिष्ट्यस्य व्यवसायगतस्य रजतत्ववद्विशिषयकत्वस्य च भानेपि प्रामाण्यान्तर्गतं व्यवसायनिष्ठं रजतत्ववद्विशेष्यकत्वं न भासते । न च रजतत्ववद्विषयकत्वे सति रजतत्वप्रकारकत्वमेव प्रामाण्यम् मन्मते भ्रमसाधारण्यादिति चेन्न । रजतत्वे तृतीयार्थोल्लेखबलेन प्रकारकत्वस्येव रजते ऽपि द्वितीयार्थोल्लेखबलेन विशेष्यकत्वस्या 1 नुव्यवसायेन गृहीततया समानसंवित्संवेद्यतया च व्यवसायेत 2 द्विशेष्यकत्वस्यापि ग्रहणात् ।
अस्ति हि दोषशङ्काद्यवतारदशायामिदं ---
किं नाम रजतत्ववद्विशेष्यकं रजतत्वप्रकारकमिदं ज्ञानं"इत्यादिपक्षधरोक्तं हृदि कुत्वाशङ्कते - नन्विति ॥ न भासत इति ॥ मनसो बहिरसामर्थ्यादिति भावः । त 3 द्विषयकत्वमेवास्तु प्रामाण्यम् । किं रजतत्ववद्विशेष्यकत्वेनेत्यत आह -- नचेति ॥ मन्मते ॥ तार्किकमत इत्यर्थः । तन्मते शुक्तौ रजतत्वाद्यारोरे सति तदाश्रयस्य एव शक्ता । न तु विशेष्यत्व इति वादिनं प्रत्याह--समानेति ॥ प्रकारत्वविशेष्यत्वयोरिति वा प्रकारत्वतद्विशेष्यकत्वयोरिति वार्थः । नन्वेवं भ्रमेपि प्रामाण्यापत्तिरिति चेत्कस्य दोषः । मन्मत इवासत एवारोपः स्वीक्रीयताम् । तदनधिकरणाविशेष्यत्वादिकमधिकं वा निवेश्यतामिति भावः । रजते द्वितीयार्थोल्लेखो ऽसिद्ध इत्यत उपपादयति -- अस्तीति ॥
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 70.
--------------- ------------ ----------
रजत्वेन जानामीत्यनुव्यवसाये ऽपि तदनवतारदशायां रजतंरजतत्वेन जानामीत्यनुव्यवसायः । तस्मान्नाद्यः । द्वितीये 1 सिद्धं प्रामाण्यस्य स्वतस्त्वम् । वाशिष्ट्यरूपस्य तद्वत्वस्याप्यनुव्यवसायेन ग्रहणात् ।
नन्वेवमप्यनुव्यवसायस्य श्रुतसाश्रिवाक्यवदन्यविषयतया वैशिष्ट्यग्राहकत्वेपि तत्संशयविरोधित्वरूपं 2 सत्तानिश्चयरूपत्वं
नास्तीति न तद्घटितप्रामाण्ये निश्चयरूपता । न ह्यन्यविषयतयाप्यर्थग्रहणार्थसत्वसिद्धिः ।
न च बाह्यार्थेषु व्यवसायस्यासामर्थ्यम् । उपनामके सति सामर्थ्यसम्भवात् । न चोपनीतं विशेषणत्वेन भातीति नियमः । परमाणुमहं जानामीत्यादौ व्यभिचारादिति भावः --सिद्धमिति ॥ स्वातन्त्र्येण ज्ञानग्राह्यत्वस्य स्वतस्त्वनिरुक्तावप्रवेशात् । सत्वेन तथात्वस्य 3 सत्वाच्चेति भावः ।
नन्वर्थसत्वघटितस्यैव प्रामाण्यरूपत्वात्तस्यानुव्यवसायवेद्यता न प्रप्तेति भावेन शङ्कते --नन्विति ॥ श्रुतेति ॥ साक्षिणा श्रुतं तेनोच्चरितं वाक्यं साक्षिवाक्यं तस्येवेत्यर्थः । गृहे घटोस्तीति श्रुणोमीत्यादिसाक्षिवाक्यस्येति यावत् । अन्यविषयतया तद्ग्राहकत्वात् श्रुतसाक्षिवाक्यवदित्युक्तं भवति । हेतोरप्रयोजकत्वं निराह --नहिति ॥
1. ऽपि - च मु. 2. पस -च . 3. सम्भवा - मु.
स्व-अ-बा-द्धारः) पामाण्यवादः पु - 71.
-------------- ------------- ----------
गेहे घटमिच्छामि गेहे घटसंशयः गेहे घटज्ञानमित्यादिवाक्यजन्यज्ञानेनापि घटसत्वसिध्यापातादिति चेन्न । यत्र ज्ञानस्या 1 न्यद्वारेणार्थविषयतया तत्र द्वारिणा द्वारं सत्वेनार्थविषयकमिति ग्रहणे द्वारिणोपि सत्वेनार्थविषयतेति दृष्टानुसारेण कल्पने ऽनतिप्रसङ्गात् । न हि द्वारमिच्छादिकं सत्वेनार्थविषयतया द्वारिणा ज्ञानेन गृहीतम् । दोषशङ्कादिनानास्कन्दितो व्यवसायस्त्वनुव्यवसायेन तथा गृहीतः । गेहे घटज्ञानं साक्षिणा श्रुत 2 वाक्यं च यदिसत्वेनार्थविषयतया द्वारिणा 3 ज्ञानेन गृहीतं तदा तेनापि घटसत्वं सिध्यत्येव ।

अन्यविषयतया वैशिष्ट्यग्रहणे 4 पि तत्सत्वाधारणरूपत्वमनुव्यवसायस्याविरुद्धमिति 5 वक्तुं सामान्यन्यायं च 6 वदन्नतिप्रसङ्गं निराह -- यत्रेति ॥ पक्षे तद्दर्शयति -- दोषेति ॥ दुष्टकरणजन्यत्वशङ्का भ्रमत्वादिशङ्कादिनेत्यर्थः--तथेति ॥ सत्वेनार्थविषयकतयेत्यर्थः । तर्हि पूर्वोक्तस्थलेप्येवं स्यादित्यत आह -- गेह इति ॥ इच्छासंशयग्रहणो ऽसत्वेनार्थविषयकतया द्वारग्रहणबाधाद्गेहे घटज्ञानमित्येवेक्तम् । एतेनानुव्यवसायः सत्तयार्थविषयकः सत्वेनार्थविषयतया व्यवसायविषकत्वात् तादृशं यद्गेहे घटज्ञानमिति ज्ञानं श्रुतं साक्षिवाक्यं च तद्वत् । गेहे घटसंशय इत्यादिज्ञाने 7 तु हेतोरेवाभावान्न व्यभिचार इत्युक्तं भवति । पूर्वपक्ष्युक्तो हेतुरप्रयोजक इत्याह -- यदि चेति ॥
1. प्य- च छ क मु. 2. द्व- च मु. 3. द्व- मु आ. 4. नुव्यवसायस्यासामर्थ्यं - मु .
स्व- अ- बा - द्धारः ) प्रामाण्यवादः पु - 72.
---------------- ---------------- ----------
यदि च सव्यवधानत्वमात्रेण सत्वानिश्चायकत्वं तर्हि गेहे मम घटप्रमेत्याप्त 1 वाक्यजन्यज्ञानेनापि घटसत्वं न सिध्येत् ।
ननु तत्रार्थतथात्वघटितं प्रामात्वं गृह्णज्ज्ञानं घटसत्वं स्वातन्त्र्येणापि गृह्णातीति चेन्न । मम 2 मते ऽनुव्यवसायस्यापि प्रामाण्यग्रानहकत्वेनात्रापि स्वातन्त्र्येस्य सुवचत्वात् ।
वैशम्यामाशङ्क्य प्रकृतेपि सममित्याह--नन्वित्यादिना ॥ स्वातन्त्र्येणापीति ॥ व्यावसायवदिति भावः-- सुवत्वादिति ॥ व्यवसायनष्ठस्य तद्वित्वघटितप्रामाण्यस्य ज्ञानत्ववत्सक्षादेवानुव्यवसायविषयता । न तु व्यवसायद्वारा । परन्तु तद्वत्वस्य तदययोग्यतया चाक्षुषज्ञाने सौरभस्येवोपनीतस्य भानम् । इयांस्तु विशेषः । यदक्षोपनायकस्यापि सामग्रीसद्भावाज्ज्ञानविषयता । तत्र तु सामग्र्यभावत्तदविषयतेति भावः ।
एतेन यत्कैश्चिदुक्तं घटज्ञानवानहं अयं घट इत्यत्र वैलक्षण्यस्य सर्वसंमतया तन्नियामकस्योपनायकभानसामग्रीसमवधान तदसमवधानादेपवश्यकल्पनात् । यत्रोपनायकमपि भासते तत्रोपने 3 यांशे 4 स्वातन्त्र्यम् । अत एव सुरभिचन्दनमित्यत्र
स्वातन्त्र्यम् । स्वातन्त्र्यं च ज्ञाननिष्ठं संशयादिविरोधितावच्छेदकमेव किञ्चित्फलकल्प्यम् । स्वरूपसम्बन्धविशेषविशयत्वादिति । तन्निरस्तम् । स्वातन्त्र्येणोपनायकत्वे ऽज्ञानयमानत्वस्य प्रयोजकत्वे गौरवात् ।
1. दि- कु. 2. मन्म-मु. 3.नयां - मु. 4.अस्वा-मु.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 73.
अर्थसत्वनिश्चयत्वमात्रेण तद्घटितप्रामाण्यनिश्चयत्वोपपत्तौ स्वातन्त्र्यस्यनपेक्षितत्वाच्च । स्वातन्त्रादप्यनाशङ्कितदोषान्यद्वारा ग्राहकस्य ।
"ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक् । तदेतदृचाभ्युक्तम्"।
इत्यादिवत्संवादेनाधिक्याच्च । एवंसत्यनुव्यवसायस्य धर्म्यंशेपि प्रामाण्यनिश्चरूपत्वाभावापातेन तत्रापि कदाचित्संदेहापाताच्च ।
गेहे घटप्रमेत्यादिशब्दस्थले प्रमात्वेन ज्ञानमानस्यापि स्वातन्त्र्येणोपनायकत्त्वाङ्गीकारेण व्यभिचाराच्च । गृहीतप्रामाण्यकज्ञीनसमानविषयकज्ञानानुव्यवसायस्थले 1 प्रमात्वेन ज्ञायमास्यापि ज्ञानस्य स्वातन्त्र्येणोपनायकत्वाच्च ।
ननु विषयसत्तानियतसत्ताकज्ञानवृत्तिधर्माविशेषणत्वे सति ज्ञानविशेषणतया भानमेवास्वातन्त्र्यम् । तदभाव एव स्वातन्त्र्यमिति घटप्रमावानहमित्यादौ तथा भानेपि घटज्ञानवानहमित्यादौ न स्वातन्त्र्येण भानम् । तत्र शद्धज्ञानविशेषणतयैव भानात् । अनुव्यवसायमात्रस्य प्रामाण्यविषयक 2 त्त्वविवादादित्यत आह । अर्थसत्वेति ॥ ननु स्वातन्त्र्येणा 3 भाने कथमनुव्यवसायस्य प्रामाण्यसंशयादिविरोधिता । कथं वा निष्कम्पप्रवृत्तिहेतुतेत्यत आह ॥ स्वातन्त्रादपीति ॥ अनाशङ्कितदोषेति बहुव्रीहिः । तद्रूपान्यद्वारेणेत्यर्थः । त्रयोतशे गीतायां क्षेत्रक्षेत्रज्ञस्वरूपं ऋषिभिर्बहुधा गीतमित्यनाशङ्कितदोष ऋषिगानछन्दोरूपद्वारेणार्थग्राहकस्य कृष्णवाक्यस्याधक्यं तथा निर्देष ऋषग्द्वारेणार्थग्रहकस्य छन्दोग्याद्युपनिषद्वाक्यस्य यथाधिक्यं तथेत्यर्थःठ । स्वातन्त्र्यस्यानपेक्षितत्वादित्यत्र
विपक्षे बाधकं चाह -- एवंसतीति॥ अर्थसत्वनिश्चयमात्रेणैव संशयादिविरोधितारूपप्रामाण्यनिश्चयत्वोपपत्तावपि स्वातन्त्र्याभावेन तदभाव इत्यर्थः ।
1. प्रमात्वेनेति नास्ति - मु. 2. त्वे -मु. 3. णभाने - मु .
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 74.
-------------- ------------- -----------
ननु धर्मिणस्सदेकरूपत्वात्तत्रासं 1 शय इति चेत् । कोर्थः किं साधारणधर्मज्ञानं नास्तीति किं वा विशेषदर्शनमस्तीति ? नाद्यः । प्रतीतिविषयत्वस्य सदसत्साधारण्यात् । अन्त्ये धर्मित्वस्य सदेकनिष्ठत्वेन विशेषत्वेपि तस्य सत्वानिश्चये कथं संशयविरोधिता ।
यद्वा स्वातन्त्र्याभावेर्ऽथसत्व निश्चयरूपतैव न युक्तेत्यत आह --एवंसतीति ॥ सव्यवधानत्वमात्रेण 2 सत्वानिश्चायकत्व इत्यर्थः । धर्म्यंशे रजतादिरूपेदमंश इत्यर्थः ।
धर्मंशेपि संशयानुत्पादो नार्थसत्वघटितप्रामाण्यविश्चयरूपत्वेन"इदन्त्वरजतत्ववैशिष्ट्यम् पुरोवर्तिनो नानुव्यवसायवेद्य"मिति मण्युक्तेः ।"स्वातन्त्र्येण इति शेष"इति पक्षधरोक्तेः । किन्त्वन्यथैवेति शङ्कते -- नन्विति ॥ सदेकेति ॥ पुरतः सन्नेव धर्मी नत्वसन्निति धर्मिणः सत्वाव्यभिचारान्न तत्र संदेहो न तु तदंशे प्रामाण्यनिश्चयत्वसत्वेनेत्यर्थः-- सदसदिति ॥ पुरतो सदित्यर्थः । मन्मते त्वसन्मात्रेत्यर्थः-- विशेषत्वेपीति ॥ तथाच तद्धर्शनमात्रं न विशेषदर्शनं किं तु तद्वैशिष्ट्यसत्वदर्शनमेवेति तस्य च तत्राभावे कथं तत्र न संशयः स्यादिति भावः -- तस्येति ॥ धर्मित्ववैशिष्ट्यस्येत्यर्थः ।
तथा च धर्मित्वरूपेदन्त्ववैशिष्ट्यांशे ऽनुव्यवसायस्य तत्सत्तानिश्चयत्वरूपप्रामाण्यनिश्चयत्वाभावे धर्म्यंशेति संशयः स्यादेवेति भावः।
1. संदेह - च क ग. 2. णार्थ - अ. मु.
स्व-अ-बा-द्धारः ) प्रामाण्यवादः पु - 75.
--------------- ------------ ---------
न हि संदिग्धसत्ताकः करादिः पुरुषत्वसंशयविरोधी ।
अपिचैवं त्वदीये अयं वह्न्यनुभवः प्रमानाप्रमा वा दाह 1 समर्थविशेष्यकत्वे सति
सत्वानिश्चयेपि संशयनिवृत्तिरस्त्वित्यत आह -- न हीति ॥ संदिग्धसत्ताकः ॥ अनिश्चितसत्ताक इत्यर्थः । यद्वा तत्सत्वानिर्णये तत्सत्वेपि संदेहः स्यात् । ततश्च धर्मिसंदेह इति भावेनायं ग्रन्थो योज्यः ।

एवमिदन्त्त्ववैशिष्ट्यवैशिष्ट्यांशे तत्सत्तानिश्चयत्वरूपं प्रामाण्यनिश्चयत्वमनुव्यवसायस्य धर्म्यंशे स्वतः प्रामाण्यमुपपाद्य"ननु व्यवसायस्येदन्त्वरजतत्वविशिष्टेदंविषयकत्वे ऽनुव्यवसाय एव मान"मित्यादिना"न स्वतः प्रामाण्यग्रहः"इत्यन्तेन मण्युक्तखण्डनं निस्येदानीं"ननु वह्निज्ञानस्य दाहसमर्थविषयत्वं न दाहसमर्थोयमिति व्यवसायग्राह्य"मित्यादिना शङ्कितस्य"उच्यत"-- इत्यादिना यत्समाधानमुक्तं तत्समानन्यायेनान्यत्राप्यनुव्यवसायस्य स्वतः प्रामाण्यं व्यनक्ति। अपि चैवमिति ॥ सव्यवधानत्वमात्रेणार्थसत्वनिश्चरूपत्वाभाव इत्यर्थः ॥ त्वदीय इति ॥ प्रामाण्यानुमान इत्यन्वयः । मणिकृदुक्त इत्यर्थः । प्रचीनरूत्याह--प्रमेति ॥"प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम्"इति मणिकुदुक्तेराह--नाप्रमा वेति ॥
1. सामर्थ्यवद्वि - च. मु.
स्व-अ-बा-द्धारः ) प्रामाण्यवादः पु - 76.
--------------- ------------------ ---------
वह्नित्वप्रकारक 1 निश्चयत्वात् व्यतिरेकेणाप्रमावदिति प्रामाण्यानुमाने दाहसामर्थ्यवद्विशेष्यकत्वे सतीति विशेषणस्य केन सिद्धिः । तद्धि न तावद्दाहसमर्थोयमिति व्यवसायेन सिद्धम् । व्यवसायविषयतया 2 विशेष्यस्य विशेष्य 3 त्वस्य तदविषयत्वात् । नाप्यनुव्यवसायेन । बहिर्थे दाहसामर्थ्ये मनसो ऽसामर्थ्यात् ।
ननु स्मुत्युपनीते व्यवसाये स्मुत्युपनीतं यद्दाहसामर्थ्यं तद्वद्विशेष्यकत्वं मनसा परिच्छिद्यते ।
व्यवसायेति ॥ विशेष्यस्य 4 व्यवसायविषयत्वाद्धेतोः विशेष्य 5 त्वस्य व्यवसायविषयत्वादित्यर्थः । क्वचिद्व्यवसायविषयताविशेषस्य विशेष्यत्वस्येति पाठः । तदा तु न क्लेशः । धर्मधर्मिवैशिष्ट्यानां व्यवासायविषयत्वेन धर्मे वैशिष्ट्ये चाविद्यमानो धर्मिमात्रनिष्ठो विषयत्व विशेष इत्यर्थः ।"व्यवसायतद्विषयतयोस्तदिषयत्वात्"इति मणिवाक्यनिष्कृष्टार्थस्यायमनुवादः--बहिर्थ इति ॥ दाहसामर्थ्यवैशिष्ट्यग्रहण एव वा वैशिष्ट्यग्रहणशक्तावपि स्वातन्त्र्येण तद्ग्रहणे वासामर्थ्यादिति भावः ।
स्मृतीति ॥ अयं वन्हिरिति व्यवसायविषयकानुव्यवसायजन्यस्मृत्युपनीतं यद्दाहसामर्थ्यवत्वं तद्वद्विशेष्यकत्वं वन्हिरित्यनुभावो दाहसामर्थ्यवद्विशेष्यको मम वृत्त इति मानसा परिच्छिद्यत इत्यर्थः ।
1. निश्चयपदं नास्ति - क ग. 2. ताविशेषस्य - कुं छ क. 3. क - मु.
4. व्यवसायविषयतया - मु. 5. क - मु.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 77.
-------------- ----------- ----------
नचैवं स्मृत्युपनीते व्यवसाये स्मृत्युपनीतं यद्रजतत्वं तद्वद्विशेष्यकत्वमपि मनसा परिच्छिद्यताम् , तथा च प्रामाण्यस्य स्वतस्त्वं स्यादिति वाच्यम् । मन 1 सैवं प्रामाण्यग्रहेपि प्रथमानुव्यवसायेनागृहीततया यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वस्य तज्ज्ञानविषयकज्ञानानपेक्षिज्ञान 2 ग्राह्यत्वस्य चाभावेन परतस्त्वाहानेरिति चेत् हन्तैवं पाश्चात्यस्मृत्युपनीते दाहसामर्थ्ये मानसज्ञानमिव प्राथमिकव्यवसायोपनीते रजतत्ववैशिष्ट्ये ऽनुव्यवसाय एव सत्तानिश्चयरूपोस्तु ।
तुल्यन्यायत्त्वात्प्रामाण्यांशेप्याशङ्क्येष्टापत्या निराह -- न चैवमिति ॥ दाहसामर्थ्यवद्विशेष्यकत्वग्रह इत्यर्थः । इदं रजतमिति व्यवसायविषयकानुव्यवासायस्य च तादृशज्ञानसापेक्षत्वादिति भावः । हन्तेति हर्षे । पाश्चात्या वा स्मृतिः तदुपनीत
इत्यर्थः--पाश्चात्येति प्राथमिकेति 4 हेतुगर्भम् --दाहसामर्थ्ये ॥ दाहसामर्थ्यवत्व इत्यर्थः--मानसज्ञानमिवेति ॥ अनुव्यवसाय इवेत्यर्थः । पारतन्त्र्येण तद्विषयतोपगमादिष्टापत्तिनिरासायाह --सत्तानिश्चयेति ॥------------------------------------------------------------------------
1. साचैवं - छ-क. 2. विषयत्व - छ-जन्यत्वस्य- क. 3.॥ प्रथमेति ॥ रजतमहं जानामीत्याद्यनुव्यवसायेनेत्यर्थः--मु. 4. च-मु.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 78.
------------- ------------ ----------
अविशेषात् । त्वत्पक्षे व्यवसायस्य यथार्थत्वेन स्मृतितो ऽविशेषाच्च । अनुमितौ प्रामाण्यनियतस्य धूमवति वह्निमत्वज्ञानस्यानुव्यवसायेन गृहीतत्वान्न तत्रापामाण्यशङ्केति वदता त्वया
लिङ्गोपहितलैङ्गिकविषयतयानुमितिरूपव्यवसायोपनीते धूमवत्वे ऽनुव्यवसायस्य सत्तानिश्चयरूपत्वाङ्गीकाराच्च ।
नन्विन्द्रियस्यायं स्वभावो यदुवनीतमुपनीतान्तरवृत्तित्वेनैव गृह्णातिति चेन्न । सुरभिचन्दनमिति चाक्षुषज्ञानानुपपत्तेः । मनसस्तथा स्वभाव इत्यस्यापि मानाभावेनायुक्तत्वात् । संशयानुपपत्तेरेव मनसस्तादृशस्वभावकल्पकेति चेन्न । तस्या 1 अन्यथोपपादयिष्यमाणत्वात् । निमीलितनेत्रस्यापि"अहं गौरः"इत्यादिप्रत्ययानापत्तेश्चेति भावेनाह -- अविशेषादिति ॥ वैपरीत्यमेवोचितमित्याह -- त्वत्पक्ष इति ॥ व्यवसायस्येति ॥ अनाशङ्कितदोषत्वात् ग्रह्यप्रामाण्याश्रयव्यवसायस्येति भावः ।
ननूपनीतं तद्वत्वं उपनीतवृत्तित्वेन गृह्यत इति कल्प्यत इत्यतो ऽयमपि नियमो नेत्याह--अनुमिताविति ॥ अनुमितौ कदापि प्रामाण्यसंदेहाभावेन तत्र प्रामाण्यं स्वत इति प्राचीनमतं दृषयता सर्वत्र परतस्त्ववादिना मणिकृदानुमितौ प्रामाण्यशङ्काभावो न प्रामाण्यनिश्चयनिबन्धनो ऽपितु तत्प्रामाण्यव्याप्यस्य धूमवद्विशेष्यकत्वे सति वह्निप्रकारकज्ञानत्वस्य यज्ज्ञानं तन्निमित्तक एवेति वदता त्वयेत्यर्थः । तदभियुक्तव्याख्यानानुरोधेनाह ॥ लिङ्गोपहितेत्यादि ॥ परामर्शोपनीतव्याप्युक्तव्यापकविषयकविषयकधूमवत्पर्वतो ऽग्निमानित्येवंरूपेत्यर्थः ।
1. प्य - मु.
स्व-अ-बा-द्धारः) प्रामाण्यवादः पु - 79.
-------------- ----------- ---------
न च दाहसामर्थ्ये संस्कार एव प्रत्यासत्तिः । स च निर्विषयक इति न तद्विषयतया भनम् । इह तु प्रत्यासत्ती 1 भूतो व्यवसायः सविषयक इति वैषम्यमिति वाच्यम् । संस्करे सत्यप्यस्मृतिदशामुक्तमानसज्ञानाभावात् ।
ननु मानसज्ञानस्य दहसमर्थ एव मम वह्नत्वप्रकारकं ज्ञानं वृत्तिमित्याकारत्वेन तत्र दाहसामर्थ्यं वह्ननिष्ठमेव भाति ।
ननु पञ्चमानुव्यवसाये प्रत्यासत्तीभूतान्याविषयतयार्थस्य भानेन तस्यार्थसत्तानिश्चयरूपत्वेपि प्रथमानुव्यवसाये तदृशान्यविषयतया तद्वत्वरूपार्थस्य भानान्न तत्सत्तानिश्चयरूपत्वमतो ऽविशेषादित्युक्तहेतुरसिद्ध इत्याशङ्क्य निराह -- न चेति ॥ दाहसामर्थ्ये ॥ दाहसामर्थ्यवत्त्व इत्यर्थः-- संस्कार एवेति ॥ दाहसमर्थोयमिति प्राचीनव्यवसायजन्यसंस्कार एव न तु तज्जन्यस्मृतिरित्यर्थः ।
यद्यपि स्मृतेः प्रत्यासत्तित्वेपि तस्याः सुरभिचन्दनमित्यादौ सौरभादिज्ञानस्येव ताटस्थ्येनैव तथात्वन्नैतच्चोद्यावकाशः । तथापि सविषयकत्वात्संभावितत्वाभिप्रायेणेतच्चोद्यमपि शङ्को 2 त्थानदार्ढ्यार्थं कृतमिति ध्येयम् ।

भानमिति ॥ पञ्चमानुव्यवसाये दाहसामर्थ्यवत्वस्य संस्कारविषयतया न भानमित्यर्थः-- इहत्विति ॥ प्रथमानुव्यवसाय इत्यर्थः । अस्मृतिदशायामिति ॥ अत एव त्वयप"प्रग्भवीयसंस्कारात्स्मृतं प्रामाण्यं वन्हिज्ञानादौ साध्यमान"मित्याद्युक्तम् ।
1. त्तिरूपो - छ. 2. अग्निमग्रन्थो - मु, मन्दाशङ्को - आ.
स्व- अ- बा- द्धारः) प्रामाण्यवादः पु - 80.
----------------- ----------- -------
न तु स्मृतिविषयतया । स्मृतिस्तु प्रत्यासत्तिमात्रम् । अनुव्यवसायस्य तु पुरोवृत्तिविशेष्यकं रजतत्ववैशिष्ट्यावगाहिज्ञानं वृत्तमित्याकारत्वेन ज्ञानविषयत्वेनैव वैशिष्ट्यं विषयः । न तु पुरोवृत्तिनिष्ठत्वेनेति वैषम्यमिति चेन्न । तत्रापि दाहसमर्थ एवेति विषयसप्तम्यातीतव्यवसायविषयत्वेनैव दाहसामर्थ्यस्य भानात् ।
अत्रापि सुख 2 ज्ञानस्य दोषशङ्कादिरहितस्तम्भादिज्ञानस्य च प्राथमिक एवानुव्यवसाये मम सुख एव सुखत्वेन ज्ञानं वृत्तं स्तम्भ एव स्तम्भत्वेन ज्ञानं वृत्तमित्याकारदर्शनाच्च ।
ननु तथापि 3 तत्र यस्य व्यवसायस्य विषयतया दाहसामर्थ्यं भाति स न प्रत्यासत्तिः । यातु स्मृतिः प्रत्यासत्तिर् न तद्विषयतया तद्भाति इह तु ---
एतच्चोपलक्षणं यदसाधारणं कारणमासाद्य मनोबहिर्गौचरां प्रमां जनयति तन्मानान्तरमिति व्याप्तेः संस्कारस्य मानान्तरत्वापत्तेश्चेत्यपि ध्येयम् ।
स्मृतेः प्रत्यासत्तित्वेप्यविशेषादिति हेतुरसिद्ध इति भावेन शङ्कते -- नन्विति ॥ तत्रापीति ॥ पञ्चमानुव्यवसायेपीत्यर्थः--दाहसामर्थ्यस्य ॥ दाहसामर्थ्यवत्वस्येत्यर्थः । तत्रापीत्यस्यैव विवरणं प्राथमिक एवानुव्यवसाय इति ॥ प्रकारान्तरेण वैषम्यमाशङ्क्य निराकरोति 4 ॥ ननु तथापीत्यादिना ॥ तत्रेति ॥ पञ्चमानुव्यवसाय इत्यर्थः । इहत्विति ॥
1. मम- च, मु. 2. खादि--च,छ, मु. 3. यत्र- छ. 4. निराह- आ, मु.
स्वतस्त्वे संशयोपपादानम् प्रामाण्यवादः पु - 81.
----------------------- ----------- ----------
वैशिष्ट्यं प्रत्यासत्तीभूतव्यवसायविषयतया भातीति चेन्न । अन्यविषयतया ग्रहणे श्रुतसाक्षिवाक्यसाम्ये ऽविशिष्टे ऽस्य वैधर्म्यमात्रत्त्वात् । तस्मात्प्रामाण्यग्रहणे साक्षी समर्थ इति एतदप्युक्तं"अन्यथे"त्यादिना । साक्षी धर्म्यंश इव वैशिष्ट्यांशेपि सत्तानिश्चयरूपो न चेदस्य व्यवसायस्येदं वैशिष्ट्य विषय इत्यादिलोकसिद्धव्यवस्थित्ययोगादित्यर्थः ॥
स्वतस्त्वानुमानेषु बाधोद्धारः

11.4

इहत्विति ॥ प्राथमिकानुव्यवसाय इत्यर्थः । अविशिष्ट इति विभागः ।
स्वतस्त्वानुमानेषु बाधोद्धारः

11.5

ननु तथापि स्वतस्त्वे ऽनभ्यासदशायां संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यात् ।
--------------------------------------------------------------------------- उक्तानुमानेषु प्रतिकूलतर्कपराहतिं मण्याद्युक्तामाशङ्कते -- नन्विति ॥ तथापीति ॥ प्रबलबाधरूपदोषाभावेपीत्यर्थः -- प्रामाण्यग्रहादिति ॥ अन्यथा स्वतस्त्वभङ्ङापत्तेरिति भावः--अग्रहे चेति ॥ ज्ञानस्येत्यनुषङ्गः । यथा हि त्वन्मते जातिव्यक्त्योरेकवित्तिवाद्यत्वनियमेपि दोषवशादिदं रूप्यमितिभ्रम 1 स्थले शुक्तित्वहयग्रहः तथा मन्मतेपि ज्ञानप्रामाण्ययोरेकवित्तिवेद्यत्वनियमेपि संशयस्थले ज्ञानग्रहे सत्यपि तेन तत्पामाण्याग्रहेपि न स्वतस्त्वभङ्गः ।
1. भ्रमपदं न -कुं.
स्व-सं-दनं) प्रामाण्यवादः पु- 82.
----------- ------------------------------
अग्रहेच धर्मिज्ञानाभावादिति चेन्न 1 । असति प्रतिबन्धेसाक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमित्यु 2 क्तम् । अप्रामाण्यसंशयस्थले च प्रामाण्यग्रहणशक्तिप्रतिबन्धकाप्रामाण्य 3 ग्रहणसामग्रीसमवहितैव । अन्यथाप्रामाण्यासंशयोगात् । एवं च ज्ञानं गृह्णता साक्षिणा शक्तिप्रतिबन्धात्प्रामाण्याग्रहणेप्यस्मदुक्तस्वतस्त्वाहान्या स्वतस्त्वपक्षेपि धर्मिज्ञानस्य प्रामाण्यनिश्चयस्य च संभवेन संशयो युक्त एव ।
अस्माभरुक्तस्वतस्त्वस्य तत्रापि सत्वादिति भावेन"धर्म्युपलब्धावपि व्याघातादिदर्शनेन साक्षिणि प्रतिबद्धे प्रामाण्यविषये मनसि संशयोपपत्तेः"इति तत्वनिर्णयटीकां विवृण्वानः समाधत्ते--असति प्रतिबन्ध इति ॥ प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवधाने सतीत्यर्थः । अत्र सर्वत्र साक्षी पागुक्तरूप 4 एव ज्ञेयः--ग्रहणेति ॥ निश्चयेत्यर्थः--अन्यथेति ॥ उक्तरूपसामग्र्यभाव इत्यर्थः । अस्तु सामग्री ततः किमित्यत आह--एवं चेति ॥
प्रामाण्यविरोध्युपस्थापकसामग्रीसमवधानेसतीत्यर्थः -- धर्मिज्ञानस्येति ॥ व्यवसायरूपस्य संशये धर्मिणो यज्ज्ञानं तस्येत्यर्थः -- संशयो युक्त एवेति ॥ मानसो ऽयं बोध्यः । न तु साक्षिरूपः तस्य सुदृढनिर्णयरूपत्वात् ।
1. त् - कुं 2. तिह्यु - छ-क. 3. ग्राहक -छ. 4. रूपपदं नास्ति - आ.
स्व-सं-दनं) प्रामाण्यवादः पु - 83.
---------- ---------------- --------
न हि ज्ञानत्वप्रमात्वगग्रहण 1 शक्त्योरेकप्रतिबन्धकप्रतिबध्यत्वमपि स्वतस्त्वान्तर्गतम् ॥
तद्ग्रहणशक्त्योर्भिन्नत्वेपि ज्ञानत्वग्रहणशक्तिवत्प्रामाण्यग्रहणशक्तिः सहजा । न त्व प्रामाण्यग्रहणशक्त 2 रिवाहितेत्येतावतैव प्रामाण्यस्य स्वतस्त्वात् । दृश्यते च वह्नौ दहप्रकाशनशक्त्योः सजत्वेपि प्रतिबन्धकभेदः ॥
अस्तु वा 3 तयोरेकैव ग्रहणशक्तिस्तथापि तस्या --
अस्मादुक्त स्वतस्त्वाहान्येत्युक्तं व्यनक्ति -- न हीति ॥ असति प्रतिबन्धके ज्ञानगोचरसाक्षिवेद्यत्वनैयत्यमित्यस्य प्रतिबन्धे सति साक्षिणा ज्ञानं प्रामाण्यं चोभयं न गृह्यत इति यद्यर्थस्तदा परं स्वतस्त्वहानिः । नह्येवं विवक्ष्यत इति भावः ।
ननु ज्ञानत्वप्रमात्वग्रहणशक्त्योरैक्योपगमे ऽन्यत 4 राग्रहणे द्वयोरप्य 5 ग्रहणमवर्जनीयम् । भेदे तु स्वतस्त्वहानिरेव । ज्ञानग्रहणशक्त्यतिरिक्तशक्तिग्राह्यत्वात् । अन्यथाप्रामाण्यस्यापि स्वतस्त्वापत्तिरित्यतो"मानस्यादोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा"इति प्रकृतिनयसुधावाक्येन भेदपक्षस्य"करणानां 6 5 अनजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्व"मित्यादिजिज्ञासानयसुधावा 7 क्येनाभेदस्य चप्रतीतेर्भेदाभेदरूपपक्षद्वयेपि समाधिमाह -- तद्ग्रहणेति ॥ न त्वप्रामाण्यग्रहणशक्तिरिति ॥ सहजेत्यनुकर्षः । किं तु दोषाहितेत्यर्थः ॥
1. योरेक - ख. 2. रित्ये- कुं छ क-ग. 3.यद्वा -कुं 4. र -कुं. 5. र -कुं.
6. च -मु. 7. वाक्यादिना - आ अ.
स्व- सं- दनं ) प्रामाण्यवादः पु - 74.
------------- ------------- --------
एनं मा दहेत्यादौ दाहशक्तेरिव विषयभेदेन प्रतिबन्धाप्रतिबन्धौ युक्तौ ।
नचैवं प्रतिबन्धकाभावरूपस्याधिकस्य हेतोरनुप्रवेशात्सिद्धसाधनम् । न्यायमते ऽप्रतिबद्धेनाप्यनुव्यवसायेन प्रामाण्या 1 ग्रहणात् ।
नाप्यपसिद्धान्तः ।"अप्रामाण्यग्रहणकारणाभावस्यापि प्रामाण्यग्रहणोपयोगाङ्गीकारेपि न कदाचिदास्माकं हानिः"इति
टीकोक्तेः ।"प्रतिबन्धकाभावो न हेतुः"इत्युत्पत्तिस्वतस्त्व 2 वादे वक्ष्यमाणत्वाच्च ।
मादहेपीति ।."अमानोना प्रतिषेध"इति निषेधार्थकमाशब्दो ऽयम् । न माङ् ।
तेन"माङि लु"ङित्युक्तलुङभावः साधु -- टीकोक्तेरिति ॥ तत्वनिर्णयटीकोक्तेरर्थतो ऽनुवादोयम् ।
ननु तत्र"न प्रकृते काचिदस्माकं हानिः"इति हि पाठः । तथा च प्रकृते वेदोपौरुषेयत्वे काचिद्धानिर्नेत्यभ्युपगमवादेनाप्युपपन्नासा टीकोक्तिः । एवं च ज्ञानग्रहहेत्वतिरिक्तहेतुसापेक्षग्राह्यत्वे कथं न प्रामाण्यस्य स्वतस्त्वहानिरित्यतस्तत्वनिर्णयटीकास्थं"न हि दाहाभाव एव वेत्रबीजं वेत्राङ्कुरं जनयतीत्येतावता दाहाभावो वेत्राङ्कुरस्य कारणं भवति । किं तु ततो विपरीतकार्यानुत्पादे सति वेत्रबीजं स्वमाहिम्नैवाङ्कुरं करोति । अन्यथोत्सर्गापवादौ क्वापि न स्यातां"इति पूर्ववाक्यं हृदि कुत्वाह -- प्रतिबन्धकेति ।
स्व- सं-दनं) प्रामाण्यवादः पु - 85.
------------ ---------------- --------
यत्र पूर्वं दोषशङ्कादेरभावेपि कारणान्तरोपनिपातात्पश्चात्तत्संशयस्तत्र पूर्वं प्रामाण्यं निश्चीयत एव । तदा प्रतिबन्धकाभावात् ।
एवं प्रतिबन्धकेन प्रामाण्यनिश्चमुपेत्य संशयमुपपाद्य क्वचित् प्रामाण्यनिश्चयमुपेत्यापि संशयमुपपादयति-- यत्रेति ॥ यद्वा अस्त्वेवं प्रामाण्यविरोध्युपस्थापकसामग्रीसमवधानस्थले प्रामाण्यनिश्चयेपि विविक्षितस्वतस्त्वाहान्या संशचोपपत्तिः । तत्सामग्रीसमवधानात्प्राक्काले तु कथम् । तत्र प्रामाण्यानिश्चये स्वतस्त्वाहानेः । यज्ज्ञानं यत्र प्रतबन्धकं तत्सामग्र्यपि तत्र प्रतिबन्धकेत्यस्याभावात् । प्रामाण्यनिश्चये 1 वोदीरितसन्देहो न स्यादित्यत आह --यत्रेति ॥ निश्चीयत एवेति ॥ मनसेति भावः । न तु साक्षिणा दृढनिर्णयत्वात् ।
सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनं इति ।
मानसे दर्शने दोषा नैव स्युः साक्षिदर्शने ॥
यत्क्वचिद्व्यभिचारिस्याद्दर्शनं मानसं हि तत् ।
इति च ज्ञानपादीयानुव्याख्यानोक्तेरिति ज्ञेयम् ।
एतेन यदुक्तं मणौ"निश्चितेपि प्रामाण्ये दोषान्तरात्तत्र संशयः इति चेन्न ॥
प्रवृत्तिप्रसङ्गात्"इति तन्निरस्तम् । प्रामण्यनिश्चयकाले ऽप्रतिबन्धादिष्टापत्तेः । पश्चात्तु तस्य नाशात्प्रतिबन्धाच्चाप्रवृत्युपपत्तेः ।
एतेन प्रामाण्यनिश्चये जाग्रति कथं सन्देह इति निरस्तम् । उत्तरकाले तस्य नाशात् । प्रामाण्यनिश्चये प्रामाण्यसन्देहात्संशयोपपत्तेश्च ।
यत्तु"न च प्रामाण्यसंशयाद्विषयसंशयवत्प्रामाण्यज्ञाने प्रामाण्यसंशयात् प्रामाण्य संशय इति वाच्यम् । प्रामाण्यज्ञानेपि

स्वतः प्रामाण्यग्रहे संशयानुपपत्तेः"इति मणिवचनं तदप्यतेनैव निरस्तं बोध्यम् । दोषोपनिपातस्थले मानसप्रामाण्यनिश्चये दोषवशेन प्रामाण्यानिश्चये तत्संशयोपपत्तेरिति ॥
1. चोदीचीन - मु. आ. अ.
स्व-सं-दनं) प्रामाण्यवादः पु - 86.
---------- ------------ -------
केचित्तु धर्मिज्ञानस्य संशयाहेतुत्वात्संशयरूप एवानुव्यवसाय उत्पद्यते । धर्मिज्ञानस्याहेतुत्वेपि संशये धर्मिनियमो धर्मिज्ञानजनकनियमादेव युक्तः ।
एवं वास्तवं मूलग्रन्थाद्युक्तं संशयोपपादानं प्रदर्श्याधुना यदुक्तं मणौ"धर्मिज्ञानं च संशयहेतुः । अन्यथा धर्मिनियमः
कोट्युक्तटत्वं च न स्यात्"इति ग्रन्थेन धर्मिज्ञानाभावेन संशयाभावोपपादनदूषणं तदपि नेति भावेन प्रौढ्या समाधिद्वयमन्यापदेशेनाह -- केचित्वित्यादिना अहेतुत्वादिति ॥
विशेष्येन्द्रियसन्निकर्षकोटिस्मृतिरूपविशषणज्ञानतदुभयासंसर्गाग्रहादिविशिष्टज्ञान सामान्यसामग्रीत एव तदुत्पत्तौ तदतिरिक्ता संशये धर्मिज्ञानारूपा विशेषसामग्री न कल्प्या । तथाच संशयस्थले धर्मिणो व्यवसायस्यैवाज्ञानेन प्रामाण्यनिश्चोपपत्या स्वतस्त्वाहीनिः प्रामाण्यादिसंशयश्च युक्त इति भावः ।
ननु तुरगादौवेगेन गच्छतः पुंसो ऽनेकवृक्षेन्द्रियसन्निकर्षेपि क्वचिदेव पनसत्वादिसंदेहो न सर्वत्रेत्येवंविधो धर्मिनियम एव संशये धर्मिज्ञानहेतुतां व्यवस्थापयतीत्यत आह -- धर्मिज्ञानस्याहेतुत्वेपीति ॥ धर्मिज्ञानजरकेति ॥ त्वयापि हि सर्वत्र सन्निकर्षे ऽविशिष्टेपि क्वचिदेव धर्मिज्ञानं नान्यत्रेत्यत्र विषयमाहात्म्यादिकं नियामकं वाच्यम् । तदेव संशये नियामकमस्तु । तद्धेतोरेवास्तु हेतुत्वं मध्ये किं तेनेति न्यायात् । तेषामननुगतत्वेपि धर्मिज्ञानहेतुत्वेनानुगमसंभवादिति भावः ।
स्व-सं-दनं) प्रामाण्यवादः पु - 87.
---------- --------------- ----------
कोट्युक्तटत्वे तु कोटेर्धर्म्यसंस्पृष्टत्वेनाज्ञातोर्ध्वत्वादिसाधारणधर्मेण भूयस्साहचर्यदर्शनमेव हेतुः । न तु संशयधर्मिनिष्ठत्वेन ज्ञातसाधारणधर्मेण भूयस्साहचर्यदर्शनम् । गौरवात् । ऊर्ध्वतादिसाधारणधर्मज्ञानं त्वनियतादृष्टादिहेतुजन्यस्मतिरूपमित्याहुः ।
यत्तु"धर्मिज्ञानसामग्रीत्वेन हेतुत्वे लाघवाद्धर्मिज्ञानत्वेनैव हेतुत्वमस्तु"इति शरोमणिवचनम् । तन्न । कॢप्तसामग्र्यैवोपपत्तावपूर्वधर्मिज्ञानहेतुताकल्पनस्य गुरुत्वात् ।
ननु धर्मिज्ञानस्याहेतुत्वे संशये कोट्युक्तटत्वं न स्यात् । तस्याव्याप्यवृत्तितया जातित्वायोगेन संशयधर्मिणि संशयकोटिसहचरितानेकधर्मोपलम्भरूपस्य वा संशयधर्मिवृत्तितया गृह्यमाणधर्मेण सह कोटिर्भूयस्सहचारोपलम्भरूपस्य वा कोट्यक्तत्वस्य वाच्यतया तादृशस्य धर्मिज्ञानाहेतुत्वे ऽनुपपत्तेरित्यत आह -- कोट्युक्तटत्वे त्विति ॥ दर्शमेव हेतुरित्यन्वयः -- धर्म्यसंशयस्पृष्टत्वेन ॥ धर्म्यसंबद्धत्वेनेत्यर्थः । ननु साधारणधर्मदर्शनस्य संशयहेतुत्वाद्धर्मज्ञानार्थं धर्मिज्ञानमावश्यकमित्यत आह -- ऊर्ध्वतादिसाधारणेति ॥
केचिदित्युक्तास्वारस्यबीजं तु व्यवसायरूपसंशयधर्मिणः सुखादिवत् ज्ञातैकसत्वेन कोटिस्मृतेः पूर्वं तस्य साक्षिणा ग्रहणे प्रतिबन्धाभावाद्धर्मिज्ञानमावश्यकमित्यस्मदुक्तदिशैव संशयोपपादनं साधु । न तु धर्मिज्ञानानभ्युपगमेनेति ज्ञेयम् । अत एव"ज्ञानमवश्यवेद्य"मिति वक्ष्यति । अन्यत्तु गुरुटीकायाम् ।
स्व-सं-दनं) प्रामाण्यवादः पु - 88.
---------- ------------- ----------
इतरे तु अन्यत्र विपर्यये धर्मिज्ञानस्य हेतुत्वेपि वर्तमानव्यवसायधर्मिके ऽव्यवसायरूपे ऽप्रमायां प्रमात्वविपर्यये
तस्याहेतुत्ववदन्यत्र संशये धर्मज्ञानस्य हुत्वेपि प्रामाण्यसंशये तस्याहेतुत्वं युक्तम् । न च प्रगारोप्यस्य प्रामाण्यस्यानुपस्थितेर् न तदरोप इति वाच्यम् । स्वतस्त्वपक्षे प्रमायां प्रामाण्यप्रतिमितेरिव भ्रमे प्रामाण्यापोपस्यापि तदनपेक्षत्वादित्याहुः ॥
अन्यत्रेति ॥ शुक्तिरूप्यादिविषयक इत्यर्थः । शुक्त्यादावेव रजतत्वाद्यारोपो नान्यत्रेत्येतन्नियामकतया रूप्यादिनिष्ठचाकचक्यादिमत्तया शुक्त्यादिज्ञानस्य तदारोपहेतुत्वमावश्यकमिति भावः -- वर्तमानेत्यादि ॥ यथा हि घटादिप्रमायां तदनुव्यवसायेन व्यवसायोपनीततद्वत्वादिघटिकप्रामाण्यग्रहः, तथा शुक्तिरूप्याद्यप्रमायामपि तदनुव्यवसयेन तदुपनीततद्वत्वादिघटितप्रामाण्यं धर्मिज्ञानं विनैव तदुत्तरक्षण एव परिच्छिद्यत इत्युपेतं तद्वदित्यर्थः । प्रामाण्यानुपस्थितेः कथं तदारोप इत्याशङ्क्य निराह -- न चेत्यादिना ॥ अत एव पूर्वपक्षे मणिकृताप्युक्तम्"अप्रमापि प्रमेत्येव गृह्यते"इत्यादीति भावः ।
अत्रारुचिबीजं तु ज्ञानग्रहस्य साक्षित्वात्प्रामाण्यसन्देहस्य मानसत्वात् ज्ञानग्रहेण च प्रामाण्यचग्रहेण
स्वतस्त्वभङ्गापत्तिनिरासाय प्रगुक्तरीतेरेवानुसर्तव्यत्वादिति ज्ञेयम् ।
धर्मिज्ञानहेतुत्वं तेन प्रामाण्यनिश्चयं चोपेत्य संशयोपपादनं प्रकारान्तरेण दर्शयति -- अन्योत्विति ॥
स्व-सं-दनं) प्रामाण्यवादः पु - 89.
--------- ------------ ---------
अन्ये तु संशयस्थलेप्युक्तरीत्या सामग्रीसत्वेनादावेवानुव्यवसायेन प्रामाण्यनिश्चयेप्यनुव्यवसायनाशान्तरं स्मृत्युपनीते व्यवसाये तत्संशयोयुक्त एव । नह्यनुव्यवसायकाल एव संशयो न तु तदव्यवहितोत्तरकाल इति योगादिसंपत्ति विना ज्ञातुं शक्यम् । परमतेपि न प्रामाण्यसंशयकाले व्यवसायोस्ति । धर्मिज्ञानानन्तरभाविकोटिस्मरणकाल एव व्यवसायनाशादित्याहुः ।
उक्तेति ॥ बाधोद्धारग्रन्थोक्तरीत्येत्यर्थः । तदा व्यवसायस्यापि धर्मिणो नाशान्न संशय इत्यत आह -- स्मुतीति ॥ अनुव्यवसायाहित संस्कारजन्यस्मृत्युपनीत इत्यर्थः।ननूपनीतस्य कथं संशये विशेष्यतया भावमित्यत आह -- परमतेपीति॥
अत्रापि कल्पे संशया 1 दिस्थले ज्ञानग्रहस्य साक्षित्वात्प्रामाण्यग्रहस्य च मानसत्वान्मानसप्रामाण्यनिश्चयस्य नाशेपि ज्ञान 2 ग्रहसाक्षणा 3 औत्तरीकानुस्मृतिसिद्धसौषुप्तिकात्मस्वरूपानुभवरूपस्य सदा सत्वेन तेन प्रामाण्याग्रहेण ज्ञानग्रहेण प्रामाण्यग्रहणमुपेत्य तन्नाशेन संशयोपपादनस्याशक्यतया तदुपपादनस्य प्रागुक्तदिशैव कार्यत्वात्किमनेन प्रकारेण । न च ज्ञानज्ञानं मानसम् । तथात्वे कदाचित्तज्ज्ञानत्वे संशयाद्यापातात् । उक्तं हि ज्ञानपादे ।
"इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ।
साक्षिसिद्धा न कश्चिद्धि तत्र संशवान्क्वचित्"॥
इत्यरुचिबीजं ध्येयम् ।
सिद्धान्ताननुगुणस्याप्येतत्पक्षत्रयस्य तार्किकं प्रति दूषणतया --------
1. यस्थले - आ. 2. ग्राहक - आ. 3. औत्पत्तिका - आ.
एतदप्युक्तं"अन्यथे"त्यादिना । प्रतिबन्धदशायां कार्याजननमात्रेण शक्तेः सहजत्वाभावे वह्न्भावे दाहादिशक्तेः सहजत्वमिति व्यवस्थित्यनुपपत्तेरित्यर्थः ॥
स्वतस्त्वे संशयोपपादनम्

11.5

-- वक्तुं शक्तमिति भावेनात्रोपन्यास इति भावः -- एतदपीति ॥ उक्तरीत्या संशयस्थले स्वतस्त्वेपपादनमपीत्यर्थः ।
स्वतस्त्वे संशयोपपादनम्

11.6

न चाप्रयोजकाः स्वतस्त्वहेतवः । परतस्त्वे प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमितिरूपेणान्येन 1 ज्ञानेन ग्राह्यम्, एवं तत्प्रामाण्यमप्यन्येनेति फलमुख्येकानवस्था ।
न चाप्रयोजका इति ॥ हेतवः सन्तु स्वतोग्राह्यत्वरूपसाध्यं मास्त्वित्यत्र विपक्षे बाधकस्य साध्यसाधने ऽनुकूलतर्कस्याभावादिति न चेत्यर्थः । पूर्वं 2 क्वचिद्धेतावप्रयोजकत्वोद्धारस्य प्रातिस्विकरूपेण कृतत्वेपि सामान्यतोयमुद्धार इत्यदोषः । अत एव हेतव इत्युक्तिः ।"तत्प्रामाण्यस्याप्यन्येन
ग्रहणाङ्गीकरे ऽनवस्थानात्"इति टीकां विवृण्वानो मण्याद्युक्तिदिशैवान्वस्थाद्वयमाह-- परतस्त्व इति ॥ ज्ञान 3 ग्राहकसाक्षिव्यतिरिक्तेन येन केनापि ग्राह्यत्व इत्यर्थः-- फलमुखीति ॥ फलं प्रामाण्यज्ञानं मुखमुपस्थितिहेतुर्यस्याः सा फलमुखीत्यर्थः ।
1. ज्ञानेनेति न - ख. 2. क्वचित्क्कचित् - मु. 3. ग्रहण - आ.
प्रामाण्यनिश्चयस्य प्रवर्तकत्वम् प्रामाण्यवादः पु - 91.
---------------------------- ------------- ----------
एवं प्रामाण्यस्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यानिश्चये ऽसिद्ध्यादिप्रसङ्गेन तन्निश्चयार्थं लिङ्गा 1 द्यन्तरं, तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः, एवं तत्र तत्रापीति कारणमुख्यन्यपीत्यनवस्थाद्वयापपत्तेः ॥
न च यत्र दोषशङ्कादिरूपाकाङ्क्षा तत्रैव संवादापेक्षेति नानवस्थेति वाच्यम् ।
तथात्वे प्रतिबन्धनिरासार्थमेव संवादापेक्षा न तु प्रामाण्यग्रहार्थमिति मन्मतप्रवेशापत्तेः ।
कारणान्तरानव 2 स्थोपलक्षणतयैकत्रानस्थानिर्धारणाय वा पराभ्युपगमानुरोधेन वानुमेयत्व इत्यापादकनिर्थारणोक्तिः । पूर्वं तु सामान्यमुपेत्य परतस्त्व इत्याद्येवोक्तम् । न तु विशिष्यते ध्येयम् -- कारणमुखीति ॥ पूर्ववद्याख्येयम् । ज्ञानानां प्रामाण्यमनुमितिग्राह्यं अनुमितिप्रामाण्यं तु स्वत इति प्रचीनमते फलमुखानवस्थाभावात्कारणामुख्या अप्युक्तिरित्येके ।
अन्येतु तन्मते क्वापि स्वप्रकाशत्वाभावात्तत्राप्यनवस्थास्त्येव । अत एव परतस्त्व इति सामान्योक्तिः । न त्वनुमेयत्व इति विशिष्येत्याहुः।
यत्र तु प्रामाण्यज्ञाने ऽप्रामाण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञानप्रामाण्यनिश्चयादेव प्रामाण्यनिश्चय इत्यादिमण्युक्तमाशङ्कते-- न च यत्रेति ॥ दोषेति ॥ दुष्टकरणजन्यत्वादिशङ्कारूपेत्यर्थः ।"न चाकाङ्क्षायामेव प्रमाणान्तरापेक्षत्वादनवस्थाभाव"इति तत्वनिर्णयानुकरणादाकाङ्क्षेत्युक्तिः -- उक्तंहीति ॥
1. ङ्गन्त - छ. 2. स्थाद्यु - आ.
प्र-नि-प्र-कत्वं ) प्रामाण्यवादः पु - 92.
-------------- -------------- ----------
उक्तं हि भगवत्पादैः"आकाङ्क्षाया एव बुद्धिदोषात्मकत्वा"दिति ॥
न चावश्यवेद्यत्वाभावान्नानवस्था । ज्ञानमवश्यवेद्यमिति वक्ष्यमाणत्वात् । कृष्यादौ सन्देहात्प्रवृत्तावपि बहुवित्तव्यवसायसाध्ये पारत्रिकफलगे 1 यागादौ निष्कम्पप्रवृत्यर्थं प्रामाण्यस्याप्यवश्यवेद्यत्वात् ॥
ननु तत्राप्यर्थनिश्चय एव हेतुः । समानविषयत्वात् । आवश्यकत्वाच्च । न तु प्रामाण्यनिश्चय इति चेन्न ।
तत्वनिर्णये । आकाङ्क्षेति बुद्धिदोषैत्यप्रामाण्यशङ्केति चानर्थान्तरम् ॥
तत्वनिर्णयटीकोक्तरीत्या प्रकारान्तरेणानवस्थाभावमाशङ्क्य निराह -- न चेति॥ ज्ञानस्येति शेषः -- अवश्यवेद्यमिति ॥ एतेन चरमप्रामाण्यज्ञानस्य ज्ञानाभावेन कोचिस्मरणाभावेन विषयान्तरसञ्चारेण वा प्रामाण्यसंशयानिवश्यंभावान्नानवस्थेति
मण्याद्युक्तं निरस्तं ध्येयम् । नन्वस्तु ज्ञानस्यावश्यवेद्यतया ज्ञातत्वेन तत्प्रामाण्यानिश्चये तत्संशयो ऽवर्जनीयः । तथापि कृष्यादाविव प्रवृत्तिरस्त्वित्यत आह -- कृष्यादाविति ॥
"यत्राप्रामाण्यसङ्का नास्ति करकलादिज्ञाने तत्र व्यवसाय एवार्थनिश्चयः तत एव निष्कम्पप्रवृत्तिः"इत्यादिमण्याद्युक्तमाशङ्कते -- ननु तत्रापीति ॥ पारलौकिकयागादावपीत्यर्थः -- आवश्यकत्वाच्चेति ॥ प्रामाण्यनिश्चयप्रवर्तकत्वादिनाप्यर्थनिश्चयस्याभ्युपेयत्वादिति भावः ॥
1. के - ख.
प्र-नि-प्र-कत्वं) प्रामाण्यवादः पु - 93.
पीतः शङ्खः इत्यादा 1 वाकारान्तरार्थो 1 ल्लेखाभावेन शङ्खः पीतत्वेनैव भातीत्यनुभवेन चैकाकारनियते संशयान्यज्ञानरूपे
निश्चये सत्यपि पीतार्थिनो ऽप्रवृत्तिदर्शनात् ।
न चाप्रामाण्यज्ञान 2 रूपसहकारिविरहादप्रवृत्तिरिति वाच्यम् । एवं तर्ह्यप्रामाण्यस्याप्यनुमेयत्वेन तदननुमितिदशायां पीतार्थिनः पृवृत्तिः स्यात् ।
किञ्चाप्रामाण्यज्ञानात्प्रवृत्तौ प्रामाण्यज्ञानान्निवृत्तिः स्यात् ।
किमिर्थनिश्चय एव प्रवर्तकः उत प्रामाण्यविरोधिज्ञानविरहसहकारिसहितः, अथ प्रामाण्यविरोधिज्ञानविरहो न सहकारी किं तु प्रवर्तकतावच्छेदकः, यद्वार् 1 ऽतनिश्चय एव प्रवर्तकः 3 अप्रामाण्यादिज्ञानं प्रतिबन्धकं प्रतिबन्धकान्तरसम्पादकं वा, इति विकल्पान् हृदि कृत्वाद्योव्यभिचारित्याह -- पीत इति ॥ 4 शुक्लोवेत्याकारान्तरेत्यर्थः-- व्द्व्याकारार्थेति । 5 अकारान्तरेति क्वचित्पाठः ॥
द्वीतीयं शङ्कते -- न चाप्रामाण्यविरोधिनो निश्चयसंशयसाधारणज्ञानाभावरूपसहकारीत्यर्थः । इष्टापत्तिमाशङ्क्याह -- किञ्चेति ॥ नन्वाप्रामाण्यज्ञानस्य प्रतिबन्धकत्वं सर्वसिद्धमित्यस्तु तद्विरहत्तत्र प्रवृत्तिः । प्रामाण्यज्ञानप्रवर्तकत्वमद्यापि न सिद्धमिति कथं तदभावान्नवृत्तिरापाद्यत इत्यस्तत्साधयति -- किंञ्चेति॥
1. दौ व्द्याकारार्थो - कुं - अनेकाकारार्थो- ख. 2. रूपपदं न - ख. 3. एतावन्नास्ति - कुं. 4. वाकरोति । शुक्लेवेति वाशब्दरूपवाकारान्तरेत्यर्थः-- कुं. आ. 5. व्द्याकारार्थेति क्वचित्पाठः -- आ.
प्र-नि-प्र-कत्वं) प्रामाण्यवादः पु - 95.
-------------- ------------ --------
किञ्च तदभववति तत्प्रकारकत्वरूपाप्रामाण्यशङ्काद्यभावो ऽनेकाभावघटितत्वाद्गुरुः । प्रामाण्यनिश्चयस्तु न तथेति लधुः । एवमप्रामाण्यशङ्काद्यभाववत्तद्वतित्प्रकारकज्ञानत्वरूपप्रामाण्यात्यन्ताभावशङ्काद्यभावः एवं तद्व्याप्यदोषजन्यत्वादिशङ्काद्यभावोपि हेतुरित्यभावा अनेके । प्रामाण्यनिश्चयत्वेकः । अभावानां प्रामाण्यविश्चयविरोध्यभावत्वेनैकत्वे त्वावश्यकत्वाल्लाघवाच्च प्रामाण्यनिश्चय एव सहकारी ।
न चाप्रामाण्याज्ञानमप्यावश्यकम् । प्रामाण्यनिश्चयस्याप्यप्रमात्वेन 1 ज्ञानस्याप्रवर्तकत्वादिति वाच्यम् । मन्मते तस्यापि निश्चितप्रामाण्यकस्यैव प्रवर्तकत्वात् ।
न चाप्रामाण्यशङ्काभावः कॢप्तः प्रामाण्यनिश्चयस्तु कल्प्य इति वाच्यम् । गृहीतप्रामाण्यज्ञानसमानविषयकज्ञानान्तरे निष्कम्पप्रवृत्त जनक 2 ज्ञानत्वमात्रेण सामग्रीसत्वेन तत्कॢप्तेरुक्तत्वात् ।
शङ्कादीत्यादिपदेन निश्चयग्रहः --- विरोध्यभावत्वेनेति ॥ विरोधिनिश्चय 3 विषयाभावत्वेनेत्यर्थः ॥
तौल्यमाशङ्क्य निराह -- निचाप्रामाण्याज्ञानमपीति ॥ मन्मत इति ॥ अनवस्था तु निरसिष्यत इति भावः -- कॢप्त इति ॥ सर्वत्र सत्वादिति भावः-- ज्ञानान्तर इति ॥ कॢप्तेरुक्तत्वादित्यन्वयः ।

1. ज्ञाने तस्या - मु. 2. ज्ञानमात्रे च - मु. 3. याभावत्वेनेत्यर्थः - आ.
प्र-नि-प्र-कत्वं) प्रामाण्यवादः पु - 95.
---------- ----------- ----------
फलमुखगौरवस्य चादोषत्वात् । अन्याथानुमितौ व्याप्तिज्ञानं न हेतुः । किं तु सहचारदर्शनवतो व्यभियाराज्ञानम् । एवं पक्षे लिङ्गज्ञानं न हेतुः । किं तु पक्षज्ञानवतः पक्षे लिङ्गसंसर्ग्राग्रहः । एवं प्रवृत्तौ विशिष्टज्ञानं न हेतुः । किं तु भेदाग्रहः । एवमर्थेन्द्रियादिसबन्धेर्ऽथाभावाज्ञानं प्रवर्तकम् न त्वर्थनिश्चयः । इत्याद्यतिप्रसङ्गः ।
1. एतेन उक्तरूपोर्थनिश्चय एव प्रवृत्तिहेतुः । अप्रमात्वेनाज्ञातत्वादीकं दण्डगतदार्ढ्यवत्कारणतावच्छेदकम् । तदभावात्पीतः शङ्ख 2 इति ज्ञानान्न प्रवृत्तिरिति निरस्तम् । लाघवेन प्रसात्वेन ज्ञानतत्वस्यैव तदवच्छेदकत्वौचित्यात्।
बाधोद्धारग्रन्थ इत्यर्थः-- सामग्रीसत्वेनेति ॥ प्रामाण्यनिश्चयसामग्रीसत्वेनेत्यर्थः। कल्प्यत्वमुपेत्याह -- फलमुखेति ॥ कारणताकल्पनावसरे ऽवच्छेदकगौरवेरिव प्रामाण्यनिश्चयकल्पनस्यानुपस्थितत्वात्पश्चात्तदुपस्थितावुपजीव्यविरोधेन गृहीतकारणत्वाबाधकत्वादिति भावः । विपक्षे बाधकं चाह -- अन्यथेति ॥ एवं कॢप्तत्वे गौरवस्यादौषत्वे च प्रामाण्यनिश्चयस्याप्रवर्तकत्वमुपेत्याप्रामाण्याज्ञानसहितार्थनिश्चयस्यैव प्रवर्तकत्व इत्यर्थः ॥
तृतीयकल्पं निराह -- एतेनेति ॥ उक्तेति ॥ अप्रामाण्यज्ञानशून्यार्थनिश्चय एवेत्यर्थः । एतेन 3 त्युक्तं व्यनक्ति -- लाघवेनेत्यादिना ॥
1.एतेवैवे - अ. 2. शङ्खपदं नास्ति - कुं. 3. नैवे - अ.
प्रा-नि-प्र-कत्वं ) प्रामाण्यवादः पु - 96.
-------------- ------------- ---------
अन्यथा अनुमित्यादौ सहचारादिज्ञानमेव हेतुः व्यभिचारितत्वादिनाज्ञातत्वं कारणतावच्छेदकमिति स्यात् ।
एतेवैवार्थनिश्चय एव प्रवर्तकः । पीतः शङ्ख इत्यादौ त्वप्रामाण्यज्ञानं प्रवृत्त प्रतिबन्धकमिति निरस्तम् । निर्विशेषेणैव प्रतिबन्धकस्य मण्यादेस्त्वन्मते स्वाभावरूपकारणविघटनरूपतया प्रतिबन्धकत्वेपि मन्मते शक्तिविघटकत्वेन प्रतिबन्धकत्वेपि यथा जातिविशेषरहितस्य व्यभिचारादिज्ञानस्य मदद्वयेप्यनुमित्यादिजनकीभूतव्याप्त्यादिज्ञानविघटकत्वेनैव तत्प्रवबन्धकता तथैवाप्रामाण्यज्ञानस्यापि प्रवृत्तिहेतुभूतज्ञानविघटकत्वेनैव प्रतिबन्धकतेति वक्तव्ये अर्थनिश्चयस्य पीतः शङ्ख इत्यादौ सत्वेन तद्विघटनासंभवात्तेन वि 1 घटनीयस्य प्रामाण्य 2 ज्ञानस्य हेतुत्वसिद्धेः ।
चतुर्थकल्पं निराह -- एतेनैवेति ॥ अप्रामाण्यज्ञानं प्रामाण्यविरोधिज्ञानमित्यर्थः । एतेने 3 तुक्तं दुर्गमत्वाद्युद्व्यनक्त -- निर्विषयस्येत्यादिना ॥ 5 जातिविशेषहीनस्य साक्षादविरोधिनो ज्ञानस्य प्रतिबन्धकत्वं तज्जनकज्ञानविघटकत्वेनैवेति व्याप्तेर्यथेत्यादिना विवक्षित 6 त्वान्मण्यादौ निर्विषये व्यभिचा 7 रो नेति भावेन निर्विषयस्येत्याद्युक्तिः ॥
1. त्तद्धि -मु. 2. ण्यादि - छ ख. 3. एतेनैवेत्युक्तं -मु. 4. निर्विशेषस्येत्यादिना- मु. 5. वक्ष्यमाणव्याप्तौ - आ अ. 7. रनिरासाय - आ अ.
प्र-नि-प्र-कत्वं) प्रामाण्यवादः पु - 97.
-------------- ------------- -------
ज्ञानं हि ज्ञानान्तरस्य विषयद्वारैव विरोधीति स्वविषयविरुद्धविषयकमेव ज्ञानं विघटयति । अन्यथा व्यभिचारादिज्ञानमपि
स्वाभावरूपहेतुविघटनतया अनुमित्यादिप्रतिबन्धकं वा सहचीरादिज्ञानगतशक्तिविघटकत्वेन प्रतबन्धकं वा स्यात् । न तु व्याप्त्यादिज्ञानविघटकत्वम् । बाधादिस्तु ग्राह्याभावविषयकत्वेन साक्षाद्विरोधित्वात्स्वत एवानुमितिप्रतिबन्धकः । ज्ञाननिष्ठप्रामाण्यविषयकज्ञानं तु घठविषकप्रवृत्तेर्न साक्षाद्विरोधि ।
किञ्चोक्तप्रकारेणाप्रामाण्यज्ञानवत्प्रामाण्यात्यन्ताभावादिज्ञानानामपि प्रतिबन्धकत्वादभावकूटस्य कारणता कल्प्येत्यतिगौरवम् ।
ननु ज्ञानमपि मण्यादिवद्बाधप्रतिपक्षवच्च कारणीभूतस्वाभावविघटनरूपतयैवास्तु प्रतिबन्धकं किं कारणीभूतज्ञानविघटकतयेत्य आह -- ज्ञानं हीति ॥ स्वमतावष्टम्भेनाह -- शक्तविघटकत्वेनेति ॥ बाध 1 वैषम्यमाह -- बाधादिस्त्विति ॥ अस्तु ज्ञानं हीत्यादिनोक्तमप्रामाण्यज्ञानं तु बाधादिवत्स्यादीत्यत आह -- ज्ञाननिष्ठेति ॥ अप्रामाण्येति ॥ प्रामाण्यविरोधीत्यर्थः । किं तु प्रामाण्यनिश्चयस्यैवेति 2 तद्घटकतयैव प्रतिबन्धकमिति प्रामाण्यज्ञानस्य हेतुत्वसिद्धिः । तद्वत्वाभावस्य प्रवृत्तिविषयाभवत्वेपि न तन्मात्रप्रामाण्यमिति भावः ॥
जनकज्ञानविघटकत्वमनुपेत्य बाधवत्प्रवृत्तो स्वकारणीभूताभावविघटनरूपत्वेनैव प्रतिबन्धकत्वे दोषान्तरमाह ॥ किञ्चेति ॥
1. धादि - आ. 2. शेषः तथा च - अ.
प्रा-नि-प्र-कत्वं ) प्रामाण्यवादः पु - 99.
--------------- ------------ ---------
ततो वरमेकः प्रामाण्यनिश्चयो हेतुप्रामाण्यादिज्ञानं तु तद्विघटकमिति । मण्यादौ तु त्वन्मते तद्विघटनीयस्यैकस्याभावादभावकूटस्य हेतुतास्तु।एतेनैव उपाधिज्ञानस्याधेयव्यभीचारज्ञानरूपानुमितिप्रतिबन्धकान्तरसम्पादनेनानुमितिप्रतिबन्धकत्वमिवापामाण्यसन्देहस्यापि मानसार्थसंदेहरूपप्रवृत्तिप्रतिबन्धकान्तरसम्पानेन
प्रवृत्तिप्रतिबन्धकत्वम् । उक्तं हि --"अप्रामाण्यसंशयेनार्थनिश्चयं परिभूयार्थसंशय"इतीति निरस्तम् ।
उक्तेति --"एवमप्रामाण्यशङ्काद्याभाववदि"त्यादिनोक्तप्रकारेणेत्यर्थः । अतिगौरवमिति -- अप्रामाण्यज्ञानाभावः कारणमित्येतदेव प्रामाण्यज्ञानाद्गुरु । तत्राप्यभावकूटः कारणमित्युक्तावतिगौरवमित्यर्थः । शक्तेरनङ्गीकारादन्यचस्य प्रतिबध्यस्यभावप्रामाण्यज्ञानाभावादिषु चानुगतैकहेतुतावच्छेदकस्यासंभावादभावकूटस्यैव हेतुतायास्त्वया वाच्यत्वादिति भावः ॥
नन्वेवं मण्याद्यभावस्थले मणिमन्त्राद्यभावकूटस्य कारणता कॢप्तप्तेघनीयं प्रामाण्यज्ञानमिति किमर्थमतिगौरवाश्रयणमिति भावः ॥
पक्षे पक्षं प्रत्याचष्टे -- एतेवैवेति ॥ उपाधेर्व्यभिचारोन्नायकत्वपक्षमुपेत्येत्योक्तम् -- आधेयव्यभिचारज्ञानेति ॥ सन्देहनिश्चयसाधारणज्ञानमात्रस्य प्रतिबन्धकत्वाज्ज्ञानपदप्रयोगः-- उक्तं हीति ॥ मणावित्यर्थः ।
प्रा-नि-प्र-कत्वं) प्रामाण्यवादः पु - 99.
------------- ------------- -------
मानसार्थसन्देहस्यापि पीतः शङ्ख इत्यादावुक्तरीत्यार्थनिश्चय 1 सद्भावेन तद्विघटकत्वायोगेन सदर्थत्वरूपप्रामाण्यनिश्चयविघटनेनैव प्रतिबन्धकत्वस्यैवोचितत्वात् । तस्मागसंसर्गग्रहव्यभिचारज्ञानादेः प्रवृत्यनुमित्यादिप्रतिबन्धकत्वान्यथानुपपत्त्यैव तद्विघटनीयस्य 2 संसर्गाहव्याप्तिज्ञानादेः प्रवृत्यनुमित्यादिहेतुत्ववदप्रामाण्यज्ञानस्य प्रवृत्तिप्रतिबन्धककत्वा 3 न्यथानुपपत्यैव तद्विघटनीयस्य प्रामाण्यज्ञानस्य
तद्धेतुत्वसिद्धिः ॥

यद्यपि परप्रक्रियया न निश्चितप्रामाण्य 4 ज्ञानं प्रवर्तकम् । प्रामाण्यलिङ्गज्ञानादिनार्थज्ञानस्य नाशात् ।
एतेनैवेत्यक्तं व्यनक्ति -- मानसार्थसन्देहस्यापीति ॥ तद्विघटकत्वायोगेनेत्यादिनान्वयः । ज्ञानं हीत्यादिनोक्तरीत्या प्रमाण्यनिश्चयविघटनेवैव प्रतिबन्धकत्वस्योचितत्वादित्यर्थः । अर्थसन्देहस्य प्रामाण्यनिश्चयविरोधित्वघटनाय सदर्थत्वरूपेत्युक्तम्-- तस्मादिति ॥ अन्यस्य विघटनीयस्याभावज्ज्ञानस्य ज्ञानान्तरविघटकत्वाच्चेत्यर्थः । अनुमित्यादित्यादिपदेन लिङ्गपरामर्शादिग्रहः । अप्रामाण्यज्ञानस्येत्युपलक्षणम् । अर्थसन्देहस्य चेत्यपि ध्येयम् -- तद्धेतुत्वेति ॥ प्रवृत्तिहेतुत्वेत्यर्थः ॥
आशुविनाशिनो ज्ञानस्य प्रवृत्तिकाले ऽभावात्कथं प्रमात्वेन ज्ञातस्य प्रवर्तकत्वम् । उक्तं च मणौ"ज्ञानं गृहीतप्रामाण्यं न प्रवर्तकम् । प्रामाण्यानुमितेः पूर्वमेव तस्य नाशात् । किं तु तज्ज्ञानसमानविषयकमप्रामाण्यशङ्कशून्यज्ञानान्तरमेवेत्यादी"त्येतच्चोद्यमनूद्य समाधिमाह -- यद्यपीति ॥
1. स्य - ख. 2. स्यैव - छ. 3. नुपपत्यैव - ग. 4. क - कुं. । मणपुस्तकेषु त्यादीतिनास्ति.
प्रा-नि-प्र-कत्वं) प्रामाण्यवादः पु - 100.
------------- ------------- ------------
किं तु तत्समानविषयकमप्रामाण्यशङ्कारहितमित्तरं ज्ञानान्तरमेव । तथापि मन्मते साक्षिरूपस्य सुखादिज्ञानस्य स्वप्रकाशत्वेन स्वस्यैव स्वप्रामाण्यनिश्चयरूपत्वात् । घटादिज्ञानस्य तु परग्रह्यत्वेपि तद्गाहकेण नित्येन साक्षिणा प्रमाणत्वेवैव ग्रहणात्तस्य च स्वप्रकाशत्वेनानवस्थाभावान्निश्चितप्रामाण्यमेव ज्ञानं प्रवर्तकम् । किञ्चाद्ये ज्ञाने प्रामाण्यनिश्चयेन कथं द्वितीये तच्छङ्काभावः ॥
स्वप्रकाशत्वेनेति ॥
"यदि साक्षी स्वयं भातो न मानं केन गम्यते ।
अक्षजैदेश्च मानत्वमनवस्थान्यथा भवेत्"॥
इति वैशिषिकनयानुव्याख्याने तथा --
"नयमेन सुखद्येषु प्रामाण्यं साक्षगोचरम् ।
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात्"॥
इति ज्ञानपादीयानुव्याख्याने चोक्तेरिति भावः -- घटादिज्ञानस्य त्विति ॥
मनोवृत्तिरूपज्ञानस्येत्यर्थः ॥
"इच्छा ज्ञानं सुखं दुःखं भया 1 भयकृपादयः ।
साक्षिसिद्धा"
इत्युक्तेरिति भावः-- नित्येनेति ॥ औत्तरिकानुस्मृतिसिद्धात्मस्वरूपभूतसौषुप्तिकानुभवरूपस्य तस्य नित्यत्वादिति भावः -- अनवस्थेति ॥ पूर्वोक्तद्विविधानवस्थाभावादित्यर्थः । तथा च 2 मणावुक्तो दोषः परेषामेव । नास्माकम् ।"अन्यथा भट्टमते प्रामाण्यस्यानुमितिग्रह्यत्वे अनवस्था स्यात् । गुरुमते प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम्। स्वरूपप्रामाण्यबहिर्भूतत्वात । किन्तु परग्रह्यत्वे ऽनवस्थाना"दित्यपि मणिकृदुक्तो दोषो नास्मत्पक्षे । स्वग्राह्यत्वस्यापि साक्षिवेद्यत्वादिति भावः ॥
1. तथा - कुं. 2. मणिकृदुक्तदोषाः - अ.
प्रा-न-प्र-कत्वं) प्रामाण्यवादः पु - 101.
------------ ------------- ----------
ननु यदीदं रजतं न स्या 1 त्तदा रजतत्वप्रकारकप्रमाविषयो नस्यादिति तर्कप्रभावाद्वितीये शङ्काभावः । तर्केणार्थ 2
सत्वशङ्कानिवर्तनेन तद्घटिताप्रामाण्यशङ्कानिवर्तनादिति चेन्न । कॢप्तसामग्रीकस्य लधोश्चानुव्यवसायरूपप्रामाण्यनिश्चयस्य त्यागेनान्यस्य विपरीतस्योक्तरूपतर्कानुसन्धाननियमस्य कल्पने ऽनुभवविरोधात् ॥
ननु समानविषयकज्ञानान्तर इवाप्रामाण्यशङ्कानिवृत्तावेव प्रामाण्यज्ञप्तेरुपक्षयान्न
प्रवृत्तिहेतुता कल्प्या ।"अप्रामाण्यशङ्काप्रतिबन्धद्वारा निष्कम्पप्रवृत्तावुपयुज्यते प्रामाण्यज्ञानं"इति मण्युक्तेरित्यतो द्वितीयज्ञानेपि प्रामाण्यनिश्चय एव प्रवर्तक इति भावेनाह -- किञ्चेति द्वितीय इति ॥ गृहीतप्रामाण्यज्ञानसमानविषयके ज्ञानान्तर इत्यर्थः -- कॢप्तेति ॥"न च दृष्टान्तः साध्यविकलः उत्तरस्य ज्ञानस्य"इत्यादिना स्वतस्त्वानुमानावसरोक्तरीत्या कॢप्तसामग्रीकस्येत्यर्थः । अन्यत्र कॢप्तत्वाच्च द्वितीयज्ञानादावपि प्रामाण्यनिश्चय एव प्रवर्तक इति भावेनाह ॥
1. तर्हि - मुर्. 2. था - मु.
प्रा-नि-प्र-कत्वं) प्रामाण्यवादः पु - 102.
-------------- -------------- ------------
किञ्चाप्रामाण्यशङ्कानन्तरं प्रवृत्तौ प्रामाण्यनिश्चयो हेतुरिति तावदविवादम् । तत्र 1 निश्शङ्कप्रवृत्तित्वमेव कार्यतावच्छेदकं लाघवात् । न तु शङ्कानन्तरनिश्शङ्काप्रवृत्तित्वं गौरवात् ।तत्र प्रामाण्यनिश्चयो ऽप्रामाण्यशङ्कानिरासोपक्षीण इति गौरवादिना निरस्तम् । अन्यथा व्याप्त्यादिनिश्चयोपि व्यभिचारादिशङ्कानिरासोपक्षीणः स्यात् ।
किञ्च प्रामाण्यनिश्चयस्याप्रामाण्यशङ्कानिवर्तकत्वेनोपक्षये त्वत्पक्षे प्रामाण्यस्यानुमेयनावश्यकेन प्रामाण्यव्याप्यतया लिङ्गज्ञानेनैवाप्रामाण्यशङ्कानिवृत्तिसम्भवात्प्रामाण्यज्ञानस्य प्रवृत्तावनुपयोगात्तद्ग्रहणचिन्ता व्यर्था ।
किञ्चाप्रामाण्येति ॥ अविवादमिति ॥"परतः 2 पक्षे प्रामाण्यग्रहो न क्वचित्प्रवर्तकः"इति मण्युक्तेरस्ति विवादः । तथापि"यत्रचानभ्यासदशायामप्रामाण्यशङ्कार्थनिश्चयं परिभूययार्थसंशयस्तत्र प्रामाण्यनिश्चयाधीनज्ञानानर्थं निश्चित्य निष्कम्पं प्रवर्तते"इत्युक्त्या तत्र स्थले प्रामाण्यनिश्चयस्य नियतपूर्ववृत्तित्वाल्लघुत्वाद्धेतुत्वमवश्यं वाच्यमिति भावेनैवमुक्तिः । अन्यत्रोपक्षयात्कथं हेतुतेत्यत आह -तत्र प्रामाण्येति ॥ गौरवादिनेति ॥ गौरवातिगौरवा 3 दिना पूर्वमेव निरस्तमित्यर्थः । अतिप्रसङ्गं किञ्चद्व्यनक्ति -- अन्यथेति ॥
यदपि मणौ"नन्वेवं बहुवित्तव्ययायाससाध्ये"इत्यादिना प्रामाण्यज्ञानस्यानुपयोगमाशङ्क्याप्रामाण्यशङ्कानिवर्तकत्वेनोपयोगकथनं तदप्ययुक्तमित्याह -- किञ्च प्रामाण्येति ।
1. त - मु. 2. स्त्व - मु. 3. तिप्रसङ्ग - कुं. आ अ मु.
प्रा-नि-प्र-कत्वं) प्रामाण्यवादः पु - 103.
------------- ------------- ------------
यद्यपि व्यवसायः शङ्कानिवर्तकवरीक्षाकाले नास्ति । तथापि स्मृत्युपनीतस्य व्यवसायस्य प्रामाण्यनिश्चय एव प्रवर्तकः ।
यद्वा त्वन्मते गृहीतप्रामाण्येन ज्ञानेन समानशीलत्वादप्रामाण्यशङ्कारहितं ज्ञानान्तरमिवि मन्मते निरस्तप्रतिबन्धेन साक्षणा गृहीतप्रामाण्यं ज्ञानान्तरमेव प्रवर्तकम् । एतदप्युक्तम्"अन्यथे"त्यादिना । प्रामाण्यनिश्चयस्याप्रवर्तकत्वे व्याप्त्यादिनिश्चयो ऽनुमित्यादिहेतुरितिव्यवस्थायोगादित्यर्थः ॥
प्रामाण्यनिश्चयस्य प्रवर्तकत्वम्

11.6

अप्रामाण्यशङ्कानिवृत्तिस्थले व्यवसायस्य नाशेन प्रवृत्तिकाले ऽभावात्कथं प्रमात्वेन ज्ञानं प्रवृत्तिहेतुरित्याशङ्क्य द्वेधा समाधिमाह -- यद्यपीत्यादिना ॥ स्मृतीति ॥ पररीत्येदम् । यद्वा सिद्धान्ते साक्षिरूपनित्यज्ञानविषयस्यापि
स्मृत्युपनीतत्वप्रकारो जिज्ञासानयभाष्यटीकाभावदीपे ऽस्माभरुक्तो ध्येयः -- एतपीति ॥ प्रामाण्यनिश्चयस्याप्रवर्तकत्वे ऽतिप्रसङ्ग इत्येतदपीत्यर्थः ॥
प्रामाण्यनिश्चयस्य प्रवर्तकत्वम्

11.7

एवं 1 प्रामाण्यनिश्चयस्य प्रवर्तकत्वसाधनेन तन्निश्चयस्य परते 2 ज्ञायमानत्वे ऽनवस्थाद्वयमुक्त्वा अप्रामाण्यशङ्काशून्यस्यार्थनिश्चस्य प्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्चयस्यावश्यकत्वादनवस्थाद्वयं दुर्वारमेव परतस्त्वपक्ष इत्याह ॥ किञ्चेति ॥
1. एवं इति न - अ. 2. जा - मु. आ.
परतस्त्वे अनवस्थोक्तिः प्रामाण्यवादः पु - 104.
--------------------- ---------- ---------
किञ्चाप्रामाण्यशङ्काभावस्य प्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्यो वाच्यः । ननु धर्म्यज्ञानादिनापि शङ्काभावो युक्तः । न हि ज्ञानं ज्ञातं सदेव प्रवर्तकम् । सत्यप्यर्थज्ञाने तदज्ञानेनाप्रवृत्यदर्शनादिति चेन्न । न तावद्धर्म्यज्ञानं युक्तम् ।
1. यद्वा प्रामाण्यनिश्चयस्य प्रवर्तकत्वपक्षे तस्यावश्यवेद्यत्वेप्यप्रामाण्यशङ्काशून्यार्थनिश्चयस्य प्रवर्तकत्वपक्षे तदननश्यकत्वान्नानवस्थेत्यत आह 1 । किञ्चेति ॥ प्रवर्तकत्वेपीति --- प्रवर्तकार्थनिश्चयसहकारित्वेपीत्यर्थः । यद्यपि सिद्धान्ते परीक्षायाप्रामाण्यशङ्कानिवृत्तावेव साक्षिणा प्रामाण्यनिश्चयेन प्रामाण्यनिश्चस्याप्रामाण्यशङ्काभावार्थत्वं नास्ति ।"सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन्निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति"इति तत्वनिर्णयटीकाद्युक्तेः । तथापि"यत्र तु प्रामाण्यज्ञाने ऽप्रामाण्यशङ्कया प्रामाण्यसंशयः तत्र प्रामाण्यज्ञाने प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः"इतिमण्युक्तेस्तं प्रत्येतदापादनमित्यदोषः ।
ननु तच्छङ्काभावः प्रामाण्यनिश्चयरूपप्रतिबन्धादिव स्वहेत्वभावादपि संभवतीति भावेन"प्रामाण्यनिश्चयानवश्यंभावात्"इति मण्याद्युक्तशङ्कते ॥ नन्विति ॥ तथात्वे प्रवृत्तिर्न स्यादित्यत आह ॥ नहीति --"ज्ञानं ह्यबुभुत्सितग्राह्यतया तीव्रसंवेदनं"इत्यादिप्रथमपादीयसुधावाक्यं विवृण्वन्नाह ॥ न तावदिति -- कोट्यस्मरणं चायुक्तमिति कल्पापेक्षया तावच्छब्दः ॥ अज्ञानं हि तदर्थयोग्यत्वाभावेन वा सन्निकर्षादिसामग्र्यभावेन वा सहकारिविहप्रयुक्तसामग्र्यभावे -----
1. अयङ्ग्रन्थः कुं. पुस्तके कुण्डलितः. 2. समस्तंपदम् - अ. कुं.
प-अन-क्तिः) प्रामाण्यवादः पु - 105.
----------- ----------- ---------
योग्यस्य धर्मिणो ज्ञानस्य मनस्संयुक्तात्मसमवायरूपसम्प्रयोगवत्वेनैवोत्पत्या ज्ञानत्वेन 1 ज्ञानज्ञानसामग्र्याः सत्वात् ।
न च ज्ञानज्ञाने बुभुत्सा हेतुः सा च सार्त्रिकीति वाच्यम् । ज्ञानस्य सुखादिवद्योग्यात्मविशेषगुणत्वेनाबुभुत्सितग्राह्यत्वात् । बुभुत्साया ज्ञानरूपधर्मिज्ञानसाध्यत्वेनानवस्थानाच्च ।
न वा प्रतिबन्धेन 2 वेति चतुर्धा 2 । आद्यद्वयं न प्रकृत इत्याह । योग्यस्येत्यादिना -- मनस्संयुक्तेत्याद्युक्तिः पररीत्या । सिद्धान्ते त्वात्मसंयुक्तमस्समवायेत्यर्थः । समवायस्तादात्म्यं ज्ञेयम् । सु 4 स्वाद्यनुभवरूपसाक्ष्याशेयेन वायं ग्रन्थः सिद्धान्ते योज्यः । सत्यपि धर्मिज्ञाने साधारणधर्मादर्शनादसन्देह इति शङ्कापनोदायोक्तं ज्ञानत्वेन ज्ञानज्ञाननेति ॥
न च ज्ञानत्वनिर्विकल्पकविलम्बात्तदभावः । निर्विकल्पस्यप्यनुत्पत्तौ बीजाभावान्निरसिष्यमाणत्वाद्वेति भावः । एतेन"सुखादिवत्सत्यां सामग्र्यां वेद्यत्वापरिहारात्"इति तत्वनिर्णयटीका विवृता ॥
सहकार्यन्तरविरहान्न ज्ञानज्ञानमिति तृतीयमाशङ्क्य निराह ॥ न चेति ॥ अनवस्थानाच्चेति ॥ बुभुत्साहीच्छाविशेषः ।
तस्याः स्वविषयज्ञानसाध्यत्वाद्बुभुत्साहेतुज्ञानस्य धर्मिज्ञानविषयकस्य तद्विषयबुभुत्सासाध्यत्वात् सा च तद्विषयज्ञानसाध्येति पूर्वपज्ञानव्यक्तिबुभुत्साव्यक्तिपरम्परयानवस्थानाच्चेत्यर्थः ।
1. एकं ज्ञानपदंन - मु. 2. पुस्तके नास्ति - मु. । अज्ञानं हि द्वेधा । योग्यत्वाभावेन वा सन्निकर्षादिसामग्र्यभावेन वा । न द्वयं प्रकृत इत्याह - अ.
4. सुखानु - आ.
प-अन- क्तिः) प्रामाण्यवादः पु - 106.
------------ ---------- ----------
वर्तमानस्वीयज्ञाने बुभुत्साया अदर्शरनाच्च ॥
न च धर्म्यज्ञानरूपफलबलात्सुखादुसामग्री तज्ज्ञानसामग्री वा 1 ज्ञानप्रतिबन्धिका कल्प्यत इति वाच्यम् । धर्म्यज्ञानस्याद्यप्यसिद्ध्यान्योन्याश्रययात् । ज्ञानस्याज्ञानं तत्र कदाचित्संशयाद्यापाताच्च । कोट्यस्मरणं चायुक्तम् । ज्ञानत्वरूपसाधारणधर्मदर्शनस्य यागादौ निष्कम्पप्रवृत्त्यर्थं प्रामाण्यादिरूपविशेषबुभुत्सायाश्य सत्वेन तत्स्मरणसामग्र्याः सत्वात् ।
भविष्यदादिज्ञानज्ञाने कथञ्चिद्बुभुत्सासम्भवेपि न वर्तमाने । तथाच तत्र व्यभिचारान्नक्वापि सा ज्ञानज्ञानहेतुरित्याह - वर्तमानेति ॥ स्वीयेति ॥ यद्यपि स्वस्येदमित्यर्थे ऽणिकृते स्वशब्दस्य द्वारादिषु पाठेन"द्वारादीनाञ्चे"तिसूत्रेण वकारात्पूर्वमैजागमेनौकारे सति सौवेति भाव्यं । तथापि स्वस्मै हितमित्यर्थे"प्राक् क्रीताच्छ"इति छप्रत्यये स्वीयेति साध्विति ज्ञेयम् ।
चुतुर्थं निराही । न च धर्म्यज्ञानेति -- व्यवसायरूपधर्मिणो ऽज्ञानेत्यर्थः । ज्ञानस्याज्ञान इति ॥ अननुव्यवसाय इत्यर्थः । एतेन"न च जिज्ञानसायामेवानुभवो ऽनुभूयते"इत्यादिभाष्यटीका विवृता ध्येया । कोट्यस्मरेणनेत्येतन्निराह । कोट्यस्मरणं चेति --"ज्ञाने हि ज्ञाते तत्प्रामाण्यानुपलब्धौ कथं संशयो न स्यात्"इति तत्वनिर्णयटीकां विवृण्वा 2 न आह -- ज्ञानत्वेति ॥
1. ज्ञानज्ञान - कुं-छ-ख-ग-क. 2. न्नाह - मु.
प-अन-क्तिः) प्रामाण्यवादः पु - 107.
----------- ---------- ----------
न च विषयान्तरसञ्चरादसंदेह इति युक्तम् । यागादौ निष्कम्पप्रवृत्तिहेत्वसंदेहप्रयोजकविशेषावधारणाय विषयान्तरसञ्चारस्यैव निरोद्धव्यत्वात् । न हि प्रेक्षावन्तो बहुवित्तव्ययाससाध्ये साधनत्वानिश्चयेपि 1 विषयान्तरसञ्चारसम्पादितासन्देहमात्रेण चैत्यवन्दनादौ प्रवर्तन्ते ।
किञ्चोक्तरीत्या सम्पन्नसामग्रीकेण कॢप्तेन प्रामाण्यनिश्चयेनैवासन्देहसम्भवे कथं विषयान्तरसञ्चारादिकल्पनम् ।
अपि च विषयान्तरसञ्चारेपि सुखादिज्ञानप्रामाण्ये नियमेनासन्देहो दृश्यत इति नासावसन्देहहेतुः । अन्यथा सुखादिकमपि कुखत्वादिना नावश्यवेद्यम् । तत्रासन्देहस्तु धर्म्यज्ञानादिनेति स्यात् । तत्र सामग्रीसत्वादवश्यवेद्यतेति चेत्समंप्रामाण्येपि ॥
मण्युक्तमन्यदपि निराह । न चेति -- परकीयप्रवृत्तिहेतुभूतः शङ्काभावः प्रामाण्यनिश्चयहेतुक एव । न तु विषयान्तरसञ्चारहेतुक इति तु दुर्ज्ञानमित्यत आह -- किञ्चोक्तरीत्येति ॥ बाधोद्धारग्रन्थोक्तरीत्या सम्पन्नसामग्रीकेण प्रामाण्यनिश्चयप्रवर्तकत्वावादोक्तरीत्या कॢप्तेनेत्यर्थः । व्यभिचाराच्चासन्देहहेतुरेवायं न भवतीत्याह । अपि चेति ॥ अन्यथेति -- कॢप्तासन्देहहेतुत्यागेनाकॢप्तहेतुकल्पन इत्यर्थः । सममिति -- अत्रापि सामग्र्याः बाधोद्धारग्रन्थ उपपादितत्वादिति भावः ।
1. संदेहसंभवे - क.
प-अन-क्तिः) प्रामाण्यवादः पु - 108.
---------- ---------------- ------------

एतेन शङ्काविश्रान्तिभूमौ सुखादिज्ञाने प्रामाण्यव्याप्यस्य सुखज्ञानत्वादेर्विशेषस्य दर्शनादेवासंशय इति निरस्तम् । प्रामाण्यव्याप्यतया सुखज्ञानत्वदुःखज्ञानत्वादिज्ञानादपि पामाण्यज्ञानस्य लघुत्वात् । सुखज्ञानत्वादेः प्रामाण्यव्याप्यत्वाग्रहेप्यसंशयदर्शनाच्च । जन्मान्तरीयव्याप्तिग्रहकल्पनस्य 1 चातिप्रसङ्गित्वात् । तस्मात्प्रामाण्यस्यावश्यवेद्यत्वादनवस्थाद्वयं दुष्परिहरम् ।
यदपि"विशेषदर्शानान्न तत्राप्रामाण्यशङ्का"इति मणिवचनं तद्विवरणपूर्वं तदपि नेत्याह । एतेनेति ॥ व्याप्यतयेति -- स्वरूपज्ञानमात्रस्याप्रयोजकत्वादिति भावः । प्रामाणिकं गौरवं न दोषावहमित्याह । सुखाज्ञानत्वादेरिति -- यद्वा व्यभिचारान्नायसंशयहेतुरित्याह ॥ सुखेति -- व्यभिचारासिद्धिमाशङ्क्य निराह ॥ जन्मेति अतिप्रसङ्गित्वादिति -- ज्ञानहेतुकत्वव्यभिचारस्थले सर्वत्रैवं परिहारसम्भवादिति भावः । यद्वा 2 नारिकेल द्वीपवासिनो वह्न्यनुमानापत्तेरिति भावः 2 । एवमियता ग्रन्थेन"अवश्यवेद्यत्वाभावान्ननवस्थेत्यभिप्राय इति चेन्न । निश्शङ्कं प्रवृत्ताववश्शेवेद्यत्वात्"इति तत्वनिर्णयटीकावाक्योक्तं निश्शयङ्कप्रवृत्यर्थं तद्धेत्वप्रामाण्यशङ्काभावार्थं चावश्यवेद्यमित्यतीतवादत्रये चोपपाद्योपसंहरति ।
तस्मादिति -- अतीतवादोक्तदीशा निश्शङ्कप्रवृत्यर्थं अत्र वादे उक्तदिशा धर्म्यज्ञानादिना शङ्कभावायोगेनाप्रामाण्यशङ्काभावार्थं च प्रामाण्यनिश्चचस्यापेक्षितत्वादित्यर्थः ।
1. स्याति - ख. 2. इयं पङ्तिः नास्ति - अ.
प-अन-क्तिः) प्रामाण्यवादः पु - 109.
----------- ------------- ----------
एतदप्युक्तं"अन्यथा"इत्यादिना । परतस्त्वे उक्तानवस्थाद्वयापत्तेरिर्यर्थः ।
ननु त्वन्म 1 ते यद्यपि प्रामाण्यग्रहणार्थं संवादविसंवादभावारूपपरीक्षा नारेक्षिता । तथापि दोषशङ्कादिरूपप्रतिबन्धनिरासार्थं सापेक्षितैव । तथा चतत्रापिदोषशङ्कायां तन्निरासाय परीक्षान्तरमित्यनवस्था तुल्यैवेति चेन्न । साक्षिवेद्यसुखादुःखादिज्ञाने दोषशङ्काया अभावेन परीक्षानवस्थाभावात् । उक्तं हि भगवत्पादैः ।
"न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात्" इति ॥
परतस्त्वे अनवस्थोक्तिः

11.7

एतदपीति -- परतस्त्वे प्रामाण्यज्ञानस्यापीत्यादिनोक्तमित्यर्थः ।
"अवश्यं तत्स्वतः प्रामाण्यग्रहणवादिनाप्यङ्गीकर्तव्यं"इत्यादि टीकार्यं निष्कृष्य वक्तुं स्वमते ऽनवस्थादोषं शङ्कापूर्वमुद्धरति -- नन्वित्यादिना ॥ उक्तं हीति ॥
ज्ञानपादीयानुव्याख्यान इत्यर्थः ॥
परतस्त्वे अनवस्थोक्तिः

11.8

एवं परस्त्वे अनवस्थाद्वयोक्त्या स्वतस्त्वहेतूनामप्रयोजकत्वं निरस्य विपक्षे ऽनुमित्यसंभवबाधकान्तरादपि नाप्रयोजकाः स्वतस्त्वहेतव इति भावेनाह---
किञ्चेति ॥
1.ते ऽपि - ख.
परतस्त्वे प्रथमप्रामाण्यानुमित्यसंभवः प्रामाण्यवादः पु - 110.
---------------------------------- ---------- --------
किञ्च प्रामाण्यमनुमेयं चेत्कथं प्राथमिकं तज्ज्ञानम् । अप्रसिद्धविशेषणत्वेनानानुमानाप्रवृत्तेः । प्रवृत्तिगतसंवादरूपवौचित्र्येण तद्धेतुज्ञाने वैचित्र्यानुमानेपि वह्न्यर्थिप्रवृत्तिहेतोर्वह्नित्ववति वह्नित्वप्रकारकत्वादिरूपप्रामाण्यस्य विशिष्यासिद्धेः ॥
न च प्रामाण्यमात्रनिषेधे व्याघातदण्डभयेन विशेष्यवृत्तिप्रकारकत्वरूपं प्रामाण्यं सामान्यत 1 एव प्रसिद्धं वह्निज्ञाने साध्यज्ञानं पक्षधर्मताबलाद्वह्नित्ववति वह्नित्वप्रकारकत्वादौ पर्यवस्यति ।
ननुक्तमत्र मणौ"प्रथमं च प्रामाण्यज्ञानं व्यतिरेकिणा"इति तत्राह -- अप्रसिद्धेति 2 ॥ साध्याप्रसिद्धौ तन्निरूपितव्याप्त्यज्ञानादिति भावः । ननु संवादप्रवृत्तिहेतुविलक्षणहेतुसाध्या तद्विलक्षणकार्यत्वादित्यनुमानेन सिद्ध्याद्वैसक्षण्यं प्रामाण्यरूपमेव सेत्स्यतीत्यत आह -- प्रवृत्तीति ॥ दाहसमर्थविशेष्यप्रवृत्तिप्रकारत्वादिरादिपदार्थः ॥
प्रकारान्तरेणप्रसिद्धिमाशङ्क्य निराह ॥ न चेति -- विशेष्यवृत्तिप्रकारकज्ञानं नास्ति, प्रमानास्तीत्यादिनिषेधस्य क्वचित्प्रमाप्रसिद्धि विनानुपपत्तेस्तदर्थं तत्प्रसिद्ध्य 4 भ्युपगमे व्याघातरूपदण्डप्रसङ्गात्तद्भयेन क्वचित्प्रसिद्धेरवश्यवाच्चत्वात् -- सामान्यतः सिद्धमित्युक्तम् ॥ साध्यमानमिति -- वह्निज्ञानं विशेष्यवृत्तिप्रकारकं समर्थप्रवृत्तिहेतुत्वादिति व्यतिरेकिणा साध्यमनमित्यर्थः ॥
1. तः सिद्धं - कुं - ग- ख. 2. अप्रसिद्ध इति - मु. 3. ष्यकत्वादि - कुं वह्न्यवृत्तिप्रकारावच्छिन्नत्वादिरादिपदार्थः - अ. 4. द्व्यन - कुं.
पस्त्वे-प्रप्रा-ण्यात्य-भवः) प्रामाण्यवादः पु - 111.
---------------------- ------------ --------
एवं च नाप्रसिद्धविशेषणत्वं नाप्यसाधारण्यमिति वाच्यम् । प्रथमे चस्वार्थानुमाने
व्याघातानुपस्थितेः । स्वयं निषेधस्य च तद्धीपूर्वकत्वात् ।
न च तत्र 1 प्राग्भवीयसंस्कारजन्या स्मृतिरूपा तत्प्रसिद्धिः । प्रथमप्रामाण्यज्ञानस्य प्रामाण्यस्वतस्त्वेनैवोपपत्तौ तत्कल्पकाभावात् ।
अथ प्रथमं अयं वह्नित्वेनानुभवो वह्नित्वप्रकारकत्वे सति ---
नाप्यसाधारण्यमिति -- व्यक्तविशेषे साध्यस्यानिश्चयेन सपक्षानिर्णयादिति भावः। ननु स्वार्थानुमाने परकीयव्याघाचानवतारेपि स्वकीयप्रामाण्यनिषेधानुपपत्त्यैव तत्सिद्धिः स्यादित्यत आह ॥ स्वयमिति - तथा च सा धीरेव कथं स्यादिति मृग्यत इति भावः ।
"प्राग्भवीयसंस्काराद्विशेष्यावृत्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा तत्प्रामाण्यं तन्मात्रं स्मृतं वह्निज्ञानादौ साध्यमानं"इत्यादिना मणिगृदुक्तं तत्सम्प्रदायविदां मतमनूद्य निराह ॥ न च तत्रेति -- प्रथमप्रामाण्यानुमितिस्थल इत्यर्थः । उपपत्ताविति -- तदुपपत्तिप्रकारश्च बाधोद्धारग्रन्थे संशयोपपादनग्रन्थादौचोक्त इति भावः ।
"वयं तु ब्रूमः प्रथमप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणासाध्यं"इत्यादिनोक्तं मणिकृदभिमतं पक्षमाशङ्कते -- अथेति ॥ भ्रमव्यावृत्यर्थमयामित्युक्तिः । द्रव्यत्वादिना वह्न्यनुभवे ऽबाधाय 2 वह्नित्वेनेत्युक्तिः ।
1. ख क. पुस्तके"तत्र"इति नास्ति. 2. बाधवारणाय - अ.
परतस्त्वे-प्रप्रा-ण्यात्य-भवः) प्रामाण्यवादः पु - 112.
------------------------ ------------ ----------
-- वह्नित्वाभाववद्विशेष्यको न समर्थप्रवृत्तिजनकत्वात् व्यतरेकेणाप्रमावदित्यनुमानेनाप्रामाण्याभाव एवानुमेयः । तत एव निष्कम्पप्रवृत्तेः । न च तत्रापि साध्याप्रसिद्धाप्रसिद्धिर्देषः । अभावसाध्यके 1 व्यतिरेकिणि साध्यप्रसिद्धिं विनैव साध्याभावरूपस्य 2 भावस्य हेत्वभाव्याप्यत्वग्रहात् ।
"वह्नित्वाभाववति वह्नित्वप्रकारकोन"इति मण्युक्तसाध्यस्य यज्ञपतिटीकानुरोधेनार्थोक्तिर्वह्नित्वप्रकारकत्वेसतीत्यादिसत्यन्तं न 3 नञर्थभूताभावविशेषणम् । 4 एवं च अत्र वह्नित्वमिति ज्ञाने वह्नित्वाभाववद्वह्नित्वविशेष्यकत्वसत्वेपि विशेषणाभावप्रयुक्तविशिष्टाभावरूपसाध्यसत्वान्न व्यभिचारः । अत एव 4 मणौ
"दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकत्वादिसमर्थप्रवृत्तिजनकत्वाभावयोः"इत्यग्रे तदीयग्रन्थानुरोधात्समर्थेत्यादिहेतूक्तिः । 5 अन्यथा साध्ये विशेष्यवैयर्थ्यात् 5 । वह्निविषयकेति समर्थप्रवृत्तिर्विशेषणीया । तेन न घटादिज्ञाने व्यभिचारः । एवमप्यत्र वह्नित्वमिति ज्ञाने व्यभिचार इति चेत् । एवं तर्हि वह्नित्वप्रकारकत्वेसतीति विशेषणम् । ननु प्रामाण्यनिश्चयाभावे कथं प्रवृत्तिरित्यत आह -- तत एवेति ॥ अप्रामाणण्याभावज्ञायत इत्यर्थः । प्रामाण्यविश्यस्यापि तन्मते तत्रैवोपयोगादिति भावः -- अभावसाध्यक इति । व्याप्तिज्ञानार्था हि साध्यसिद्धिः । व्याप्तिश्च साध्याभावहेत्वभावयोरेव ।
1. केवल - ग. 2. पभा- कुं. 3."न"इति नास्ति -मु.आ. 4. अयं ग्रन्थः
-मु. आ. पुस्तके नास्ति. 5. मु. आ. पुस्तके नास्ति.
पस्त्वे-प्रप्रा-ण्यत्य-भवः) प्रामाण्यवादः पु - 113.
--------------------- ------------- --------
यद्वा वह्नित्वाभाववद्विशेष्यको नेत्येव साध्यम् । पक्षधर्मताबलादप्रामाण्याभावसिद्धिः । न च घटादिरूपात्सपक्षाद्व्यावृत्यासाधारणम् । तस्यानित्यदोषत्वादिति चेन्मैवम् । प्रथमस्य प्रामाण्यग्रहणस्योपाये पृष्ठे ऽप्रामाण्याभावग्रहणोपायकथनस्य व्यधिकरणत्वात् ॥
तथाच तयोरेव ज्ञानमावश्यकम् । तत्र च साध्याभावो ऽप्रामाण्यमेव । तच्चभावरपंसाध्यभूतस्वाभावरूपप्रतियोगिज्ञानं नापेक्षते इति तदप्रसिद्धावपि यत्राप्रामाण्यं तत्र समर्थप्रवृत्तिजनकत्वाभाव इति हेत्वाभावेन व्याप्यत्वग्रहसम्भवा1 दिति भावः ।
वह्नित्वप्रकारकत्वे सतीति विशेषणवैयर्थ्यं मन्वानः पक्षधराद्युक्तसाध्यनिष्कर्षमाह -- यद्वेति ॥ कथं तर्हि तदभाववति तत्प्रकारकत्वरीपाप्रामाण्यस्याभावः सिद्ध्येत्यत आह -- पक्षेति ॥ उक्तहेतोर्वह्नित्वप्रकारकत्वरूपाप्रामाण्यनिषेधो विशेषणाभावो बाधाद्विशेष्याभावमादायैव विशिष्टनिषेधे पर्यवसतीति तन्मात्राभावसाधने विशिष्टाभावः सिद्ध्यतीर्थः । 3. अत्रापि पूर्ववद्धेतुविशेषणं ध्येयम् । तेन न प्रगुक्तव्यभिचारः-- घटादिरूपात्सपक्षादिति ॥ तस्य निर्विषयकत्वेन तत्र साध्यसत्वनिश्चयादिति भावः -- अनित्येति ॥ अनुकूलतर्काभाववेलायामेव दोषत्वादिह च हेतूच्छित्तिरूपविपक्षबाधकस्यानुकूलतर्कस्य सत्वेनादोषत्वादित्यर्थः-- व्यधिकरणत्वादिति ॥ अर्थान्तरत्वरूपनिग्रहस्थानापत्तेरिति भावः । इदं प्रमेयमित्यादौ प्रमेयत्वाभावाप्रसिद्ध्य तद्घटिताप्रामाण्याभवानुमानासंभवाच्चेत्यपि ध्येयम् ।

1. दित्यर्थः - आ. कुं. 2. वह्नित्वा -आ. मु. 3. अत्र च वह्नित्वप्रकारकनिश्चयत्वादित्यपि हेतुविशेषणं ध्येयम् -अ.
न चोक्तव्यतिरेक्येव पक्षधर्मताबलाद्वह्नित्ववद्विशेष्यकत्वरूपं प्रामाण्यं गृह्णातीति वाच्यम् । व्याप्त्या व्यापकतावच्छेदकावच्छिन्नत्वेनोपस्थापितस्यापूर्वस्य व्यनक्तिविशेषस्यैव पक्षधर्मतया पक्षसम्बन्धसिध्या तथानुप 2 स्थापितस्योक्तरूपप्रामाण्यस्य पक्षसम्बन्धबोधने तस्या असामर्थ्यात् ।
एतेन अप्रामाण्याभावानुमित्यनन्तरं अयं वह्नित्वेनानुभवो वह्नित्वलवद्विशेष्यकः अवन्ह्यविशेष्यकत्वे सति ---
ननु विरुद्धप्रकारद्वये तदभाववद्विशेष्यकत्वाभावे तद्वद्विशेष्यकत्वमादायैव पर्यवसानम् । अन्यथा हेतोः पक्षसंबन्धो न घटत इत्याशयेन"तदभाववति तत्प्रकारकत्वव्यतिरेकत्वव्यतिरेकः सिद्ध्यंस्तद्वति तत्प्रकारकत्वमादाय सिद्ध्यति । तृतीयप्रकाराभावात्"इति मण्युक्तमाशङ्क्य निषेधति - नचेति ॥ व्याप्त्येति ॥ यद्धर्मावच्छिन्ननिरूपितव्याप्तिर्यद्धर्मावच्छिन्नस्य गृहीता तद्धर्मावच्छिन्नस्य पक्षधर्मतया तद्धर्मावच्छिन्नस्यैव सिद्धिः स्यात् । न तु प्रामाण्यस्येत्यर्थः ।
न चायं नियमो ऽन्वयिनि हेतौ न व्यतिरेकिणीति शङ्क्यम् । व्यतिरेकसहचारेणान्वयव्याप्तिर्गृहीत इति मताभिप्रामायेण शङ्क्यम् । व्यतिरेकसहचारेणान्वयव्याप्तिर्गृहीत इति मताभीप्रामायेण वा व्यतिरेकिण्यपि हेत्वभावव्यप्याभावविषयत्वनैयत्वनैयत्याभिप्रायेणवैवमुक्तिः-- तस्या इति ॥"इदं
वह्नित्वप्रकारकं ज्ञानं वह्नित्ववद्विषयकं"इत्यादिना मण्युक्तं पक्षान्तरं निराह -- एतेनेति ॥ विषयपदं विशेष्यपरमिति तदीय व्याख्यानोक्तर्विशेष्यक इत्युक्तम् ॥------------------------------------------------------------------------
1. स्थित - ग. 2. स्थि- कुं-च.ग. 3. यद्वेदं - अ.
पस्त्वे-प्रप्रा-ण्यात्य-भवः) प्रामाण्यवादः पु - 115.
---------------------- ----------- ----------
-- सिविशेष्यकत्वादिति व्यतिरेक्यन्तरेण तत्सिद्धरिति निरस्तम् । वैशिष्ट्यमनुव्यवसायवेद्यमिति परतः 1 पक्षे साध्याप्रसिद्धेः ॥
किञ्चाप्रामाण्यमपि यद्यनुमेयं तर्हि कथं तत्प्रसिद्धिः । येनाप्रामाण्याभावसाधकहेतौ साध्याभावरूपाप्रामाण्यव्यापकाभावप्रतियोगित्वज्ञानम् । यदि तु बाधानन्तरं स्मृत्युपनीते भ्रमे वह्नित्वाभाववति वह्नित्वेन ज्ञानं मम वृत्तमित्यप्रामाण्यं मनसा परिच्छिद्यते तर्हि प्रवृत्तिसामार्थ्यानन्तरं ----
साध्याप्रसिद्धेरिति । न च प्राग्भवीयसंस्कारानुसरणाददोष इति शङ्क्यम् । निरस्तत्वात् । आदावेवैवमनुमानसम्भवे प्रथममप्रामाण्याभावानुमानस्य व्यर्थत्वाच्चेत्यपि 3 ध्येयम् । अप्रामाण्यचाभावानुमानेपि व्यतिरे 4 कव्याप्याप्रसिद्ध्या व्याप्त्यसिद्धिरित भावेनाह -- किञ्चेति ॥ द्वितीयानुव्यवसाये 5 नाप्रामाण्यं प्रसिद्धमित्याश्ङ्क्ये -- यदित्विति ॥ नायं वह्निरितिबाधान्तरमित्यर्थः-- स्मृतीति ॥ वह्निभ्रमानुव्यवसायजन्यस्मृतीत्यर्थः -- अप्रामाण्यमिति ॥ बाधरूपानुभवजन्यस्मृत्युपनीतमित्यर्थः । प्रामाण्यस्यापि पञ्चमानुव्यवसायवेद्यत्वमस्त्वित्याह --तर्हिति ॥ तथा च पञ्चमानुव्यसायमादाय साध्यप्रसिद्ध्या प्रामाण्यानुमानस्यैव प्राथमिकत्वसंभवे किं प्रामाण्याभावानुमानेनेति भावः । अभ्युपेत्य चेदमुक्तम् । वस्तुतस्तु प्रामाण्वानुमानमेवायुक्तम् ।
1. परपक्षे -मु. 2. बोध्यम् -मु.अ. 3. के-मु. 4.नुमाने - कुं.
स्मृत्युपनीते व्यवसाये स्मृत्युपनीतं वह्नित्ववैशिष्ट्यविषयकत्वमेव मनसा परिच्छिद्यताम् ।आदावेव वा व्यवसायगतं तदुपनीतवह्नित्ववैशिष्ट्यविषयकत्वमनुव्यवसायैनैव परिच्छिद्यताम् किमनया कृसृष्ट्या ॥
एतेन वह्नित्ववद्विशेष्यकत्वमिच्छादौ मनसा प्रविद्धमिति निरस्तम् । तथात्वे उक्तरीत्या प्रामाण्यस्यैव मनसा परिच्छेदसम्भवात् ॥
किञ्च प्रमासमर्थप्रवृत्योः कार्यकारणभावो नियमगर्भः । नियमश्चानन्त्यव्यभिचाराभ्यां न व्यक्त्योरेव ।
पञ्चमानुव्यवसायवेद्यत्वोपगमे च प्रथमानुव्यवसायवेद्यत्वस्य सुतरामुपेयत्वस्योपपादिततत्वादिति भावेनाह -- आदावेव वेति ॥ कुसृष्ट्येति ॥ पूर्वमप्रामाण्याभावानुमानं पश्चात्प्रामाण्यानिमानं अप्रामाण्यप्रसिद्ध्यर्थं पञ्चमानु व्यवसायानुसरणामित्यादिरीपाकुसृष्ट्येत्यर्थः ।
ननु वह्नित्ववति वह्नित्वेनेच्छावानहामित्यनुव्यवचसायेनेच्छोपनीतं त 2 द्वत्वमिच्छायां गृह्यते । एवं द्वेषादाविति तत्र प्रसिद्धं वह्निज्ञाने साध्यताम् । एवं च नाप्रसिद्धिरित्य आह -- एतेनेति ॥ उक्तरीत्येति ॥ बाधोद्धारग्रन्थोक्तरीत्या व्यवसायोपनीतस्येत्यर्थः ।
एवमनुमयत्वपक्षे प्रामाण्यस्याप्रामाण्यस्य चाप्रसिद्ध्युक्त्या तन्निरूपितव्यप्त्यासिद्धिमुक्ता हेतोः प्रमित्यसिद्धिमाह -- किञ्चेति ॥ नियमेति ॥ या प्रमा सा समर्थप्रवृत्तिपूर्वभाविनीत्येवंरूपनियमेत्यर्थः-- व्यभिचा 3 राभ्यामिति ॥ एतत्प्रमाव्यक्त्यभावेपि व्यक्त्यन्तरेण प्रवृत्तिदर्शनादित्यर्थः ।
पस्त्वे-प्रप्रा- ण्यत्य-भवः) प्रामाण्यवादः पु - 117.
---------------------- ---------- ----------
किन्तु प्रमात्वावच्छेदेनेति प्रमात्वे ज्ञाते प्रवृत्तिकारणत्वज्ञानं तेनैव च प्रमात्वज्ञानमित्यन्योन्याश्रयः ॥
न च गुणजन्यत्वाद्यवच्छेदेन नियमः ।
"नियमश्च न व्यक्त्योरेव व्यभिचारादतिप्रसङ्गाच्च"। इत्युत्पत्तिप्रामाण्ये त्वयैवोक्तिरिति भावः -- अन्योन्याश्रय इति ॥ यदि क्वचिन्मनसा प्रामाण्यग्रहोपगमेव तत्र प्रवृत्तिकारणत्वग्रहान्नन्योन्याश्रायस्तर्हि प्रथमेव प्रामाण्यं मनसा गृह्यताम् ।
कमनुमानेनेति भावः । एतच्च प्रामाण्य 1 ज्ञानं प्रवृत्तिकिरणमित्युपेत्योक्तम् । अप्रामाण्याभावज्ञानमेव प्रवृत्तिकारणमिति पक्षे प्रमात्वपदमप्रमात्वाभावपरं ज्ञेयम् ।
यद्वा"तदभाववति तत्प्रकारकत्वव्यतिरेकः सिध्यंस्तद्धति तत्प्रकारकतामादाय सिध्यति । तृतीयप्रकाराभावेन तेन विना साध्यस्योपसंहर्तुमशक्यत्वात्"इति ग्रन्थेनाप्रामाण्याभावानुमानमेव प्रामाण्यानुमानमित्युक्तत्वात्प्रमात्वपदप्रयोगः ।
एतेन दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकनिश्चयत्वादित्यपि हेतुः परास्तः । प्रथमं जनकत्वस्य दुर्ज्ञानत्वात् । दाहसमर्थविशेष्यकवह्नित्वप्रकारकनिश्चयत्वादित्यादिरपि दाहसमर्थविशेष्यकत्वस्यादौ दुर्ज्ञानत्व 2 स्य प्रागेवोक्तत्वान्निरस्तप्रायः । दाहसमर्थेत्येवमादिरूपहेतूनां प्रमात्वसामान्या 3 ननुमापकत्वाच्च ।
प्रमात्वसमनियतधर्मावच्छेदेनास्तु तद्ग्रह इत्याशङ्क्य निराह-- न चेति ॥ आदिपदेन दोषाभावजन्यत्वादुष्टत्वादुष्टकरणजन्यत्वादिग्रहः-- प्रमात्वस्येति ॥
अनित्यज्ञाननिष्ठस्येत्यर्थः ।
1. प्रमात्व - मु- अ. 2. नस्य - कुं. 3. न्यानु - मु.
पस्त्वे- प्रप्रा-ण्यात्य-भवः) प्रामाण्यवादः पु - 118.
----------------------- ------------- ---------
जन्यतावच्छेदकस्या 1 प्रमात्वस्या 1 ज्ञाने गुणजन्यत्वस्यैव दुर्ज्ञानत्वात् ॥

किञ्च न प्रवृत्तिसामर्थ्येन प्रामाण्यानुमानम् । चन्द्रतारादिज्ञाने तदभावात् । प्रवृत्तेः प्रामाण्यज्ञानधीनत्वेनान्योन्याश्रयाच्च । मणिप्रभायां मणिभ्रमे व्यभिचाराच्च । मणिप्रभायां मणिभ्रमे व्यभिचाराच्च । नापि संवादेन । ज्ञानान्तरसंवैदस्य व्यभिचारात् । प्रमासंवादस्याद्यप्यसिद्धेः । विसंवादाभावस्य चानुपसञ्जातबा 2 धभ्रमेपि सत्वात् । विसंवादयोग्यत्वाभावस्य च प्रमात्वाज्ञाने दुर्ज्ञानत्वात् । गुणजन्यत्वस्य दोषाभावजन्यत्वस्य 3 दोषाजन्यत्वस्य 3 च प्रमारूपकार्यकल्प्यत्वेन जन्यतापच्छेदकप्रमात्वाज्ञाने गुणजन्यत्वादेर्दुज्ञानत्वेन चान्योन्याश्रयात् ॥
युक्तिपादीयसुधोक्तदिशा वादावल्युक्तदिशा च प्रामाण्यानुमापकसप्तहेतूनप्रकारोति -- किञ्चेति ॥ सामर्थ्येन ॥ विषयलाभरूपेणेत्यर्थः । तदन्यस्यास्तु पक्षतेति वादिनं प्रत्याह -- प्रवृत्तेरिति ॥ प्रामाण्यज्ञानाधीनत्वेनेति ॥ साधित्वत्परमतेप्यप्रामाण्य 4 ज्ञानाभावार्थमप्यपेक्षितत्वादिति भावः । मन्मते प्रवृत्तिमात्रं न प्रामाण्यज्ञानाधीनमिति वदन्तं प्रत्याह -- मणीति ॥ व्यभिचारादिति ॥ भ्रमान्तरसंवादिभ्रम इति भावः ।
ननु भवन्मतेप्यप्रामाण्यस्य परतस्त्वात्साध्याप्रसिद्धिस्तदनुमाने स्यात् ।
1. छ.-क-ख-पुस्तके समस्तं पदं वर्तते. 2. धे-कुं-छ-ग-ख-क.
3.एतन्नास्ति-मु. 4. अभावज्ञानार्थं- मु.
मन्मते तु उत्सर्गतः प्रामाण्यं गृह्णन्नपि साक्षी बाधानन्तरमुक्तरीत्या विसंवादलक्षणादपवादादप्रामण्यमपि गृह्णाति । 1 उक्तं हि सुधायाम् । साक्षी अपवादकसद्भावे ऽप्रामाण्यमपि गृह्णाति इति ॥
या तु विष्णुतत्वनिर्णयटीकायां"अनुमेयमेवाप्रामाण्यं"इत्युक्तिः सा साक्षिणो 2 ऽप्रामाण्यग्रहणे विसंवादापेक्षा नियतेत्यभिप्रेत्य । अत एव तत्रैव"न पुनर्ज्ञानग्राहकमात्रग्राह्यत्वं"इत्युक्तम् । वादाल्यां च"
अप्रामाण्यस्यानुमेत्वावसायात्"इत्युक्त्वा ---
तत्र जन्मान्तरीय संस्कारानुसरणस्य वा प्रथमं प्रामाण्याभावानुमानद्वारानुसरणस्य वा पञ्चमानुव्यवसायप्रसिद्धत्वानुसरणादेर्वा कार्यत्वे ममापि साम्यदित्यत आह -- मन्मते त्विति ॥ उत्सर्गतः ॥ स्वस्वाभावसामर्थ्यत इत्यर्थः । स्वत एवास्तु किं विसंवादेनेत्यत आह -- उक्तरीत्येति ॥"अप्रामाण्यं तु
विसंवादाद्यनुसन्धाने सत्येव गृह्यते"इत्यादिना"स्वतो ऽप्रामाण्यग्रहे असामर्थ्यात् इत्यादेः स्वतस्त्वानुमानवादे उक्तत्वात्तत्रोक्तरीत्येत्यर्थः -- उक्तं हीति ॥
आद्यपादे ----
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ।
अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ॥
इत्येतद्व्याख्यावसर इत्यर्थः । सुधावाक्यस्यार्थतो नुवादः--- साक्षीत्यादि ॥ उक्तिरिति ॥"दुष्टबुद्धीनामेवाप्राणाण्यशङ्का"इत्येतद्व्याख्यावसर इत्यर्थः । नन्वेवमिदमप्रमाणं न वेति सन्देहादिरपि -------------
1. उक्तमपि-छ. 2. णा-क-ख.
ज्ञप्तौ परतस्त्वानुमानभङ्गः प्रामाण्यवादः पु - 120.
------------------------- ------------- ------------
"न चाप्रामाण्यं क्वचिदपि निरपेक्षेण साक्षिणा निश्चितचरं"इत्युक्तम् । अप्रामाण्यशङ्कादिकं तु मानसमेव । उक्तं हि भगवत्पादैः ।
"यत्क्वचिद्य्यभिचारिस्याद्दर्शनं मानसं हि तत्"इति ।
"सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्"॥
इति च । तस्मात्प्रामाण्यस्य परतस्त्वे प्राथमिकं तज्ज्ञानमेव न सम्भवतीति । एतदप्युक्तं"अन्यथा"इत्यादिना । परतस्त्वे प्राथमिक 1 प्रामाण्यानुमितेरेवासम्भवेनेयं प्रमा इयं त्वप्रमेति व्यवस्थित्यसम्भवादित्यर्थः ॥
परतस्त्वे प्रथमप्रामाण्यानुमित्यसम्भवः

11.8

यच्चोक्तं स्वाश्रयविषयकनिश्चावधिकतृतीय ---
साक्षी किं नेत्याह -- अप्रामाण्येति ॥ उक्तं हीति ॥ ज्ञानपदे ॥
परतस्त्वे प्रथमप्रामाण्यानुमित्यसंभवः

11.9

एवं स्वतस्त्वानुमानानां बाधं विपक्षे ऽनवस्थाद्वयस्यानुमित्यसम्भवस्य चोक्त्याप्रयोजकत्वं चोद्धृत्य परोक्तानुमानविरोधनिरासाय तानि दूषयितुमनुवदति -- यच्चेति ॥ परोक्तस्वतस्त्वानिरूक्तिभङ्गेन संशयस्यान्यथोपपादनेन च परोक्तहेतूनामप्रयोजकत्वाद्युक्तावपि प्रबलदोषोक्त्यर्थं पुनरारम्भः ।
1. प्रथम - कुं - छ.
ज्ञप्तौ परतस्त्वानुमानभङ्गः प्रामाण्यवादः पु - 121.
------------------------ -------------- ----------
-- क्षणं 1 वृत्तिसमानाधकरणसंशयविषयी 2 भूतं ज्ञानप्रामाण्यं ग्राह्यज्ञानप्रकारप्रकारकतया तद्विशेष्यविशेष्यकतया च स्वाश्रयग्राहकयाव 3 ज्ज्ञानाग्राह्यम् ।
"विवादंपदं न यावत्स्वाश्रयग्राह्यं स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयं विना 4 सन्दिह्यमानत्वादप्रामाण्यवत्"इति मण्युक्तावपि"विप्रतिपत्तौ यथा साध्यमुक्तं तदभाव इह साध्यं ज्ञेयं"इति पक्षधरादितदीयटीकोक्तरीत्या परिष्कारपूर्वकं तदीयप्रयोगानुवादं करोति -- स्वाश्रयेति ॥ किमवच्छेदेन विवादविषयैत्यज्ञानात्तदभिमतं विवादनियामकं पक्षतावच्छेदकं टीकाद्यनुक्तमपि स्वयं व्यक्तीकृतवानिति ज्ञेयम् । स्वस्य
प्रामाण्यस्याश्रयो व्यवसायः । तद्विषयनिश्चयसमानाधिकरणो यः संशयः तद्विषयी 5 भूतं ज्ञानप्रामाण्यमित्यर्थः । संशयाविषये प्रामाण्ये तथा निश्चते व्यधिकरणसंशयविषये तथा चतुर्थक्षणवर्तिसंशयविषये 6 यत्किञ्चिदवधिकतृतीयक्षणवर्तिसंशयविषये चीसिद्धित्यतो विशेषणानि । ज्ञानप्रामाण्यांशस्याधिकस्यात्रप्रवेशान्न 7 पक्षतावच्छेदकैक्यनिमित्तं सिद्धसाधनं शङ्क्यम् अप्रामाण्येव सिद्धसाधनतानिरासाय ज्ञानप्रामाण्यमित्युक्तिः । तादृशानुमित्यादेग्राह्यत्वेन बाधनिरासाय साध्ये यावदित्युक्तिः । ज्ञानं घटज्ञानमित्यादिशब्दजन्यज्ञानाग्रह्यत्वस्य स्वतस्त्वेपि सत्वाद्ग्राह्यज्ञानप्रकार 8 इत्युक्तिः । दलद्वयकृत्यमप प्रागेव व्यक्तम् ॥
1. वर्ति-क-ग-च. 2. कुं-छ-ग-क. 3. ज्ञानग्राहकाग्रा - क-छ. 4. वा-कुं-अ-आ. 5.य-कुं-अ. 6.तथा-अ. 7.हेतुप-अ-आ. 8.रेत्याद्यु-कुं-अ-आ.
ज्ञप्तौ-परस्त्व-न-भङ्गः) प्रामाण्यवादः पु - 122.
--------------------- ----------- ------------
तज्ज्ञानविषयकसमानाधिकरणज्ञानाजन्यसमानाधिकरणज्ञानाप्रकारो वा । स्वाश्रयविषयकनिश्चयावधकतृकतृतीयक्षणवृत्तिसमानाधिकरणसंशयकोदित्वात् ।
स्वाश्रयविषयकनिश्चयसमानकालीयसामग्रीजन्यसंशयविषयधर्मिकप्रामाण्यसंशय-
जन्यसंशयाविषयत्वाच्च ।
अत्र मण्युक्तमेकं साध्यं विप्रतिपत्तावुक्तसाध्यान्तरस्याप्युपलक्षणं मत्वा दूषणसौकर्याय स्वयमाह -- तज्ज्ञानेति ॥ 1 तदर्थो विशेषण कृत्यं च परोक्तस्वतस्त्वनिरुक्तिभङ्गे व्यक्तम् । मतद्वयेपीश्वरज्ञानसत्वात्क्रमेणाप्रसिद्धिबाधवारणाय समानाधिकरणपदद्वयम् -- निश्चावधिकेति ॥ निश्चोत्पत्तिक्षणवधिकत्येर्थः । तेन स्वाश्रयविषयकनिश्चयस्थितिक्षणावधिकतृतीयक्षणवृत्यर्थसंशयकोटावर्थेव्यभिचारो न शङ्क्यः ॥
"स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणे सन्दिह्यमानत्वात्"इति मण्युक्तहेतोस्सतिसप्तमीबलेन
सामानाधिकरण्यलाभायरूपं तट्टीकोक्तमेकमर्थमुपेत्यैको हेतुरुक्तः । समानकीलीनता 2 रूपमर्थान्तरं चोपेत्य हेत्वन्तराह--स्वाश्रयविषयकेत्यादि ॥ 3 संशयविषयकत्वादित्यस्य पूर्ववत्संशयकोटित्वादित्यर्थः । तेनात्र पूर्वत्र च न व्यवसाये व्यभिचारः 3 ॥
स्वाश्रयनिश्चये ऽप्रामाण्यसंशयं विना 4 सन्दिह्यमानत्वात् इति मण्युक्त्यभमतं हेतुं व्यनक्ति -- स्वाश्रयविषयककिञ्चिदित्यादि ॥ स्वाश्रयविषयकनिश्चयशब्देन यावन्निश्चयो मणिकृतो नाभिमतः ।
1. एतद-कुं-अ-आ. 2. लाभ-कुं-अ-आ. 3. अयं ग्रन्थः-अ. पुस्तके नास्ति.
4. वा-कुं-अ-आ. 5.संशयविषयत्वादित्यस्य पूर्ववत्संशयकोटित्वादित्यर्थः-अ.
ज्ञप्तौ-परस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 123.
----------------------- ------------- ----------
अप्रामाण्यवत् ॥
यद्वा उक्तहेतुतत्रयमध्ये एकं पक्षतावच्छेदकं कृत्वान्यौ हेतूकर्तव्यौ ॥
यद्वा एतज्ज्ञानप्रामाण्यमेतज्ज्ञानप्रामाण्यसंशयपूर्वकालीनैतन्निश्चयाविषयः । एतज्ज्ञानविषयकनिश्चयावधिकेत्याद्युक्तहेतुक्तहेतुत्रयात् ॥ अप्रामाण्यवत् ॥
प्रामाण्यानुमितेरपि प्रमाण्याश्रयविषयकनिश्चयत्वेन तद्धर्मिकप्रामाण्यसंशयजन्यसंशयविषयत्वेनासिद्ध्यापत्तेः । किन्तु यत्किञ्चिदनुव्यवसायरूपनिश्चय एवाभिमत इति भावेन किञ्चिन्निश्यधर्मिकेत्युक्तम् -- अप्रामाण्यवदिति ॥ पक्षीभूतप्रामाण्यसंशयकोटीभूताप्रामाण्यवदित्यर्थः । मतद्वयेपि तस्य परतस्त्वे साध्यहेती संमताविति भावः ॥
हेतुपक्षतावच्छेदकैक्यनिबन्धनसिद्धसाधनता 1 शङ्कापि यथा न भवति तथा पक्षातावच्छेदकीकृत्य द्वितीयतृतीयौ वाद्यतृतीयौ वा हेतूकर्तव्यावित्यर्थः ॥
2 "अनभ्यासदशापन्नैतज्ज्ञानप्रामाण्यं"इत्यादिना मण्युक्तं पक्षान्तरं चाह -- यद्वैतज्ज्ञानप्रामाण्यमिति ॥ वस्तुतो यदनुव्यवसायानन्तरं तृतीयक्षणे संशयविषयीभूतं प्रामाण्यं तद्व्यक्तेरेवैतत्पदेन ग्रहणम् । अतो नासिद्धिर्हेतूनामिति भावः । बाधवारणाय कालीनेत्यन्तम् -- पूर्वेति ॥ अव्यवहितपूर्वकालीनेत्यर्थः । एतज्ज्ञाननिश्चयानन्तरं सन्दिह्यमानत्वादित्युक्तहेतुमुपलक्षणं मत्वाह-- हेतुत्रयादिति ॥
। एतावत् नास्ति - छ. 1. नशं- कुं. 2. यद्वा अन -अ.
ज्ञप्तौ-परस्त्व-न-भङ्गः) प्रामाण्यवादः पु - 124.
-------------------- ------------ ----------
विमतं व्यवसायप्रामाण्यं 1 न तदनुव्यवसायवेद्यम् । तदवधिकतृतीयेत्याद्युक्तहेतुत्रयात् । अप्रामाण्यवदिति विशिष्य प्रयोक्तव्यम् । तस्मादनुमानविरुद्धानि स्वतस्त्वानुमानानि ॥
अत्र साध्यविशेषणप्रयोजनं स्वतस्त्वनिरुक्तावुक्तप्रायम् । आद्य 2 हेतौ रजतत्वादिरूपेर्ऽथेपि किञ्चिदवधकतृतीयक्षण 3 वुत्तिसंशयविषयत्वस्य. तथा स्वाश्रयनिश्चयावधिकचतुर्थलक्षणवृत्तिसंशयविषयत्वस्य, तथा चैत्रीयस्वाश्रयनिश्चयावधिकतृतीयक्षणवृत्तिमैत्रीयसंशयविषयत्वस्य च सत्वात्तत्र व्वभिचारः ।
एवं स्वतस्त्ववादिमात्रसाधारणं वा गुरुभिन्नस्वतस्त्ववादिमात्रसाधारणं वा द्वेधा प्रयोगं मण्यभमतं प्रदर्श्य अनभ्यासदशापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यमिति गुरुमतासाधारण्येन प्रयोगोक्तमुपलक्षण 4 मभिप्रेत्य सिद्धान्तितविरोधिप्रयोगान्तरमाह-- विमतमिति ॥ यद्वेत्यनुषङ्गः । उक्तसंशयविषयीभूप्रामाण्यस्यैव व्यवसायप्रामाण्यपदेन ग्रहणमिति द्योतनाय विमतमित्युक्तिः-- तस्मादिति ॥ उक्तरीत्या प्रयोगसम्भवादित्यर्थः । न तु

संशयानवतारस्तलीयपक्षकानुमानानि । मण्याद्युक्तानां संशयस्थरीयपक्षकाणां भिन्नविषयतया विरोधाभावात । यद्वा संशयस्थले तथात्वसिद्धावन्यत्रापि तथात्वमेव कल्प्यम् । न वैरूप्यमित्याशयेन सर्वानुमानानीत्यर्थः ।
दूषणसुज्ञानतायै पदकृत्यं विवेचयति -- अत्र साध्येत्यादिना ॥ स्वतस्त्वनिरुक्ताविति ॥ परोक्तस्वतस्त्वनिरुक्तिभङ्गप्रस्ताव इत्यर्थः ।
1. नैत - क. 2. द्ये-कुं-ग. 3. जन्य-ग. 4. मुपे- कुं-अ.
ज्ञप्तौ-परस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 125.
--------------------- -------------- -------
1 तद्वारणाय क्रमेण स्वाश्रयनिश्चयावधिकत्वेन तृतीयक्षण 2 वृत्तित्वेन समानाधिकरणत्वेन च संशयो विशेषितः ॥
प्रथमं व्यवसायः, अनन्तरं ज्ञानत्वनिर्विकल्पकं विना ज्ञानांशं निर्विकल्पस्य घटांशे सविकल्पकस्य नरसिंहाकारस्य धर्मिज्ञानरूरस्यानुव्यवसायस्योत्पत्तिः, अनन्तरे द्वितीये 3 तदनुव्यवसायस्य स्थितिक्षणे कोटिस्मिरणं, अनन्तरं तृतीयक्षणे प्रामाण्यसंदेहः, चतुर्थक्षणेर्ऽथसंदेह इति स्थितिः ॥
आद्ये पूर्वदलद्वयेन तव घटत्वप्रकारकं ज्ञानं तव घटत्ववद्विशेष्यकं ज्ञानमितिशब्दज्ञानयोः सिद्धसाधननिरीसः । यावदित्युक्त्या न्यायमते पञ्चमानुव्यसायादौ बाधनिरासः फसम् । द्वितीये आद्योन ज्ञानपदेन तत्पदस्य प्रामाण्यपरामर्शितापत्या बाधनिरासः, द्वितीयेन तु व्यापारानुबन्धितया तादृशात्मादिनाप्रसिद्धिनिरासः, फलम् । तृतीयेनापि व्यापारानुबन्धितयात्मादिग्राह्यतया बादनिरासः फलम् । समानाधिकरणपदद्वयेन 4 तादृशेश्वरज्ञानग्राह्यत्वाभावाद्बाधनिरासः फलमुक्तप्रायमित्यर्थः ।
उक्तार्थपरिज्ञानाय पक्षधराद्युक्ततदीयप्रक्रियामाह - प्रथममिति ॥ निर्विकल्पकस्येति ॥ ज्ञानत्ववैशिष्ट्यविषयकत्वस्येत्यर्थः । सविकल्पकस्येति ॥
घटत्वप्रकारकत्वपुरोवृत्तिविशेष्यकत्वविषयकस्येत्यर्थः । संशयहेतुत्वोपपादनायैवमुक्तिः । घटांशोपि निर्विकल्पकस्य तदयोगात् --कोटीति ॥ कोटिद्वयस्मरणं समूहालम्भनरूपमित्यर्थः । साधारणधर्मदर्शनरूपधर्मिज्ञानस्योभयकोटिसाधारण्यादिति भावः -- अर्थेति ॥
1.रात्त-कुं. 2. वर्तित्वेन - कुं. 3. ये ऽनु-क-ख-ग-च-छ. 4.नातादृ-मु-अ,
येता - आ.
ज्ञप्तौ-परस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 126.
---------------------- -------------- ------------
द्वितीयहेतावपि तृतीये प्रमाण्यसंदेहक्षणे ऽनुव्यवसायनाशात्प्रामाण्यसंशयघटिता यार्ऽथसंदेहसामग्री तस्या 1 अनुव्यवसायसमकालीनत्वं नास्तीति नार्थे व्यभिचारः । न तु स्वाश्रयविषयकनिश्चसमानकालीयसंशयविषयत्वं हेतुः । प्रामाण्यसंशयोत्पत्तिक्षणे ऽ 2 नुव्यावसायस्य नाशेनासिद्धेः ।
तृतीयहेतावपि घटविषयकनिश्चयधर्मिकप्रामाण्यसंशयजन्यसंशयाविषयत्वं पटेप्यस्तीत्यर्थे व्यभिचारः । तद्वारणाय 3 ग्राह्यमाण्याश्रयविषयकत्वेन निश्चयो विशेषितः ।
इदं रजतं न वेत्येवं रूपेणार्थसन्देह इत्यर्थः । अर्थघटिकपूर्वभाविप्रामाण्यसन्देहस्यैव कोटिस्मृतिरूपत्वाच्चतुर्थक्षणेर्ऽथसन्देह इति भावः ॥
प्रामाण्यसंशयघटितेति ॥ कोटिस्मृतिरूपत्वात्तस्य तद्घटिता 4 मनस्संयोगादिरूपा या सामग्रीत्यर्थः । सामग्रीजन्येति
विशेषणं व्यर्थं एवं च नार्थे नैकान्त्यमित्याशङ्क्य तत्सार्थक्यं वक्तुमाह-- नत्विति ॥ द्वीतीयहेतुर्मणिकृदभिमत एवोत्प्रोक्षितो न साक्षादुक्त इति एवमेव तस्याभिमतिः 5 किं सामग्रीपदप्रक्षेपेणेत्यतो ऽसिद्धिरूपबाधकोपदर्शनेतत्कृतम् । असिद्धिवारकत्वेपि यथोक्तविशेषणविशेष्यभावेन वैयर्थ्यमिति भावः-- पटेपीति ॥ पटज्ञानस्यापि ग्राह्यप्रामाण्याश्रयतया तद्ग्राह्यकानुव्यवसायग्राह्यत्वेन साध्याभावादिति भावः-- विशेषत इति ॥
1. म-कुं 2.तदनु. -कुं 3.ग्राह्यपदं न- क. 4.तात्म-मु-अ-आ. 5.कुतोन ।
इत्यादिकं - अ-आ.
ज्ञप्तौ-परस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 127.
---------------------- ------------- ------------
तथापि व्यावसायप्रामाण्यस्य स्वाश्रयविषयिका या 1 प्रामाण्यानुमितितस्तद्धर्मिकप्रामाण्यसंशयजन्यसंशयविषयत्वादसिद्धिः । तद्वारणाय किञ्चिदिति विशेषणम् । एवं च नासिद्धिः । 2 अनुमितिप्रामाण्यसंशयेन व्यवसायप्रामाण्यसंशयेप्यनुव्यवसाय 2 प्रामाण्यसंशयेन तत्संशयाभावात् । न तु प्रामाण्यसंशयाजन्यसंशयविषयत्वं हेतुः । अर्थस्यापि तदजन्यसंशयं प्रत्यपि विषयत्वेन व्यभिचारात् । अत्र सर्वत्र विपक्षे हेतूच्छित्तिरेव बाधिका । स्वतस्त्वपक्षे ऽनुव्यवसायस्यैव प्रामाण्यनिश्चयरूपत्वात् द्वितीये तत्स्थितिक्षणे तदभावघटिता या संशयसामग्री तदभावेन तृतीयक्षणे प्रामाण्यसंशयानुपपत्तेः ॥
तथा च तस्याप्यनुव्यवसायग्राह्यतया तद्धर्मिकप्रामाण्यसंशयजन्यसंशययोग्यत्वेन हेत्वभान्न व्यभिचार इति भावः -- नासिद्धिरिति ॥ अखण्डाभावान्नासिद्धिवारकत्वं दोष 3 इति भावः-- अनुव्यवसायेति ॥ तस्य प्रामाण्यनियमेन कदापि तत्र 4 सन्देहाभावादिति भावः । हेतूच्छित्तिं व्यनक्ति -- स्वतस्त्वेत्यादिना ॥ प्रामाण्यनिश्चयेति ॥ तथा चविशेषदर्शने कथं
सन्देह इति भावः -- तदभावेति ॥ प्रामाण्यनिश्चयरूपविशेषणदर्शनाभावेत्यर्थः ॥
1. प्रामाण्यपदं न -कुं-क-ख-ग-छ. 2. अनुमितिप्रामाण्यसंशयेनेवानुव्यवसाय
-ग. 3. दूषणं -आ. 4. प्रामाण्यसं- मु,अ-आ.
ज्ञप्तौ-परस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 128.
---------------------- ----------- ------------
अत एव द्वितीये प्रामाण्यनिश्चयस्थितिक्षणे तदभावघटिसंशयसामग्र्यभावेन प्रामाण्यस्य स्वाश्रयनिश्चयसमानकालीनसामग्रीजन्यसंशयविषयत्वायोगात् । अनुव्यवसायस्य प्रामाण्यग्रहकत्वे ग्राहकप्रामाण्यसन्देहे ग्राह्यसन्देहनियमेन व्यवसायप्रामाण्यानुमितेः 1 प्रामाण्यसन्देहनेवानुव्यवसाय 2 प्रामाण्यसन्देहेनापि कादचिद्व्यवसायप्रामाण्यसन्देहापातात् । न चेष्चापत्तिः । अनुव्यवसायस्य प्रामाण्यनियमादिति ॥
उच्यते ।
आद्ये साध्ये ऽपसिद्धान्तो बाधो व्याघातश्च ।
अत एव ॥ प्रामाण्यविश्चयस्य तन्निश्चयत्वादेवेत्यर्थः । द्वितीय इत्यस्य विवरणं स्थितिक्षण इति । तृतीय हेतूच्छित्तिं व्यनक्ति -- अनुव्यवसायस्येति ॥
प्रतिज्ञादोषांस्तावदाह--आद्यो साध्य इत्यादिना ॥ उक्तरूपेण स्वाश्रयग्राहकत्वस्य प्रामाण्यग्राहकत्वरूपतया तादृशेनानुमित्यादिना ग्राह्यत्वस्य परमतेपि सिद्धत्वात्तदभावसाधने ऽपसिद्धान्तः । प्रामाण्यग्राहकेण प्रामाण्यं न ग्रह्यमित्युक्ते बाधो व्याघातश्च स्फुट एव । स्वातन्त्र्येणेत्युक्तावपि बाधोद्धारग्रन्थोक्तरीत्या बाध एव । उक्तरूपसाध्यस्यार्थेपि सत्वेन व्यभिचारप्रसक्त्य तद्वारकहेतुविशेषणवैयर्थ्याच्चेति भावः ॥ अंश इति ॥ सर्वं ज्ञानं गुण इति शब्द जन्यज्ञानप्रामाण्यांश
इत्यर्थः । तत्पक्षीकरणस्यापि प्रागुक्तत्वादिति भावः ।
1. तिप्रा - कुं. 2. स्य - क - ख - छ.

ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 129.
---------------------- ------------- -----------
द्वितीयेंऽशे सिद्धसाधनम् । उपपादतं चैतत्परोक्तस्वतस्त्व 1 निरुक्तिभङ्गे ॥
किञ्च साध्ये स्वशब्दः किं पक्षीकृतप्रामाण्यमात्र 2 परः ? किं वा समभिव्याहृतपरः । नाद्यः । अप्रामाण्यस्याप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपप्रामाण्याश्रयग्राहकेण ज्ञानेन ग्राह्यतया तदग्राह्यरूपसाध्यस्याप्रामाण्यरूपे दृष्टान्ते ऽभावात् । नान्त्यः । घटरूपेर्ऽथे व्यभिचाराप्रसक्त्या हेतौ 3 तृतीयपदस्य व्यर्थत्वात् ।
अस्मिन्पक्षे हि समभिव्याहृतो घट एव स्वशब्दार्थः ।
अत एवाह --उपपादितं चैतदिति ॥ बाधव्याघातयोः कण्ठतो ऽनुक्तावपि उपपादितप्रायत्वादुपपादितमित्युक्तम् ॥
दृष्टान्तहेतुदोषौ पक्षभेदेनाहः- किञ्चेति ॥ अप्रामाण्यस्येति ॥ शुक्तौ रूप्यत्वभ्रमानन्तरं बाधावतारदिदं ज्ञानमप्रमेत्यनुव्यवसाये यदप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपं प्रामाण्यं तस्यापि पक्षत्वेन तत्प्रामाण्याश्रयग्राहकेण तद्धटकीतभूताप्रामाण्यस्य ग्राह्यतया तत्र साध्यवैकल्यमित्यर्थः । अप्रामाण्यवदित्यत्र 4 पक्षीभूतप्रामाण्यसंशयकोटिभूताप्रामाण्यवदित्यर्थस्य तट्टीकोक्तावपि तादृशप्रामाण्यघटकस्यापि तथात्वमपि भावः । व्यभिचाराप्रसक्तिं व्यनक्ति । अस्मिन्पक्ष इति ॥
1.परतस्त्व इत्यादिकं - कुं -क-ग-छ. 2. मात्रपदं न -कुं-ग. 3. हेताविति न -कुं -क-ख-ग-छ. 4. स्य-मु-अ-आ.
ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 130.
--------------------- ----------- --------
घटे च घटाश्रयी 1 भूतकपालग्राहकयावज्यज्ञानाग्राह्यत्वरूपं साध्यमस्त्येवेति कथं तत्र व्यभिचारप्रसक्तिः ।
किञ्चेतैरनुमानैः प्रमाण्यस्य किं साक्षग्रहणयोग्यत्वाभवः साध्यते 2 निश्चयरूपफलाभावो वा । नाद्यः धर्म्यंश इव वैशिष्ट्यांशेपि त्वन्मते व्यवसायोपनीयत्वरूपा मन्मते व्यवसायोपनीते तस्मिन्साक्षणः सहजशक्तिरूपायोग्यतास्तीत्युक्तत्वेन बाधात् । संशयस्य निश्चयरूपफलाभावेनैवोपपत्त्या योग्यत्वाभावसाधने ऽप्रयोजकत्वाच्च । अन्त्ये ऽपि फलाभावसाधनं किं दोषशङ्कादिरूपेण प्रामाण्यविरोध्युपस्थापक ---
ननु ग्राह्यज्ञानप्रकारेत्यत्र ग्रह्यज्ञानशब्दस्यापि स्वाश्रयपरतया घटाश्रयकपालस्य निष्प्रकारप्रकारतया तद्विशेष्यविशेष्यकतया घटाश्रयग्राहकयावज्ज्ञानमप्रसिद्धमिति चेन्न । तादृशज्ञानाप्रसिद्धिरेव तद्ग्राह्यत्वं तदभावरूपसाध्यसत्वात् । अत एव"साध्यमस्त्येव"इत्यक्तम् ।
यद्वा 3 कापालविषयतादृशज्ञानाप्रसिद्धिरेव तद्विषयत्वरूपफलाभावो घटे न सिद्धः । येन तत्र व्यभिचारप्रसक्तिर्न स्यादित्य 4 रुचेत्याह - किञ्चेति ॥ धर्म्यंश इत्युपलक्षणम् । धर्मधर्म्यंशयोरिवेत्यर्थः -- अस्मिन्निति ॥ वैशिष्ट्यांशविषय इत्यर्थः --उक्तत्वेनेति ॥ बाधोद्धारग्रन्थे --अप्रतिबन्धेति ॥
1. यभू-कुं-क-ग-ख. 2. उत-ख. 3. ननु -आ. 4.त्यत आह - अ.
ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 131.
---------------------- ------------- ---------
--सामग्रीसमवधानेनाप्रतिबन्धदशायामुत प्रतिबन्धदशायाम् । नाद्यः । तदा प्रामाण्ये 1 संशयाभावेनाश्रयासिद्धेः । स्वरूपासिद्धेश्च । नान्त्यः । इष्टापत्तेः ।
न च फलाभवेनैव योग्यत्वाभावस्मिध्यति । बाधस्योक्तत्वात् । वह्नौ दाहदशक्तेरिव साक्षणि प्रामाण्यग्रहणस्येव दोषशङ्कादिप्रतिबन्धेन प्रामाण्याग्रहण 2 शक्तेः सहजत्वेपि मण्यादिप्रतिबन्धेनादाहस्येव दोषशङ्कादिप्रतिब्धेन प्रामाण्यग्रहणस्योपपत्तेश्च । उक्तं हि टीकाकारैः ।"न हि गोक्षुरकापसर्पणसापेक्षत्वेन गजस्य गमनशक्तिः परतन्त्रा"इति ।
साध्ये संशयवेलायामग्राह्यमित्यनुक्तेर्विकल्पद्वयावकाश इति भावः --इष्टापत्तिरिति ॥ अप्रतिबद्धसाक्षवेद्यत्वस्य साक्षयोग्यत्वस्य वा स्वतस्त्वस्यास्मदभिमकतस्यानपायादिति भावः ॥
ननु फलाभावेन योग्यत्वाभावानुमानात्स्वतस्त्वहानिरेवेत्यत आह -- न चेति ॥ बाधस्योक्तत्वादिति ॥ त्वन्मत इत्यादिनेत्यर्थः । शक्तिरूपयौग्यत्वसत्वे तदग्रहो ऽयुक्त इत्यत आह --वह्नाविति ॥ प्रतिबन्धाभावसापेक्षत्वे कथं न स्वतस्त्वहानिरित्यत आह -- उक्तं हिति ॥ वादावल्यामित्यर्थः ।
ननु मण्युक्तहेतूनां स्वोक्तहेतुप्रतिपक्षत्वेनात्रोपन्यासादुपाधेः प्रतिपक्षोन्नाकत्वपक्षे प्रतिपक्षे प्रतिपक्षान्तरवदुपाध्युद्भावनं व्यर्थमित्यतो मणिकृन्मतावष्टम्भेनाह -- उपाधेर्व्यभिचारेत्यादि ॥
1. ण्य-ग. 2.णस्योपपत्तेश्च- इत्येतावदेववर्तते - क.
ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 132.
--------------------- ---------------- --------
किञ्चोक्तेनानवस्थारूपेण प्रथमस्य प्रामाण्यग्रहणस्यानिपपत्तिरूपेण च तर्केण पराहतिः । अपि चोपाधेर्व्यभिचारोन्नाकत्वपक्षे ऽनुव्यवसायविषयत्वयोग्यतारहितोपाधिघटितत्वमुपाधिः । तदग्राह्योपाधिघटितत्वं च तदग्राह्यत्वं
विनानुपपन्नम् । प्रत्यक्षाग्राह्यगुरुत्वघटितगुरुत्ववत्त्वादौ तथा दर्शनात् । 1. त्वदियो हेतुस्तु तद्ग्रह्यत्वेपि ग्रहणरूपफलाभावेनैवोपपन्न इत्युपाधिस्साध्यव्यापकः ।
धर्मधर्मिवद्वैशिष्ट्यांशेपि योग्यताया उपपादिततत्वेनानुव्यवसाययोग्यतारहितोपाधिघटितत्वं पक्षीभूतप्रामाण्ये साधनवति नेति साधनाव्यापकत्वं स्पष्टम् । साध्यव्यापकत्वं कथमित्यतः साध्यं प्रति प्रयोजकत्वमस्य व्यनक्ति -- तद्ग्राह्येति ॥ पूर्वोक्तोपाधेर्निष्कुप्यानुवादोयम् ।
हेतोरप्रयोजकत्वमाह -त्वदिय 2 इति ॥ तद्ग्राह्यत्वेपि -- तद्ग्रहणयोग्यत्वेपीत्यर्थः । एवं चोपाधिहेतत्वोरनुकूलतर्कभावाभावोक्त्या -
अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गत्पक्षे नोपाधिसम्भवः ॥
इत्यस्यानवकाश इति भावेनाह -- साध्यव्यापक इति ॥
साक्षणो ज्ञानगोचरस्य ज्ञानत्वांशेपि सविकल्पकत्वात्तत्सिद्ध्यर्थं परोक्तं निराह ॥ किञ्चेति ॥
द्वितीयो - कुं- ख. 2.द्वितीय -कुं.
ज्ञप्तौ-पस्त्वा -न-भङ्गः) प्रामाण्यवादः पु - 133.
---------------------- ------------ ---------
किञ्चानुव्यवसायस्य नरसिंहाकारत्वे घटनिषयकं प्रमाणं न वेत्येव संशयः स्यात् । न तु घटविषयकं ज्ञानं प्रमाणं न वेति। ज्ञानत्वस्य धर्मितावच्छेदकत्वेनाज्ञानात् । किञ्चेद्ये संशयस्य तृतीयक्षणवृत्तित्वमसिद्धम् । असर्वज्ञेनातीन्द्रियातिसूक्ष्मक्षणेयत्ताया निश्चेतुमशक्यत्वेन स्वाश्रयनिश्चयावधिकतृतीयक्षण एव संशयो न तु चतुर्थादाविति
निर्णेतुमशक्यत्वात् ।
यदि त्वनुव्यवसायस्य प्रामाण्यविश्चयरूपत्वाभावाद्द्वितीयक्षणे तन्निश्चायाभावविशिष्टकोटीस्मरणरूपसंशयसामग्र्याः सत्वेन संशयस्य तृतीयक्षणवर्तित्वकल्पनं तर्हि संशयस्य तृतीयक्षणवृत्तित्वेनानुव्यवसायस्य प्रामाण्यनिश्चयरूप 1 त्वाभावरूपं परतस्त्वं त्वाया साध्यत इत्यन्योन्याश्रयः ।

अज्ञानादिति ॥ एवं च तदर्थं ज्ञानत्ववैशिष्ट्यज्ञानान्तराङ्गीकारे च स्वाश्रयनिश्चयावधिकतृतीयक्षणवृत्तित्वमसिद्धमिति भावः ।
ननु निश्चयपदेन सविकल्पक एव विवक्ष्यत इत्यत आह -- किञ्चेति ॥ 2 हेतुत्रयसाधारणदोषानुक्त्वा प्रातिस्विकरूपेणापि दोषमाह -- किञ्चाद्य इति ॥ असिद्धमिति ॥ सन्दग्धसिद्धमित्यर्थः । अन्योन्याश्रय इति ॥
1. रूपपदं न - कुं - ग - ख - छ. 2. यद्वा एवं - मु - अ - आ.
ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 134.
---------------------- ------------ ---------
न च चतुर्थादिक्षणवृत्तिनापि संशयेन परतस्त्वसिद्धिः । द्वितीयक्षणोत्पन्नेन कोटिस्मरणेन प्रामाण्यनिश्चयरूपप्रतिबन्धकवशात्तृतीयक्षणे संशयानुत्पादेपि तृतीयक्षणोत्पन्नेन प्रतिबन्धकध्वंसेन विशिष्टं तत्क्षणे 1 तिष्ठद्यत्संशयसामग्रीरूपं कोटस्मरणं तेन चतुर्थक्षणे संशयोत्पादनसम्भवात् ।
सिद्धे चानुव्यवसायस्य प्रामाण्यविश्चयत्वाभावे संशयस्य तृतीयक्षणवृत्तित्वासिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्यर्थः ।
ननु मास्तु हेतुनिश्चयः चतुर्थादिक्षणवृत्तिसंशयविषयत्वेनाप्युक्तसाध्यसिद्धिरस्त्वित्यतः प्रथमक्षणे धर्मिज्ञानरूपानुव्यवसायेन
प्रामाण्ये निश्चितेपि चतुर्थक्षणादौ तत्र संशयो नानुपपन्न इत्यप्रयोजको हेतुरित्याह -- न चेत्यादिना ॥ द्वितीयेति ॥ अनुव्यवसायास्थितिक्षणोत्पन्नेनेत्यर्थः-- प्रामाण्यनिश्चयरूपेति ॥ पूर्वतनधर्मिज्ञानाख्यप्रामाण्यनिश्चयरूपेत्यर्थः -- तत्क्षण इति ॥ 2 तृतीयक्षण इत्यर्थः । सामग्रीरूपमिति ॥ तदा तन्मते धर्मिज्ञानस्य नाशेपि तस्य कोटिस्मरण एवोपयोगेन तदभावस्यादोषत्वात् । तस्य नाशेपि स्मृत्युपनीते तस्मिन् ज्ञानं प्रमाणं न वेति संशयोपपत्तेश्च ।
न च तस्य प्रामाण्यत्वेनैव स्मृत्योपनयः तथैव प्रागनुभवादिति वाच्यम् । दोषेण प्रामाण्यांशप्रतिबन्धसम्भवात् ।
1. णवृत्ति - ख. 2. चतुर्थ - अ.
ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 135.
--------------------- ------------ ---------
द्वितीयहेतावप्यनव्यवसायस्य प्रामाण्यविषयकत्वे सिद्धे द्वितीये ऽनुव्यवसायस्य 1 स्थितिक्षणे प्रामाण्यनिश्चयाभाव 2 विशिष्टकोटिस्मरणरूपसंशयसामग्र्याः सत्वेन तस्या 3 अनुव्यवसायरूपनिश्चयसमानकालीनत्वसिद्धिः । सिद्धे च तस्मिन्नुक्तरूपसामग्रीजन्यसंशयविषयत्वेन प्रामाण्यस्यानुव्यवसायविषत्वासिद्धिरित्यन्योन्याश्रयः ।
एवं तृतीयहेतावप्यनुव्यवसायस्य प्रामाण्यनियमे सिद्धे किं प्रमैव प्रमात्वेन गृहीता अप्रमैव वेति संशयस्य प्रामाण्यानुमितिधर्मिकत्वमेव ----------
वस्तुतस्तु मन्मते दोषस्थले व्यवसायस्य साक्षवेद्यत्वात्त 4 त्प्रामाण्यस्य च मानसत्वात्तन्मात्रोपनयो न विरुद्ध इति भावः ।
द्वितीयहेतावपीति ॥ स्वाश्रयनिश्चयसमानकालीनत्वं संशयसागग्र्यामसिद्धमिति योज्यम् ।
ननु धर्मिनिश्चयरूपानुव्यवसायस्य प्रामाण्यचविषयकत्वादेव विशेषादर्शनविशिष्टा
कोटिस्मरणादिसामग्री तत्कालीनेति ज्ञायत इत्यतो दुर्ज्ञानमेतदित्याह -- अनुव्यवसायस्येत्यादिना ॥ द्वितीय
इत्यस्यार्थो ऽनुव्यवसायस्य स्थितिक्षण इति ।
तृतीयहेतावपीति ॥ अनुव्यवसायधर्मिकप्रामाण्यसंशयजन्यसंशविषयत्वं दुर्ज्ञानमिति योज्यम् । अनुव्यवसायस्य प्रामाण्यनियमदेव तत्सुज्ञानमित्यत आह -- अनुव्यवसायस्येति ॥
1. यस्थि - क-ख-छ. 2.रूपप्रतिबन्धकाभाव-कुं-ग. 3. तस्यानिश्चय - क- ख-छ. 4. दप्रा-कुं.
------------------------------------------------------------------------ न्यायदीपयुततर्कताण्डवम् ( प्रथम परिच्छेदः पु - 136.
---------------------- ---------------- ----------
न त्वनुव्यवसायध्मिकत्वमित्यस्यार्थस्य सिद्ध्या व्यवसायप्रामाण्या 1 नुव्यवसायधर्मिकप्रामाण्यसंशयजन्यसंशयाविषयत्वसिद्धे 2 तस्मिन्ननुव्यवसायस्य प्रामाण्यनियमसिद्धित्यन्योन्याश्रय एव ।
एतेन प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् । परतस्त्वं च यत्प्रतिवादिना निषिध्यते तदेव 3 साध्यते । अत्र च भागासिद्धिर्न दोषः ।
सिद्धे च तस्मिन्निति ॥ व्यवसायप्रामाण्यस्येत्यादिपरामर्शः । सिद्धान्तेप संशयादिस्थलीयप्रामाण्यानुव्यवसायस्य 4 प्रमात्वानियमादिति भावः ।
एवं मण्युक्तानुमानानि निरस्य द्वितीयस्तबके कुसुमाजलावुदयनोक्तं सुधायामाशङ्कितमनुमानं च निराह -- एतेनेति ॥ निरस्तमित्यन्वयः । ननु परत्वस्यान्यत्वरूपस्य कोवलान्वयित्वेन स्वतस्त्वेप्युपपत्यार्ऽथान्तरामित्यतस्तत्परिष्करोति -- परतस्त्वं चेति ॥ तत्प्रकारप्रकारेत्यादिना प्रागुक्तरूपज्ञाना 5 ग्राह्यत्वं निषिध्यत इति तदेवेत्यर्थः ।
तथा च"स्वग्राह्यत्वेपि कदाचित्परग्राह्यत्वात्स्वस्याप्यन्यापेक्षया परत्वात्"इत्यादिमण्युक्तखण्डनानवकाश इति भावः -- अत्र चेति ॥
ननु"अनभ्यासदशायामिति भागासिद्धिवारणार्थं"इति वर्धमानोक्तेः कथं भागसिद्धिशङ्केति चेन्न । प्रामाण्यमात्रस्य पक्षत्वेन सांशयिकत्वादित्युक्तौ क्वचिदसिद्धेरनभ्यासदशायामित्युक्ता 6 वभ्यासदशोत्पन्न 7 ज्ञानप्रामाण्येपक्षैकदेशे ऽनभ्यासोत्पन्नेपि सर्वत्र सन्देहाभावेन भागासिद्धिशङ्कायां प्रचीनमताभिप्रेतदोषत्वोक्तिरिति ज्ञेयम् ।
1. ण्यस्यानु-ख-छ-च. 2. तु-मु-च-ग. 3.ऽसाध्यतेऽ इति न-कुं-ग-छ. 4. स्याप्रमात्वादि नि-अ. 5. ज्ञानग्रा-मु. 6.क्त्या-अ. 7. न्ने-अ.
ज्ञप्तौ-पस्त्वा-न-भङ्गः) प्रामाण्यवादः पु - 137.
--------------------- --------- ----------
उद्देश्यस्य पक्षतावच्छेदकधर्मसमानाधिकरणसाध्यप्रतीतिरूपस्य फलस्य तत्समानाधिकरणसाधनप्रतीतिरूपस्य 1 करणस्य चाविघातात् । यत्र 2 सर्वत्र पक्षे साध्यप्रतीतिरुद्देश्या तत्रैव सा दौषः । अत्र च न काचन कृसृष्टिः ।
नापि सामान्यविप्रतिपत्त्यनानुगुण्यमिति निरस्तम् । बाधाप्रयोजकत्वाद्युक्तदोषात् ।
उद्देश्यस्येति ॥ यथा भौगायतनत्वादिरूपा 3 व्यग्रशरीरादिलक्षणेनापि केवलप्यतिरेकिणेतरभेदादिसाधनम् अन्यथा तन्न स्यात्। तथेहापि यावति हेतुरस्ति तावति पक्षे पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिसम्भवात् । तावत एवोद्देश्यत्वात् । उद्देश्यसिद्धिफलकत्वादनुमानस्येत्यर्थः । तर्हि 4 दोष एव न स्यादित्यत आह -- यत्र त्विति ॥ तथा च मणौ यदनभ्यासेति विशेषणमुदयनोक्तहेतुविशेषणं भङ्त्वा पक्षविशेषणं कृतं तदसिद्धिवारकं व्यर्थमित्युपेत्येति ज्ञेयम् ।
मण्युक्तपक्षापेक्षयात्र गुणविशेषणमाह - अत्र चेति ॥ प्रचीनोक्तानुमानपक्षे पक्षतावच्छेदकनिर्वचनक्लेशो वा हेतुपक्षतावच्छेदकैक्यनिबन्धनः सिद्धनाधनता क्लोशो वा हेतुपक्षतावच्छेदकैक्यनिबन्धनः सिद्धसाधनता क्लेशो वा नरसींहाकारज्ञानविशेषणदुर्ज्ञानत्व -------
1. का-कुं-ग. 2. तु- कुं-ग-छ. 3. व्याप्त-मु-अ-आ. 4. सा-मु.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 138.

--------------------- ------------ ------------
एतेनैव प्रामाण्यं परतो ज्ञायते । प्रामाण्याप्रामाण्यान्यतरमात्रकोटिकसंशय 1 विषयत्वादप्रामाण्यवदित्याद्यपि निरस्तम् ।
तस्माज्ज्ञप्तावुप्तत्तौ च प्रामाण्यं स्वत एवेति ।
2 क्लेशो वा नेत्यर्थः । अप्रयोजकत्वादित्यादिपदेन प्रतिकूलतर्कपराहतिसोपाधिकत्वादिग्रहः । सुधाक्तदिशा स्वतः प्रमाणत्वेनाङ्गीकृतधर्मिज्ञानानुमितिप्रामाण्ये व्यभिचारस्य च ग्रहः -- एतेनैवेति ॥ बाधादिनैवेत्यर्थः । दृष्टान्तघटनाय हेतावप्रामाण्यपदम् । अन्यतपरशब्द उभयपरः । प्रामाण्याप्रामाण्योभयमात्रकोटिकेत्यर्थः । संशयविषये घ 3 टाद्यर्थेव्यभिचारनिरासाय प्रामाण्याप्रामाण्यान्तरकोटिकेत्युक्तिः । इदं ज्ञानं 4 गुणो न वा
प्रमाणमप्रमाणं वेति तदङ्तीकृतचतुष्कोटिकसंशयविषयज्ञान 5 गणत्वे व्यभिचारनिरासाय मात्रेत्युक्तिः । 6 यदि च विषयकत्वादित्यस्य कोटित्वादित्यर्थस्तदा गुणत्वे व्यभिचारवारणाय मात्रपदमिति ज्ञेनम् 6 । आदिपदेन प्रामाण्यं परतो ज्ञायते स्वतो ऽग्राह्यत्वे सति ग्राह्यत्वादित्यादेर्ग्रहः ।
उपपादतज्ञाप्तिस्वतस्त्वेनैवोत्पत्तावपि तत्सिद्धप्रायमिति भावेनोत्तरवादोपत्रेपणायोक्तमुपसंहरति -- तस्मादिति ॥ स्वतस्त्वे साधक 7 भावाद्बाधकाभावात्परतस्त्वपक्षे तदुभयावादित्यर्थः । उत्पत्तौ स्वतस्त्वं च सुधोक्तदिशा ज्ञानजनकमात्राधीनजन्मत्वमिति स्पष्टमिति भावः ।
1.कोटित्वात् -कुं-ग-च-छ. 2. क्लेशादिः-मु-अ. त्वादिक्ले-आ-मु. 3. टत्वा-मु-अ-आ. 4. गुणुपदं नास्ति-अ-आ.
5.गुण इति न -मु-अ. 6.अयं-ग्रन्थः नास्ति-कुं-अ. 7. का-मु-अ-आ.
उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः) प्रामाण्यवादः पु - 139.
------------------------------------ ------------- ----------
एतदप्युक्तं"अन्यथा"इत्यादिना । फलाभावमात्रेण स्वरूपयोग्यत्वाभावसाधने लोकसिद्धसर्वव्यवस्थायोगादित्यर्थः ॥
॥ ज्ञप्तौ परतस्त्वानुमानभङ्गः

11.9

एतदपीति ॥ निश्चयरूपफलाभावे योग्यत्वाभावो नेत्येतदपीत्यर्थः -- लोकेति ॥ प्रतिबन्धकस्थलीयदाहाद्यभावेपि वह्न्योदस्तच्छक्ततास्तीति लोकसिद्धव्यवस्थेत्यर्थः ।
॥ ज्ञप्तौ परतस्त्वानुमानभङ्गः

11.10

ननु कथमेतत् अनित्यप्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या कार्यत्वे सति तद्विशेषत्वात् । अप्रमावत् ।
एतदिति ॥ उत्पत्तौ च प्रामाण्यं स्वत एवेत्येतदित्यर्थः । कुत इत्यतः कुसुमाञ्जल्युक्तेन तत्वनिर्णयटीकाद्याशङ्कितेनानुमानेन विरोधं मानाभावं च हेतुद्वयमाह --अनित्यप्रमेति ॥ प्रमेत्येवोदयनोक्तावपीश्वरज्ञानांशे बाधवारणाय तदभिप्रेतं स्वयमुक्तमनित्येति ॥ अत एव अनित्यप्रमात्वं कार्यतावच्छेदकं इति रुचिदत्तोक्तिः । हेत्वधीनत्वे 1 ज्ञानहेत्वधीनत्वे न साध्ये सिद्धसाधनमतो-- ज्ञानहेत्वतिरिक्तहेतुजन्येति ॥ तद्विशेषत्वात् ॥ ज्ञानविशेषत्वादित्यर्थः । ईश्वरज्ञाने व्यभिचारनिरासाय -- कार्यत्वे सतीति ॥ ज्ञाने तद्दोषनिरासाय विशेष्यम् ॥
1. "ज्ञानहेत्वधीनत्वे"इति नास्ति - आ- कुं.
न्यायदीपयुततर्कताण्डवम् प्रामाण्यवादः पु - 140.
----------------------- ------------ ----------
अन्यथाप्रमापि प्रमा स्यात् । यदि दोषप्रतिबन्धान्न प्रमा 1 तर्हि ज्ञानमपि 2 सा
न स्यादित्यनुकूलतर्कसनाथानुमानविरोधात् । स्वतस्त्वे च मानाभावादिति चेन्न । प्रमाया ज्ञानत्वेन तद्धेतोर्ज्ञानहेतुततया तदतिरिक्तजन्यत्वसाधने बाधात् । विरोधाच्च ।
नापि ज्ञानत्वप्रयोजकहत्वतिरिक्तहेतुजन्येति साध्यम् । प्रत्यक्षत्वादिप्रयोजकानामिन्द्रियादीनां ----
एतेन मणौ जन्यत्वादीति हेत्वनुवादो ऽनुचित इति सूचितम् । कुसुमाञ्जलौ मणौ चोक्तमनुकूलतर्कमाह-- अन्यथेति ॥ प्रमात्वस्य ज्ञानसामग्रीमात्रप्रयोज्यत्वे ऽप्रामायामपि प्रमात्वं स्यात् । तत्रापि ज्ञानसामान्यहेतोः सत्वादिति भावः -- ज्ञानमपीति ॥ ज्ञानत्वप्रमात्वयोरेकसामग्रीप्रयोज्यत्वादेकांशे
प्रतिबन्धे ऽपरांशेति तथात्वादिति भावः । मानाभावाच्चेति चान्वयः । व्याघातं चाह -- विरोधाच्चेति ॥ 3 ज्ञानाजनकजन्यत्वार्थत्वेप्युक्तदोषावेवेति भावः ॥
मणिकुतोत्प्रेक्ष्य दूषितानपि पक्षान् शिष्याणां सुबोधायानूद्य निरा 4 करोति -- नापीति ॥ प्रत्यक्षत्वादीत्यादिपदेनानुमितित्वोपमितित्वाशाब्दत्वानां तथा चाक्षुषत्वादीत्यत्र रासनत्वादीनां द्वितीयचतुर्थादिपदानां च परामर्शोपमानशब्दज्ञानानां रसनादीनां च ग्रहः ।
1. तदा-क. 2."सा"इति न -मु-च. 3.ज्ञानजनकाजन्यार्थत्वे -कुं 4.राह-मु-आ-अ.
उ-प-चि-नुन-भङ्गः) प्रामाण्यवादः पु - 141.
-------------------- ----------- -------------
चाक्षुष्वादिप्रयोजकानां चक्षुरादीनां च ज्ञानत्वप्रयोजकातिरिक्तत्वेन यथायथं तैस्मिद्धसाधनात् ।
नापि ज्ञानसामान्यसामग्र्यतिरिक्तसामग्रीजन्येति साध्यम् । सामग्रीशब्देन कृत्स्नकारणचक्रविवक्षायां सामग्रीभे 1 दे कार्यभेदनियमेन प्रमाया ज्ञानभिन्नत्वापत्तेः । कतिपयकारणच 2 क्रविवक्षायां चोक्तरीत्येन्द्रियादिभिः सिद्धसाधनात् ॥
। एतेनानित्यज्ञानत्वावच्छिन्नकार्यता 3 भिन्नकार्यत्व ---
सिद्धसाधनादित्युपलक्षणम् । ज्ञानत्वस्येश्वरज्ञानवृत्तित्वेन 4 करणाप्रयोज्यतया तत्प्रयोजकसामग्र्यप्रसिद्ध्य साध्यप्रसिद्धिरित्यपि बोध्यम् ॥
ननु ज्ञानत्वप्रयोजकहेत्वित्यस्य ज्ञानत्वाश्रयजनकसामग्रीत्यर्थो विवक्षितः । तेन नेन्द्रियादीभिः सिद्धसाधनम् । तेषामपि तदाश्रयजनकसामग्रीत्वेन तदन्यत्वाभावादित्यत आह -- नापि ज्ञानसामान्येति ॥ ज्ञानत्वाश्रयसामग्रीत्यर्थः --- सामग्रीभेद इति ॥ सामान्यविशेषकार्यस्थलेपि सामान्यकार्यसामग्रीतो विशेष 5 कार्यसामग्री न भिन्ना किन्तु मिलितैवेति भावः -- सिद्धसाधनादिति ॥ इन्द्रियादीनामपि ज्ञानत्वाश्रयकतिपयकारणान्यत्वादिति भावः ॥
ज्ञानत्वस्य नित्यवृत्तितयानवच्छेदकत्वादाह-- अनित्यज्ञानत्वेति ॥ अनित्यज्ञानत्वेना 6 नवच्छिन्ना नियता 7 व्यावर्तिता वा 8 या कार्यता ---
1. दयनियमेन-ग. 2. चक्रपदं - न-मु-च. । अयं ग्रन्थः-क-च. पुस्तके नास्ति. 3. अन्य-मु-छ-ग. 4.करण-कुं. 5.कार्यपदं न-मु. 6. नाव-कुं .अ-आ. 7.नित्यव्यावर्तिता -कुं. 8. वा इति - न -आ-कुं.
---प्रतियोगिककारणजन्येति साध्यत इति निरस्तम् । इन्द्रियादिभिः सिद्धसाधनात् ॥
एतेन अनित्यप्रमा प्रमा 1 प्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वात्, प्रमाप्रमान्यतरप्रतिबन्धकजन्या वा प्रमाप्रमान्यतरत्वात्,
स्वविरोध्यनुभवप्रतिबन्धकजन्या वा ---------
-- अनित्यज्ञानमात्रवृत्तिरात्ममनोयोगादिप्रयोज्या कार्यता तदन्यकार्यत्वं प्रमानिशष्ठप्रणानिष्ठं च तत्प्रतियोगिकं तन्निरूपितं यत्कारणंप्रमारूपकार्यकारणं 2 अप्रमारूपकार्यकारणं गुणदोषलक्षणं तज्जन्येत्यर्थः । 3 दोषजन्यत्वे बाधाद्गुणजन्यत्वेन साध्यपर्यवसानं दृष्टान्ते प्रमायां दोषजन्यत्वेन साध्यानुगमो ज्ञेयः -- सिद्धसाधनादिति ॥ कार्यत्वपदेन प्रमादिवृत्तिकार्यत्व 4 मिव प्रत्यक्षमात्रवृत्तिकार्यत्वमनुमित्यादिमात्रवृत्तिकार्यत्वं चाक्षुषादिज्ञानमात्रवृत्तिकार्यत्व 4 मपि भवतीति तत्तत्प्रतियोगिककारणानीन्द्रियादीन्यपि भवन्तीति तैस्मिद्धसाधनमित्यर्थः -- प्रमाप्रमेति ॥ तदुभयहेतुर्ज्ञासामान्यसामग्र्यात्ममनोयोगादिः । तद्भिन्नहेतुर्गुणो दोषश्च । तज्जन्यत्वं च पक्षदृष्टान्तयोः प्रमाप्रमयोः पूर्ववज्ज्ञेयम् । प्रमेत्युक्त्या सिद्धसाधनत्वस्याप्रमेत्युक्त्या बाधस्य न निरासः । न च
प्रागभावव्यक्तिविशेषणार्थान्तरम् । भावत्वेन विशषणात् ।
यन्मते गुणादेर्विरोधिप्रतिबन्धकत्वं स्वकार्यत्वं च तन्मतेनाह -- प्रमाप्रमान्यतरेति ॥ 5 अनित्यप्रमेत्येवं प्रागुक्तपक्षानुकर्षो 6 ऽत्रोत्तरत्र च ज्ञेयः 5 । अन्यतरप्रतिबन्धकश्च गुणो दोषश्च । तज्जन्यत्वं पूर्ववत् । हेतौ जन्यप्रमेति योज्यम् ।
1.भ्रम-छ. 2. एतन्नास्ति -कुं. 3. अनित्यप्रमेति प्रागुक्तपक्षानुकर्षः सर्वत्रज्ञेयः । दोष,-अ. 4. एतावत्-आ. पुस्तके नास्ति. 5. इयं पङ्क्तिर्नास्ति-आ-अ.
र्6. षः सर्वत्र - मु.
उ-प-चि-नुन-भङ्गः) प्रामाण्यवादः पु - 143.
------------------- -------------- -----------
--अनित्यानुभत्वात् अप्रमावत् ष चाक्षुषप्रमा चाक्षुषभ्रमाजनकजन्या अनित्यप्रमात्वात् रासनप्रमावदिति निरस्तम् ।
प्रमाजनकव्यक्तिविशेषस्योभयहेतुभिन्नत्वेनाप्रमाप्रतिबन्धकत्वेन 1 चाक्षुषभ्रमाजनकत्वेन च सिद्धसाधनात् ।
नापि अनित्यप्रमा अप्रमाव्यावृत्तधर्मावच्छिन्नकार्यताप्रतियोगिकारणजन्या अप्रमाविजातीयकार्यत्वात् । घटवदितियुक्तम् ।
प्रमाप्रमाबहिर्भूतमीश्वरज्ञानमिति मते तु यथाश्रुतमेव । अनुमित्यादिप्रतिबन्धकप्रत्यक्षसामग्रीजन्यत्वेन सिद्धसाधनवारणाय स्वविरोधीत्यनुभवविशेषणम् । अप्रमारूपो ऽनुभव इत्यर्थः । स्वशब्दस्य पक्षीभूतानित्यप्रमामात्रपरत्वेनानुमित्यादेः स्वविरोधित्वाभावान्नोक्तदोषः । स्वविरोधिस्मृतिप्रतिबन्धकानुभवसामग्रीजन्यतया सिद्धसाधनतावारणायानुभवदम् -- अप्रमावदिति ॥ तत्र दोषजन्यत्वेन साध्यानुगमो ध्येयः -- चाक्षुषभ्रमाजनकेति ॥ पक्षे गुणजन्यत्वेन दृष्टान्ते रसनेन्द्रियसंप्रयोगजन्यत्वेन साध्यं बोध्यम् ।

आद्यसूत्रं स्मृत्यनुभवसाधारणं 2 साध्यम् 3 द्वितीयमनुभवसाधारणं 4 तृतीयं चक्षुरादिप्रत्यक्षसाधारणमिति साध्य 5 त्रयं विवेक्तव्यम् --व्यक्तिविशेषस्येति ॥
निर्देषार्थकरणसम्प्रयोगादिरूपस्येत्यर्थः -- अप्रमाप्रतिबन्धकत्वेनेति ॥ तदनुत्पादव्याप्यत्वरूपप्रतिबन्धकत्वेनेत्यर्थः ॥ अप्रमायाः ----
1. स्वविरोध्यनुभवप्रतिबन्धकत्वेन - छ. 2. ध्येयम् - आ. 3. तृतीयं -आ. 4. चतुर्थं-आ. 5. चतुष्टयम्-मु."साध्यत्रयमिति"नास्ति-आ. । इयं पङ्क्तिर्न.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 144.
----------------------- -------------- ---------
अप्रमाव्यावृत्तधर्मावच्छिन्नकार्यत्वमिन्द्रिय 1सम्प्रयोगस्य तत्प्रतियोगिककारणमिन्द्रियादीति तज्जन्यत्वेन सिद्धसाधनात् ।
नापि अनित्यप्रमा अप्रमा 2 कारणविजातीयकारणजन्या अप्रमाविजातीयकार्यत्वात् घटवत् । अन्यथा
कार्यवैजात्यमाकस्मिकं स्यादिति युक्तम् । हेतौ विजातीयत्वं यदि विरुद्धजात्यधिकरणत्वं तद प्रमात्वस्याजातित्वेनासिद्धेः । यादि 3 तु -----
स्वविरोध्यनुभवत्वादप्रमाप्रतिबन्धकत्वेनेत्यनेनैव स्वविरोध्यनुभवप्रतिबन्धकत्वेनेत्यस्याप्युक्तत्वान्न तस्य पृथगुक्तिः । -- इन्द्रियसंप्रयोगस्येति 4 ॥ 5 इन्द्रियसम्प्रयोगत्वस्याप्रमाव्यावृत्तत्त्वेन तदवच्छिन्नकार्यत्वं तस्येत्यर्थः । 6 इन्द्रियादिसम्प्रयोगस्ये 7 ति ध्येयम् । अग्र इन्द्रियादीति श्रवणात् -- तज्जन्यत्वेनेति ॥ संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन जनकत्वादिन्द्रियस्यापि द्रव्यत्वादिति भावः ॥
मणुकृता सिद्धान्तितानुमानान्यप्यनूद्य निराह ॥ नाप्यनित्यप्रमेत्यादिना ॥ 8 अप्रमाविजातीयेति ॥ अप्रमाकारण विजातीयेत्यर्थः 8 । तदुक्तमेवानुकूलतर्कमाह--अन्यथेति ॥ विजातीयकारणाजन्यत्व इत्यर्थः -- अजातीयत्वेनेति ॥ इदं रजतमित्यादौ धर्म्यंशे सत्वेपि धर्मांशे ऽफभवेन प्रमात्वस्याव्याप्यवृत्तित्वात् । ज्ञानत्वसमनियतत्वाच्चेति भावः ॥
1.संयोगस्य-छ. 2. कारणपदं न -मु-च. 3."तु"इति न-मु-च. 4. त्वस्येति-आ. 5. इन्द्रियसंप्रयोगस्येत्यत्र. इ-मु. 6 इन्द्रियसंप्रयोगत्वस्येत्यत्र इ - आ. 7. त्यपि - आ. 8. एतन्नास्ति - कु-आ.
उ-प-चि-नुन-भङ्गः) प्रामाण्यवादः पु - 145.
------------------- ------------ -----------
विरुद्धधर्ममात्राधिकरत्वं तदा पटज्ञानविजातीयकार्ये घटज्ञाने व्यभिचारः । अनुमित्यादीसाधारणघटज्ञानमात्रानुगतकारणाभावात् । पाकजरूपरसादौ कारणवैजात्येपि 1 कार्यवैजात्यदर्शनाच्च ।
स्यादेतत् ।अनित्यप्रमात्वं अनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्नकारणताप्रतियोगि 2 कार्यतावच्छेदकम् । अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदकधर्मत्वात् अप्रमात्ववत् ।
घटज्ञानजातीयमपि कार्यं तद्विजातीयकार्यकारणविजातीयघटेन्द्रियसन्निकर्षादिजन्यमिति न व्यभिचार इति मण्युक्तिनिरासाय व्यभिचारं व्यनक्ति-- अनुमित्यादीति ॥ अप्रयोजकत्वं चाह --पाकजेति ॥ न च तत्रापि तत्प्रागभावरूपहेतुवैजात्यमस्तीति वाच्यम् । भावरूपविजातीयेति साध्यार्थत्वात् । अन्यथा प्रागभावेनैव सिद्धसाधनतापत्तेरिति भावः ॥
मण्युक्तानुमानान्तरमाशङ्कते स्याद्तदिति ॥ प्रमात्वस्य नित्यवृत्तितया कार्यतावच्छेदकत्वादनित्यप्रमात्वमित्युक्तिः । एवं साध्येपि ज्ञेयम् । अनित्यज्ञानत्वावच्छिन्नं यत्कार्यत्वं तत्प्रतियोगिका तन्निरूपिता कारणता आत्ममनोयोगादिनिष्ठा तद्भिन्ना या कारणता गुणदोषनिष्ठ तत्प्रतियोगिककार्यतावच्छेदकमित्युक्तौ पक्षे गुणजन्यवावच्छेदकत्वेन 3 दृष्टान्ते दोषजन्यतावच्छेदकत्वेन 3 साध्यसिद्धिः । अन्यथा बाधादिति भावः । हेतावनित्यज्ञानत्वे व्यभिचारनिरासाय व्याप्यान्तं धर्मविशेषणम् । अभेदेपि व्याप्यत्वमिति पक्षे तु न्यूनवृत्तित्वं व्याप्यत्वं बोध्यम् । घट 4 नित्यज्ञानत्वादौ तद्वारणाय विशेष्यम् -- बाधकं विनेति ॥
1. कार्यपदं न -ग-क-ख. 2. क-मु-च-ग. 3. इदं नास्ति -कुं. 4.टादि-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 146.
------------------------- --------- --------
न च विशेष्यासिद्धिः । अनित्यप्रमात्वं कार्यतावच्छेदकम् बाधकं विना कार्यमात्रवृत्तिधर्मात्वात् अप्रमात्ववदित्यनेन तत्सिद्धेः । नीलघटत्वादौ प्रत्येकानुगकप्रयोजकद्वयादेव निलरूपघटत्वयोः सिद्ध्या समाजस्यार्थिकत्वं बाधकम् । जन्यघटज्ञानत्वादौ 1 तु स्वावच्छिन्नकार्यत्वप्रतियोगिककारणासम्भवो बाधक इति न तत्र व्यभिचार इति चेन्मैवम् । घटज्ञान इव वक्ष्यमाणरीतच्यानित्यप्रमामात्रे 2 प्यनुगत 3 गुणाभावेनानुमान 4 द्वयेपि बाधात् । द्वितीये विशेषणासिद्धेश्च ।
अवच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तित्वं वा स्वावच्छिन्नकार्यताप्रतियोगिककारणासम्भवो वा एकव्यक्तिकत्वं वा गौरवं वेत्यादि यत्कार्यतावच्छेदकत्वे बाधकं तद्ध्विनेत्यर्थः -- अप्रमात्ववदिति ॥ तत्र बाधकचतुष्टयस्याप्यभावाद्धेतुसाध्ये व्यक्ते इति भावः ॥
हेतौ विशेषणकृत्यं मण्युक्तमेव दूषण 5 ज्ञानसौकर्यायाहः-- निलेति ॥ प्रयोजकद्वयादिति ॥ घटत्वप्रयोजकान्नीलत्वप्रयोजकाच्चेत्यर्थः-- समाजस्य ॥ घटत्वनीलत्वरूपावच्छेदकान्तरोपपन्नकार्यत श्रवणवृत्तित्वमित्यर्थः -- स्वेति ॥ स्वावच्छिन्नं यत्कार्यत्वं तन्निरूपितानुगतैककारणासम्भव इत्यर्थः -- घटज्ञान इवेत ॥ जन्यघटज्ञान इवेत्यर्थः -- विशेषणेति ॥ स्वावच्छिन्नकार्यत्वप्रतियोगिकैककारणासम्भवरूबाधकस्यैव सत्वेन बाधकं विनेत्यरस्यासिद्धेरित्यर्थः -- व्यर्थेति ॥ ज्ञानत्वादौ नित्यवृत्तित्वबाधकाभवेनैव व्यभिचारनिरासादिति भावः ॥
1.तु इति न -कुं - ग. 2. अपिपदं न - कुम. 3. कारणाभा - कुं.-क.
4. द्वयाभावेपि - ग. 5. ज्ञानपदं न -मु.
उ-प-चि-नुन-भङ्गः) प्रामाण्यवादः पु - 147.
------------------ ------------ ----------
बाधकराहित्यस्यैव हेतुत्वसम्भवे व्यर्थविशेष्यत्वाच्च । साधकाभावेन सत्प्रतिपक्षत्वाच्च । अप्रमामात्रानुगतदोषाभावेन दृष्टान्तस्य साध्यसाधनवैकल्याच्च ॥
ननु प्रमाविशेष्यहेतूनां भूयो ऽवयवेन्द्रियसन्निकर्षादीनां प्रमामात्रे सन्निकर्षत्वादिनाननुगमेपि गुणत्वेनानुगतिरस्तीति कथं बाध इति चेन्न । गुणत्वस्याजातित्वेन प्रमामात्रजनकत्वरूपतयान्योन्याश्रय 1 यात् ॥
न च बाधकं विनेत्यत्र प्रागुक्तबाधकचतुष्टयमेव बाधकपदेन विवक्षितम् । अतो ज्ञानत्वादौ व्यभिचारनिरासाय विशेष्यमिति
वाच्यम् । सामान्यशब्दस्य विशेषणपरत्वमुपेत्य विशेष्य 2 कृत्योक्तेरयुक्तत्वादिति भावः ॥

साधकेति ॥ अनुगतकारणतावच्छेदकेन हि कार्यतावच्छेदकमुपेयम् । प्रकृते चानुगतकारणं नेति वक्ष्यमाणत्वादिति भावः -- दृष्टान्तस्येति ॥ अनुमानद्वयेपीत्यनुकर्षः । अनुगतदोषाभावेनाद्यहेतौ कार्यतावच्छेदकत्वस्य द्वितीये स्वावच्छिन्नकार्यतेत्यादिबाधकाभावस्य चाभावेन साधनकैवल्यम् । अनुगतकारणाभवेन साध्यवैकल्यं चेत्यर्थः -- अजातित्वेनेति ॥ संयोगत्वज्ञानत्वादिना साङ्कर्यादिति भवः । एतेन दृष्टान्ते भ्रमहेतूनां दोषत्वेनानुगमोप प्रयुक्तः -- अन्योन्याश्रयादिति ॥
1. त्वा - च . 2. विशेषणकृ - कु - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 148.
---------------------- --------------- ------------
एतदप्युक्तं"प्रामाण्यं च स्वत एव अन्यथानवस्थानात्"इति । उत्पद्यत इति शेषः । ज्ञानात्मिकाया भ्रमेपि धर्म्यंशे ऽनुवृत्तायाश्च प्रमायाः 1 ज्ञानहेत्वन्यहेतुजन्यत्वदिति साधने धटादिवदज्ञानत्वाद्यपत्या प्रमा ज्ञानं घटस्तु नेत्यादिव्यवस्थायोगादित्यर्थः ॥
उत्पत्तो परतस्त्वे चिरन्तनानुमानभङ्गः

11.10

अनत्यप्रमात्वस्य कार्यतावच्छेदकत्वसिद्धावुक्तरूपगुणत्वसिद्धिः। तत्सिद्धौ च तत्सिद्धित्यन्योन्याश्रययादिर्यर्थः -- चिरन्तनानुमानभङ्गः । उदयनोक्तानुमानस्यैव मणिकृता परिष्कृतत्वेन नूतनानुमानाकारणात्तद्भङ्गेन मण्युक्तानुमानभङ्गोपीति चिरन्तनेत्येवोक्तम् ॥
॥ 2 उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः

11.11

अथ मतं ग्राह्यप्रमा वा विशेष्यनिष्ठविशेषणज्ञानं वा अविद्यमानासंसर्ग्राग्रहो वा गुणः ॥
यदुक्तमनुगतगुणाभावेनानुमानद्वये बाधादित्यादि तन्नेति भावेनानुगुणमाशङ्क्य निराह -- अथेति ॥ यद्यपि"प्रमामात्रे नानुगतो गुण"इत्येवोक्तं मणौ तथापि पक्षधरप्रगल्भख्यातृभिरनुगतगुणस्योक्तत्वात्तन्मताशङ्केयम् --ग्राह्येति ॥ येन यद्ग्राह्यं तत्र तत्प्रमाहेतुस्त्यिर्थः -- विशेष्यनिष्ठेति ॥ विशेष्यसम्बद्धेत्यर्थः ।
1. ज्ञानहेत्वजन्यहेतुजन्यत्वादिसाधने - ख. 2. परतस्त्वे ऽनुमानभङ्गः -आ.
अनित्यप्रमामात्रानुगतगुणभङ्गः प्रामाण्यवादः पु - 149.
----------------------------- ------------ --------
1 प्रमामात्रे ऽनुगते हेतुः । नाचात्र 2 प्रमाणाभावः । आद्ये 3 पक्षे विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यां 4 धारावाहिकोत्तरप्रमां प्रति विशेष्यमपि विषयीकुर्वन्त्याः पूर्वस्या ग्राह्यमायाः कारणत्वे कॢप्ते प्रमान्तरंप्रत्यपीश्वरनिष्ठाया ग्राह्यप्रमाया गुणत्वकल्पनात् । द्वितीयेपि विशिष्टज्ञानरूपं सामान्यं प्रति विशेषणज्ञानस्य विशेषणज्ञानत्वेनरूपेण सामान्येन कारणत्वे"यत्सामान्ययोः कार्यकारणभावो बाधकाभावे सति तद्विशेषयोरपि सः
"इति न्यायेन विशिष्टप्रमां प्रति विशेष्यनिष्ठविशेषणज्ञानत्वेन कारणत्वकल्पनात् । तृतीयेपि संसर्गग्रहसामान्यं प्रत्यसंसर्गाग्रह 5 मात्रस्य कारणत्वेन तद्विशेषस्याविद्यमानासंसर्ग्राग्रहस्य संसर्गप्रमां प्रति कारणत्वकल्पनात् इति॥मैवं-
आद्यपक्षे धारवाहकपूर्वप्रमायां ग्राह्यप्रमात्वे सत्यपि तस्या विशेषणज्ञानत्वेनैव कारणतया ग्राह्यप्रमात्वेन तदभावात् ॥
तेनाशब्दैत्यादौ न दोषः । अविद्यमानो यो संसर्गः धर्मिधर्मसंम्बन्धाभावः तदग्रह इति तृतियपक्षार्थः । मतत्रयेपि क्रमेण युक्तीराह -- आद्येत्यादिना ॥ प्रमान्तरं प्रतीति । 6 अनुभवं प्रतीत्यर्थः -- विशिष्टेति ॥ जन्यविशिष्टज्ञानेत्यर्थः --
तदभावादिति ॥ 7 कारणत्वाभावादित्यर्थः ।
1. प्रामाण्यमात्रे -ख. 2. मानाभावः-छ-क-ख-मु. 3. द्यप-कुं-ग-च. 4. न्यधा-च-ग-ख-कुं. 5. मात्रपदं न - मु. 6. अनुत्तरप्रमां प्र- आ. 7. एतन्नास्ति - कुं - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. प्ररिच्छेदः पु - 150.
----------------------- -------------- ----------
तत्र तस्याः समानाधिकरणाया एव कारणत्वकॢप्त्या प्रमान्तरेपि समानाधिकरणाया एव 1 कारणत्वकॢप्त्या प्रमात्वेपि समानाधिकरणाय एव 1 तत्कल्पनाप्रसङ्गाच्च ॥
ईश्वरज्ञानस्य भ्रमं प्रतीवोपादानसाक्षात्कारतयैव कारणत्वस्य कॢप्तत्वेन ग्राह्यप्रमात्वेन काणत्वकल्पनस्य प्रामाण्यपरतस्त्वनिश्चयाधीनत्वेनान्योन्याश्रयाच्च।
ग्राह्यप्रमात्वेनैव कारणत्वमित्यत्र कल्पकाभावादिति भावः ॥
न च शाब्दप्रमायां ग्राह्यविशेषस्य वाक्यार्थस्य प्रमाहेतुरिति प्रमासामान्ये ग्राह्यप्रमासामान्यं हेतुरिति वाच्यम् । तथाप ग्राह्यप्रमामात्रस्यातिप्रसक्ततया तद्ग्राह्यप्रमायां तद्ग्राह्यप्रमाहेतुरित्यननुगम एवेत्यनुगतगुणालाभावत् । अप्रमात्वे दृष्टान्ते साध्यवैकल्यस्यैवमप्यपरीहाराच्चेति भावः ॥
नन्वस्तु विशेषणज्ञानत्वेनैव हेतुतेत्यत आह -- 2 तत्रेति ॥ 3 यद्वा ग्राह्यप्रमात्वेन तत्र कारणत्वेपि न सर्वत्रानुगतगुणालाभ इत्याह -- 4 तत्रेति ॥ उक्तविशिष्टप्रमायां तस्याः विशेषणप्रमात्वेन हेतुभूतपूर्वप्रमाया इत्यर्थः -- कॢप्त्येति ॥ अन्यथातिप्रसङ्गान्निर्विकल्पकादरानापत्तेश्चेति भावः ॥
नन्वीश्वरज्ञानस्या 5 कारान्तरेण हेतुत्वात्कॢप्तेर् 6 वा प्रमात्वस्य गुणप्रयोज्यत्वान्यथानुपपत्यावैतत्कल्प्यत इत्यत आह --
ईश्वरेति ॥
1. एतावन्नास्ति-छ-ख-मु. 2. यत्रेति-आ. 3. यद्वेत्यादि नास्ति-अ. 4. यत्रेति-आ. 5. स्यप्र-आ.अ. 6. कॢप्तवप्र-आ.
अ-प्रत्र-गु-ङ्ग) प्रामाण्यवादः पु - 151.
-------------- ----------- -----------
लिङ्गाभासविप्रलम्भकवाक्यजन्ययोर्यादृच्छिकसंवावेन प्रमायोस्त्वदुक्तव्यधिकरणजन्यत्ववत्समानाधिकरणदोषजन्यत्वस्यापि सत्वेनाप्रमाण्यास्याप्यपाताच्च ॥
धारावाहिके भ्रमे पूर्वस्य भ्रमस्योत्तरभ्रमं प्रतित्वदुक्तरीत्या ग्राह्यभ्रमत्वेन कारणत्वे कॢप्ते भ्रमान्तरेपि ग्राह्यभ्रमाः कारणत्वेन कल्प्यः । स एव च भ्रममात्रे ऽनुगते दोषः । एवं च संवादादिशुकादिवाक्यमूलत्वेन नित्यप्रमावद्विसंवादीशुकादीवाक्यमूलत्वेन नित्यभ्रमोपि सिद्ध्येदित्यतिप्रसङ्गाच्च ॥ आद्यद्वितीययोर्विशेष्टज्ञानं
प्रति विशेषणज्ञानकारणत्वस्यैव मां प्रत्यसिद्धेश्च । वक्ष्यते चैतन्निर्विकल्पकभङ्गे ॥
यादृच्छिकेति ॥ यादृच्छिकसंवादेन हेतुनावगतप्रमात्वयोरित्यर्थः -- अप्रामाण्यस्येति ॥
नचायं दोषः सिद्धान्तेपीति वाच्यम् ॥ विषयसत्वाभावविशिष्टस्यैव दोषस्याप्रमाहेतुत्वात् । नचैवं परमते युक्तम् । उक्तरूपदोषाभावदेव प्रमात्वोपपत्तौ गुणस्य हेतुतानापत्तेरिति भावः ॥
नत्यभ्रमोपीति ॥ अन्यथा प्रागुक्ताप्रमात्वदृष्टान्ते साध्यसाधनवैकल्यापत्तेः । इतोन्यस्यानुगतदोषस्याभावेन कार्यतावच्छेदकत्वासिद्धेरिति भावः -- विशेषणज्ञानकारणत्वस्यैवेति ॥ दूरे यत्सामान्ययोरिति न्यायावतार इत्येवकारार्थः । 1 प्रामाणिकत्वेनसिद्धमित्यत आह -- वक्ष्यत इति ॥
1. अयं ग्रन्थः नास्ति -कुं-अ--प्रामाणिकत्वमसिद्धमित्यत आग - आ,
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 152.
----------------------- ------------- ----------
द्वतीयतृतीययोनिर्विकल्पक 1 रूपप्रमाननुगमाच्च ॥
ननु निर्विकल्पकेप्यविद्यमानस्यासंसर्गस्याग्रहोस्त्येवेति चेन्न । असंसर्गाग्रहरूपो यः संसर्गग्रहप्रतिबन्धकस्तदभावतया संसर्गग्रह एव हेतुत्वात् ॥
न च निर्विकल्पकं प्रमाप्रमाबहिर्भूतम् । तथापि निर्विकल्पकस्य गुणाजन्यत्वेप्यप्रमाया अपि तदुपदत्तेः । तृतीये ऽविद्यमानासंसर्ग 2 शब्देनोक्तस्य विद्यमानसंसर्गस्य योयम 3 ग्रहस्तस्य धारावाहिकद्वितीयादिप्रमाननुगमाच्च ।
रुचिदत्तादिस्तु विशेष्यनिष्ठविशेषणज्ञानं गण इत्ययुक्तम् । लोहितःस्फटिक इत्यादौ लौहित्यसाक्षात्सम्बन्धविषयभ्रमे अन्वयव्यभिचारात् । लौहित्यरूपविशेषणस्य परम्परासम्बन्धेन विशेष्यनिष्ठत्वात् । न च तत्सम्बन्धविषयकप्रमायां तत्सम्बन्धेन विशेष्यवृत्ति यद्विशेषणं तज्ज्ञानत्वेन न हेतुतेति वाच्यम् । एवं हि तत्संम्बन्धविषयकतद्विशेषणविशेष्यकप्रमात्वं कार्यतावच्छेदकम् । तत्संम्बन्धेन 4 तद्विशेषणज्ञानत्वं कारणतावच्छेदकमित्यननुगम एव । किञ्च । भावत्वविशिष्टप्रत्यक्षे व्यभिचारश्चेत्यदूषयत् ॥
। अननुगमाच्चेति ॥नन्वीश्वरज्ञानमादाय द्वितीयमपिनिर्विकल्पके अनुगमयितुं शक्यमिति चेन्न । तस्य साधारणहेतुत्वेन विशेषाकारेण हेतुत्वकल्पकाभावादितिभावः । तृतीयमनुगतमिति शङ्कते -- नन्विति ॥ अननुगमो न दोषायेति शङ्कते -- नचेति ॥ बहिर्भूतमिति ॥

1. रूपपदं नास्ति-मुर्. 2. गाग्रहश-कुं-च-ग. 3. य ग्रृ-कुं-च-ग. 4.तद्धिशेष्यवृत्ति-अ. । अयं ग्रन्थः नास्ति-कुं - अ.
अ-प्रत्रा-गु-ङ्गः) प्रामाण्यवादः पु - 153.
--------------- ------------- ----------
धारावाहिकद्वितीयादप्रमाननुगमाच्च । अविद्यमानासंसर्गस्य संसर्गरूपतया तदग्रहस्यासंसर्गाग्रहविशेषत्वाभावाच्च ॥
किञ्चानित्यप्रमामात्रानुगतगुणाङ्गीकारे प्रमारूपानुमित्यादौ प्रमात्वस्यानित्यप्रमामात्रानुगतगुणेन अनुमितित्वशाब्दत्वादेश्च लिङ्गपरामर्शशब्दकारणकत्वादीनैवोपपत्या यथायथं लिङ्गपरामर्शादिप्रतिनियतगुणोक्तिर्व्यर्था ॥
गुणदौषान्यतराजन्यत्वादितिभावः । -- संसर्गरूपतयेति ॥ नञ्द्वयेन विध्यमानसंसर्ग 1 लाभम विना पर्यवसानाभावादिति भावः -- असंसर्गाग्रहविशेषत्वाभावाच्चेति ॥ तथाच यत्सामान्ययोरिति न्यायावतारेण कथं तस्य गुणत्वलाभाय इति भावः ॥
एवमनुगतगुणपक्षत्रयं प्रत्येकं दूषयित्वा संहत्यपि दूषयितुं"भूयो ऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वं"इति मण्युक्तं 2 विरुद्धं चेति भावेनाह -- किञ्चेति ॥ यद्वा उक्तप्रकारपक्ष एव युक्त इत्याह -- किञ्चेति ॥
न च प्रमात्वानुमितित्वादिरूपकार्यतावच्छेदकबलात्तदनुगुणोनुगतगुणः कश्चित्स्वीकार्य इति शङ्क्यम् । नीलघटत्वादाविव प्रमात्वानुमितित्वादेः स्वसामग्रीमहामहिम्नैवैकेत्र समाजेनावच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तिकत्वरूपबाधकेन तस्य कार्यतावच्छेदकत्वात् । अत एव प्रमात्वस्यानुमितित्वादेश्चप्रयोजकसामग्रीसमाजस्य प्रमामात्रानुगत गुणेनेति लिङ्गपरामर्शशब्दकारणकत्वादिनेत्युक्तिः ॥
र्1. गपर्य - मुर् - गाभावं वि - आ. 2. क्तिविरु -मु. -अ -आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 154.
----------------------- ---------------- -------
किञ्च परतस्त्वनादिना 1 हि विषयसत्वनैरपेक्ष्येण स्वत एवाप्रमाव्यावृत्तं ज्ञानसाधारणकारणादिकं किञ्चित्कारणं प्रमायां साधनीयम् । नतु 2 ज्ञानसाधारणस्यैव विषयसत्वविशेषणेनाप्रमाव्यावृत्तिः साधनीया । स्वतस्त्ववादीनापि प्रमायां ज्ञानसाधारणकारणस्य विषयसत्वस्य 3 स्वीकृतत्वेन सिद्धिसाधनात् ॥
अत एव सुधायां"ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्वं"इति मात्रशब्देन जनकान्तरमेव निषिद्धम् । न तु विषयसत्वम् । तस्यातीतादिविषयकानुमित्यादीसाधारणत्वेन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वात् ॥
पूर्वोक्तमतत्रयेपि विषयसत्वमेव गुण इति फलितमिति 4"तच्चानेन साधितमित्यादिना"वक्ष्यन् विषयसत्वं च न गुण इत्याह ॥ किञ्चेति ॥ अप्रमेति ॥ अप्रमाकारणव्यावृत्तमित्यर्थः । 5 ज्ञानसाधारणकारणस्येति पररीत्योक्तिः । स्वमते ग्राह्यज्ञानविशेषणज्ञानयोरहेतुत्वादिति ज्ञेयम् 5 -- अप्रमेति ॥ अप्रमाकारणव्यावृत्तिः-- अत एवेति ॥ विषयसत्वस्यानुमतत्वादेवेत्यर्थः-- सुधायां जिज्ञासाधिकरणसूधायामित्यर्थ ॥
ननु विषयसत्वस्यापि प्रमाजनकतया जनकान्तरविषेधे विषयसत्वमपि सुधायां निषद्धमेव । अतस्तदनुप्रवेशे सति न सिद्धसाधनमित्यत आह -- तस्येति ॥ विषयसत्वस्येत्यर्थः । अतीतेति ॥ अनुमित्यादिप्रमाण्याय पूर्वं तत्र विषयसत्वस्य वाच्यतया तस्येदानीन्तनानुमित्यजनकत्वादिति भावः ॥
1.पीहि-मु. 2. ननु-कुं-च-ग. 3. च-मु. 4. तिवक्ष्यन् - कुम- अ. 5 .इयं पङ्क्तिर्नास्ति - मु- आ.
अ-प्रत्र-गु-भङ्गः) प्रामाण्यवादः पु - 155.
---------------- -------------- ----------
एतेन यादृच्छिकसंवादेन प्रमायां लिङ्गाभासेन शब्दाभासेन च जन्यायामनुमितौ शाब्दप्रतीतौ च पक्षस्य वस्तुतः साध्यवत्वं योग्यता च गुण इति निरस्तम् ॥ स्पष्टयिष्यते चैतत् ॥
तच्चानेन साधितम् । विशेषणज्ञानस्यासंसर्गाग्रस्य च भ्रमसाधारण्यात् । विशेष्यनिष्ठशब्देनाविद्यमानशब्देन च विषयसत्वस्यैवोक्तेः ।
तदजनकत्वादिति ॥ यत्तु प्रमाणपद्धतौ साधनपदेन प्रमातृप्रमेययोर्व्यवच्छेद इति कारणत्वमात्रमुपेत्य साधकतमत्वाभाववचनं तदभ्युपेत्यवादेनेति भावः--एतेनेति ॥ विषयत्वस्य गुणत्वाभाववचनेनेत्यर्थः । वास्तवसाध्यवत्वयोग्यतयोर्विषयसत्वरूपत्वादिति भावः ॥
कथमिदं साध्यत्वादिकं विषयसत्वगर्भमित्यत आह -- स्पष्टयिष्यत इति ॥ उक्तरभङ्ग इत्यर्थः॥
नन्वस्तु विषयसत्वं न गुणः । तथापि ग्राह्यप्रमेत्याद्युक्तपक्षत्रयेपि किमागतमित्यत आह-- तच्चेति ॥ ज्ञानसाधारणकारणस्य विषयसत्वेन विशेषितत्वमनेन पक्षत्रयेण साधितं त्वयेत्यर्थः । कथमित्यतो व्यनक्ति -- विशेषणेत्यादिना ॥ विशेष्यनिष्ठेति ॥ ग्राह्यप्रमेति प्रमाशब्देनेत्यपि ध्येयम् ॥
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 156.
------------------------ ---------------- ---------
अन्यथा भ्रमेपि विशेष्यानिष्ठविशेषणज्ञानं विद्यमानासंसर्गाग्रहश्च प्रमाव्यावृत्तत्वाद्दोष इति तज्जन्यत्वेनैव परतस्त्वं स्यात् ॥
तस्माद्भ्रमे स्वत एव प्रमाव्यावृत्तं पित्तीदिकमिव प्रमायामपि स्तत एव भ्रमव्यावृत्तं भूयोवयवेन्द्रियसन्निकर्षादिकमधिकं वाच्यमिति किमनेन ॥
एतेन अनित्यप्रमात्वं अप्रमाकारणताव 1 च्छेदकरूपानवच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् । भ्रमावृत्तिकार्यतावच्छेदकत्वात् । घटत्ववदित्याद्यपि निरस्तम् । 2 कार्यतावच्छेदकत्वस्यैव निरासादिति ॥
परतस्त्ववादिनाहीत्यादिनोक्तप्रमेयानङ्गीकारे बादकमाह -- अन्यथेति ॥ स्वत एवाप्रमाव्यावृत्तस्य ज्ञानसाधाराणस्याधिकस्यानिङ्गीकारे विषयसत्वेनैव परतस्त्वस्वीकार इत्यर्थः । ग्राह्यभ्रमोप्यत्रोपलक्ष्यः । यद्वा आद्यपक्षस्यातिफल्गुत्वाद्द्वितीयतृतीययोरेवात्र पूर्वत्र च दोषोत्कीर्तनमिति बोध्यम् -- स्वत एवेति ॥ विषयसत्वनैरपक्ष्येणेत्यर्थः ॥
एवं प्रमात्वमात्रे ऽनुगतकारणदूषणेन मण्युक्तमनुमानान्तरमपि निरस्तमित्याह -- एतेनेति ॥ अप्रमेति ॥ अप्रमाकारणतादोषादिनिष्ठा तदनवच्छेदकं रूपं विशेष्यनिष्ठविशेषणज्ञात्वादिकम् । तदनवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकमित्यर्थः ।
1.नवच्छेदकरूपावच्छन्न - कुं - च - क. 2. ऽ भ्रमावृत्तिऽ इत्यधिकं -छ-क-ख.
यज्ञपत्यक्तवक्रानुमानभङ्गः) प्रामाण्यवादः पु - 157.
------------------------- ------------- ---------
एतदुक्तं"अन्यथा"इत्यादिना । अनुगतगुणाभावेप्यनित्यप्रमात्वस्य कार्यतावच्छेदकत्वे घटत्वादिकं कार्यतावच्छेदकं न तु नीलघटत्वादिकमिति व्यवस्थायोगादित्यर्थः ।
अनित्यप्रमामात्रानुगतगुणभङ्गः

11.11

दृष्टान्ते दण्डत्वादिकमेवाप्रमाकारणतानवच्छेदकरूपं बोध्यम् । हेतावप्रमात्वे व्यभिचारवारणाय भ्रमाद्यवृत्तीति ॥
भ्रमनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः । नत्या 1 नित्यवृत्तिप्रमात्वादौ तन्निरासाय विशेष्यम् ॥
आदिपदेन अनित्यरजतप्रमात्वं रजताप्रमाकारणतानवच्छेदकरूपावच्छिन्नकारमताप्रतियोगिककार्यतावच्छेदकं रजतभ्रमावृत्तिकार्यतावच्छेदकधर्मत्वाद्घटत्ववदित्यादिग्रहः -- कार्यतेति ॥ अनुगतगुणनिरासेन स्वावच्छिन्न कार्यत्वप्रतियोगिककरणासम्भवरूपबाधकस्यैव भावेन बाधकं विना कार्यमात्रवृत्तिधर्मत्वात्कार्यतावच्छेदकमित्यस्यासंभवात् । तथाच बाधासिद्धी इति भावः ।
रजतानुमित्यादिसाधारणगुणाभावेन रजतप्रमात्वेपि न कार्यतावच्छेदकत्वमिति ज्ञेयम् ॥
अनित्यप्रमामात्रानुगतगुणभङ्गः

11.12

1. त्यावृत्ति - कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 158.
----------------------- -------------- ---------
अथापि स्यात् । प्रमामात्रानुगतगुणाभावेपि परतस्त्वं सेत्स्यति । न ह्यनित्यप्रमात्वस्योक्तकार्यतावच्छेदकत्वं परतस्त्वम् । किन्ति तस्य स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्ति 1 त्वम् । तच्चानित्यप्रमामात्रानुगतगुणाभावेप्यननुगतगुणैरपि सेत्स्त्यति ।
तत्र च प्रमाणं अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्ति स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयमात्रानुत्पाद्यकार्यमात्रवृत्त् इधर्मत्वात् । अप्रमात्ववदित्यनुमानम् ।
यज्ञपतिमाशङ्कते --- अथापीति ॥ अथापीत्याद्युक्तमेव व्यनक्ति॥
प्रमेति ॥ उक्तेति ॥ अप्रमाकारणतेत्यादिनोक्तेत्यर्थः -- तस्येति ॥ अनित्यप्रमात्वस्येत्यर्थः -- स्वेति ॥ स्वस्यानित्यप्रमात्वं य स्वाश्रयस्तन्मात्रवृत्तयस्तदितरावृत्तित्वे सति तद्वृत्तयो ये धर्माः जन्यप्रत्यक्षप्रमात्वादयस्तदवच्छिन्नकार्यताश्रय एव वर्तमानत्वमुक्तकार्यताश्रय 2 एव वर्तमानत्वं उक्तकार्यताश्रय 2
त्वव्याप्यत्वमिति यावत् ॥
तदुक्तमेव 3 पञ्चमात्रानुमानमाह -- अनित्यप्रमात्वमिति ॥ बाधनिरासाया नित्येति ॥ साध्यमुक्तार्थम् । साध्यहेत्वोः स्वपदं समभिव्याहृतपरम् । एवं चानित्यप्रमात्वाश्रय एव यो न वर्तते धर्मः अनित्यज्ञानत्वादिः तदवच्छिन्नकार्यतानिरूपितकारणाश्रयो मनस्संयोगादिः तन्मात्रानुत्पाद्य कार्यमनित्यप्रमा तन्मात्रवृत्तिधर्मत्वादिति हेत्वर्थः । अनित्यज्ञानकारणमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वादिति फलितोर्थः ॥
1.धर्मत्वं - छ. 2. एतावन्नास्ति -- मु-आ-अ. 3. पञ्चमात्रेति नास्ति - कुं.
यपक्त-वनुन-ङ्गः) प्रामाण्यवादः पु - 159.
----------------- ------------- ---------
अनेन सामान्यकारणमात्रानुत्पाद्यकार्यमात्रवृत्ति 1 धर्मत्वरूपेण हेतुना साध्यमानं विशेषकारणजन्यत्वं सर्वप्रमानुगतगुणस्य बाधित्वेनाननुगतगुणजन्यत्वमादाय पर्यवस्यति ॥
अत्र च साध्ये आद्यं मात्रपदं स्वतस्त्वपक्षेप्यनित्यप्रमात्वस्य स्वाधिकदेशवृत्तिनानित्यज्ञानत्वे 2 नावच्छिन्नकार्यताश्रय एव वर्तमानत्वात्सिद्धसाधनमिति शङ्कानिरासाय । द्वितीयं तु सर्वासां प्रमाणां गुणजन्यत्वसिद्ध्यर्थम् ॥
हेतेरप्रयोजकतां निरस्यन् साध्यपर्यवसानप्रकारमाह -- अनेनेति 3 अननुगतेति ॥ प्रत्यक्षप्रमाह्येकैकानुगतेत्यपि योज्यम् । अन्यथा जन्यप्रत्यक्षप्रमात्वादेरवच्छेदकत्वायोगेन बाधापत्तेरिति भावः 3 ॥
साध्ये मात्रपदद्वयं व्यवच्छेदार्थकं न तु कात्स्नार्थकमित्युपेत्य दुषणज्ञानसौकर्याय व्यावर्त्यं व्यनक्ति -- अत्र चेति ॥
द्वितीयमिति ॥ 4 अनित्यप्रमात्वं तादृशकार्यताश्रय एव वर्ति न त्वन्यत्रेत्यस्य व्यवच्छेदार्थकमात्रपदेन लाभात्तस्य 5 जन्यप्रत्यक्षप्रमात्वानुमितित्वेपमितित्वशाब्दत्वाश्रयेषु सर्वत्र वर्तनं 6 तेषां सर्वेषां गुणजन्यत्व एवोपपद्यते । अन्यथा बाधात् । कात्स्न्र्यार्थत्वे तु यत्किञ्चित्तादृशधर्मावच्छिन्नकार्यताश्रये सर्वत्र
वर्तित्वोपपत्योष्टासिद्धेर्व्यवच्छेदार्थं एव द्वितीयोपीति भावः ॥
हेतावपि मात्रपदानि व्यवच्छेदार्थानीत्युपेत्यानुत्पाद्यान्तविशेषणकुत्यं वक्तुमाह -- हेताविति ॥
1.धर्मपदं नास्ति -क-छ-ख. 2. त्वाव-ख. 3.अयं ग्रन्थः नास्ति - कुं.
4. अनित्यप्रमात्वमिति न -अ. 5. द-कुं. 6.लभ्यते । अन्यथा -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 160.
----------------------- ------------ ---------
हेतौ 1 प्रथममात्रपादाभावे एतद्घटपटान्यतरत्वे व्यभिचारः । घटत्वपटत्वयोः कार्यतावच्छेदकयोरेतद्घटपटान्यतरत्वाधिकरणमात्रवृत्तित्वाभावेन साध्याभावात् ।
2 अन्यतरत्वस्य च स्वानुगतकारणाभावेन कार्यतावच्छेदकत्वात् ॥
( अतः 3 स्वाश्रयमात्रावृत्तिधर्मावच्छन्नकार्यत्वप्रतियोगिककारणताश्रयमात्रानुत्पाद्येति कार्यं विशेषितम् ।
घटापटान्यतरत्वे साध्यसत्वादेतदित्युक्तम् । एतद्घटपटान्यतरत्वे साध्याभावं व्यनक्ति -- कार्यतेति ॥ ययोर् 4 घटत्वपटत्वयोः कार्यतावच्छेदकत्वं न तयोः स्वाश्रयमात्रवृत्तित्वं ततो ऽधिकदेशवृत्तित्वात् । अन्यतरत्वस्याप्यनुगतकारणा भावेन कार्यतानुवच्छेदकत्वात् । एवं च । 5 स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयवृत्तित्वरूपसाध्याभावादित्यर्थः । एतेन प्रथममात्रपदस्यापि कृत्यमुक्तं ध्येयम् ॥ 7 प्रथममात्रपदं हित्वा स्वाश्रयावृत्तिधर्मावच्छिन्नेत्यादेरेवोक्तावेतद्घटपटान्यतरत्वस्य स्वाश्रयवृत्तिकुड्यत्वादिधर्मावच्छिन्नकार्यताप्रतियोगिककारणताश्रयः कुड्याद्यसाधारणं तन्मात्रानुत्पाद्यं यदेतद्घटपटरूपं कार्यं 8 तद्वृत्तित्वेन एतद्घटपटान्यतरत्वे उक्तहेतोः सत्वेपि मूलोक्तदिशा साध्याभावेन व्यभिचारः ।
दत्ते तु मात्रपदे न दोषः । कुड्यत्वस्य एतद्घटप 9 टान्यतरत्वान्यतराश्रये अवृत्तिधर्मत्वेपितद्वृत्तित्वे सति ततोधकदेशवृत्तिधर्मत्वाभावेन तत्र हेतोरेवाभावात्॥
1. कार्यमात्रवृत्तित्वादित्येतावत्युक्ते -कुं. त्वाद्यमात्रपदाभावे-क-ख-च-छ. 2. अयं ग्रन्थः-ग. पुस्तके नास्ति. 3. कुण्च्लितो ग्रन्थःनास्ति-ख-च-छ-मु. 4. योः कार्य-कुं. 5. अयं ग्रन्थः नास्ति-कुं 6. एतेनेत्याहभ्य ऽअसिद्धिरप्रसिद्धिऽ रितिपर्यन्तं-अ. पुस्तके नास्ति. 7. स्वाश्रयमात्र-कुं. 8. तन्मात्रवृ-मु-आ.
टत्वा - कुं अ.
यपक्त-वनुन-ङ्गः) प्रामाण्यवादः पु - 161.
---------------- ------------ ---------
तेनैतद्घटपटान्यान्यत्वाश्रयकार्यस्य तदुभयान्यान्यत्वाधिकरणमात्रावृत्तिघटत्वपटत्वावच्छिन्नकार्यत्वप्रतोयोगिककारणत्वाश्रयमात्रोत्पाद्यत्वेन हेत्वभावान्न व्यभिचारः ॥
। प्रथममात्रपदाभावे ) हेतु 1 स्तत्र वर्तते । अन्यतरत्वाश्रयावृत्तिकुड्यत्वादिरूपधर्मावच्छिन्ना या कार्यता तत्प्रतियोगिककारणत्वाश्रययीभूतं यत्कुड्यकारणं तन्मात्रानुत्पाद्ये एतद्घटपटरूपे कार्ये ऽन्यतरत्वस्य वृत्तेः । मात्रपदे दत्ते तु न व्यभिचारः ।
यद्यप्यत्र विवक्षितं तन्मात्रानुत्पाद्यत्वं तदुत्पाद्यते सति ततो ऽधिकोत्पाद्यत्वम् । तच्चोक्तस्थले नास्ति ।
एतद्घटपटान्यतरत्वस्य कुड्यकारणोतत्पाद्यत्वे सति ततोधिकोत्पाद्यत्वरूपतन्मात्रानुत्पाद्यत्वस्य बाधात् । तथाच
हेत्वाभावादेन न तत्र व्यभिचारः । तथापि तन्मात्रानुत्पाद्यत्वं तदितरानुत्पाद्यत्वे सति तदुत्पाद्यत्वरूपतन्मात्रोत्पाद्यत्स्याभाव 2 वत्वरूप यत्तदनुत्पाद्यत्वं तदस्त्येवैतद्घटपटान्यतरत्वाश्रये एतद्घटपटरूपेर्ऽथ इति तावन्मात्रेण तत्र हेतुसत्वमुपेत्य व्यभिचारे चोदिते मात्रपदेन तन्निरासः ॥

मूले तु प्रकृताभिमततन्मात्रानुत्पाद्यत्वस्य तत्राभावात । कुड्याद्यसाधारणकारणेतरेतरेश्वरज्ञानोत्पाद्यत्वेन तदितरानुत्पाद्यत्वस्याप्रसिद्ध्या तदभावस्य दुर्ग्रहत्वाच्च व्यभिचारचोदना न युक्तेत्यरुच्च्यैव प्रथममात्रपदस्येदं कृत्यमित्याद्यनुक्त्वा स्वाश्रयमात्रावृत्तिधर्मावच्छिन्नकार्यत्वप्रतियोगिककारणताश्रयमात्रानुत्पाद्येति कार्यं विशेषितमित्येवोक्तम् ॥
1. अयं ग्रन्थः ग पुस्तके नास्ति. 1. स्तुत - मु क ख. 2. वरूपं - मु.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 162.
----------------------- -------------- ---------
स्वाश्रमात्रावृत्तिपदेना 1 न्यतरत्वाधिकदेशवर्तिनोर्घटपटत्वयोरपि सङ्गृहीतत्वेन तदवच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयीभूतं यद्घटादिकारणं तन्मात्रोत्पाद्ये घटादाव 2 प्यन्यतरत्वस्य वृत्या तदनुत्पाद्यकार्यमात्रवृत्तित्वरूपहेत्वभावात् ॥
द्वितीयमात्रपदाभावे ऽसिद्धिः । अनित्यप्रमात्वस्य स्वाश्रयाधिकदेशवृत्तिनानित्यज्ञानत्वेनावच्छिन्ना या कार्यता तत्प्रतोयोगिककारणत्वाश्रयो यो मनःसंयोगादिः तदुत्पाद्यप्रमारूपकार्यवृत्तित्वेन तदनुत्पाद्यकार्यवृत्तित्वाभावात् । मात्रपदे दत्ते तु नासिद्धिः ।
3 केचित्तु प्रथममात्रपदाभावे इत्यादिः प्रथममात्रपदकृत्यपरतयापि पाठ उपलभ्यत इति पक्षे तु 4 तन्मात्रानुत्पाद्येत्यस्य तदितरानुत्पाद्यत्वविशिष्टतदुत्पाद्यत्वाभावत्वरूपत 5 न्मात्रानुत्पाद्यार्थकत्वेपीहाप्रसिद्धिनिरासाय तदितरानुत्पाद्यत्वमात्रं विवक्षिणीयम् । तच्च गगनादौ प्रसिद्धमिति तदभाव एतद्घटपटान्यतरत्वाश्रयकार्ये ग्रहीतुं शक्य इति व्यभिचारः चोदनोपपाद्या असिद्धिरप्रसिद्धिः । तथाच नासिद्धिवरकत्वे दोष इत्याहुः ॥
1.न्यान्यत्वादपि - कुं-ग. 2. अपिपदं न -क-छ. 3. क्व-मु.आ. 4. तदनु - कुं. 5. तदनु - कुं .
यपक्त-वनुन-ङ्गः) प्रमाण्यवादः पु - 163.
--------------- ------------- ---------
प्रमाया ज्ञानसामान्यकारणोत्पाद्यत्वेपि तन्मात्रा 1 नुत्पाद्यत्वात् । तथात्वे ह्यप्रमापि प्रमास्यात् ॥
तृतीयं मात्रपदं तु कार्याकार्यवृत्तिधर्मेषु व्यभिचारवरणायेति चेन्मैवम् ॥
स्वतस्त्वेप्यनित्यप्रमामात्रवृत्तिना तत्तत्प्रमात्वरूपेण धर्मेणावच्छिन्ना या तत्तत्प्रगभावनिरूपिता कार्यता तदाश्रयमात्रवृत्तिस्यानित्यप्रमात्वे सत्वेन सिद्धनाधनम् ॥
न च प्रागभावस्यापि तत्तत्प्रागभावत्वेन तत्तद्व्यक्तिं प्रति न हेतुता किन्तु प्रागभावत्वेन कार्यमात्रं 2 प्रति हेतुतेति वाच्यम् । उत्पन्नस्य 3 घटस्य स्वप्रागभावेप्यन्यप्रागभाव 4 सत्वेन पुनरुत्पत्तिदोषतादस्थ्यात् ॥
तथात्व इति ॥ तन्मात्रोत्पाद्यत इत्यर्थः । कार्यकार्येति ॥ 5 प्रमात्वादावित्यर्थः । अनित्यज्ञानत्वस्य ततो ऽधिकदेशवृत्तित्वेन तत्र साध्याभावात् । प्रागभावनिरूपीता प्रागभावनिष्ठकारणतानिरूपिता 6 तत्तत्प्रमात्वावच्छिन्नकार्यतेत्यर्थः ॥
उत्पन्नस्येति ॥ घटोत्पत्तिसमवहितोत्तरक्षणे तद्घटसामग्रीसत्वेन तया तस्यैव घटस्य पुनरुत्पत्तिप्रसङ्गदोषनिरासाय हि प्रागभावे हेतुतोक्ता । प्रागभावत्वेनैव हेतुत्वे हेतुतावच्छेदकावच्छिन्नयत्किञ्चिद्धेतिसत्वेपि कार्योत्पत्तिनियमेन
तादृशप्रागभावान्तरसत्वात्पुनस्तदुत्पत्तिदोषो न परिहृत एव स्यादिति न प्रागभावत्वेन हेतुता किन्तु तत्प्रागभावत्वेनेति प्रागुक्तदोष एवेति भावः ॥
1. त्रोत्पाद्यत्वाभावात् - छ. 2. त्रहे - ख-च. 3. पटस्य -ख-च-ग. 4. वस्यस - च-छ. 5. प्रमेयत्वा - कुं-अ. 6. एतत्प्र - आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 164.
यदी तु सिद्धसाधनवारणाय साध्ये कार्यताशब्देन भावकारणनिरूपिता कार्यताभिप्रेता । तर्हि सामान्यकारणमात्रानुत्पाद्यकार्यमात्रवृत्तित्वहेतोरभावरूपविशेषकारणेनाप्युपपत्त्याप्रयोजकता । तत्तद्घटत्वादौ व्यभिचारश्च ।
भावेति ॥ भावनिष्ठकारणानिरूपितेत्यर्थः । अप्रयोजकतेति ॥ सामान्यसामग्रीमात्रानुत्पाद्य 1 कार्यमात्रावृत्तित्वस्य विशेषकारणजन्यत्वं विनानुपपत्त्या तदाक्षेपकत्वेपि विशेषकाण 2 त्वस्य भावत्वं विनाप्रयोजकैवेति भावः । तत्तद्घटत्वेति ॥ घटत्वेन मृत्पिण्डत्वेनैव कार्यकारणभावो न तद्घटत्वेन 3 मृत्पिण्डत्वेन हेतुहेतुमद्भावः । एकव्याक्तिकत्वेन बाधकेन तद्घटत्वस्य कार्यतावच्छेदकत्वात् । बाधकं विना कार्यमात्रवृत्तिधर्मत्वादिति हेतुनैव कार्यतावच्छेदकत्व 4 साधनात् । तथाच स्वाश्रयमात्रवृत्तेः स्वस्य वान्यस्य वा धर्मस्य कार्यतावच्छेदकस्याभावेन तदवच्छिन्नकार्यताश्रयमात्रवृत्तित्वरूपसाध्याभावे 5 पि न स्वाश्रयमात्रावृत्तिघटत्वरूपधर्मावच्छिन्नकार्यताप्रतियोगिक 6 कारणमात्रानुत्पाद्यकार्यं तद्घट एव । स्वप्रागभावभूताधिककारणजन्यत्वात् । तथाच तन्मात्रवृत्तित्वरूपहेतुसत्वाद्व्यभिचार इत्यर्थः
॥
1. द्येन स्वकार्य - आ. 2. णस्य - मु-आ. 3 ऽनऽ इत्यधिकमस्ति-मु.
4. त्वासा-कुं. 5. अपिपदं न -कुं. 6. के-मु.
यपक्त-वनुत-ङ्गः) प्रामाण्यवादः पु - 165.
---------------- ------------ -----------
तद्वारणाय हेतावपि कार्यमात्रेत्यत्र कार्यशब्देन भावकारणोत्पाद्यकार्यविवक्षायां स्वतस्त्ववादिनं प्रत्यसिद्धिः । प्रत्यक्षप्रमादाविन्द्रियार्थसन्निकर्षादेर्गुणस्य सत्वासिद्धिः ----
यत्सामान्यन्यायेन विशेषयोः कार्यकारणभावो न तत्वेन रूपेण किन्ति सामान्येनैव । न चैवं तन्मृत्पिण्डत्वेन हेतुहेतुमद्भावाभावे मृत्पिण्डान्तरादेतद्घटोत्पत्तिः स्यादिति वाच्यम् । मृत्पिण्डान्तरे एतद्घटप्रागभावाभावादेव तत उत्पत्यप्रसक्तेः । 1 तत्प्रागभावत्वेन हेतुत्व 2 कल्पनं पूर्वोक्तदिशोत्पन्नस्य पुनरुत्पत्तिबाधकादेवेति भावः -- भावकारणेति ॥ स्वाधिकरणमात्रावृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणमात्रानुत्पाद्यभावकारणकार्येत्युक्तो तादृशकारणा 3 दधिकभावकारणजन्यकार्यमात्रवृत्तित्वादित्यर्थलाभात् ।
4 तद्घटत्वादौ च स्वप्रागभावरूपाधिककारणजन्यकार्यमात्रवृत्तित्वेनोक्तहेत्वभावान्न व्यभिचार इति भावः --- असिद्धिरिति ॥ अनित्यत्वप्रमात्वव्याप्यीनित्यप्रत्यक्षप्रमात्वाद्याश्रयनिष्ठकार्यतानिरूपिता 5 नुगतगुणाभावादनित्यज्ञानसामान्यसामग्रीतो ऽभावादिति भावः । अत एवोक्तं रुचिदत्तेनापि"सन्दिग्धासिद्धे"रिति ॥
यत्तूक्तस्थले व्यभिचारवारणाय यावत्कार्यमात्रवृत्तिधर्मत्वादिति विशेषणम् । तत्तद्घटत्वादेश्च तादृशैककार्य 6 मात्रवृत्ति 7 त्वादिति तन्न । तथापि नीलघटत्वादौ व्यभिचारानिरासात् ।
1. तत्त-कुं. 2. त्वाक-कुं-आ. 3. णाधि-कुं. 4. तत्त-कुं. 5. दनु-आ.
6. मात्रपदं न -मु. 7. धर्म इत्याधिकं -आ. 8. मात्रपदं न -अ-आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 166.
----------------------- -------------- ---------
इत्यादित्वनुपदमेव निरसिष्यते ॥
यज्ञपत्युक्त 1 वक्रानुमाभङ्गः

11.12

एतेन साध्ये स्वाश्रयमात्रवृत्यनेक 8 मात्रवृत्तिधर्मेति विशेषणमिति निरस्तम् । अप्रयोजकत्वव्यभिचारयोपरिहारात् । यज्ञयत्युक्तेरर्वाचीनत्वान्न तन्निरीसो मूलारूढतया प्रदर्शिततः ॥
यज्ञपत्युक्त 3 वक्रानुमानभङ्गः

11.13

अथ मतं अनित्यप्रत्यक्षप्रमात्वमनुमितिप्रमात्वं शाब्दप्रमात्वं च कार्यतावच्छेदकम् बाधकं विना कार्यमात्रवृत्ति 2 त्वात् घटत्ववदिति प्रत्येकमेव प्रयोक्तव्यम् ।
अनित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मत्वात् इति मण्युक्तानुमाने प्रागल्भादिनोक्तानुगतगुणपक्षं निरस्य यज्ञपत्युक्तप्रमामात्रानुगतगुण 4 माक्षिप्यानुमानं च निरस्य यत्पक्षधरेणैव पक्षान्तरमुक्तं"यद्यपि यथाश्रुतं साध्यं बाधितं अनित्यत्वप्रमानुगतहेत्वसिद्धेः अत एव स्वरूपासिद्धिरपि तथाप्यनित्यप्रमात्वमित्यनेन अनित्य 5 प्रत्यक्षप्रमात्वादिकमेव विवक्षितं कार्यतावच्छेदकव्यापकत्वमेव साध्यं तादृशकार्यमात्रवृत्तिधर्मव्यापकत्वादितिहेतुरिति वा स्मर्तव्यमिति"तदनुरोधेन प्रमामात्राननुगतगुणपक्षमाशङ्कते -- अथेति ॥ 6 मतमिति ॥ इति प्रयोक्तव्यिमित्यन्वयः -- बाधकं विनेति ॥ अवच्छेदकान्तरोपपन्नकार्य 7 ताश्रयवृत्तित्व 8 स्वावच्छिन्नकार्यताप्रतियोगिककारणासम्भव इत्यादिबाधकं विनेत्यर्थः ॥
1. वक्रपदं न -च-मु. 2. धर्म-छ. 3. वक्रपदं न -मु. 4. पक्षियमनुमान -मु-अ-आ. 5. साक्षात्कारि-अ-आ. 6.
प्रथमिति प्र-मु-अ-आ. 7. कारणत्वानाश्रयवृत्तिस्वा-आ. 8. त्वंस्वा-कुं- आ.
प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः) प्रामाण्यवादः पु - 167.
----------------------------------- --------- ---------
बाधकं च समाजस्यार्थिकत्वमनुगतहेत्वभावश्च । तेन नीलघटत्वादौ घटज्ञानत्वादौ च न व्यभिचारः । एतादृशप्रत्यक्षप्रमात्वादिकं प्रत्यनित्यप्रमात्वस्य व्यापकत्वमेव 1 प्रमात्वस्य परतस्त्वम् । एवं च तत्तत्प्रागभावनिरूपितकार्यतया 2 नार्थान्तरम् ।
न चात्राप्यनुगतहेत्वभावो बाधकः ।
नित्यवृत्तित्वादि 3 कार्यतावच्छेदकत्वबाधकस्य ज्ञानत्वादाविव निलघटत्वादावभावात् । विशिष्टहेतोरपि तत्र व्यभिचार इत्यतो विवक्षितपक्षधराद्युक्तबाधकशब्दार्थोक्त्योक्तदोषं निराह -- बाधकं चेति ॥ समाजस्य मेलनस्य आर्थिकत्वं अवच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तित्वमित्यर्थः -- अनुगतेति ॥ स्वावच्छिन्नकार्यताप्रतियोगिका 4 नुगतहेत्वभाव इत्यर्थः -- तेनेति ॥ बाधकं विनेत्यत्र विवक्षितबाधकाभावरूपविशेषणनेत्यर्थः॥
एवं जन्यप्रत्यक्षप्रमात्वादेः परतस्त्वप्रप्तवप्यनित्यप्रमात्वस्य तन्न प्रप्तमित्यत आह -- एतादृशेति॥ प्रमात्वस्य अनित्येति योज्यम् । यद्वा ईश्वरज्ञानप्रमाण्यस्यापि परतस्त्वं प्राप्तमिति भावेन प्रमात्वस्येत्येवोक्तिः -- एवं चेति ॥ अनित्यप्र 5 त्यक्षत्वादेः कार्यतावच्छेदकत्वेनानित्यप्रमात्वस्य तद्व्यापकत्वे साध्यमाने सतीत्यर्थः -- बाधक इति ॥
1. ऽप्रमात्वस्य ऽइति नास्ति मु-च. 2. तामादय-छ. 3. रूप इत्याधिकं - कुं.
4. नुमानेह - अ. 5. प्रमात्वादे - आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 168.
----------------------- --------------- ---------
प्रत्यक्षप्रमायामिन्द्रियार्थसन्निकर्षस्यार्थस्य च अनुमितिप्रमायां यथार्थलिङ्गपरामर्शस्य शाब्दप्रमायां यथार्थवाक्यार्थज्ञानस्य च गुण 1 स्यानुगमात् । भ्रमेत्वर्थो ऽसन्निति न हेतुर्न वा 2 तस्य सन्निकर्ष इति चेदुच्यते ।
प्रत्यक्षप्रमामात्रे न सन्निकर्षोर्थो हेतू । शुक्तौ रूप्यभ्रमकालेपि 3 तयोः सत्वेन शुक्तित्वेन शुक्तिप्रमाप्रसङ्गात् ।
स्वावच्छिन्नकार्यतानिरूपितैककारणाभावरूपबाधतसत्वाद्बाधकं विनेत्युक्तविशेषणासि 4 द्धिरिति भावः ॥
मण्याद्युक्तमेवाह -- प्रत्यक्षेति ॥ अनित्येति योज्यम् -- गुणस्येति ॥ अन्वयव्यतिरेकादिति मण्युक्तेरिति भावः । सादृश्यज्ञानमुपमितौ गुण इति मण्युक्तमप्यत्र नानूदितम् । उपमानस्यानुमानानतिरेकस्यान्यत्र व्यक्तत्वात् -- सन्निकर्षार्थाविति ॥ अल्पनिरासत्वात्सन्निकर्षस्य पूर्वं निर्देशः ।
यद्वा"नासिकास्तनयोर्ध्मार्घटो"रित्यादिनिर्देशेन"अल्पाच्तरं पूर्वं"इत्यस्य प्राथिकत्वादर् 5 थस्य यौ सन्निकर्षाविति भ्रमनिरासायैवं निर्देशाददोषः ।
अन्वयव्यभिचारमाह -- शुक्ताविति ॥ तयोः शुक्तिरूपार्थतत्सन्निकर्षयोरित्यर्थः । इदन्त्वेन प्रमात्व 6 स्य सत्वाच्छुक्तित्वेनेत्युक्तिः ॥ तथायानुगतहेत्वभावरूपबाधकस्यैव भावाद्बाधकं विनेत्यसिद्धमिति भावः ॥
1. स्य चा -छ. 2. तत्र-मु-च. 3. अपिपदं नास्ति - छ. 4. द्धेरि- कुं .
5. ददोषः- अ. 6. स्येष्टत्वाच्छु-मु. स्येष्टत्वादाह- शुक्तत्वेनेति - आ.
7. इयं पङ्क्तिर्नास्ति -अ.
प्रति-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 169.
--------------------- ------------ ----------
दोषः प्रतिबन्धक इति चेत्तर्ह्यावश्यकत्वाद्दोषाभावादेव प्रमास्तु ।
किञ्च षड्विधसन्निकर्षान्यतरद्योगिप्रत्यक्षादौ प्रत्यभिज्ञायां च तत्तादौ नास्ति । तत्र च योगजधर्मसंस्कारादिः प्रत्यासत्तिश्चे 1 त्तर्हि भ्रमेपि दोषस्तथा स्यात् ।
मण्यादिना दाहाभावेपि वह्नेर्दाहहेतुत्वाभाववदिहाप्यहेतुत्वं न सन्निकर्षादेः प्राप्यत इति भावेनाशङ्क्य निराह -- दोष इति ॥ दोषाभावादेवेति ॥ तस्य चानित्यप्रमामात्रे ऽनुगतहेतुत्वात्किमुक्तसृष्ट्येति भावः ।
नन्वेवं दाहस्थलेपि मण्याद्यभाव एव हेतुः स्यान्न वह्निः । अन्वयव्यतिरेकबलाद्वह्नेर्दाहहेतुत्वे सन्निकर्षादेरप्यस्तु हेतुत्वम् । सन्निकर्षोत्कर्षेण प्रमोत्कर्षदर्शनाच्चेति चेत् । किमत्र सन्निकर्षपदेन लौकिक एवाभिमतोथालौकिकप्रत्यासत्तिसाधारणं सन्निकर्षमात्रमितित 2 कल्पौ हृदि कृत्वाऽद्ये व्यतिरेकव्यभिचारमाह -- किञ्च षड्विधेति ॥ संयोगसंयुक्तसमावायसंयुक्तसमावेतसमावायसमवाय 3 समवेतसमवाय विशेषणविशेष्यभावरूपेत्यर्थः । अन्यतरदित्यस्य प्राग्वत्साधुत्वं ध्येयम् । योगिप्रत्यक्षादिवित्यादिपदेन सामान्यज प्रत्यक्षग्रहः । प्रत्यभिज्ञायामित्युपलक्षणम् । सुरभिचन्दनमित्यादिप्रत्यक्षं च ग्राह्यम् । तेन
तत्तादावित्यादिपदेनोपनीतगन्धादीग्रहः । द्वितीयमाशङ्क्यान्वयव्यभिचारेणनिराह -- तत्र चेति ॥ संस्कारादिरित्यादिपदेन ज्ञानसामान्ययोर्ग्रहः -- तथेति ॥ प्रत्यासत्तिरित्यर्थः । तथाच तादृशप्रत्यासत्तौ सत्यामपि तत्र प्रमानुदयाद्व्यभिचार इति भावः ।
1. द्भमे- छ-ग-क-ख-कुं. 2. विकल्पौ-अ-आ. 3. स्वस - मु. 4. जन्यप्र-आ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 170.
------------------------ ------------- -------------
किञ्च चक्षुरादिवत्कारणत्वेन धर्मिग्राहकमानासिद्धोर्थः सन्नकर्षेणान्वयथासिद्धत्वादतीतादिविषयकयोगिप्रत्यक्षादिवसत्वाच्च न प्रत्यक्षप्रमाहेतुः । अन्यथा वर्तमानविषयकानुमितावप्यर्थो हेतुः स्यात् ॥
1 अपि च त्वन्मते भ्रमेपि यस्मिन्नंशे भ्रमत्वं तद्रजतत्वादिकं विशेषणं सदेव । वैशिष्ट्यं त्वमदप्यसत्ख्यातिभीतस्य तव मते न भाति 1 ॥

एवमर्थस्याप्यनन्थासिद्धान्वयव्यतिरेकौ न स्तः । अन्यथाख्यातिविचारे सुधोक्तरीत्या क्वचिद्विशेषणाभावात्क्वचितद्विशेष्याभावादिति भावेनाह -- किञ्चेति ॥ ननु सन्नकर्षेणैवार्थोन्यथासिद्धश्चेच्चक्षुरादिरपि तथा स्यादित्यत उक्तं चक्षुरादिवदित्यादि ॥ रूपाद्युपलब्धयः करणसाध्याः क्रियात्वात् छिदिक्रियावदित्यनुमानेन सिध्यच्चक्षुरादिकं करणत्वेनैव सिद्धम् । नत्वर्थ इत वैषम्यमिति भावः--- अतीतेति ॥ अतीतानागतविषयके योगिप्रत्यक्षे सामान्यजप्रत्यक्षे चेत्यर्थः -- अन्यथेति ॥ उक्तदिशान्यथासिद्ध्यकल्पन इत्यर्थ॥
अन्वयव्यभिचाराच्चार्थो न हेतुरिति भावेनाह -- अपिचेति ॥ सदेवेति ॥ तथा च तत्रान्वयव्यभिचारान्नार्थः प्रमायां हेतुरिति भावः । ननु वैशिष्ट्यांश एव भ्रमत्वम् । तच्चासदेव । अतो न व्यभिचार इत्यत आह -- वैशिष्ट्यं त्विति ॥ तवेति ॥ मणिकृत इत्यर्थः ॥
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 171.
---------------------- --------- ----------
किञ्च त्वन्मते प्रत्यक्षप्रमायामपि विशेषणज्ञानमेव हेतुर्न तु विशेषणम् । विशेष्यं तु भ्रमे 1 सदेव ॥
ननु तथापि लौकिकप्रत्यक्षप्रमायां वैशिष्ट्यरूपोर्थो ऽगुणः ॥
एतेन"भ्रमे त्वर्थो ऽसन्निति न हेतुः"इति प्रागुक्तं प्रत्युक्तम् ॥
2 ननु विशेषणमन्यत्र सदपि पुरतो ऽसदेवेति चेत्तर्हि विशेषणमर्थश्चेदसम्भवि । विशेष्यं चेद्यव्यभिचारीत्याह -- किञ्चत्वन्मत इत्यादिना ॥ सदेवेति ॥ तथाच शुक्तिप्रमास्यात् । नास्ति च सा अतो न विशेष्यरूपोर्थः प्रमायां गुणतया हेतुरिति भावः ॥
3 ।ननु मणिकृन्मते वैशिष्ट्यरू 4 पार्थ एव प्रमारूपजन्यप्रत्यक्षमात्रे गुणोस्तु । भ्रमे च वैशिष्ट्यरूपोर्थः पुरतो ऽसन्निति तस्य भ्रमा 5 हेतुतया भ्रान्तेः प्रमात्वानापत्तिः । अन्यत्र सत्वेन भ्रान्तौ भानोपप 6 त्तेश्चेति चेन्न । यत्र 7 क च न सत्वमात्रेण तद्गोचरजन्यप्रत्यक्षं प्रत्यनन्यथासिद्धनियतपूर्वक्षण 8 वृत्तित्वाभावेन हेतु 9 त्वानिर्धारणात्पुरतो ऽसत्वेनाहेतुत्वस्य सन्निकर्षाभावेनोपपत्या पुरतस्सत्वस्य सन्निकर् 10 ष एवोपयोगेन 11 सर्वथापि 12 तदहेतुत्वस्यैव 13 न्याय्यत्वाच्चेति ध्येयम्॥
र14 प्राचां मतमाशङ्कते --नन्विति ॥ उक्तत्वादिति ॥ चक्षुरादिवदित्यादिना ग्रन्थनेत्यर्थः । 15 वैशिष्ट्यरूपोर्थोर्थपदेन न विवक्षितुं शक्यः । किन्तु विशेषणं विशेष्यं वा 15 । 16 तच्चान्वयव्यभिचारान्न प्रमायां
हेतुरिति भावेनाह -- किञ्चेति ॥
1.पि-ग-क-च-छ. 2.अर्थो हेतुरित्यर्त्राथपदेन किं विशेषणमभिहितमथ विशेष्यं तदुभयवैशिष्ट्यं वा आद्यद्वितीयौ प्रत्याह - अ. 3. । अयं ग्रन्थः नास्ति - अ. 4. पोर्थ-कुं-अ-आ. 5. महे-मु. 6.त्तिश्च-कुं -आ. 7.चित्स-मु, कुत्रचित्स-आ. 8.वर्ति-कुं-अ. 9.ता निवारणात् । पु,-मु-आ. 10. र्षोप-मु-आ. 11. सर्वत्रापि-आ. 12. प्यर्थाहे -मु-आ. 13.
स्यन्या-मु-स्यैव सत्वाच्चे-आ. 14. तृतीयं शङ्कते - अ. 15. इयं पङ्क्तिर्नास्ति -अ. 16. तभ्रमे अन्वयव्यभिचाराच्च नार्थःप्रमाणं हेतुरिति भावेनाह - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 172.
भ्रमे तु चिरन्तनमते ऽसदपि वैशिष्ट्यं सदुपरक्तत्वेन भातीति चेन्न । अर्थो न हेतुरित्युक्तत्वात् ॥
किञ्च यद्वैशिष्ट्यमसत् न तदंशे त्वन्मते बाधस्तत्प्रयुक्तभ्रमत्वं वा सम्भवति। त्वन्मते ऽसतो ऽभावविरहात्मत्वरूपप्रतियोगित्वाभावेन स्वप्रतियोगिकाभावप्रमारूपबाधायोगात् । यत्र तु रजतत्वांशे 1 ते सम्भवतः न तदसदिति नार्थो भ्रमव्यावृत्तो हेतुः। एवं बाष्पे धूमभ्रमेणोत्पन्नायां यादृशच्छिकसंवादेन प्रमायामनुमितौ न यथार्थलिङ्गपरामर्शोस्ति ।
यदिति 2 भिन्नं पदं -- त्वन्मते ॥ प्राचीनतार्किकमते -- स्वप्रयोगिकेति ॥ प्रा माणिकस्य घटादेरेवात्यन्ताभावोपगमेनाप्रामाणिकात्यन्ताभावानङ्गीकारात् । तदनङ्गीकारे हेतुरभावविरहेत्यादि । बाधायोगादित्युक्त्या तत्प्रयुक्तभ्रमत्वस्यप्ययोग उक्तप्राय इति भावः । त इति ॥ 3 बाधभ्रमत्वे इत्यर्थः । उक्तरूरूपबाधयोगादेव तत्प्रयुक्तभ्रमत्वं च सम्भवतीति भावः । प्रत्यक्षप्रमायामवगतगुणासम्भवमुक्त्वा"दृश्यते च यादृच्छिकसंवादिना गुणाभावोपि 4 प्रमाजनकत्वं"इति तत्वनिर्णयटीकां विवृण्वन्ननुमितावपि प्रागुक्तानुगतगुणं निराह -- एवमित्यादिना ॥
1.तत्सं-छ. 2. न्नप-आ-कुं. 3. बाधभ्रमत्व इत्यर्थऽ इति नास्ति-आ. भ्रमाज-अ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 173.
---------------------- ----------- -----------
नचेश्वरे सोस्तीति वाच्यम् । उक्तरीत्या दोषजन्यत्वस्यापि सत्वेन भ्रमत्वस्याप्यापत्तेः । ईश्वरज्ञानस्य सत्य 1 परामर्शत्वेन कारण्त्व 2 कल्पनस्य परतस्त्वसिद्ध्यधीनान्योन्याश्रयाच्च । भ्रमघटादिसाधारणेनोपादनाद्यपरोक्षज्ञानत्वेन कारणत्वे 3 च तस्य न गुणता । अन्यथास्मदादिनिष्ठानां संशयप्रत्यक्षानुमिति निर्विकल्पकानां यथाक्रममीश्वरनिष्ठैर्विशेषदर्शनलिङ्गपरामर्शवाक्यार्थज्ञान ------------
ननु समानाधिकरणस्य तस्य तत्राभावेपि कार्यमात्रं प्रतिकारणस्येश्वरीयज्ञानस्य सल्लिङ्गविषयकस्य तत्रापि सत्वमस्ति सामानाधिकरण्यस्याप्रयोजकत्वात् । अतो न व्यतिरेकव्यभिचार इति भावेनाशङ्क्य निराह - नचेति । दोषेति ॥ अस्मदी 5 यासल्लिङ्गपरामर्शरूपेत्यर्थः ।
ईश्वरज्ञानमपि किं सल्लिङ्गपरामर्शत्वेन हेतुरुतोपादानादिज्ञानत्वेन । आद्ये दोषमाह -- ईश्वरेति ॥ अन्त्ये तु न तस्य गुणत्वेन हेतुत्वम् । तथात्वे भ्रमस्यापि गुणजन्यतापत्तिरिति भावेनाह -- भ्रमेति ॥ भ्रमसाधारणेन घटादिसाधारणेनेत्यर्थः । उपादानादिप्रत्यक्षत्वेन हेतुतेत्युपपादनाय घटादीत्युक्तिः । विपक्षे ऽनष्टप्रसङ्गद्योतनाय भ्रमेत्युक्तिः । अतिप्रसङ्गान्तराण्याह -- अन्यथेति ॥ तेनापि रूपेण हेतोस्सल्लिङ्गविषयकत्वमात्रेण गुणत्व इत्यर्थः ।
1. लिङ्गपरा - मु-च. 2. त्वस्य - कुं-क-ग-छ-ख. 3. न तस्य गुणता - मु-ग-क-च. 4. शाब्दज्ञाननिर्वि- ग. 5. यसल्लिं - मु-आ. ऽअस्मदीयेति नास्ति"अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 174.
------------------------ -------------- ----------
-- विशेषज्ञानर्जन्यत्वाद्यथाक्रमं निश्चयत्वानुमितित्वशाब्दज्ञानत्वसविकल्पकत्वानि स्युः ।
अपिचैवं व्यधिकरणस्य 1 परामर्शस्य गुणत्वे दोषत्वमपि तस्यैव 2 स्यात् । सामानाधिकरण्यस्याप्रयोजकत्वात् । तथाचाभासानुमितिमूलत्वेन नित्यभ्रमः सिद्ध्येत् । किञ्चैवं सति स्थाणौ करादिविपर्ययजन्यस्य पुरूषत्वभ्रमस्येश्वरनष्ठया वक्रकोटरत्वादिप्रमया जन्यत्वात्स्थाणुप्रमात्वं स्यात् ।
येन केनापि रूपेण हेतोरपीश्वरज्ञानस्य गुणत्वकल्पनेतिप्रसङ्गान्तरं चाह -- अपिचेति । एवमित्यस्य व्यक्तीकरणं व्यधिकरणस्येत्यादि ।

नित्यभ्रम इति ॥ ननु सति सम्भवे त्यागायोगात्तत्र सममानाधिकरण 3 एवासल्लङ्गपरामर्शरूपदोष सम्भवान्न व्यधिकरणदोषकल्पनेति चेन्न । गन्ध 5 प्रगभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यादा 6 एवाभासानुमितौ समानाधिकरणदोषासम्भवे व्यधिकरणस्यैव 7 कल्प्यत्वे ऽनुगतिलाभालाय सर्वत्र दोषत्वकल्पनौचित्यादिति भावः ।
ननु गुणे समानाधिकरण्यमप्रयोज्यकम् । दोषे तु तन्नियमः प्रयोजकः । गन्धप्रागभावावच्छिन्न इत्यादौ 8 बाधितत्वप्रमादिरेव कश्चित्कल्प्यत इत्यत आह -- किञ्चेवे सतीति ॥ व्यधिकरणस्यापि गुणस्य हेतुत्वे सतीत्यर्थः ।
स्थाणुप्रमात्वमिति ॥ न च समानाधिकरणो दोषः प्रबल इति शङ्क्यम् ।
1. परामर्शस्येति -नास्ति - कुं. 2. तवेत्याधिकं-क-. 3. णस्येवासल्लिं -कं.
4. षस्य सं--कुं. 5. नायं प्राग-अ. 6. वभावानु- आ. 7 दोषत्वकल्पनौ- अ. 8. बाधितत्व इति नास्ति -आ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 175.
---------------------- ------------- ----------
ननु तर्ह्यनुमितिसमानाधिकरणं वस्तुतःसाध्यव्याप्यवतः पक्षस्य व्याप्यवत्वेन ज्ञानं गुणोस्त्विति चोन्मैवम् । लाघवेन वस्तुतः साध्यवत्पक्षस्य ज्ञानेनैव प्रमात्वसम्भवात् । स च विषयसत्वोपहितत्वान्न गुण इत्युक्तम् ।
किञ्च 1 प्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्यादिनुमाने वस्तुतो ऽनेकतर्तृके लाघव-----
यादृच्छिकसंवादिनि प्रमानुदयापातात् । न चारोपे सति निमित्तानुसणमिति न्यायेन तत्र 2 प्रमात्वादृष्ट्या न विशेषप्रमात्वेनेश्वरज्ञानं हेतुरिति युक्तम् । प्रामाण्यसिय स्वतस्त्वे नाप्युपपत्त्या ईश्वरज्ञानस्याप्यनुमितिप्रमायां न गुणत्वेन हेतुत्वमिति सुवचत्वादिति भावः ।
एवं यादृच्छिकसंवादिनि पूर्वोक्तगुणव्यभिचारमुक्त्वा 3 तत्स्थैर्याय व्यधिकरणस्य गुणत्वमनेकदोषोक्त्या निरस्येदानीं प्रकारान्तरेण तत्र गुणव्यभिचाराभावमाशङ्क्य दोषान्तरमाह ॥ नन्वित्यादिना ॥ यादृच्छिकसंवादिनि धूमाभावेपि वह्निव्याप्यस्यालोकादेः सत्वेन तादृशे 4 पक्षे बाष्पे धूमज्ञानं व्याप्यवत्वज्ञानं भवतीति न तत्र व्यभिचार इति भावः -- वस्तुत इति ॥ वस्तुतः साध्यवान 5 यः तादृशपक्षज्ञाननैवेत्यर्थः -- स चेति ॥ उक्तरूपपक्षस्य ज्ञानमित्यर्थः । तच्चेति वक्तव्ये विधेयगुणा 6 पेक्षया पुल्लिङ्गप्रयोगः ।
उक्तरूपगुणस्यान्वयव्यभिचारं चाह -- किञ्चेति ॥ अनेकेति ॥
1. गन्धप्रा-ग-ख-च-छ-क. 2. तत्प्र-मु-अ. 3. त्सौकर्या-मु. 4. दोषान्तरप-अ. 5. यः इति नास्ति-कुं-अ. 6.णपदापे-अ.
न्यायदीपयुततर्कताण्च्वम् ( प्र. परिच्छेदः पु - 176.
----------------------- ---------------- ----------
-तर्कानुग्रहादेककर्तृकत्वनषयानुमानेचोक्तगुणसद्भावात्प्रमा ज्ञायेत ।
न च बाधा 1 भावसहकृतसत्यपरामर्शादिर्गुण इति वाच्यम् । आवश्यकत्वाद्बाधा 2 भावेनैव प्रमात्वसम्भवेन गुणस्य हेतुत्वासिद्धेः ।
प्रसादः सकर्तुकः कार्यत्वात् घटवदित्य 3 नुमान इत्यर्थः -- उक्तेति ॥ वस्तुतः साध्यव्याप्यवत इत्यादिनोक्तेत्यर्थः ।
एतेन पक्षतावच्छेदकावच्छेदेन ज्ञाप्यवति पक्षे लिङ्गज्ञानं गुण इति रुचिदत्तोक्तं निरस्तम् । वस्तुतोनेककर्तृकैत्यादिनोक्तदोषानतिलङ्घनात् । लाघवेन वस्तुतो ज्ञाप्यवत्पक्षस्य ज्ञानेनैव प्रमात्वसम्भवात् । तस्य च विषयसत्वोपहितत्वेनागुणत्वात् ।
एतेनैव पक्षतावच्छेदकाविरोधिसाध्यकानुमितिप्रमायां यथार्थलिङ्गपरामर्शो गुण इति पक्षधरोक्तमपि प्रत्युक्तम् । गन्धप्रागभावेत्युक्तस्थले त्वदुक्तगुणे सत्यपि पक्षतावच्छेदकाविरोधिसाध्यप्रमाया अनुसत्वोपाहितत्वात् । घनगर्जितस्थलेन व्यभिचाराच्च ।"दृश्यते च यादृच्छिकसंवादिनो ऽनाप्तवाक्यस्य गुणाभावेपि यथार्थज्ञानजनकत्वं"इति तत्वनिर्णयटीकावाक्यं विवृण्वानः प्रागुक्तं शाब्दप्रमायामप्यनुगतगुणं निराह -- एवमिति ॥ घटोस्तीति वक्तव्ये प्रमादादिना पटस्तीत्युक्तवाक्यमादिपदार्थः ॥
1. धका-क-छथ. 2. धका-क.च. 3. त्याद्यनु-आ. 4. एवप-आ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 177.
----------------- -------------- ------------
एवं विप्रलम्भकादिवाक्यजन्यायां शुकादिवाक्यजन्यायां च यादृशच्छिकसंवादेन प्रमायां न यथार्थवाक्यार्थज्ञानमस्ति । 1 न च तत्रापीश्वरे तदस्तीति शङ्क्यम् । व्यधिकरणजन्यत्वेन प्रमात्ववत्समानाधिकरणदोषजन्यत्वेनाप्रमात्वं च स्यादित्याद्यतिप्रसङ्गात् 1 । किञ्च तद्धि न साक्षाच्छाब्दप्रमाजनकम् । वक्तृनिष्ठे तस्मिंश्चिरध्वस्तेपि श्रोतरि प्रमोत्पत्तेः । वक्तृनिष्ठे वाक्यरचनाद्वारा । रचनायां च न तत्करणम् । शुक 2 बालादीनामिव तादृशपदावलीज्ञानमात्रेण तदुपपत्तेः ।
ननु तद्वाक्ये तादृशगुणाभावेपि 3 तज्जातीये वाक्यान्तरे ऽस्तीत्यतस्तत्रापि तस्य न हेतुत्वमित्याह -किञ्चेति ॥ चिरध्वस्तेपि तस्मिन्निति पूर्वेणान्वयः ॥
ननु कार्यमात्रं प्रति कारणीभूतमीश्वरज्ञानमेव यथार्थवाक्यार्थ 4 ज्ञानरूपं सद्रचनाद्वारा प्रमां प्रति दुणत्वेन कारणत्वमस्तु । अतो न यादृच्छिकप्रमायां व्यभिचारः । नापि तेन विना वाक्ययरचनोपपत्तिः । तस्य कार्यमात्रं प्रति हेतुत्वेन रचनायां तज्जन्यप्रमायां च हेतुत्वात् । शुकादिवाक्यजन्यप्रमायामपीश्वरीयप्रमामादायैव न व्यभिचार इति तदीयव्याख्या 5 त्रुक्तेः ।"
भ्रान्तप्रतारकवाक्ये 6 शुकादिवाक्ये चेश्वरस्यैव यथार्थवाक्यार्थज्ञानं जनकं"इति मण्युक्तेरिति भावेन शङ्कते ।
1. अयं ग्रन्थः नास्ति-कुं-ग-ख-क-छ. 2. वाक्यादी -कुं. 3."यथार्थज्ञानजनकत्वं इति तत्वनिर्णयटीकां विवृण्वानः"इत्याधकमस्ति-आ. 4. ज्ञानपदं न -आ. 5. भिन्नं पदं-मु. 6. शुकादिवाक्येचेति नास्ति - आ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 178.
------------------------ ------------- --------
न च तत्रापीश्वरनिष्ठं यथार्थवाक्यार्थज्ञानं रचनाद्वारा हेतुरिति वाच्यम् । तस्य ज्ञानसामान्यं भ्रमं च प्रतीवोपादानापरोक्षत्वेनैव हेतुतया प्रमां प्रत्यसाधारण्याभावात् । अन्यथोक्तातिप्रसङ्गात् ।
विसंवादिशुकादिवाक्यरचनाहेतुत्वेन भ्रमोपि कल्प्यत इति नित्यप्रमावन्नित्यभ्रमप्रसङ्गाच्च ॥
ननु शाब्दप्रमायां योग्यता तत्प्रमा वा गुणः । न च सर्वत्र प्रमाणवाक्ये ऽस्तीति चेन्न।मदिष्टवेदापौरुषेयत्वाविरोधिनस्त्वदिष्टेश्वरसिद्धिविरोधिनश्चैवंविधगुणजन्यत्वस्य साधनेर्ऽथान्तरात् ॥
न च तत्रापीति ॥ यादृच्छिकसंवादिन्यामपीत्यर्थः-- उक्तेति ॥ अन्यथास्मादादीत्यादिनोक्तेत्यर्थः ॥
"वयन्तु ब्रूमः"इत्युपक्रमस्य"1 शाब्दप्रमायां वक्तुर्यथार्यवाक्यार्थज्ञानं न गुणः । किन्तु योग्यत्वादिकं यथार्थतज्ज्ञानं वेति
मण्यु 2 क्तं पक्षान्तरमाशङ्कते ॥ नन्विति ॥ योग्यता स्वरूपसती न हेतुरतो न गुणः इत्यस्तत्प्रमा 3 वेत्युक्तम् - त्वदिष्टेति ॥
"प्रमायाः परतन्त्रात्सर्गप्रलयसम्भवात् ।

तदन्यस्मिन्ननाश्वासान्नविधान्तरसम्भवः ॥"
इति कुसुमाञ्जल्युक्त्या प्रामाण्यपरतस्त्वस्येश्वरसिध्यर्थत्वोपगमा 4 द्यथार्थवाक्यार्थज्ञानस्य गुणत्वस्य एव पक्षे वेदे तादृशयथार्थवाक्यार्थज्ञान 5 नवत्वेने 6 श्वरसिद्धेरित भावः ॥
1. शब्द- मु-अ. 2. क्तप-कु-आ. 3. चेत्यु-अ-आ. 4. दिति भावः। ननु-अ.
5. नत्वेने-मु. 6. शज्ञानत्वेने-आ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 179.
---------------------- ------------- ----------
किञ्च योग्यता 1 किं शब्दप्रतिपाद्यस्य संसर्गस्य सत्वं किं वा संसर्गसत्वाविनाभूतं धर्मान्तरम् ॥
नाद्यः । शाब्दप्रमायां शाब्दप्रमाया वा तद्विषयस्य वाजनकत्वात् । विषयत्वस्य प्रमात्वान्तर्गतत्वेन तद्धेतुत्वायोगाच्च । 2 प्रत्यक्षादिप्रमास्वपि 3 नियतविषयसत्वस्य सद्भावेन त्वदुक्तस्य शाब्दा 4 साधारण्यस्यायोगाच्च । अप्रमायामपि विषयसत्वस्यैव दोषत्वापाताच्च 2 ।
ननु"न वैदिकप्रमाया गुणजन्यत्वेनेश्वरसिद्धिः"इति मणिकुदुक्तेरेतन्मते हेत्वन्तरेणा 5 स्त्वीश्वरसिद्धिरित्यत आह-- किञ्चेति ॥"वाक्यार्थाबाधो योग्यता"इतीहैव प्रामाण्यवादे मण्युक्तेराद्यः कल्पः । योग्यता 6 बाधोक्त्यनुरोधेनान्त्यः -- धर्मान्तरमिति ॥ अन्त्ये ऽतीतादिसाधारण्या 7 दिति भावः । 8 तद्धेतुत्वायोगाच्चेति ॥ आत्माश्रयादिति भावः 8 -- विषयसत्वस्यैवेति ॥ गुणविरोधिन एव दोषत्वादनुगतिसम्भवाच्च । तथाच भ्रमे 9ऽसतोपि भानं त्वयापि स्वीकार्यम् । अन्यथा भ्रमत्वमेव न स्यादिति भावः ॥
ननु शुकबालादिवाक्यजन्यप्रमायामन्यस्य प्रमात्वप्रयोजकस्याभावादनन्यगत्या विषयसत्वरूपापि 10 योग्यतैव गुणः इत्येव वाच्यमित्यत आह - आवश्यकेनेति॥
1. किं शब्दो न -छ. 2. अयं ग्रन्थो नास्ति-ख. 3. नियतपदं नास्ति -च-छ.
4. ब्दप्रमासा-मु-च. 5. णेश्वर -आ. 6. वादो-कुं. 7. अभावेत्याधिकमस्ति-कुं. 8. इयं पङ्क्तिर्नास्ति-अ. 9. प्यस-मु-अ. 10.अपिपदं न -आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 180.
------------------------ -------------- ----------
आवश्यकेन निर्देषत्वेनैव प्रमात्वोपपत्तेश्च ॥
नान्त्यः । त्वया ह्येकपदार्थसंसर्गे ऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्व 1 प्रमाविशेष्यत्वाभावो वा एकपदार्थसंसर्गे ऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगिताव-
वच्छेदकधर्मशून्यत्वं वा योग्यतेत्युक्तम् ॥
वक्तुर्2 भ्रमविप्रवम्भादिदोष 3 भावे योग्यताया अप्यभावेन तदर्थं तस्यापेक्षणियत्वेनावश्यकत्वमिति भावः । योग्यतावादोक्तमाह --एकेति ॥
जलेन सिञ्चतीत्यादौ सेकरूप 4 एकोयः पदार्थः तत्संसर्गे ऽपरपदार्थभूतजलनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारिका 6 या प्रमा । तद्विशे 7 ष्यत्वाभावोस्तीति तद्योग्यवाक्यम् । वह्निना सिञ्चतीत्यादौ 8 तु
सेकनिरूपितसंसर्गे वह्निनिष्ठात्यन्ताभावप्रतियोगी सेकसंसर्ग इति प्रमित्युदयेन तत्रापरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वमेवास्तीति तदयोग्यवाक्यम् । अतो नाव्याप्त्यतिव्याप्ती । अत्र आकाशे शब्द इति योग्यवाक्ये शब्दनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वमवृत्तिपदार्थे आकाशे ऽस्तीत्यव्याप्तिनिरासाय एक 9 पदार्थ इत्यनुक्त्वा एतपदार्थसंसर्ग इत्युक्तम् । आकाशसंसर्गस्तु न तथेति न दोषः । अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभाव इत्येव पूर्तौ तादृशप्रतियोगित्वप्रमाविशेष्यत्वं प्रतिबन्धकमिति मतावष्टम्भेन तत्प्रमाविशेष्यत्वाभाव इत्यन्तमुक्तमित्याहुः ॥
1. प्राकरकप्रमा - मु. च. 2. क्तृभ्र. मु-अ. 3. षाभा-आ. 4. पोयः-कुं.
5. सेकपदं नास्ति -अ-आ. 6. याः प्रमात्वात् - तद्धि-आ. 7. ष्याभाः -कुं.
8.तु, इति न -मु. 9. कः प-अ-आ.
प्रति-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 181.
--------------------- ----------- -----------
तत्र चाद्य 1 पक्षे ऽन्वयप्रमाविरोहो योग्यताद्वितीये जलेन सिञ्चतीत्यत्र सेकानन्वयप्रतियोगितावच्छेदका ये ऽग्नित्वादयो धर्मास्तुच्छून्यत्वं जले विद्यमानं योग्यतेति पर्यवस्यति । तत्र यद्यपि इदं द्वयं संसर्गसत्वाविनाभूतं न तु संसर्गरूपमिति न पूर्वोक्त 2 दोषः ।
नरहरिस्तु उक्तात्यन्ताभावप्रतियोगित्वाभाव इत्येवोक्तौ वाक्यार्थ एव योग्यता स्यादिति तत्प्रामाविशेष्यत्वाभाव इत्युक्तमित्यब्रवीत् । तथाच योग्यतावादे स्पष्टयिष्यामः । घटसंसर्गत्वं गेहनिष्ठात्यन्ताभावप्रतियोगीतिप्रमाविषयत्वस्य घटसंसर्गेपि सत्वनेन गेहे घटोस्तीति वाक्ये ऽव्याप्तिनिरासाय प्रमाविशेष्यत्वाभाव इत्युक्तम् ॥
अत्र स्वपरसाधारणप्रमाविशेष्यत्वाभावनिश्चयस्याशक्यत्वात्प्रमाप्रवेशे गौरवाच्चेत्यादिदोषाद्वितीयं लक्षणम् । वन्हिसंसर्गत्वं हि सेकपदार्थनिष्ठात्यन्ताभावप्रतोयोगितावच्छेदकधर्मः तच्छून्यत्वं जलसं 3
योगे ऽस्तीति जलेन सिञ्चतीत्यादिवाक्यं योग्यम् । अग्निनेति वाक्यं त्वयोग्यमिति नाव्यप्त्यादिदोषः । अत्रो 4 क्तरूपप्रतियोगि 5 त्वाभावस्य वाक्यार्थसंसर्गसत्वपर्यवसन्नतया तज्ज्ञानस्य शाब्दप्रमायामहेतुत्वादेतत्प्रतियोगितावच्छेदकधर्मशून्यत्वमित्युक्तम् ॥
अनन्वयेति ॥ एकपदार्थसंसर्गे ऽपरपदार्थनिष्ठात्यान्ताभावप्रतियोगित्वस्यानन्वय-
रूपत्वादिति भावः -- अग्नित्वादय इति ॥ अग्नित्वमृत्वापाषाणादयः ।
1. व्यस्तं पदं - ख-ग-क-च-छ. 2. क्ता दोषाः-छ. 3. सर्गे ऽस्ती - आ.
4. अत उक्तं -मु. 5. ताकाभा- आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 182.
----------------------- ---------------- ----------
तथाप्यत्र पक्षद्वये ऽनन्वयप्रमाविरहो वा अनन्वयप्रमाविरहप्रमा वा अनन्वय प्रतियोगितावच्छेदकधर्मशून्यत्वं वा तच्छून्यत्वप्रमा वा गुण इति फलितार् 1 थः ।
स चायुक्तः । आवश्यकेन निर्देषत्वेनैव प्रमात्वोपपत्तौ संसर्गव्यप्यत्वस्य संसर्गाभावप्रमाविरहस्य वा तत्प्रमाया वा संसर्गाभावप्रतियोगिताच्छेदकधर्मशून्यत्व स्य वा तत्प्रमाया वा गुणत्वकल्पने ऽतिगौरवात् । न हि निर्देषत्वे सति तयोर्वा तत्प्रमयोर्वा व्यतिरेकेण शाब्दप्रमाव्यतिरेको दृष्टः ।
अग्नि 1 संसर्गत्वादेः सेकनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वस्याग्नित्वादिधर्मनिबन्धनत्वादग्नित्वादय इत्युक्तम् ।
प्रतियोगितावच्छेदका इत्यस्याधिकरणतावच्छेदका इत्यर्थ इत्य प्याहुः ।"योग्यता तत्प्रमा वा"इति प्रागुक्तकल्पद्व 4 योक्त्यनुरोधादाह । अनन्वयप्रमाविरहो वेत्यादि ॥ आवश्यकेनेति ॥ उक्तप्रमाविरहादेर्वाक्यगतनिर्देषत्वेनैव सम्भवादिति भावः । संसर्गव्याप्यस्येत्येतत्प्रमाविरहस्य विशेषणम् । ननु निर्देषत्वस्येव तयोरप्यन्वयव्यितरेकसिद्धकारणत्वस्य त्यागायोगा 5 दित्यत आह ॥ न हीति ॥ तयोरिति ॥ उक्तरूपप्रमाविरहधर्मशून्यत्वयोरित्यर्थः । विसंवादिशुकादिवाक्ये ऽपि निर्देषत्वं न सिद्धम् । भ्रान्त्यादिदोषाभावेप्यन्यस्य

कस्य चित्कल्प्यत्वादिति भावः । गुणजन्यत्वान्यथानुपपत्यै 6 व तत्कल्प्यत इत्यत आह -- न च शाब्देति ॥ अद्यापीति ॥ अनुगतगुणकल्पनवेलायामपीत्यर्थः ॥
1. तोर्ऽथः - क-ख-च-छ. 2. निष्ठसं-आ. 3. त्याहुः-कुं. 4. यानु - आ.
5. ग इत्या-कुं-आ. 6. एवकारो नास्ति-मु-अ. त्यैतत्क - आ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 183.
---------------------- ------------- ----------
न च शाब्दप्रमाया गुणजन्यत्वमद्यापि सिद्धम् । येन तन्निर्वाहाय तयोर्वा तत्प्रमयोर्वा गुणत्वं 1 कल्प्यते 2 ॥
किञ्च प्रत्यक्षादावपि विषयसत्वाविनाभूतस्य विषयासत्व 3 प्रमाविरहादेः सत्वात्स एव गुणः स्यात् । अतीन्द्रियार्थसन्निकर्षादेर्गुणत्वेक्तिरयुक्ता स्यात् । तत्र सतोपि तस्य गुणत्वेन जनकत्वे मानं नेति चेत्समं प्रकृतेपि ॥
एपिचैवमप्रमायामपि विषयासत्वाविनाभूतविषयाभावप्रमा वा विषयासत्वावच्छेदकधर्मवत्वं वा तयोः प्रमा दोषः स्यान्न तु काचादिः ॥
स्वतन्त्रान्वयव्यतिरेकाभावे ऽपि हेतुत्वकल्पने ऽतिप्रसङ्गमाह -- किञ्चेति ॥ प्रमाविरहादेरित्यादिपदेन तत्प्रमावच्छेदकधर्मशून्यत्वतत्प्रमयोश्च ग्रहः -- सन्निकर्षादेरिति । सल्लिङ्गपरामर्श आदिपदार्थः ।
अपिचैवमिति ॥ विषयसत्वाविनाभूतस्य गुणत्व इत्यर्थः -- विषयासत्वाविनाभूतेति विषयाभावप्रमाविशेषणम् । प्रमाविशेष्यत्वमित्यर्थः -- तयोरिति ॥ विषयाभावप्रमाविषयासत्वावच्छेदकधर्मवत्वयोरित्यर्थः -- नत्विति ॥ तथाच भ्रमे काचादिर्देष इति मण्याद्युक्तिरयुक्ता स्यात् । तदन्वयव्यतिरेकिविरोधश्च स्यादितिभावः ॥
1. गुणजन्यत्वं - ख. 2. कल्प्येत-खः-क-च-छ. 3. प्रमापदं नास्ति - ग .
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 184.
-------------------------- ----------- ----------
किञ्च शाब्दि 1 संसर्गप्रमा नियमेन संसर्गव्याप्यधीजन्या चेदनुमितिः स्यात् ॥
किञ्च असंसर्गप्रमाविरहो वासंसर्गप्रमाविरहप्रमा वा गुण मते अग्निना सिञ्चेदित्यादौ श्रोतुर 2 न्वयप्रमाविरहदशायां संसर्गप्रमा स्यात् ॥
ननु विषयासत्वाविनाभूतधर्म 3 प्रमादे 3 प्रमादेर्विषयसत्वभ्रमविरोधित्वत्कथं दोषतेत्यतः संसर्गव्याप्यप्रमा गुण इति पक्षे दोषान्तरमाह -- किञ्च शाब्दी संसर्गप्रमेति ॥ पर्वतवन्हिसंसर्गादिप्रमावदिति भावः ॥
ननु संशयोत्तरप्रत्यक्षमिव व्याप्यधीजन्यमपि नानुमिति 4 रूपमिति चेन्न ॥ 5 तत्र बलवत्प्रत्यत्रकरणकत्वेन व्याप्यधीकरणकत्वाभावात् । इह च नियमेन व्याप्यधीजन्यत्वे तत्कारणकत्वापातात् । न हि परामर्शादपि शब्दः प्रत्यक्षसामग्रीव 6 द्बलवान् ॥
न च व्यप्यत्वप्रकारकज्ञानजन्यत्वेन तदजन्यत्वान्ननुमितित्वम् । नियमेन तज्जन्यत्वे तथात्वेन । तज्जन्यत्वावश्यं भावात् । अन्यथा प्रमेयत्वादिनापि ज्ञाने तत्प्रमाया गुणत्वापत्तेः । असंसर्गप्रमाविरहप्रमात्वादिना हेतुत्वापेक्षया 7
संसर्गव्यप्यत्वप्रमात्वस्य लधुत्वात् । अन्यत्र तेन रूपेण हेतुतायाः कॢप्तत्वात् । असंसर्गप्रमाविरहप्रमात्वादिना हेतुत्वस्य प्रमाया गुणजन्यत्वसिद्ध्यधीनत्वेनान्योन्याश्रयाच्चेति भावः ।
संसर्गव्याप्यप्रमा गुण इति पक्षं निरस्यासंसर्गप्रमाविरहो गुण इति पक्षोपि दोषमाह -- किञ्चासंसर्गेति ॥ क्वचित्तु असंसर्गप्रमाविरहप्रमा वेत्यपि पाठः ।
1. ब्दीयसं-ख. 2. नन्वयप्रमाविरहदशायां -क-ख-च-छ. 3. भ्रमा-अ. 4.रूपपदं न -मु. 5.अयं ग्रन्थः लुप्तः - अ. 6.बल-मु. 7. या असं - अ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 185.
---------------------- ------------ ---------
न च श्रोतुस्तद्विरहदशायामपीश्वरस्यासंसर्गप्रमास्ति सा च श्रोतुः संसर्गप्रमा 1 बन्धिकेति वाच्यम् । तथात्वे ईश्वरस्य वाक्यार्थप्रमा गुण इति चिरन्तनमतत्यागायोगात् ॥
किञ्चेश्वरस्यानन्वयप्रमा न तावद्विषयासत्वावेदनेन प्रतिबन्धिका । श्रोतुस्तदावेदनस्य व्यधिकरणया स्वरूपसत्येश्वरनिष्ठप्रमाया कर्तुमशक्यत्वात् । नापि लिङ्गभूतया ज्ञातया तया तत्कर्तुं शक्यम् ।
तदा तूभयत्र दोषान्तरमाहेत्यवतार्य विरहदशायामित्यनन्तरं तत्प्रमादशायामित्यपिव्याख्येयम् -- संसर्गप्रमास्यदिति ॥ तथाचान्वव्यभिचारान्नायं गुणत्वेन हेतुरिति भावः ॥
ननु तत्र सत्यप्युक्तरूपगुणे कार्याभावः प्रतिबन्धनिमित्तो नाहेतुत्वनिमित्त इति भावेनाशङ्क्य निराह -- नचेति ॥ चिरन्तनमतेति ॥"न वैदिकप्रमाया गुणजन्यत्वेनेश्वरसिद्धिः"। इत्यादिमण्युक्त्या प्रतीतश्चिरन्तनमतत्यागो ऽयुक्तः स्यादित्यर्थः ॥
ननु व्यधिकरणस्य गुणत्वायोगेन त्यागे ऽपिविरोधिविषयकत्वात्प्रतिबन्धकत्वं स्यादेवेत्यतो न युक्तं तदपीत्याह -- किञ्चेति॥ प्रतिबन्धकत्वं किं विरोधिविषयज्ञानरूपेणोत साक्षात् । आद्योपि किं स्वरूपसती वा ज्ञाता सती लिङ्गतया वेति विकल्प्याद्यद्वयं क्रमेण निराह -- न तावादित्यादिना ॥ तदावेदनस्य विषयासत्वज्ञापनस्येत्यर्थः । समानाधिकरणज्ञानेनै 2 तदावेदनस्य दृष्टचरत्वादिति भावः -- लिङ्गभूतयेति ॥ अग्निना सिञ्चेदिति वाक्ये ऽन्वयो ऽसन् तथेश्वरप्रमाविषयत्वात्संमतवदित्येवं लिङ्गतयेत्यर्थः । अन्त्यपक्षं निराह -- नापि सेति ॥
1. प्रतिबन्धि - ख-च. 2. वत-कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 196.
---------------------- ------------ ---------
तथात्वे ह्यनन्वयप्रमाज्ञानस्यैव प्रतिबन्धकत्वेन तत्प्रमाया अज्ञानदशायां संसर्गप्रमा स्यात् । नापि सा विषयासत्वमनावेद्य स्वरूपेणैव विषयसत्वविरोधित्वेन विषयसत्वगर्भितप्रमाप्रतिबन्धिका । तथात्वे ऽनन्वयस्यैव साक्षाद्विषयसत्वविरोधित्वेन प्रमाप्रतिबन्धकत्वौचित्येन प्रमाग्रहणवैयर्थ्यात् ॥
किञ्च वस्तुगत्यान्वयविषयाया अपि सर्वकार्यहेतुभूताया ईश्वरप्रमायाः शब्दप्रमां
प्रत्यपि हेतुत्वेन कथं तत्प्रतिबन्धकत्वम् । न च प्रमाया गुणजन्यत्वमद्यापि सिद्धम् । येनेश्वरज्ञानस्योपादानापरोक्षज्ञानत्वेन हेतुत्वमनन्वयप्रमात्वेन तु प्रतिबन्धकत्वमिति कल्पेत ॥
किञ्चानन्वयप्रतियोगितावच्छेदकधर्मशून्यत्वम् प्रणागुण इति मते अतीन्द्रियविषये वाक्ये संसर्गप्रमातः प्रगुक्तस्या ----
विरोधिविषयत्वेप्ययुक्तं प्रतिबन्धकत्वमित्याह -- किञ्च वस्तुगत्येति ॥ ननु प्रमाया गुणजन्यत्वान्यथानुपपत्यैव द्वैरूप्यमाकारभेदेनेश्वरप्रमायाः 1 कल्प्यत इत्यत आह -- न चेति ॥
प्रागुक्तमतान्तरमपि प्रातिस्विकदोषेण नराह -- किञ्चेति ॥ अतीन्द्रियेति ॥"ज्योतिष्टोमेन स्वर्गकामो यजेत"इत्यादिवाक्ये ---
1. यां - आ.
प्रदि-प्रसु-प्रत्येत-गुङ्गः) प्रामाण्यवादः पु - 187.
--------------------- ------------- -----------
असम्भवान्न 1 शाब्दप्रमाहेतुता ॥

एतेनायोग्यताज्ञानेन शाब्दज्ञानप्रतिबन्धात् तद्विघटनीयस्य योग्यताज्ञानस्य शाब्दधिहेतुत्वे सिद्धे तद्विशेषौ योग्यताप्रमाभ्रमौ शाब्दप्रमाभ्रमौ प्रति जनकाविति निरस्तम् । अयोग्यताया उक्तरीत्या विषयाभावरूपत्वे बाधवद्विषयाभावव्याप्यरूपत्वे सत्प्रतिपक्षवत्साक्षात्प्रतिबन्धकसम्भवे योग्यताज्ञानवनविघटकत्वकल्पकाभावात् ।
हेतुहेतुमद्भावादिरूपस्वर्गाद्यनन्वयप्रतियोगितावच्छेदकधर्मो ज्योतिष्टो 2 मत्वादिर् न किन्तु कृषित्वादिरेवेति ज्ञानस्य तदन्वयप्रमित्यनन्तरभावत्वेन तद्धेतुत्वमयुक्तमित्यर्थः । योग्यताज्ञानस्य हेतुत्वोपपादनयोक्तमयोग्यतेत्यादि । साक्षादप्रतिब्धकस्य कार्यानुकूलकिञ्चिद्विघटकत्वरूपत्वात्प्रतिबन्धकत्वस्येति भावः । तद्विशेषाविति ।"इति न्याया 3 दिति भावः ॥
एतेनेत्येतद्व्यनक्ति -- अयोग्य 4 तेति ॥ उक्तरीत्येति ॥"योग्यता किं
शब्दप्रतिपाद्यस्य 5 संसर्गस्य सत्वं"इत्यादिनोक्तरीत्येत्यर्थः-- विषयाभावव्याप्येति ॥"एकपदार्थसंसर्गः"इत्यादिनोक्तरीत्येत्यनुषङ्गः । योग्यताज्ञानेत्यादि । तथाच योग्यताज्ञानस्यैव शब्दज्ञाना 6 हेतुत्वे"यत्समान्य"इति न्यायानवतारान्न योग्यताप्रमाभ्रमौ गुणदोषौ सिद्ध्यत इति भावः ॥
1. तस्य शा- मु-च. 2. मादि-कुं. 3. दपीति - मु. 4. ताया इति -कुं.
5. संसर्गपदं न -अ. 6. नहे - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 188.
------------------------- --------------- ----------
व्यभिचारज्ञानासंसर्गग्रहाप्रामाण्यज्ञानानि तु न साक्षदनुमितिप्रवृत्तिप्रतिबन्धकानि भिन्नविषयकत्वादित्यनुमितिप्रवृत्तिहेतुभूतव्याप्तिज्ञानसंसर्गग्रहप्रामाण्यज्ञानविघटकानि । तस्माच्छाब्दज्ञाने आकाङ्क्षाऽसत्तौ अयोग्यतानिश्चयविरहस्य हेतवः । ते च भ्रमसाधारणाः । प्रमाणाबाधरूपा स्वरूप सती योग्यता तु प्रामाण्यान्तर्गतविषयसत्वमग्र्यं विशेषस्तु निर्देषत्वमेवे 2 ति वक्ष्यते ।
नन्वेवं व्याप्तिज्ञानमप्यनुमितिहेतुर्न स्यात् । तथा वैशिष्ट्यज्ञानं प्रमाण्यज्ञानं च प्रवृत्तिहेतुर्न स्यात् । तद्विघटकस्य व्यभिचारज्ञानादेः साक्षादेवानुमितिप्रतिबन्धकत्वसंभवादित्यत आह -- व्यभिचारेति ॥ एवं योग्यतादेर्गुणत्वं निरस्य मणौ योग्यत्वादिकं गुण इत्यादिपदेन आकाङ्क्षासत्योरप्यु 3 पादानं यत्तदप्ययुक्तमिति हेतुं वदन्नेवोपसंहरति -- तस्मादिति ॥ अयोग्यतानिश्चयविरह इति ॥ न तु योग्यताज्ञानमित्यर्थः । विवरिष्यते चैतद्द्योग्यतावाद इति भावः । भ्रमसाधारण 4 इति हेतुगर्भम् । न गुण इत्यन्वयः । नन्वेवं गुणनिरासे कार्ये वैजात्यस्य कारणवैजात्यनिमित्त 5 त्वाज्ज्ञान 6 सामान्यसामग्र्या अप्रमायामपि सत्वेन प्रमासामग्र्या 7 मप्रमासामग्रीतो वैलक्षण्याभावे तत्कार्यवैलक्षण्यं न स्यदित्यत आह -- अप्रमेति ॥ निर्देषत्वमेवेति ॥
1.ज्ञानसा-ख. 2. त्युक्तम्-कं-ग. 3. प्युपपादनं-अ. 4. णा-कुं. 5.
कत्वा-मु. 6. सामान्यपदं न-कुं. 7. ग्र्या अ-कुं -आ.
स्थूलावयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः पु - 189.
-------------------------------------------------------- -----------
तस्मादनित्यप्रमात्वपक्षकानुमानेष्विवानित्यप्रत्यक्षप्रमात्वादिपक्षकानुमानेष्वपि तदनुगतगुणाभावाद्बाधासिद्ध्यादीति ॥
1 तदप्युक्तं"अन्यथा"इत्यदिना । अनुगतगुणाभावेपि जन्यप्रत्यक्षप्रमात्वादेः कार्यतावच्छेदकत्वे पूर्वोक्ता 2 व्यवस्थापातादित्यर्थः । 3 एवमुत्तरत्रापि 4 द्रष्टव्यम् 3 ॥
प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः

11.13

यद्यपि दोषाभावोपि न प्रामाण्यहेतुरिति वक्ष्यते । तथापि भिक्षुपादप्रसारन्यायेन गुणहेतुत्वनिरासाय दोषाभावस्य प्रमानिमित्तत्वोक्तिरिति ध्येयम् । पूर्वोक्त्येति 5 ॥ अनत्यप्रमामात्रे अनुगतगुणभङ्गान्तो 6 क्त्येत्यर्थः ॥
प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः

11.14

यत्तूक्तं मणौ 7"तत्तत्प्रमायां 8 भूयोवयवेन्द्रियसन्नकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वम् । अन्वयव्यतिरेकात् । 9 तत्तदप्रमायां पित्तादिलिङ्गभ्रमादीनां दोषत्ववत् प्रत्यक्षेविशेषदर्शनमपि गुणः ।तदनुविधानात्"इत्यादितत्तात्पर्य 10 माशङ्कते अथापि स्यादित्यादिना ॥
1. एतद-क-ख-ग-च-छ. 2. नवस्था-छ. 3. एतन्नास्ति-मु-क-च. 4. योज्यं-क-ख-छ. 5.क्तेति-कुं-आ. 6. क्तेति-कुं-अ-आ. 6. तत्प्र-आ-अ. 8.याः-कुं. 9. तद-अर्. 10. यार्थ-अ-आ.
न्यायदीपयुततर्कताण्डवम् ( प्र. पिरिच्छेदः पु - 190.
------------------------ ------------- --------
अथा 1 पि स्यात् भ्रमसामान्ये प्रत्यक्षादिभ्रमे 2 वानुगत 3 दोषस्याभावेपि
तत्तद्भ्रमविशेषे पित्तादि 4 रिव स्थूलावयविप्रत्यक्षप्रमायां भूयवयवेन्द्रियसन्निकर्षः,
संशयविपर्ययोत्तर 5 प्रत्यक्षप्रमायां विशेषप्रमा, नियमेन प्रमयोरनुमितिशाब्दप्रतीत्योः सत्यलिङ्गपरामर्शवाक्यार्थज्ञाने
चान्वयव्यतिरेकाभ्यां हेतू । एवं च प्रमाया अप्रमाव्यावृत्ताननुगताधिहेतिजन्यत्वात्परतस्त्वम् । त एवाननुगता हेतवः प्रमां प्रत्यसाधारणहेतुत्वे 6 नोपाधिना गुणा 7 इत्युच्यन्ते । तस्मादनित्यप्रमात्वमनित्यज्ञानत्वप्रयोजकाधिकप्रयोज्यं तदन्वयव्यतिरेकानुविधायित्वात् ।
संशयेति ॥ संशयोत्तरविपर्ययोत्तरेत्यर्थः -- विशेषेति ॥ व्याप्येत्यर्थः । प्रमायोरीति प्रतीत्योर्विशेषणम् । तावता कथं प्रमात्वस्य 8 परतस्त्वमित्यत आह -- एवं चेति ॥ उक्तसन्निकर्षादेर्हेतुत्वे सतीत्यर्थः । गुणजन्यत्वात्कथमेतदित्यत आह -- त एवेति ॥ असाधारणेति । भ्रमव्यावृत्तेत्यर्थः ॥
मणिकृदभिमतमनुमानमाह -- तस्मादिति ॥ उक्तसन्निकर्षादेर्गुणत्वेन तज्जन्यत्वेन प्रमायाः परतस्त्वसम्भवात्प्रायोग उच्यत इत्यर्थः -- तदन्वयेति ॥ उक्तरूपसन्निकर्षादिलक्षणाधिककारणपरामर्शः ।
1 अपिस्यात् इति नास्ति - ग. 2. च-क-कुं. 3. तस्यदो-मु-च-छ-ग. 4. कमिव-मु-च. 5. प्रत्यक्षपदं नास्ति -छ. 6. त्वे-मु-च-ग. 7. ऽइतिऽ इति नास्ति-छ. 8. परतस्त्वमि-आ.
स्थू-प्रमादौ-भूर्वे-सदेर्-हेङ्गुः) प्रामाण्यवादः पु - 191.
------------------------- --------- ---------
अप्रमात्ववत् । अन्यथाप्रमापि प्रमा स्यात् । न चाप्रमाया 1 मधिको दोषो हेतुरस्तीति वाच्यम् । तथात्वे भ्रमस्य प्रमात्वप्रयोज 2 कजन्यत्वेसत्यधिकजन्यत्वेन प्रमाविशेषत्वापातादिति मम सिद्धान्तरहस्यमिति चेन्मैवम् ।
भूयोवयवेन्द्रियसन्निकर्षे शङ्खत्वादिविशेषतदर्शने च सत्यपि पीतःशङ्ख इत्यादिभ्रमस्य वेशो 3 रगभ्रमस्य बाष्पावयवे धूमवयविभ्रमे ऽवयव्यंशे ---
हेतोरप्रयोजकत्वनिरासाय विपक्षे बाधमाह -- अन्यथेति ॥ अनित्यज्ञानत्वप्रयोजकादधिकप्रयोज्यत्वे तन्मात्रप्रयोज्यत्व इत्यर्थः । आपादकासिद्धिमाशङ्क्याह -- न चेति ॥ प्रमात्वप्रयोजकेति । अनित्येति योज्यम् । अनित्यज्ञानत्वप्रयोजकस्यैवानित्यप्रमात्वप्रयोजकत्वेन त्वदभिमतेरिति भावः -- इत्यादिभ्रमस्येति ॥ तिक्तो गुड इत्यादिरादिपदार्थः -- 4 वंशेति ॥ 5 अनुरगत्वस्य स्पर्शने दर्शने भूयोवयवेन्द्रियसन्निकर्षे सत्यपि 6 मण्डूकवसाक्तनेत्रस्य मण्डूकवसादोषेण जायमानस्य वंशे उरगभ्रमस्येत्यर्थः ।
तदिन्द्रयजप्रत्यक्षप्रमायां तदिन्द्रियविशेषदर्शनं हेतुरिति विशेषदर्शनस्य हेतुत्वे भवेदेवं विशेषविवक्षा । तदेवायुक्तमिति"एवं भ्रमोत्तरप्रमायामपि"इत्यादिना वक्ष्याम इति भावेन स्थलान्तरेप्युक्तसन्निकर्षस्य व्यभिचारमाह -- बाष्पेति ॥ 7
। धूमेति ॥ धूमरूपावयवीत्यर्थः ।
1. या अधि-ग-कुं. 2. काधिकप्रयोज्यत्वे सत्यप्यधिक-मु-च. 3. शे-उर-मु.
4. विपरीतप्रत्यक्षं गुण इत्यत आह--वंशेति-अ-आ. 5. अनुगत्वस्य इति नास्ति- कुं. 6."मण्डूकवसाक्तनेत्रस्य"इत नास्ति-कुं. । 7. अयं ग्रन्थः नास्ति -मु-आ. तदिन्द्रियजप्रत्यक्षप्रमायां तदिन्द्रियजविशेषधीतद्दर्शनं हेतुरित्यत आह - बाष्पेति-अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 192.
---------------------- ------------ ----------
एव भ्रमस्य 1 दर्शनेनान्वयव्यभिचारात् ।
यदि च तत्र पित्तमण्डूकवसाञ्जनादिदोषप्रतिबन्धात्प्रमानुत्पत्तिस्तर्ह्यावश्यकत्वाद्दोषाभाव एव 2 हेतुः ।मम तु दोषाभावेनाप्रमारूपविपरीतकार्यानुत्पत्तौ ज्ञानसामग्र्यैव प्रमोत्पत्तिः।
यत्र स्थूलावयविप्रत्यक्षे भूयोवयवेन्द्रियसन्निकर्षो गुण इत्युक्तं तस्मिन्नेवेति विरोधस्फोरणायावव्यंश एवेत्युक्तम् । 3 अञ्जनादीत्यादिपदेन सारूप्यादिग्रहः -- दोषाभाव एवेति ॥ यादृच्छिकसंवादिनि दोषाभावः प्रमाव्यभिचारीतितूत्तरभङ्गे निरसिष्यते इति भावः ॥
यत्तु सन्निकर्षाद्युत्कर्षेण प्रमोत्कर्षात्सन्निकर्षादिरेव हेतुरिति । तन्न । उक्तस्थलेषु तदुत्कर्षे सत्यपि प्रमानुदयेन व्यभिचारात् ॥
ननु सिद्धान्ते दोषाभावस्य प्रामाण्यहेतुत्वादुक्तस्थले प्रामाण्यप्रयोजकज्ञानसामग्रीसत्वात्प्रमोत्पत्तिः स्यादित्यत आह -- मम त्विति ॥
( 4 विशेषदर्शनपदेन विशेषदर्शनसामान्यविविक्षायां प्रागुक्तान्वयव्यभिचारलगनेप्युक्तरूपविशेषदर्शनाविवक्षायां नोक्तगदोषलगनमित्यतो ) 5 । अनौपाधिकभ्रमोत्तरप्रत्यक्षप्रमायामेव विशेषदर्शनं गुणो ऽतो नोक्त दोषः इत्यतो । विशेषदर्शनाभावे भ्रमोत्तरप्रमाभाव इति व्यतिरेकोन्यथासिद्धो न विशेषदर्शनहेतुताकल्पक इति भावेन दोषान्तरमाह -- एवं भ्रमेति ॥ संशयविपर्ययरूपभ्रमेत्यर्थः ॥
1. चद-च-ग-ख. 2.ऽतवऽ इत्यधिकं-छ-ख. 3. सन्निकर्षमात्रव्यभिचारोदाहरणमेतत्-अ. 4. कुण्डलितो ग्रन्थः नास्ति - मु. 5. अयं ग्रन्थः कुण्डलितः - कुं.
स्थू-प्रप्रदौ-भूवैर्ं-हेङ्गः) प्रामाण्यवादः पु - 193.
-------------------- ------------ ---------
एवं भ्रमोत्तरप्रमायामपि तदनुत्तरप्रमायां या कॢप्ता सामग्रि भ्रमकाले सा न वर्तते चे 1 त्तदभावादेव कार्याभावो न हेतुः । वर्तते चेद्विशेषदर्शनाभावेपि तदनुत्तरप्रमेव 2 तदुत्तरप्रमाप्युत्पद्येतैव । न हि कार्ये 3 वैचित्र्याभावेपि कालभेदमात्रेण विचित्रहेत्वपेक्षा ।
यादि तदा संसयादिदोषः प्रतिबन्धकस्तर्ह्यावश्यकत्वाद्दोषाभावादे 4 व प्रमास्तु ।
एवं भ्रमेति॥ संशयविपर्ययरूपभ्रमेत्यर्थः । प्रमायामपि न विशेष 5 प्रमाहेतुरित्यन्वयः । ननु भ्रमानुत्तरप्रत्यक्षसामग्र्या कथं तदुत्तरप्रत्यक्षप्रमा जायेतेत्यत आह -- न हीति ॥ विचित्रेति ॥ विशेषदर्शनरूपेत्यर्थः -- संशयादिति ॥ विपर्यय आदिपदार्थः ॥
ननु संशयस्य ग्राह्यसंशयपर्यवन्नतया 6 प्रमाणापरिपन्थित्वात्कथं प्रतिबन्धकत्वशङ्का । अन्यथा तस्मिन्सति विशेषदर्शनादपि प्रत्यक्षानापत्तेरिति
चेन्न । विशेषदर्शनविरहविशिष्टसंशयादेः प्रतिबन्धकत्वेन तदभिप्रायेण संशयादिदोषः प्रतिबन्धक इत्युक्तेः ॥

दोषाभावादेवेति ॥ ननु विशेषदर्शनविरहविशिष्टसंशयादिदोषाभावो हि संशयादिस्थले विशेषा 7 दर्शनरूप विशेषणाभावेनैव वाच्य इति विशेषदर्शनमेव पर्यवन्नमिति चेन्न । तावता तस्य प्रतिबन्धकरूपदोषाभावत्वेनैव हेतुत्वप्राप्त्या तेन हेतुत्वाप्राप्तेः । विशिष्टाभावसम्पादनेनान्यथोपक्षीणत्वाच्च ॥
1. चेत्सामग्र्य -ग-कुं. 2. मावत्तदु-मु-चर्. 3. यवै-कुं. 4. वसास्तु-ग-कुं.
5. प्रमापदं न -आ. 6. प्रामाण्या-कुं. 7. षद-कुं.अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. पिरिच्छेदः पु - 194.
----------------------- ---------------- ----------
किञ्च करादौ चरणादिभ्रमजन्ये संशयानन्तरभाविनि ---------
रुचिदत्तादयस्तु भ्रमस्थले विशेषादर्शनसहकुतसंशयादेः प्रतिबन्धकत्वे संशयो 1 त्पत्तिकाले प्रत्यक्षापत्तिः । न च"यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्र्यपि तत्र प्रतिबन्धिका"इति न्यायात्त 2 दा संशयसामग्रीप्रतिबन्धान्न प्रत्यक्षमिति वाच्यम् । 3
एवमपि धर्मिज्ञानकाले दैवात्पुरुषत्वादिज्ञानवतः पुरुषत्वादिनिश्चयापत्तेः । संशयस्य तत्सामग्र्या वा तदानीमभावात् । न च दोषस्य प्रतिन्धकत्वान्न तदा दोषात्प्रत्यक्षमिति वाच्यम् । तर्ह्यावश्यकत्वात्संशयकालेपि तत एव दोषात्प्रत्यक्षानुत्पत्तिरस्तु । किं संशयस्य प्रतिबन्धकत्वाभ्युपगमेन । तथाच विशेषदर्शने सति विशेषादर्शनरूपदोषाभावादेव प्रत्यक्ष प्रमोत्पत्तिर्न तु निरुक्तिविशिष्टाभावस्य प्रत्यक्षप्रमाहेतुत्वम् । मानाभावात् । न च विशेषादर्शनस्य दोषत्वे संशयानुत्तरप्रमानुदयापत्तिरिति शङ्क्यम् । फलबले नैतस्य क्वचिदेव दोषत्वकल्पनादित्याहुः ।
दोषाभावादेव सास्त्वित्यनन्तरं ममत्वित्यादिवाक्यमत्राप्यनु 4 वर्त्ययोज्यम् । भ्रमोत्तरप्रमाव्यतिरेकस्य विशेषदर्शनत्वेन विशेषदर्शन 5 व्यितरेकनिमित्तता नास्ति किन्तु दोषनिमित्ततेत्यन्यथासिद्धमुक्त्वा सत्यपि विशेषप्रमाव्यतिरेकादौ प्रमोत्पत्तेर्व्यभिचारान्न विशेषप्रमा 6 यथार्थलिङ्गपरामर्शादेः प्रमा प्रति हेतुत्वं दूरे
गुणत्वेनेति भावेनाह -- किञ्चेति ॥
1.यानु-मु. 2.त्तत्सं-मु. 3. ऽएवमपि इत्यारभ्य ऽतर्हिऽ इति पर्यन्तं-आ. पुस्तके नास्ति. 4. वृत्या-आ. 5. व्यतिरेकपदं न -आ. विशेषदर्शन इति नास्ति -अ.
6. याः - कुं.
स्थू-प्रप्रदौ-भूर्वे-सदेर्-हेङ्गः) प्रामाण्यवादः पु - 195.
------------------------ ----------- ---------
-- नियमेन प्रमारूपे पुरुषसाक्षात्कारे विशेषप्रमारूपस्य वह्न्यालोके धूमभ्रमजन्यायां नियमेन प्रमा 1 यामनुमितौ यथार्थलिङ्गपरामर्शरुपस्य भ्रान्तविप्रवम्भकवाक्यजन्यायां नियमेन प्रमा 2 यां शाब्दप्रतीतौ यथार्थवाक्यर्थज्ञानरूपस्य गुणस्याभावेपि प्रमात्वदर्शनेन व्यतिरेकव्यभिचारोपि ॥
किञ्च दुष्टायां ज्ञानसामग्र्यां सत्यमपि गुणव्यतिरेकेण प्रमाव्यतिरेको न दृष्ट इति गुण न हेतुः । 3 दृष्टो विसंवादिशुका 4 दिवाक्ये, तत्र भ्रान्तिविप्रलम्भादिदोषाभावादिति चेन्न ।
ननूक्तस्थले सर्वत्रेश्वरप्रमामादाय विशेषप्रमा 5 सत्यपरामर्शयथार्थवाक्यार्थज्ञानानां न व्यतिरेकव्यभिचार इति चेन्न । अस्मिन्पक्षे"नचेश्वरे 6 सोस्तीति वाच्यं"इत्यदिना दोषाणां पूर्वमेवोक्तत्वादिति भावः ॥
ननु गुणव्यतिरेकेण प्रमाव्यतिरेकस्यापि दर्शनादुक्तस्थलेष्वपि कश्चन गुणः कल्प्यत इत्यतो व्यतिरेकासिद्धदोषमाह -- किञ्चेति ।. शङ्कते --दृष्ट इति ॥
सत्यपि दोषाभावे गुणव्यतिरेकेण प्रमाव्यतिरेक इत्यनुषङ्गः । तत्र दोषाभावस्तवमुपपादयति -- तत्रेति ॥ आदिपदेन प्रमादकरणापाटवयोर्ग्रहः । अप्रामाण्यस्य दोषजन्यत्ववादिना त्वयापि 7 तत्र कश्चिद्दोषः कल्प्यः । अन्यथा तस्य परत 8 स्त्वाहानेरित्याह -- गुणव्यतिरेकेणेति ॥
1. रूपेत्यधिकं-ग-कुं. 2. रूपेत्यधिकं-ग-कुं. 3. ननु इत्यधिकं-मु-च-छ. 4. कवा-छ-ख. 5.यथार्थप-आ. 6. सास्ती-कुं. 7. तत्रेति नास्ति - कुं - आ. 8. स्त्वहाने - अ.
स्थू-प्रप्रदौ-भूर्वे-सदेर्-हेङ्गः) प्रामाण्यवादः पु - 196.
------------------------ ------------ ----------
तत्राप्यनित्यवाक्यदोषस्य विवक्षितार्थतत्वज्ञानाभावस्य वा शुकवाक्य 1 मूलभूतवाक्यप्रयोक्तृपुंनिष्ठस्य भ्रान्त्यादेर्मूलदोषस्य वा सत्वात् । गुणव्यतिरेकेण प्रमात्वव्यतिरेके सिद्धेपि भ्रमत्वार्थं त्वयापि भ्रमत्वप्रयोजकत्वेन कॢप्तस्य दोषस्य तत्र वक्तव्यत्वाच्च । अभावोपि हि करणापाटवविशेषादर्शनादिरिव लोकव्यवहारात्प्रमाव्यावृत्तकारणत्वात्तत्वज्ञानविरोधित्वाच्च दोष एव । अङ्गीकृतं च त्वयापि नीलं तम इति भ्रमे दोषान्तरा 2 भावेनाधिष्ठानभूत 3 स्याभावरूपस्य तमस एव दोषत्वम् । क्वचिद्गुणसन्निधानन्तु रासभवद्यादृच्छिकं वा गन्धं प्रति कॢप्तिकारणगन्धप्रागभावसहभूतपाकजरसप्रागभाववत्प्रमां प्रति
कॢप्तप्रयोजकदोषाभावसहभूतत्वेनान्यथासिद्धं वा ॥
ननु विवक्षितार्थतत्वज्ञानाभावस्याभावरूपत्वात्कथं दोषत्वमित्यत आह -- अभावोपिहीति ॥ अन्वयाभावादिरादिपदार्थः -- अधिष्ठानेति ॥ नैल्यारोपाधिष्ठानभूतस्यालोकाभावरूपस्येत्यर्थः । कुत्र चिद्वा गुणानुविधानस्य का गतिरित्यत आह -- क्वचिदिति ॥ प्रमायां गुणानुविधानमभ्युपेत्यापि मण्युक्तान्यथासिद्धिमाह -- गन्धमिति ॥
ननु रसप्रागभावोन्यत्र कार्ये कॢप्तान्वयव्यतिरेकत्वादस्त्वन्यथासिद्धः । गुणसन्निदिस्तु नान्यत्र कार्ये कॢप्तान्वयादिः । प्रकृतकार्येण विना कार्यान्तरोपक्षीणो ह्यन्यथासिद्धिः ।
1. स्य मू - क-ख-छ. 2. सम्भवेना - मु-च. 3. स्य भावाभावरू - छ.
किञ्च त्वयाप्यन 1 न्यथासिद्धशब्दस्य यौगकत्व आत्माश्रयाल्लोकव्यवहारानुसारेण पारिभाषिक एवार्थ उक्तः । एवं च 2 भ्रमरूपविपरीतकार्योत्पादक 3 दोषनिरासकस्य गुणस्य विपरीतकार्योत्पादक 3 । दोषनिरासकस्य गुणस्य विपरीतकार्योत्पादक 3 । निरासक्तवरूपान्यैवान्यथासिद्धिः पारिभाष्यताम् । लोके घटं प्रति दण्डत्व इव
कदलीकाण्डरूप --------
न हि गुणः कार्यान्तरेण सिद्धः । येनान्यथासिद्धः स्यादित्यत आह -- किञ्चेति ॥ आत्माश्रयादिति ॥ कारणलक्षणशरीरप्रविष्टस्यान्यथासिद्धशब्दस्य कार्यान्तरजनकत्वमिति 4 वा अनेन विना कारणान्तरे 5 ण कार्यं सिद्धमुत्पन्नमिति वार्थोक्तावात्माश्रयादित्यर्थः -- पारिभाषिक एवेति ॥"अन्यथासिद्धत्वं च त्रिधा । येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तथा।

घटं प्रति दण्डरूपस्य । अन्यं प्रति पूर्ववर्तित्वे ज्ञात एव यं प्रति यस्य पूर्ववर्तित्वमनगम्यते । शब्दं प्रति पूर्ववृत्तित्वं ज्ञान एव ज्ञानं प्रत्याकाशस्य । अन्यत्र कॢप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वम् । यथा गन्धवति गन्धानुत्पादाद्गन्धं प्रति गन्धप्रागभाव्सय नियतपूर्ववर्तित्वकल्पनात्पाकजस्थले गन्धं प्रति रूपादिप्रागभावानामन्यथासिद्धत्वं"इत्यादिग्रन्थेनानुमानखण्डे कारणतावाद उक्त इत्यर्थः । अन्यैवान्यथासिद्धिरित्यनन्तरं लोकव्यवहारानुसारेणेत्यनुकर्षः । स चासिद्ध इत्याह -- लोक इति ॥
1.प्यन्य-कुं. 2. चाप्रमा-छ. 3. । एतावन्नास्ति - ख. 4.तितेनवि - कुं. 5.रोत्पत्तिका -अ. 6.ऽवा ऽ इति नास्ति - कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 198.
---------------------- --------------- ----------
-- विपरीतकार्योत्पादकस्य वेत्रबीजसम्बन्धिदावाग्निदाहस्य विरोधित्वे पदार्थे वेत्राङ्कुरं प्रति कारणत्वाव्यवहारात् । 1 दाहविरोधिनो 2 हेतुत्वे क्वाप्युत्सर्गापवादाभावप्रसङ्गाच्च । यस्य हि स्वसामग्री 3 वशेन प्रसक्तिस्तदौत्सर्गिकम् । सत्यामपि सामग्र्यां यद्वशात्तद्विपरीतं कार्यं भवति तत्तस्यपवादकम् 4।न च दाहविरोधिने हेतुत्वे दाहस्थले वेत्राङ्कुरसामग्र्यस्ति ।-------------------------------------------------------------------------
दण्डत्वे यथा कारणता 5 ऽव्यवहारस्तथा कारणत्वाव्यवहारात् । किन्त्वन्यथासिद्धित्वेनैव व्यवहारादित्यर्थः ॥
एतेन"किञ्चेदं गुणान्वयव्यतिरेकित्वं अन्यत्रानुपक्षीण 6 त्वं सामान्यं वा ।
नाद्यः । दोषनिरीसोपक्षीणत्वादि"त्यादिदेवताधिकरणटीका विवृता ॥
7 लौकिकव्यवहाराभावेप्यस्तु हेतुत्वमित्यतः"औत्सर्गिकत्वात्प्रामाण्यस्य"इति तत्वनिर्णयटीकोक्तं विपक्षबाधकत्वेन संयोज्य तद्व्यनक्ति -- दाहेत्यादिना ॥ अस्त्वेवमुत्सर्गापवादशब्दार्थः । विरोधिनोपि हेतुत्वे तदभावप्रसङ्गः कुत इत्यत आह -- न चेति ॥ दाहस्थल इत्यादि ॥ तथाच"सत्यामपि तत्सामग्र्यां"इत्यादेरभावादुत्सर्गापवादाभावप्रसङ्ग इत्यर्थः ॥
एतेन तत्वनिर्णयटीकायां ज्ञप्तिस्थले ऽभिहितमिदं बाधकमुत्पत्तिस्थलेप्यनुसन्धेयमितिसूचितम् ॥
1. शास्त्रेदाह -ग. 2. अभावस्येत्यधिकं-क-ख-छ. 3. बलप्रसङ्गेन- च. 4.भवति - छ. 5. त्वा-अ. 6.णंसा-मु. 7. लोकव्य - मु.
स्थू-प्रप्रदौ-भूर्वे-सदेर्-हेङ्गः) प्रामाण्यवादः पु - 199.
------------------------ ----------- ----------
अन्यथा दण्डाभावाद्घटानुत्पत्तरपि तदुत्पत्तेरपवादः स्यात् ।
अत एव यत्र संशयादिरूपा दोषाः 1 प्रतिबन्धकाः तत्रैव तन्निरासार्थं 2 भूयोवयवेन्द्रियसन्निकर्षविशेषदर्शनादिगुणापेक्षा । अन्यथा संशयोत्तरप्रम 3 येव तदनुत्तरप्र 4 मयापि विशेषदर्शनमपेक्ष्येत ॥
किञ्च दोषनिरासे ऽवश्यं कारण्स्य गुणस्य प्रमायामपि कारणत्वे गौरवम् । नच प्रमारूपं कार्यमनन्यथासिद्धम् । येनोभयं कल्प्येत ॥
एतेन अप्रमापि प्रमा 5 विशेषः स्यादिति निरस्तम् । प्रमात्वप्रयोजिकाया अदुष्टसामग्र्या भ्रमे ऽभावात् ।
अन्यथेति ॥ सामाग्र्यभावेपि कार्यानुत्पत्तेरपवादत्व इत्यर्थः -- तदुत्पत्तेरिति ॥ घटोत्पत्तेरित्यर्थः -- अत एवेति ॥ दोषनिरासोपक्षिणत्वादेवेत्यर्थः -- अन्यथेति ॥ सर्वत्र प्रमामात्रे तद्धेतुतायामित्यर्थः ॥
नन्वस्तु दोषनिरासकत्वं गुणस्य प्रामाण्यहेतुत्वं चास्तु । अप्रामाण्ये गुणनिरासे च दोषाणां हेतुत्वमिवेत्यतः"न चोभयकारणत्वकल्पकमस्ति"इति भाष्यटीकां विवृण्वन्नाह -- किञ्चेति ॥ प्रमायाः परतस्त्वान्यथानुपपत्तिप्रमाणसिद्धगौरवं न
दोषायेत्यत आह -- न चेति ॥ अनन्यथेति ॥ ज्ञानसामान्यसामग्रीतो न सिद्धमति न चेत्यर्थः ॥
प्रागुक्तानुकूलतर्कं निराह -- एतेनेति ॥ प्रमायाः दोषाभावसहितज्ञानसामाग्रजन्यत्वकथनेनेत्यर्थः ।
1. दर्शनदिप्र - कर्. 2. थे - क. 3. मायामिव -कुं. 4. मायामपि - कुं. 5.विशेषपदं नास्ति - ग.
न्यायदीपयुततर्कताण्डनम् ( प्र. परिच्छेदः पु - 200.
----------------------- ---------------- ---------
अन्यथा दावाग्निदग्धवेत्रजन्यकदल्यङ्कुरोपि वेत्राङ्कुरविशेषः स्यात् ॥
ननु तत्र दाहेन दोषेण सहजाया वेत्राङ्कुकरजननशक्तेर् 1 नाशाद्विपरीत 2 शुक्तेश्चोत्पादाद्वेत्राङ्कुरसामग्र्येव नास्तीति चेत्समं प्रकृतेपि । ममापि 3 लोकसिद्धौत्सर्गिकापवादकसाम्यमेव प्रामाण्याप्रामाण्ययोरपेक्षितम् ॥
अन्ये तु यथा नीलरूपसामग्रीजन्यस्यापि चित्ररूपस्य न नीलरूपविशेषत्वात् ॥ 4 यथा न विरुद्धनिश्चद्वयसामग्रजन्यस्य संशयस्य न निश्चयविशेषत्वं । यथा च पाकजरूपसामग्रीजन्यस्य -----
परमुखेनैव समाधिं वाचयति -- नन्विति ॥ अस्त्वेवं लोके प्रामाण्यादौ तु कथमित्यत आह - ममापीति ॥ अनन्यथासिद्धशब्दार्थे तव यथा तथेत्यपरेत्यर्थः ॥ प्रमायामभिमतसामग्र्यभावेनैव भ्रमस्य न प्रमाविशेषत्वमिति स्वयमेकं समाधिमुक्त्वान्यापदेशेन समाध्यन्तरमाह - अन्येत्विति ॥ न नीलेत्यादि ॥ किन्तु विजातीयरूपान्तरत्वमित्यर्थः । तथैवोदयनाद्युक्तेरिति भावः -- विरुद्धेति ॥"विरुद्धोभयारोसामग्रीद्वयसमाजादुभयारोप एक एव भवति । स एव संशय"ज्ञप्तिप्रामाण्ये मण्युक्तेरिति भावः - यथा च पाकजेति ॥ तेजस्संयोगदेशकालादृष्टादिसामग्र्यस्तुल्यत्वादिति भावः ॥
1. र्विना- ग. 2.कार्योत्पादेत्यधिकं -कुं. 3. ऽहिऽ इत्यधिकं - च-छ-क-ख.
स्थू-प्रप्रदौ-भूर्वे-सदेर्-हेङ्गः) प्रामाण्यवादः पु - 201.
---------------------- ----------- ----------
-- रसस्पर्शादेर्न रूपविशेषत्वं 1 । तथा भ्रमस्यापि न प्रमाविशेषत्वमित्याहुः ॥
तस्मादन्वयव्यभिचाराद्व्यतिरेकव्यभिचारादन्यथासिद्धेश्च गुणो न प्रमाहेतुः । भ्रमप्रतिबन्दीतूद्धरिष्यते । एतदप्युक्तं"अन्यथा"इत्यादिना । अन्वयव्यभिचारे व्यतिरेकव्यभिचारे औत्सर्गिककार्यापवादकनिरासकत्वेनान्यथासिद्धौ च सत्यामपि गुणस्य हेतुत्वे रासभादेरपि हेतुत्वप्रससङ्गेन --
अस्मिन्पक्षे दृष्टान्तानामसत्प्रतिपत्तिर्वक्ष्यमाणदिशा प्रमासामग्र्यां दोषाभावस्यावश्यकत्वात्सामग्र्भावादेश्च तद्विशेष 2 त्वाभावोपपत्तावुक्तसमाधिरयुक्ता इत्यरुचिबीजं ध्येयम् ॥
तस्मादित्युक्तं व्यनक्ति -- अन्वयेति । पीतःशङ्ख इत्यादिभ्रम इत्यर्थः -- व्यतिरेकेति ॥"करादौ चरणादिभ्रमजन्य"इत्यादिनोक्तप्रमाविशेष इत्यर्थः -- अन्यथेति ॥ विरोधिनिरासोपक्षीणत्वोच्चेत्यर्थः । उभयकारणत्वे गौरवात्कल्पकाभावादप्रमायाः प्रमाविशेषत्वापत्तिरूपबाधकाभावाच्चेत्यपि ध्येयम् ।
नन्वेवं दोषस्यापि भ्रमहेतुत्वखण्डनसम्भवेन भ्रमेपि स्वत एव स्यात् । तत्र या गतिः प्रमायामपीत्यत आह -- भ्रमेति ॥
स्वतस्त्वानुमानोक्त्यनन्तरमुद्धरिष्यत इत्यर्थः। एतदपीत्युक्तमेवान्यथादिशब्दार्थविविरणेन व्यनक्ति --अन्वयेत्यादिना ॥

1. ।अयं ग्रन्थः नास्ति - ग. 2. णत्वा - मु.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 202.
---------------------- --------------- -----------
हेत्वहेतुव्यवस्थि 1 त्ययोगादित्यर्थः ॥
2स्थूलावयवि 3 प्रत्यक्ष 4 प्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः

11.14

भूयोवयवेन्द्रियसन्निकर्षादेर्हेतित्वभङ्गः

11.15

अस्तु तर्हि दोषाभावादेव प्रम् तस्यानन्यथासिद्धान्वव्यतिरेकित्वादिति चेन्न ।
कारणतावच्छेदकप्रतिबन्धकाभावादिसाधारणस्य प्रयोजकत्वमात्रस्यापादन इष्टत्वात्॥
"अदृष्टमिन्दियं त्वक्षं तर्को ऽदुष्टस्तथानुमा"
आगमो ऽदुष्टवाक्यं च"इति ब्रह्मतर्के,
अस्त्विति । तथाच ज्ञानहेतुतो ऽधिकजन्यत्वात्स्वतस्त्वहानिरिति भावः । प्रयोजकत्वमापाद्यते कारणत्वं वा । आद्य आह -- कारणेति ॥ प्रतिबन्धकाभावहेतुताया वक्ष्यमाणत्वाशयेनाह -- प्रतिबन्धकाभावादीति ॥ कारमागिरादिपदार्थः । प्रयोजकत्वेति ॥ तद्व्यतिरेक 6 प्रयुक्तव्यतिरेकप्रतियोगित्वमात्रस्य न त्वनन्यथासिद्धस्येत्यर्थः ॥
दृष्टत्वमेव क्रमात्सूत्रभाष्यटीकाकृतां संमत्या द्रढयति -- अदुष्टमिति ॥ अक्षं अनुमा आगमः इति लक्ष्यनिर्देशः । तत्वनिर्णयोदाहृतब्रह्मतर्क इत्यर्थः ।
1.स्थायो - मु-ख. 2.ऽइतिऽ इत्यधिकं -छ. 3. व-क. स्थूलावयवेति नास्ति - ख. 4. क्षादो-मु-च. 5. स्थूलावयविप्रत्यक्षप्रमादौ"इत्यधिकं-कुं. 6. प्रयोजकव्यति - मु - प्रयोजकप्रति - अ.
प्रमायां दोषभावस्य हेतुत्वभङ्गः प्रामाण्यवादः पु - 203.
----------------------------- ----------- --------
"निर्देषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् निर्देषोपपत्तिरनुमा निर्देषः शब्द आगमः"इति प्रमाणलक्षणे;"दोषाभावस्य कारणत्वे 1 च नास्माकमनिष्टम् तावता 2 वेदापौरुषेयत्वाव्यघातात्"इति भाष्यटीकायां चोक्तेः । दोषाभावस्यापेक्षितत्वेपि
प्रमाजनकशक्तिस्सहजा, न तु भ्रमजननशक्तिवदा 3 धेयेत्येतावततैव प्रमाण्यस्वतस्त्वसिद्धेश्च ॥
मानत्रयेपि दोषाभावापेक्षाद्योतनाय त्रितयोदाहरणम् । टीकायां चेति ॥ देवताधिकरणभाष्यस्य टीकायामित्यर्थः । तत्र कारणत्वे चेत्यु 4 क्तिः प्रयोजकत्वे चेत्यर्थ इत्यग्रे व्यक्तम् ॥
नन्वेवमपि कथं न स्वतस्त्वहानिः । ज्ञानहेत्वतिरिक्तानपेक्षत्वाभावादित्यत आह
-- दोषाभावस्येति ॥ एतावतैवेति ॥ दोषाभावस्य कारणत्वपक्षे शक्त्याधायकत्वेपि प्रयोजकत्पपक्षे तदभावादिति भावः । उक्तं हीति ॥ दोषेत्यादिनोक्तं प्रमेयं जिज्ञासाधिकरणसुधायामुक्तमित्यर्थः । औत्सर्गिकी उत्सर्गः सामान्यं ज्ञानमात्रजनिकैवेत्यर्थः । दोषापवादादित्यस्य दोषाहितशक्तिरूपापवादादित्यर्थ इति भावः ॥
नन्वेवं गुणस्यापि प्रयोजकत्वोपपत्तौ किं तन्निरासायासेनेति चेन्न । गुणवा 5 दिनोपि दोषाभावस्याव 6 श्यकत्वोपपादनात् । गुणस्य दोषनिरासोपक्षीणतोपपादनाच्चेति भावः ॥
1. पि-मु-च-चकारो नास्ति - ख. 2. वेदपदं नास्ति - ग. 3. धास्ये -च. 4. क्तेः- कुं. 5. चि-अ. 6. श्योप-अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 204.
------------------------ --------------- -----------
उक्तं हि सुधायां"इन्द्रियादीनामौत्सर्गिकी शक्तिः प्रमाण्यजनने दोषापवादादप्रामाण्यमपि जनयति 1"इति । कारणत्वस्यापादानन्त्वयुक्तम् ॥
कॢप्तकारणं 2 चक्षुरादिकमादायैव दोषाभावस्य प्रमां प्रति नियतपूर्वभावित्व 3 ग्रहणेन दण्डत्ववत् दण्डगतदार्ढ्य 4 वत् शक्तिः कारणतावच्छेदके 5 ति पक्षे शक्तिवत् उपस्थितेष्टभेदाग्रहः प्रवर्तक इत्यत्रोपस्थितिवत् विषयत्वेन विषयजन्यं ज्ञानं प्रत्यक्षमित्यत्र विषयत्वव 6 च चक्षुरादिनिष्ठकारणतावच्छेदकत्वमात्रेणान्वयव्यतिरेकयोरुपपत्तौ दोषाभावे -----
द्वितीयं निराह -- कारणत्वस्येति ॥ कुत इत्यतः"येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथासिद्धं"इति मण्युक्तान्यथासिद्धमत्वादित्याह -- कॢप्तेति ॥ ग्रहणेनेति ॥ त्वदुक्तपारिभाषिकान्यथासिद्धत्वेन हेतुनेत्यर्थः । अस्य चक्षुरादिनिष्ठकारणतेत्यादिनान्वयः ॥
गुरुमतेनाह -- उपस्थितेति ॥ उपस्थितं बुद्धौ विपरिवर्तमानं यदिष्टं रजतादि तेन पुरोवर्तिनो भादाग्रह इत्यर्थः । उस्थितेरपि पुरोवृत्तिगोचरप्रवृत्तिकारणत्वे
वैशिष्ट्यज्ञानस्यापि हेतुतापत्या भादाग्रहः प्रवृत्तिहेतुरिति मतहान्यापत्तेर्हेतुतावच्छेदकत्वं यथा तथेत्यर्थः ॥
न्यायमतेनाह -- विषयत्वेनेति ॥ प्रत्यक्षमित्यत्रेति ॥ इति प्रत्यक्षलक्षण इत्यर्थः।
1. यन्तीति - मु-च-छ-क. 2. समस्तं पदं - मु-ख. 3. हेण-मु-च-क-ख. 4.दार्ढ्यादिव -ख-कुं. 5. त्यत्र श-छ. 6. चकारो नास्ति -मु-च-ख.
प्रयां-दोभास्य-हेङ्गः) प्रामाण्यवादः पु - 205.
------------------- ----------- -----------
कारणतायाः दोषाभावत्वे 1 कारणतावच्छेदकतायाश्च कल्पने गौरवात् । उक्तरीत्या सत्यपि दोषे प्रमात्वदर्शनेन प्रमासामान्यं प्रति व्यतिरेकव्यभिचाराच्च ॥ उक्तं हि विष्णुतत्वनिर्णयटीकायां"दोषाभावोपि न प्रामाण्यकारणम् । यादृच्छिकसंवादिषु सत्यपि दोषे प्रमाण 2 ज्ञानोदयात्"इति ॥
किञ्च प्रतिबन्धकाभावे लोके कारणत्वाव्यवहारादौत्सर्गिककार्यापवादक 3 विरोधिकत्वरूपान्यैवान्यथासिद्धिः परिभाष्यता 4 मित्युक्तम् ॥
अन्यथासिद्धिमुक्त्वा व्यभिचारं चाह -- उक्तेति ॥"किञ्च करादौ चरणादिभ्रमजन्य"इत्यादिनोक्तरीत्यर्थः ॥
ननु दोषस्य प्रतिबन्धकतया तदभावस्य स्वतन्त्रावेव कार्यान्वयव्यतिरेकावतो न प्रागुक्तान्यथासिद्धिर्युक्तेत्यत आह - किञ्चेति ॥ अन्यथासिद्धशब्दस्य त्वया यौगिकार्यं त्यक्त्वा लोकव्यवहारानुरोधेन त्रिधा पारिभाषिकार्थेक्तिरिहापि व्यवहारानुरोधेन त्वदुक्तान्यथासिद्धित्रयादन्येवान्यथासिद्धिः परिभाष्यतामित्युक्तमतीतभङ्गः इत्यर्थ -- उक्तं हीति ॥ दोषाभावस्यान्यथासिद्धतया कारणत्वं नेत्येतज्जिज्ञासाधिकरणे --
"प्रत्यक्षवच्च प्रामाण्यं"
इत्यादिश्लोकव्याख्यानसुधायामुक्तमित्यर्थः ॥
1. तदवच्छे-क-ख-छ. 2. माज्ञा-कुं. 3. विरहतारू-क-खृछ. 4."इत्युक्तं"इति नास्ति-छ-ख.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 206.
------------------------ ------------- ----------
उक्तं हि सुधायां"तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात् इति ॥
न चैवं भाष्यचटीकायाः विष्णुतत्वनिर्णयटीक 1 या सुध 2 या च विरोध इति शङ्क्यम् । भाष्यटीकायां कारणशब्दस्यस्मदुक्तं यद्घटं प्रति कुलालपित्रादिसाधारणं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरुपं तन्मात्रपरत्वात् ।-------------------------------------------------------------------------

उपलक्षणमेतत्"दोषाभावव्यतिरेकनियमात्प्रामाण्यस्य परतस्त्वं किं न स्यादिति चेन्न । यादृच्छिक संवादिषु प्रामाण्येपि दोषाभावाभावेन कारणत्वभङ्गात्"इत्यादिना वादावल्यामुक्तमित्यर्थः । उत्सर्गेत्यादेर्थस्तु"दाहविरोधिनो हेतुत्व"इत्यादिना पूर्वतनग्रन्थेनैव विवृतो ध्येयः -- भाष्यटीकाया इति ॥ प्रागुक्ताया इत्यर्थः -- सुधया चेति । वादावल्या चेत्यपि ध्येयम् -- तद्व्यतिरेकेति ॥ दोषाभावव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं प्रामाण्यस्य यत्तद्रूपं प्रयोजकत्पमित्यर्थः । स्विविरप्रयुक्तविरहप्रतियोगिकार्यकत्वरूपं यत्प्रयोजकत्वमिति फलि 3 तोर्थः । उक्तं 4 हीति ॥ वार्तिके दोषाभावस्योक्तरूपं प्रयोजकत्वमुक्तमित्यर्थः । तदभावतः गुणाधीनदोषाभावतः । अबोधकत्वरूपं विपरीतबोधकत्वरूपं वा 5 विपरीतबोधकत्वरूपमननुष्ठानरूपं व यदप्रामाण्यद्वयं तदभावः । तेन दोषाभावस्याप्रामाण्यनिरासोपक्षयेण
ज्ञानसामग्रीत एव प्रमा जायत इत्युत्सर्गो न भग्न इत्यर्थः ॥
1. कायाः - क. 2. धायाश्च-क. 3. तार्थः - मु. 4. क्तमिति - मु. 5. विपरीतबोधकत्वमिति नास्ति - मु.
प्रयां-दोभास्य-हेङ्गः) प्रामाण्यवादः पु - 207.
------------------ ---------- --------
"तस्माद्गुणभ्यो दोषाणामभावस्तदभावतः अप्रामाण्यचद्वयाभावस्तेनोत्सर्गो 1 नपोदितः"
इति --
ननु कथं तर्हि दोषस्य प्रतिबन्धकत्वमपि । तत्रैव तस्मिन्सत्यपि प्रमाया दर्शनादिति चेन्न । त्रत यादृच्छिकस्य विषयसत्वस्योत्तेजकत्वेनोत्तेजकाभावविशि-
ष्टस्य प्रतिबन्धकस्याभावात् ॥
न च तर्ह्यावश्यकत्वाद्विषयसत्वमेव प्रमाप्रयोजकं न तु दोषाभावापेक्षेति वाच्यम् । शुक्तौ रूप्यभ्रमकाले शुक्तित्वादेर्विषयस्य सत्वेपि दोष 2 रूपप्रतिबन्धेन शुक्तित्वादिप्रमाव्यतिरेकात् ॥
यद्वा इमं मा दहेत्यादौ मन्त्रादेरुद्देश्यव्यक्तिविशेष इव लिङ्गाभासस्य यत्र विषयसत्वाभावस्तत्रैव प्रतिबन्धकत्वाद्यादृच्छिकविषयसत्वस्थले केवलस्य प्रतिबन्धकस्याभाव एवास्ति । दोषाभावस्य स्वरूपेण हेतुत्वे तु व्यतिरेकव्यभिचारो दुष्परिहर इति दोषाभावोप न हेतुः ।
प्रागुक्तप्रतिबन्धकविरोधित्वरूपान्यथासिद्धिरयुक्तेति भावेन शङ्क्यते -- नन्विति ॥ तत्रेति ॥ यादृच्छिकसंवादिनीत्यर्थः ॥ तस्मिन् दोष इत्यर्थः - मा दहेतीति ॥ अस्य साधुत्वं संशयोपपादवनग्रन्थोक्तं ज्ञेयम् -- व्यतिरेकव्यभिचार इति ॥ यादृच्छिकसंवादिनीत्यर्थः -- तस्मादिति ॥
1. ह्यपो - छ. 2. रूपपदं न - कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 208.
-------------------------- ------------- ----------
तस्मात्परतस्त्वे न किञ्चिन्मानम् ॥
एतदप्युक्तं"अन्यथा"इत्यादिना । औत्सर्गककार्यापवादकनिरासारूपस्यापि दोषाभावस्य हेतुत्वे
इदमौत्सर्गिकमिदमापवादकमिति व्यव 1 स्थित्ययोगादित्यर्थः ॥ प्रमायां दोषाभावस्य हेतुत्वभङ्गः

11.15

अनुगतगुणस्यभावाद्दोषाभावस्य चाहेतुत्वादित्यर्थः ॥
प्रमायां दोषाभावस्य हेतुत्वभङ्गः

11.16

स्वतस्त्वे तु अनित्यप्रमामात्रानुगतो गुण इति पक्षे अनित्ययथार्थज्ञानत्वं अनित्यज्ञानत्वानवच्छिन्नकार्यतावच्छेदकं --
स्वतस्त्वे त्विति ॥ मानमित्यनुकर्षः । उच्यते इत्यर्थः । अननुगतगुणपक्षे सिद्धसाधनतावारणाय -- इति पक्ष इति विवेकायोक्तम् । अनित्यप्रमात्वं अनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्नकारणताप्रतियोगककार्यतावच्छेदकं अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदकधर्मत्वादप्रमात्ववदिति मण्युक्तानुमानस्य प्रत्यनुमानमाह -- अनित्येति ॥ विशेष्यमात्रस्य नित्यवृत्तितया कार्यतावच्छेदकत्वेन सिद्धसाधनवारणायानित्येति पक्षविशेषणम् । यथार्थेत्युक्तिरपि तद्वारणार्थैव ।
1. स्थायो - मु - च.
उत्पत्तौ स्वतस्त्वे अनुमानानि) प्रामाण्यवादः पु - 208.
---------------------------- ------------- ---------
अनित्यज्ञानावृत्तित्वरहितत्वात् ज्ञानत्ववत् । तत्समनियतधर्मघटितत्वात् यदेवं तदेवम् यथा पृथुबुध्नोदराकार 1 घटितं 2 घटत्वम् घटत्वानवच्छिन्नकार्यतानवच्छेदकम् ।
साध्ये 3 नित्यज्ञाननिष्ठकार्यतानवच्छेदकत्वेन सिद्धसाधन 4 वारणायानित्येतिपक्षविशेषणम् । यथार्थेत्युक्तिरपि तद्वारणार्थैव । साध्ये ऽनित्यज्ञाननिष्ठकार्यतानवच्छेदकत्वेन सिद्धसाधन 4 निरासायानित्येत्यादिकार्यताविशेषणम् । प्रमानिष्ठेत्यपि योज्यम् । तेन घटादिनिष्ठकार्यतानवच्छेदकत्वेन न सिद्धसाधनम् । हेताविन्द्रियत्वादिनोन्द्रिनिष्ठकारणताप्रतियोगिककार्यतावच्छेदके प्रत्यक्षत्वादौ व्यभिचारवारणाय नञ्द्वयम् ।तत्रानित्यज्ञानवृत्तित्वस्यापि सत्वेन तद्राहित्याभावात् । उक्तदोषनिरासायैवानित्यज्ञानेत्यप्युक्तिः । असिद्धिनिरासायानित्येति -- ज्ञानत्ववदिति । तस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वादनित्यज्ञानवृत्तित्वाच्चेति भावः -- तत्समेति ॥
अनित्यप्रमात्वसमनियतो यो धर्मो अनित्यज्ञानत्वं तद्घटितत्वादित्यर्थः ॥
भ्रमेपि धर्म्यंशे प्रमात्वेनानित्यप्रमात्वानित्यज्ञानत्वयोरन्योन्यं व्याप्याव्यापकभावादिति भावः । अत एव तत्समनियतधर्मघटितत्वद्योतनायैव अनित्यप्रमात्वमिति पक्षनिर्देशमकृत्वानित्ययथार्थज्ञानत्वमित्युक्तम् -- यदेवमिति ॥ यद्यत्समनियतधर्मघटितं तत्तदनवच्छिन्नकार्यतावच्छेदकमित्यर्थः -- पृथुबुध्नेति ॥ पृथुबुध्नोदराकार 5 घटत्वं नामधर्मः ।
स्वमानियतघटत्वधर्मघटितत्वात्तदनवच्छिन्नकार्यता पटादिनिष्ठा तदनवच्छेदक इत्यर्थः ॥
1. धर्मपदं अधिकं - कुं. 2. समस्तपदं-कुं-क. 3. अनित्य-कुं. 4. एतावन्नास्ति-मु. 5. घटपदं न -कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र,परिच्छेदः पु - 210.
----------------------- --------------- ----------
भ्रमावृत्तिकार्यतानवच्छेदकं वा भ्रमवृत्तित्वात् भ्रमात्ववत् ॥
न चै 1 तेषां हेतूनामसिद्धिः । भ्रमेपि धर्म्यंशे प्रमात्वस्य सत्वात् । प्रमात्वस्य ज्ञानत्वघटितत्वाच्च । नाप्यप्रयोजकता । समानियतयोरेकस्यैव कार्यतावच्छेदकत्वे आवश्यके 2 लाघवर्थे प्रमाण 4 स्वरसाल्लघुनो ऽनित्यज्ञानत्वस्यैव तदौचित्यात् 5 ॥ भ्रमे ज्ञानत्वप्रमात्वयोर्व्याप्यवृत्तित्वा 6 व्याप्यवृत्तित्वेत्वेकसामग्रीप्रयोज्यत्वेपि त्वन्मते वेगविभागयोरिव युक्ते ।
प्रचीनपक्षनिर्देश एव साध्यान्तरमाह -- भ्रमावृत्तीति ॥ भ्रमावृत्तिकार्यता प्रमानिष्ठा कार्यता तदनवच्छेदकमित्यर्थः । अनित्ययथार्थज्ञानत्वं तादृशज्ञाननिष्ठकार्यतानवच्छेदकमित्येव साध्यकारणे ऽनित्यज्ञानत्वे व्यभिचारः । तस्यात्ममनःसंयोगादिहेतुनिरूपितकार्यतावच्छेदकत्वात् । भ्रमवृत्तित्वाच्च । अतो भ्रमावृत्तीत्येवमुक्तिः । अनित्यज्ञानत्वस्य च तादृशघटादिनिष्ठकार्यतानवच्छेदकत्वान्न दोषः -- नचैषामिति ॥ त्रयाणामित्यर्थः । भ्रमेपीत्यनेनाद्यन्तयोरसिद्ध्युद्धारः -- प्रमात्वस्येति ॥
अनित्यप्रमात्वस्यानित्यज्ञानत्वघटितत्वादित्यर्थः ॥
यद्वा प्रमात्वस्य ज्ञानत्वघटितत्वे ऽनित्यप्रमात्वस्यानित्यज्ञानत्वघटितत्वमर्थसिद्धमिति प्रमात्वस्येत्येवोक्तम् - लघुन इति ॥ प्रमात्वस्य विषयसत्वघटितत्वेन गुरुत्वमिति भावः ॥
1. चैषां-ग-कुं. 2. लघा-ग. तल्ला-क. 3.वप्रमा-मु-ध्वर्ये-च. 4.प्रसरात्-क-छ. 5.ऽभ्रमत्ववत्ऽ इत्यधिकं-छ. । अयङ्ग्रन्थः-कुं. पुस्तके कुण्डलितः-च. पुस्तके स्खलितः हंसपादेन पूरितः-क. पुस्तके ऽविभागयोरिवऽ एतावत्पर्यन्तमेव वर्तते . 6. अव्याप्यवृत्तित्वे इति नास्ति - छ.
उत्तौ-स्वतस्त्वे-नुनि) प्रामाण्यवादः पु - 211.
------------------- ----------- ----------
त्वन्मते वेगविभागयोरिव युक्ते । मन्मते तु प्रकारांशे प्रमात्वापवादक 1 स्य दोषस्य सत्वात्तद्भवो युक्तः ॥
ननु विभागस्याव्याप्यवृत्तित्वं 2 स्वात्यन्ताभावसामानाधिकरण्यम् । अत्यन्ताभावस्या 3 धिकरणविशेषसम्बन्धः स्वरूपानतिरिक्त इति न हेतुसापेक्ष इति चेत्तुल्यं प्रमात्वेपि ॥ अनित्यप्रमात्वं दोषविरोधिवृत्तिधर्मावच्छिन्नकारण 4 त्वप्रतियोगिककार्यतवच्छेदकं दोषजन्यवृत्तित्वात् । भ्रमत्ववत् । दोषविरोधी गुणो दोषाभावश्चेति स्वतस्त्वसिद्धिः ।
अनित्यप्रमात्वमप्रमाकारणतावच्छेदकरूपावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं भ्रमावृत्तिकार्यतावच्छेदकत्वात् घटत्ववदिति मण्युक्तस्य प्रत्यनुमानमाह -- अनित्यप्रमात्वमिति । दोषः पित्तादिः । तद्विरोधिवृत्तिधर्मो गुणत्वादिरूपः । तदवच्छिन्नेत्यर्थः । दोषजन्यवृत्तित्वादिति हेतोरसिद्ध्युद्धारः प्राग्वत् ॥
ननूक्तानुमानेन दोषविरोधिनो गुणस्या 5 हेतुत्व 6 लाभेपि दोषाभावस्य हेतुत्वानिवारणात् ज्ञानहेत्वधिकजन्यत्वात् प्रमात्वस्य ज्ञानहेतुमात्रजन्यत्वक्षतिरित्यत आह -- दोषविरोधीति ॥ विरोधित्वं च
सहनवस्थानित्यत्वं 7 त्वा तन्निश्चयप्रतिबन्धकनिश्चयविषयत्वं वोभयानुगतम् । प्रतिबन्धकत्वं च तदनुत्पादव्याप्यत्वमिति भावः ॥
1.दस्य-कुं-ग-क. 2. स्वपदं न -क-ख-छ. 3. स्यचाधि-क-ख-च-छ. 4. ताप्र-क-च-ख. 5. स्यहे-कुं. 6.
त्वाला-कुं. 7. ऽवाऽ इति नास्ति -अ.
न्यायदीपयुततर्कताण्डवम् ( प्र,परिच्छेदः पु - 212.
---------------------- ------------- -----------
अनित्यप्रमात्वं न कार्यतावच्छेदकम् । तथात्वे बाधकवत्वात् । घटज्ञानत्ववत् । न चासिद्धिः । अनुगतकारणाभावरूपस्य बाधकस्योक्तत्वात् ॥
प्रत्यत्रादिप्रमासु प्रत्येकानुगता गुणा इति पक्षे अनित्यप्रत्यक्षप्रमात्वं न विषयजन्यतावच्छेदकं, न षड्विधसन्निकर्षान्यतरजन्यतावच्छेदकं वा । तदजन्यवृत्तित्वात् । घटत्ववत् । न चासद्धिः । योगिप्रत्यक्षादेर्विषयेण षड्विधसन्नकर्षान्यतरेण याजन्यत्वात् ।
अनित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मत्वात् अप्रमात्ववदिति मण्युक्तस्य प्रत्यनुमानमाह --

अनित्यप्रमात्वमिति ॥ अत्र पूर्वत्र च सिद्धसाधनताव्युदासायानित्येति प्रमात्वविशेषणम् -- तथात्वे ॥ कार्यतावच्छेदकत्व इत्यर्थः -- बाधकेति । स्वावच्छिन्नकार्यताप्रतियोगकानगतैककारणासम्भवरूपबाधकवत्वादित्यर्थः -- घटेति ॥ घटज्ञानमात्रेनुगतकारणाभावाद्घटज्ञानत्वं नावच्छेदकमित्युपपादितमधस्तदिति भावः-- उक्तत्वादिति ॥ प्रमामात्रानुगतगुणभङ्ग इत्यर्थः -- इति पक्षे इति ॥ विरोध्यनुमानमुच्यत इति योज्यम् ॥
विषयत्वं गुण इति पक्षमुपेत्याह - न विषयेति । इन्द्रियसन्निकर्षो गुण इति पक्ष आह -- न षड्विधेति ॥ अन्यतरेति ॥ अन्यतमेत्यर्थः । साधुत्वं पूर्वमुक्तं ध्येयम् । प्रागुपपादितमेव स्मारयति -- योगिप्रत्यक्षादेरिति ॥ सामान्यप्रत्यक्षासत्तिजप्रत्यक्ष 1 मादिपदार्थः ।
1. प्रमा आदि - कुं.
उत्तौ-स्वस्त्वे-नुनि) प्रामाण्यवादः पु - 213.
------------------ -------------- ----------
अनुमितिप्रमात्वं सत्यलिङ्गपरामर्शत्वावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं 1 असत्यलिङ्गपरामर्शजन्यवृत्तित्वात् भ्रमत्वात् । शाब्दप्रमात्वं विवक्षितार्थतत्वज्ञानत्वावच्छिकारणताप्रतियोगिककार्यतानवच्छेदकं विवक्षितार्थतत्वज्ञानाजन्यवृत्तित्वात् भ्रमत्वात् ॥
न 2 च तर्ह्यावश्यकत्वाद्विषयसत्वमेव प्रमाप्रयोजकं न तु दोषाभावापेक्षेति वाच्यम् । शुक्तौ रूप्यभ्रमकाले शुक्तित्वादेर्विषयस्य सत्वेपि दोषरूपप्रतिबन्धेन शुक्तित्वादिप्रमाव्यतिरेकात् 2 ॥
अनित्यप्रत्यक्षप्रमात्वानुमितिप्रमात्वशाब्दप्रमात्वानि दोषविरोधवृत्तिधर्मावच्छिन्नकारणताप्रतियोगिककार्यतानवच्छेदकानि दोषजन्यवृत्तित्वात् भ्रमत्ववत् 3 ॥
अन्यतरेणेति ॥ अन्यतमेनेत्यर्थः । अनुमितिशाब्दप्रमयोरपि गुणाजन्यत्वे क्रमेणानुमाने 4 आह -- अनुमितीत्यादिना ॥ विवक्षितार्थतत्वज्ञानं गुण इति मत आह -- विवक्षितेति ॥
प्रत्येकमुक्त्वा मिलित्वापि दोषाभावस्याप्यहेतुत्वलाभायाह -- प्रत्यक्षेति ॥ दोषविरोधीति ॥ स च गुणो दोषाभावश्चेति स्वतस्त्वसिद्धिरिति भावः -- असिद्धिरिति ॥ उक्तहेतूनामित्यर्थः ।
1. सत्यलिङ्गपरामर्शजन्यवृत्तित्वादित्यपि कुण्डलितं वर्तते - कुं. 2. अयं ग्रन्थः नास्ति -कुं-छ-ग-ख. 2-3.अतन्मध्यस्थः नास्ति-क. 4.नान्याह-कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 214.
---------------------- ---------------- ----------
नचासिद्धिः । करादौ चरणादिभ्रमजन्ये पुरुषज्ञाने प्रमात्वस्य सत्वात् । यथार्थयोग्यताज्ञानं न शाब्दप्रमाजनकम् ।
तद्व्यतिरेकापादनप्रयोजकापदनविषयव्यतिरेकाप्रतियोगित्वात् । पाकजगन्धे रसप्रागभाववत् ॥
अन्त्यहेतोर्घम्यंश इत्यादिपूर्वग्रन्थेनासिद्ध्युद्धारप्रकारस्य द्वितीयहेतोरपि संवादिशुकादिवाक्यजन्यज्ञाने भ्रान्तप्रकारकवाक्यजन्यज्ञाने 1 च पूर्वोक्तदिशा सत्वेन सिद्धत्वादाद्यस्य तं व्यनक्ति -- करोति ॥
न च शुकादिवाक्यजज्ञानेपि तादृशेश्वरज्ञानजन्यत्वसत्वादसिद्धिरेवेति शङ्क्यम् । तस्य भ्रमसाधारणोपादानादिगोचरज्ञानत्वेनैव जनकतयात्राभिमतस्य विवक्षितार्थतत्वज्ञानत्वादिना रूपेणाजनकत्वादित्युक्तत्वात् ॥
योग्यताज्ञानं गुण इति मत आह -- यथार्थेति ॥ योग्यता च वाक्यार्थरूपसंसर्गसत्वं वा प्रागुक्तदिशा तद्व्याप्यमन्यद्वेति भावः -- तदिति ॥ शाब्दप्रमाव्यतिरेकापादाने प्रयोजकं निमित्तं यदापादनं तद्विषयेत्यर्थः । आपादानप्रकारश्चाग्रे व्यक्तः -- पाकजेति ॥ तत्र यदि रसप्रागभावो न स्यात्तदा गन्धो न स्यादिति नास्ति । रसप्रागभावस्य कारणातावादे मण्युक्तदिशा
कॢप्तकारणगन्धप्रागभावसाहित्यरूपान्यथा 3 सिद्धत्वेन गन्धव्यतिरेकापादनप्रयोजक 4 व्यतिरेकाप्रतोयोगित्वमत एव तदजनकत्वं चेति भावः -- उक्तरीत्येति ॥ प्रत्यक्षादावनुगतगुणभङ्ग उक्तरीत्येत्यर्थः ॥
1.च इति नास्ति-कुं. 2. ण जनकत्वस्याभावादित्युक्तत्वात्-मु-अ. 3.द्धिमत्वेन 4.आपादनविषयेत्यधिकं-अ.
उत्तौ-स्वतस्त्वे-नुनि) प्रामाण्यवादः पु - 215.
------------------ ----------- ----------
न चा 1 त्रासिद्धिः । उक्तरीत्या योग्यतायां स्वरूपतः सत्यामनन्वयनिश्चयविरहेणैव शाब्दप्रमोपपत्या यदि यथार्थयोग्यताज्ञानं न स्यात्तर्हि 2 शाब्दी 3 प्रमा न स्यादित्यापादनासम्भवात् ॥
यज्ञपतीति ॥ तन्मते हि स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तित्वमेव प्रमात्वस्य परतस्त्वमि 4 त्युपेत्याननुगतगुणजन्यत्वेनाप्येतत्सिध्यतीत्युक्त्वा
अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तीत्याद्यनुमानमुक्तम् । तत्प्रत्यनुमानमाह -- अनित्येति ॥ सिद्धसाधनतानिरासायानित्येत्युक्तिः ॥
स्वेति ॥ स्वस्यानित्यप्रमात्वस्य आश्रयमात्र 5 वर्ती धर्मः प्रत्यक्षत्वादिः तदवच्छिन्ना नानावृत्तिरनेकाश्रयवृत्तिश्च या 6 कार्यता तदाश्रयमात्रवृत्ति न भवतीत्यर्थः । अत्राद्यं मात्रपदं अनित्यप्रमात्वस्य स्वाधिकदेश 7 वृत्तिनानित्यज्ञानत्वेनावच्छिन्ननानावृत्तिकार्यताश्रय एव वर्तमानाद्बाधनिरासाय । द्वितीयमपि तन्निरासायैव । अन्यथा अनित्यप्रमात्वस्य तादृशप्रत्यक्षत्वानुमितित्वचाक्षुषत्वादिधर्मावच्छिन्नकार्यताश्रयवृत्तितया बाधापत्तेः । अत्रानित्यप्रमात्वकस्य स्वाश्रयमात्रवृत्तिप्रत्यक्षत्वादिधर्मसमानाधिकरणकार्यताश्रय एव 8 सत्वेन तद्वृत्तित्वाभावेन साध्यपर्यवसाने बाधात् ।
1.अत्रेति नास्ति-मु-च-ख. 2. श-छ. 3.यप्र-क-कुं. 4. त्यभिप्रे-अ. 5. त्रे वृत्तिधर्म-मु. 6.या इति नास्ति - कुं. 7.वर्तिना-मु. 8.एव इतिनास्ति-कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 216.
---------------------- ---------------- -----------
यज्ञपतिमते अनित्यप्रमात्वं न स्वाश्रयमात्रवृत्तिधर्मावच्छिन्ननानावृत्तिकार्यताश्रयमात्रवृत्ति । विषयमात्रोपाधिकधर्मत्वात् । घटज्ञानत्ववत् ॥
जन्यप्रत्यक्षप्रमात्वादेः पराभिमतावच्छेदक 1 त्वस्याभावेनैव साध्यपर्यवसानमिति भावः । स्वपदं 2 समभिव्याहृतपरम् । 3
तेन अप्रमात्वे व्यभिचारवारणाय विषयमात्रोपाधिकेति हेतौ विशेषणम् । अप्रमात्वस्याननुगतपित्तादिदोषजन्यतावच्छेदकधर्मावच्छिन्ननानावृत्तिकार्यताश्रयमात्रवृत्तित्वेन विपक्षत्वेपि भ्रमविषयतदभावघटितत्वेन हेत्वभावात् । विषयोपाधिकेत्युक्तावप्युक्तदोषातादवस्थ्यान्मात्रेत्युक्तिः । विषयोपाधिकत्वे सति तदितरानुपाधिकत्वं हि तदर्थः । तत्र ज्ञानान्यतदितरानुपाधिकेत्यर्थो ध्येयः । तेन च प्रमात्वस्य विषयेतरज्ञानोपाधिकत्वादिसिद्धिः दृष्टान्ते साधनवैकल्यामिति शङ्कानवकाशः । विषयपदं च स्वविषयपरम् । तेन घटपटान्यतरत्वे

ज्ञानविषयघटपटमात्रोपाधिकहेतुरिति स्वाश्रयमात्रवृत्तिघटत्वपटत्वावच्छिन्ननानावृत्तिकार्यताश्रय एव वर्तमाने साध्याभावाद्व्यभिचार इति शङ्कानवकाशः । यद्वा विषयतयोपाधित्वविविक्षाया अग्रे 4 स्पष्टत्वात्स्वेति न देयम् । तावतोक्तस्थले व्यभिचारनिरासात् ॥
घटज्ञानत्ववदिति ॥ तत्र तद्व्याप्यस्य कार्यतावच्छेदकस्य कस्यचिदभावात् स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तित्वाभावरूपसाध्यमस्ति । न च तत्रापि घटप्रत्यक्षं धटानुमितित्वमित्यादिरेव
तद्व्याप्योस्तीति शङ्क्यम् । घटप्रत्यक्षत्वाद्यवच्छिन्नकार्यताप्रतियोगिकानुगतैककारणाभावान्न घटप्रत्यक्षत्वादिकमवच्छेदकम् ।
1. त्वाभा-कुं. 2. च-मु.अ. 3.तेनेति नास्ति-कुं. 4. स्फुदत्वात्-मु.
उत्तौ-स्वतस्त्वे-नुनि) प्रामाण्यवादः पु - 217.
---------------- ------------ ---------
तत्तत्प्रागभावनिरूपितकार्यताश्रय 1 त्वेन बाध इति शङ्कानिरासाय नानावृत्तीत्युक्तम् । 2 नात्रासिद्धिः । प्रमात्वस्य विषयमात्रोपाधिकत्वात् ॥
न च विषयजनितं ज्ञानं प्रत्यक्षमिति मते प्रत्यक्षज्ञानत्वे व्यभिचार इति वाच्यम् । विषयस्य विषयतयोपाधित्वस्य विवक्षितत्वात् । प्रत्यक्षज्ञानत्वे च तस्य जनकतयोपाधित्वात् । यथावस्थितार्थविषकत्वरूपे 3 प्रमात्वे तु तस्य विषयतयोपाधितत्वात् ।
अस्तु वावच्छेदक 4 म् । अथापीश्वरज्ञानसाधारणं घटज्ञानं न तन्मात्रवृत्तीति भावः ॥
ननु साध्ये परानुक्तं नानावृत्तीति कार्यताविशेषणमधिकं किमर्थमुपात्तमित्यत आह -- तत्तदिति ॥ तत्तत्प्रमाव्यक्तिप्रागभावविरूपितकार्यतावच्छेदकं तत्तत्प्रमाव्यक्तित्वम् । तदवच्छिन्नकार्यता च तत्तद्व्यक्तिमात्रनिष्ठा न तु व्यक्तिद्वयनिष्ठा । तथाच तादृशकार्यताश्रयमात्रवृत्तित्वेन तदभावसाधने बाधः स्यात् । नानावृत्तीत्युक्त्या तदन्यकार्यतैव लभ्यत इति तदाश्रयमात्रवृत्तित्वाभावसाधने तु न बाध इति भावः ॥
इति मत इति ॥ विषयजन्यत्वं प्रत्यक्षलक्षणमिति मत इत्यर्थः -- प्रत्यक्षेति 5 ॥ तत्र स्वव्याप्यचाक्षुषत्वरासनत्वादिधर्मावच्छिन्ननानाधिकरणनिष्ठकार्यताश्रय -
वृत्तित्वस्यैव भावेन 6 विपक्षे विषयमात्रोपाधिकधर्मकत्व 7 सत्वादिति भावः । अप्रमत्वस्य साध्याभववत्वेपि हेतोरेवाभावान्न व्यभिचार इत्याह -- अप्रमात्वेति ॥
1.वृत्ति-क. 2.नचा-छ. 3.पत्वेतु-क. 4.त्वं-कुं. 5.क्षज्ञानेति-मु- क्षज्ञानत्वेति - अ. 6. वत्वेन - अ. 7.स्यासिद्धत्वात् - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 218.
----------------------- ------------ ----------
अप्रमात्वोपाधिभूतं विषयान्यथात्वं तु नाप्रमाया विषय इति 1 नाप्रमात्वे व्यभिचारः॥
भ्रमे पित्ता 2 दिरिव प्रमायाम 3 नुगता एव गुणा हेतव इति मते । संशयोत्तरप्रमात्वं
सत्यविशेषदर्शनत्वानच्छिन्नकारणताप्रतियोगिककार्यतानवच्छेदकं
असत्यविशेषदर्शन 4 जन्यवृत्तित्वात् ज्ञानत्ववत् । संशयोत्तरप्रमा विशेषप्रमाजन्या न । तां विनाप्युपपन्नत्वात् भ्रमवत् । अत्रासिद्धिः प्रागेवोद्धृता ।
इति मत इति ॥ विरोध्यनुमानं स्वतस्त्वसाधकमुच्यत इति योज्यम् । संशयाद्युत्तरप्रमायां विशेषप्रमा गुण इति वादिनं प्रत्याह -- संशयेति ॥ एतच्च सिद्धसाधनतावारणाय विशेषणम् । संशयोत्तरप्रमाविशेषदर्शनजन्या नेत्येवोक्तौ ज्ञानवदिति दृष्टान्तोक्तौ च तत्र साध्यहीनतया स्यादतस्तत्र प्रमात्वमित्युक्तिः -- सत्येति ॥ यथार्थेत्यर्थः । असत्यमयथार्थं यद्विशेषदर्शनं करादौ चरणादिभ्रमरूपं तज्जन्यसंशयोत्तरप्रमावृत्तित्वादित्यर्थः ॥
ननु संशयोत्तरप्रमायां न सर्वत्र विशेषप्रमाहेतुः । करादौ चरणादिभ्रमजन्यसंशयोत्तरप्रमादिभिन्नस्थल एवेत्यतस्तदनुरोधेनाप्याह -- संशोत्तरप्रमेति ॥ तां विनापीति ॥ दोषाभावे 5 प्युपपन्नत्वादित्यर्थः--अत्रेति ॥ हेतुद्वय इत्यर्थः -- प्रागिति ॥"करादौ
चरणादिभ्रमजन्य"इत्यदिना"एवं भ्रमोत्तरप्रमायामपि"इत्यादिना च ग्रन्थे नाननुगतगुणभङ्गः एवेत्यर्थः ॥
1.नप्र-छ. 2.दय-ग. 3.ननु-च-छ-ग-क. 4.जन्यपदं न -ख. 5.वेनाप्यु-अ.
उत्तौ-स्वतस्त्वे-नुनि) प्रामाण्यवादः पु - 219.
------------------ ----------- -------------
भूयो ऽवयवेन्द्रिसन्निकर्षो न प्रमाया 1 मसाधार 2 णकारणम् । भ्रमजनकत्वात् । मनःसंयोगवत् । प्रमा 3 भ्रमसाधारणकारणातिरिक्तकारणा 4 जन्या । भ्रमधर्मिकान्याभावाप्रतियोगित्वात् । अनन्यथासिद्धतदन्वयव्यतिरेकानुविधानरहित्वाच्च । भ्रमवत् ॥
भूयो ऽवयेन्द्रियसन्नकर्षो गुण इति पक्षनिरासकमनुमानमाह -- भूय इति ॥ अत्राप्यसिद्धिः पीतःशङ्ख इत्यादिभ्रमजनकत्वाद्युक्त्या प्रागेवोद्धृतेति भावः ॥
प्रमा ज्ञानहेत्वतिरिक्तहेतुजन्येति प्रचीनानुमानस्य प्रत्यनुमानमाह --- प्रमेति ॥ अतिरिक्तकारणपेदन गुणो दोषाभावश्चाभिमतः । भ्रमधर्मिकेत्यादिहेतोरप्यसिद्धिः ।"भ्रमेपि धर्म्यंशप्रमायां"इत्यादिना प्रागेवोद्धृतेति भावः ॥
तार्किकमतेप्य 5 त्यन्ताभावस्याव्याप्यवृत्तित्वेन भ्रमे प्रमात्वत्तदत्यन्ताभावयोरंशभेदेन सत्वेप्यन्योन्याभावस्याव्याप्यवृत्तित्वाभावेन 6 प्रमान्योन्याभावस्याव्याप्यवृत्तित्वाभावेन 6 प्रमान्योन्याभावस्य भ्रमे सर्वथैवाभावादिति भावः -- अनन्यथेति । अत्रापि गुणानां विरोधिदोषनिरासोपयोगस्योक्तत्वान्नासिद्धिरिति भावः ॥
1.असा-कुं. 2.णं-क-च-ख-छ. 3.नभ्र-मु-च-छ-क-ख. 4.णज-मु-च-छ-क-ख. 3.अपिपदं न -मु-अ. 6.एतन्नास्ति-मु-अ.
न्यायदीपयुततर्कताण्डवम् ( प्र. परिच्छेदः पु - 220.
---------------------- ------------- ----------
अत्र सर्वत्रापि हेतूच्छित्तिरेव बाधिकेति ना प्रयोजकतेति दिक् ।
एतदप्युक्तम्"अन्यथेत्यादिना"॥ उक्तसाध्यानि विनोक्तहेतूनां पक्षे ऽवस्थित्ययोगादित्यर्थः ॥
1 उत्पत्तौ स्वतस्त्वे 2 ऽनुमानानि

11.16

दिगिति ॥ प्रमा गुणजन्या न भवति प्रमात्वादीशप्रमावत् । 3 प्रमा दोषविरोधिजन्या न भवति प्रमात्वा 3 दीशप्रमावदित्यादिरूहनीय इति भावः ॥
उत्पत्तौ स्वतस्त्वे ऽनुमानानि

11.17

अप्रमायां त्वदन्यथासिद्धान्वयव्यतिरेकित्वाद्दोषः कारणम् । क्वचित्सादृश्यादिके दोषे सत्यपि ------
ननु प्रमायां गुणस्येव भ्रमेप्यन्वयव्यतिरेकव्यभिचाराद्भ्रमविरोधिगुणनिरासादावुपक्षयेनान्यथासिद्धेश्च दोषो न हेतुरिति सोपि स्वतः स्यादित्यतः"परतोप्रामाण्यम्"इति तत्वनिर्णयाद्युक्तप्रमामाण्यस्य परतस्त्वं साधयितुमुक्तदोषं निरस्यन्भ्रमे दोषस्य हेतुत्वमाह --अप्रमायान्त्विति ।. हेतोर्विशेष्यासिद्धिम् -- निराह -- क्वचिदिति॥
1.इति 2.स्यानु-मु.च-ख. 3. एतन्नास्ति-अ.
अप्रामाण्यस्य परतस्त्वम्) प्रामाण्यवादः पु - 221.
-------------------- ---------- ----------
-- भ्रमानुत्पत्तिरसंसर्गाग्रहादिहेत्वन्तरवैकल्यादिति नान्वयव्यभिचारः । विसंवादिशुकादिवाक्येपि दोषस्योक्तत्वान्न व्यतिरेकव्यभिचारोपि ॥
न च प्रमायां गुणः प्रतिबन्धकस्य दोषस्येवाप्रमायामपि दोषः प्रतिबन्धकस्य गुणस्य दोषाभावस्य वा निरासक इत्यन्यथासिद्ध इत्यप्रामाण्यमपि स्वतः स्यादिति वाच्यम् ।
"कारणे सत्यपि कार्यानुत्पादस्य सामग्र्यभावेनोपपत्तेः"इति तत्वनिर्णयटीकां हृदि कृत्वाह -- असंसर्गाग्रहादीति ॥ विशेषादर्शनादिरादिपदार्थः ॥
एतेन यादृच्छिकसंवादिन्यपि दोषस्य व्यभिचारो निरस्तः । तत्र विषयासत्वादिसहकारिविरहात् ॥
उक्तत्वादिति ॥ भूयो ऽवयवेन्द्रियसन्निकर्षादिहेतुत्वभङ्गे"
तत्राप्यनित्यवाक्यदोषस्य विवक्षितार्थतत्वज्ञानाभावस्य"1 चेत्यादिनोक्तत्वादित्यर्थः । अनन्यथासिद्धेत्यादिहेतोर्विशेषणासिद्धिमाशङ्क्य निराह -- नचेति । प्रतोबन्धकस्येति ॥ प्रतिबन्धकस्येति ॥ प्रमाप्रतिबन्धकस्य दोषस्य यथा निरासकस्तथाप्रमाप्रतिबन्धकस्य गुणस्येत्यर्थः ॥
दोषस्यान्यथासिद्धिं वदता हि गुणस्य प्रतिबन्धकत्वमुपेत्य तदभावस्य भ्रमे कारणत्वं वा प्रमायां दोषाभावस्येव प्रयोजकत्वं 2 वा वाच्यं । आद्ये भ्रमस्य न स्वतस्त्वापत्तिः । द्वितीये किं गुणाभाव एव प्रयोजकोर्ऽथोत्तेजकाभाविशिष्टगुणः प्रतिबन्धकः तदभावश्च प्रयोजक इति वा नाद्यः ।
1.स्यवाइ-कुं-स्येवे-अ. 2.ऽवाऽ इति नास्ति - मु.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 222.
----------------------- --------------- ---------
पीतःशङ्खः इत्यादिप्रत्यक्षे भूयो ऽवयवेन्द्रियसन्निकर्षे 1 शङ्खत्वादिविशेषदर्शनादिरूपे गन्धप्रागभावावच्छिन्नो घट 2 इत्यानुमाने सत्यपरमार्शरूपे घटोस्तीति वक्तव्ये पटोस्तीति वाक्य 3 जन्यज्ञाने विवक्षितार्थतत्वज्ञानरूपे च गुणे सत्यपि पित्तबाधप्रमादरूपेण दोषेण भ्रमेत्पादनेन दोषस्य गुणनिरासोपक्षीणत्वायोगात् । स्वा 4 भावनिरासोपक्षीणत्वेनान्यथासिद्धौ च सहकारिमात्रापलापप्रसङ्गात् ॥
व्यभिचारादिति भावेनाह -- पीतःशङ्ख इत्यादिना ॥ विशेषदर्शनादिरूप इति ॥ पीतत्वाद्यसंसर्गग्रह आदिपदार्थः । सप्तम्यन्तरूपपदानां गुणपदेनान्वयः ॥
ननु क्वचित् किश्चद्गुण इत्यननुगणपक्षे पीतःशङ्खः इत्यादौ विपरीत 5 प्रत्यक्षादिरेव तश्चदन्यो गुणः । स तत्र वदन्तं प्रत्याह --
गन्धेति ॥
6 यद्वा विशेषप्रमा गुण इति मते व्यभिचारोक्तिरियमित्युपेत्य प्रत्यक्षादिभ्रमत्रयेपि गुणाभावव्यभिचारोक्तिरियमिति बोध्यम् ॥
पित्तेति ॥ प्रत्यक्षे पित्तं अनुमाने बाधः शाब्दे प्रमादो दोषः इति विवेकः। दोषाभावस्य वा निरासक इत्येतन्निराह -- स्व 7 भावेति ॥ सहकारीति ॥ दण्डचक्रादेरपि स्वा 8 भावनिरासोपक्षयेण मृत्पिण्ड एक एव हेतुर्न कश्चिदपीति
स्यादित्यतिप्रसङ्ग इत्यर्थः।
र्1.ष-छ-ग-कु. 2.टो-गन्धवान् पृथिवीत्वादित्या -मु-च. 3. जज्ञाने-च-ह-क. 4.स्वभा-छ. 5.ताप्र-कुं. 6.यद्वा दोषप्र-अ. 7.स्वाभा-कुं 8.स्वभा-मु.
अप्रास्य-पस्त्वं) प्रामाण्यवादः पु - 223.
------------ ------------ -----------
ननु तथाप्यौत्सर्गिकस्याप्रमाण्यस्य क्वचिद्गुणः प्रतिबन्धकः । पीतःशङ्ख इत्यदौ तु विषयासत्वमृतेजकम् । त्वन्मते यादृच्छिकसंवादिलिलिङ्गाभावसादौ प्रमाप्रतिबन्धकस्य दोषस्य विषसत्वमिवेति चेन्न । अयथार्थधूमज्ञानेन ज्ञापनीयस्य वह्नेर्दैवात्सत्ववद्गुणेन ज्ञाननीयस्य श्वैत्यादेः शङ्खे सत्वेन 1 विषयासत्वस्याभावात् । आरोप्यपीतत्वासत्वस्य च दोषापगमदशायामपिसत्वेन तदापि भ्रमापातात् ॥
द्वितीयकल्पेप्युत्तेजकं किं विषयासत्वमथ पित्तादिदोषः । आद्यमाशङ्कते -- नन्विति ॥ औत्सर्गिकस्येति ॥ कारणगतसहजशक्तिजन्यस्येत्यर्थः -- क्विचिदिति ॥ प्रमोत्पत्तिस्थल इत्यर्थः -- उत्तेजकमिति ॥ तथाच तदभाविशिष्टगुणाभावोप्रामाण्ये प्रयोजक इत्युक्तस्थलेषु तदभवादेव प्रमाया अभावे कारणगतसहजशक्त्यै 2 वाप्रमोत्पादो न दोषरूपहेतुबलेन । दोषस्तु तत्रावर्जनीय सन्निधिरेवेति भावः -- त्वन्मत इति ॥"यादृच्छिकस्य 3 विषयसत्वस्योत्तेजकत्वेने 4"त्यादिना दोषाभावहेतुत्वभङ्गे तथोक्तेरिति भावः॥
विषयासत्वमित्यत्र विषयपदेन गुणेन ज्ञाप्यो विषयो अभिमतः उत भ्रमविषय इति विकल्प्याद्यं निराह -- अयथार्थेति ॥ द्वितीयं निराह -- अरोप्येति ॥ तदापीति ॥ प्रतिबन्धकस्य गुणस्योत्तेजकयुक्तत्वेनोत्तेजकाभावविशिष्टगुणाभावस्य सत्वादिति भावः ॥
1. अयं ग्रन्थः नास्ति - कुं-ख. 2.वप्र-मु. 3. कवि-कुं. 4.त्वात् इ-कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 224.
--------------------- ------------ ---------
अस्तु तर्हि पित्तादि 1 दोष उत्तेजक इति चेत्तर्हि दोषाभावविशिष्टस्य गुणस्याभावो भ्रमे2 प्रयोजक इत्युक्तं 3 स्यात् ॥ ततो वरं दोष एव 4 प्रयोजक इति लाघवात् । दोहे तु नोत्तेजक एव हेतुः । तस्मिन्नसत्यपि दाहदर्शनात् । भ्रमस्य नासति दोषे दृष्टः ॥
किञ्च यादृच्छिकसंवादिलिङ्गशब्दाभासादिज्ञाने --------
द्वितीयं शङ्कते - अस्त्विति ॥ पित्तादिरि 5 ति ॥ काचकामलादिरादिपदार्थः -- उत्तेजक इति ॥ औत्सर्गिका 6 प्रामाण्यप्रतिबन्धकगुणस्येति योज्यम् ॥
दोष एव प्रयोजक इतीति ॥ ननु प्रमायां दोषाभाव इव दोषो भ्रमप्रयोजकश्चेदपि नाप्रामाण्यचस्य स्वतस्त्वभञ्जक इति चेन्न । तद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगित्वरूपकुलालपितृसाधारणप्रयोजकत्वे लाघवतर्केणावश्यं प्राप्ते सति प्रतिबन्धखगुणनिरासोपक्षयाभावे चोक्तदिशा सिद्धे सति प्रागुक्तानन्यथासिद्धान्वयव्यतिरेकहेतुबलेन कारणत्वमेव दोषस्य सिद्ध्यतीति तात्पर्यम् । अत एवोत्तरवाक्ये हेतुपदप्रयोगः ॥
दाहदर्शनादिति ॥ मण्याद्यभावस्थल इति भावः । अस्तु भ्रमेप्येवमित्यत आह -- भ्रमस्त्विति ॥
दोषस्यान्वयव्यभिचारादुत्तेजकतया भ्रमहेतुत्वमयुक्तमिति भावेनाह -- किञ्चेति । ईश्वरज्ञानस्य सल्लिङ्गपरामर्शरूपत्वेन यथार्थवाक्यार्थज्ञानत्वेन गुणत्वाङ्गीकारात्वन्नयेनेत्युक्तम् ।
1.दिर्दे-छ-क. 2.म-कुं. 3.क्तः-छ. 4.तत्रोत्तेजक-छ. 5.दीति-कुं. 6.कप्रा-मु.
अप्रास्य-परतस्त्वं) प्रामाण्यवादः पु - 225.
---------------- ------------ ----------

गुणे त्व 1 न्नयेन विद्यमाने 2 मन्नयेनाविद्यमाने चोत्तेजकस्य दोषस्य सत्वेनौत्सर्गिकमप्रमायां स्यात् ॥
ननूत्तेजकस्य दोषस्य विषयसत्वं प्रतिबन्धकमिति चेत्तर्हि विषयसत्वाभावविशिष्टो यो दोषस्तदभावविशिष्टस्य गुणस्याभावो
भ्रमप्रयोजक
इत्युक्तं स्यात् । स च दोषापेक्षयातिगुरुः । तस्माद्भ्रमे 3 अर्थस्यासत्वेन सन्निकर्षा 4 सम्भवेन तत्स्थानीयस्य दोषस्यावश्यकत्वात् । पित्तादिदोषोत्कर्षेण भ्रमोत्कर्षदर्शनात् । अनन्यथासिद्धान्वयव्यतिरेकित्वाच्चाप्रमायां दोषो हेतुरित्यप्रामाण्यं परत एव ॥
उक्तं हि भगवत्पादैः ।"परतो ऽप्रामाण्यं"इति ।
भ्रमसाधारण्येन हेतुतया गु 5 णत्वेनाहेतुत्वान्मन्नयेनाविद्यमान इत्युक्तम् -- औत्सर्गिकं ज्ञानजननशक्तिप्रयुक्तमित्यर्थः । सिद्धान्ते तु सत्यपि दोषे भ्रमरूपकार्यानुत्पादौ हेत्वन्तरवैकल्यादित्युक्तत्वान्नान्वयव्यभिचार इति भावः ॥
नन्वेवं सत्यप्युत्तेजके कार्यानुत्पादे हेत्वन्तरवैकल्यनिमित्तकः विषयासत्वरूपहेत्वन्तरसापेक्षजन्यत्वात्तस्येति भावेन शङ्कते -- नन्विति ॥ तस्मादिति ॥ दोषस्य गुणनिरासोपक्षयाभावादित्यर्थः । तावता कथं भ्रमहेतुत्वमित्यतो हेतुत्रयमाह -- भ्रम इत्यादिना ॥ उक्तं हीति ॥
1.त्वन्व-छ. 2.ऽमन्नयेनाविद्यमाने ऽ इतिनास्ति-छ. 3.विषयस्यास-छ-क. 4. भिन्नं पदं -कुं-क-ख. 5. णेनाहेतुत्वन्वयेनावि - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.पिरिच्छेदः पु - 226.
----------------------- --------------- ----------
परतः अववादात् न तु प्रामाण्यमिव स्वतः उत्सर्गत इत्यर्थः ॥
1 अप्रामाण्य 2 पततस्त्वम्

11.17

विष्णुतत्वनिर्णय इत्यर्थः ॥
अप्रामाण्यस्य परतस्त्वम्

11.18

करणगस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य तु ज्ञानजनकत्वग्राहकमात्रग्राह्यत्वरूपं ज्ञप्तौ स्वतस्त्वम् । अयथार्थज्ञान 3 साधनत्वरूपाप्रामाण्यस्य 4 तु ज्ञानजनकत्वग्राहकमात्राग्राह्यत्व 5 रुपं परतस्त्वम् ।-------------------------------------------------------------------------
नन्वस्त्वेवमुक्तदिशा ज्ञानप्रामाण्यस्योत्पत्तिज्ञप्त्योः स्वतस्त्वमथापि स्वतः प्रमाणैराम्नायैरित्युक्तिरयुक्ता । तत्प्रमाण्यस्योत्पत्तौ 6 स्वतस्त्वेपि ज्ञप्तौ पद्धत्युक्तदिशा तदभावादित्यत आह -- करणेति ॥ स्वतस्त्वस्य स्पष्टत्वाय यथार्थज्ञानसाधनत्वरूपेति प्रामाण्यं विशेषितम् -- ज्ञानेति ॥ ज्ञानजनकत्वग्राहकं च रूपादिज्ञानं करणसाध्यं कार्यत्वाच्छिदादिकार्यवदित्याद्यनुमानं वा चक्षुरादि ज्ञानजनकमित्यादिवाक्यं वा तन्मात्रग्राह्य 7 त्वरूपमित्यर्थः । ज्ञानजननशक्तेरेव प्रमाजननशक्तित्वादिति भावः ॥
"अप्रमाण्यं तथान्यत"इत्यनुव्याख्याने"परतोप्रामाण्यम्"इति तत्वनिर्णये चोक्तेराह -- अयथार्थेति ॥ मात्रेत्युक्त्या सूचितमधिकं ग्राहकं व्यनक्ति -- दोषादिति ॥
1.इत्यप्र-छ. 2.स्यप-ग-ख.क. 3.जनकत्व-छ. 4.तु-इतिन -ख. 5.त्वंपर-छ-ग-ख-क. 6.स्वतस्त्वेपि ज्ञप्तौऽ इतिनास्ति-कुं. 7.ह्य रू - कुं.
करणप्रामाण्यस्य स्वतस्त्वम् ) प्रामाण्यवादः पु - 227.
--------------------------- -------------- ----------
दोषादिज्ञानं विना भ्रमजनकत्वस्याज्ञानात् ॥
या तु पद्धतौ"करणप्रामाण्यज्ञप्तिस्तु परत एव । इन्द्रियलिङ्गशब्दानां यथायथमनुमानत्वस्य 2 त्वनुमानवेद्यत्वात्"
इत्युक्तिः सा करणग्राहक 3 मात्रग्राह्यत्वरूपं स्वतस्त्वं नेत्यभिप्रेत्य ॥
अत एव सुधायां"करणानां 4 तु ज्ञप्तौ स्वतस्त्वं 5नास्त्येव"इत्यादिना पद्धत्युक्तम 6 पक्षमुक्त्वा"अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वम्"इति पक्षान्तरमुक्तम् ॥
करणगकतकाचाकामलासिद्ध्यव्याप्तिभ्रमप्रमादादिदोषाणामज्ञाने विसंवादाज्ञाने च भ्रमजनकत्वाज्ञानात् । पूर्वोक्तदिशा ज्ञानजनकशक्तेः सहजत्वेपि भ्रमजननशक्तेः काचादिकरणगतदोषाहित्वेन ज्ञानजननशक्त्य 7 प्रमाजननशक्त्योर्भेदेन ज्ञानजननशक्तिग्राहकमात्रेण भ्रमजननशक्तेर्ग्रहणायोगात् । दोषादिज्ञानानुविधानाच्च भ्रमजननशक्तिग्रहस्येति भावः ॥
स्वतस्त्वोक्तेः प्रमाणपद्धतिविरोधमाशङ्क्य तदभिप्रायमाह -- यात्विति ॥ सुधायामिति ॥ जिज्ञासाधिकरणे प्रत्यक्षवच्च प्रामाण्यमित्यत्रेत्यर्थः ॥
1.क्षवे-मु. 2.तत्तदनुमा-कुं. 3.मात्रपदं न -मु-च. 4.ऽतुऽ इति नास्ति-कुं. 5.नेत्यादिना -मु-च. 6.क्तप-च. 7.क्तिभ्रम-कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 228.
--------------------- ------------ ----------
उत्पत्तौ स्वतस्त्वं तु करणगतायाः यथार्थज्ञान 1 जननशक्तेः करणगता या करहेत्वासासादिता सहजा ज्ञानजननशक्तिस्तद्धत्सहजत्वं व तदभिन्नत्वं वा । अप्रमाजननशक्तिस्तु न सहजा किन्तु दोषाहितेत्यप्रामाण्यं परत इति दिक् ॥
"कारणानां च ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्वम्"इति सुधोक्तिं द्वेधा विवृण्वन्नाह -- उत्पत्ताविति ॥ करणगतस्य प्रामाण्यस्येत्यनुकर्षः । शक्तेरित्यस्य सहजत्वमित्यादिनान्वयः -- करहेत्विति ॥ एतच्च जन्यकरणाभैप्रायम् न त्वपौरुषेयवेदाभिप्रायम् । शक्तिर्भेदमुपेत्य तद्वत्सहजत्वमित्युक्तिः दोषेण प्रमाशक्तिप्रतिबन्धेपि ज्ञानशक्तेरप्रतिबन्धनिर्वाहार्था । शक्तेरेकत्वेपि विषयभेदेन प्रतिबन्धाप्रतिबन्धयोरुपपत्तेः ॥
सुधोक्तिस्वारस्यानुरोधेनाह -- तदभिन्नत्वं चेति ॥"वाक्यगते हि दोषास्तस्य यथार्थज्ञाननशक्तिं प्रतिबध्य विपरीतज्ञानजननशक्तिमाविर्भावयन्ति"इति तत्वनिर्णयटीकायां वाक्यपदं इन्द्रियादीनामौत्सर्गिकी शक्तिः प्रामाण्यजनने दोषापवादादित्यादिसुधानुरोधादुपलक्षणमुपेत्याह -- अप्रमेति ॥ करणगतेत्यनुकर्षः -- दोषाहितेति ॥
ननु यदि प्रमाजननशक्तिः ज्ञानजनकत्वग्राहकमात्रग्राह्या तर्हि भ्रमजननशक्तिरपि तथास्तम् 3 दोषादिज्ञानानुविधानात् 3 । सा परग्राह्या चेत् प्रमाजननशक्तिरपि गुणदोषाभावज्ञानानुविधानात्तथैव स्यात् । अप्रमाजनकत्वशङ्का 4 दिरूपविरोधिनिरासोपक्षीणं तच्चेत् दोषादिज्ञानानुविधानमपि तथा स्यात् ।
1.जनकत्व-ख. 2.ज्ञानपदमधिकं-कुं. 3.एतावन्नास्ति-कुं. 4.आदिरूपेति
नास्ति - मु.
क-प्रास्य-स्वस्त्वं) प्रामाण्यवादः पु - 229.
---------------- -------------- ---------
तथा यदि भ्रमजननशक्तिर्देषाहिता 1 तर्हि प्रमाजननशक्तिरपि गुणाहिता स्यात् । तस्याः सहजत्वे भ्रमजननशक्तिरपि तथा स्यात् । यदि दोषान्वयव्यतिरेकबलात् भ्रमाजननशक्तिर्देषाधीना तर्हि गुणानुविधानात्प्रमाजननशक्तिरपि गुणाधीना स्यात् । गुणानां विरोधिदोषनिरासोपक्षयेणान्यथासिद्धौ दोषाणामपि विरोधिगुणनिरासेनान्यथासि 2 द्धेः साम्यात् । गुणाभावसहकुतस्य करणस्य भ्रमजनकत्वे 3 न करणाप्रामाण्यस्य परतस्त्वे दोषाभावसहकुतस्य प्रमाजनकत्वात्प्रमाजनकत्वं परत एवेति स्यात् । दोषाभावस्य प्रयोजकत्वमेव न प्रमाजननशक्त्याधायकत्वं तर्हि गुणाभावस्याप्येवमिति सममिति चेन्न ।
ज्ञानप्रामाण्याप्रमाण्यस्वतस्त्वपरतस्त्वयोरुक्तसाधककलापस्याशेषस्यापि करणप्रमाण्याप्रामाण्यस्वतस्त्वपररतस्त्वयोरनुसन्धेयत्वात् । अभ्यासदशास्थले गुणाद्यनुसन्धानाभावेपि प्रमाजनकत्वज्ञानानुभवेन व्यभिचारात् । पीतः शङ्खैत्यादिभ्रमे विशेषदर्शनादिरूपे गुणे सत्यपि पित्तादिकरणदोषेण भ्रमोत्पादनेन गुणनिरासोपक्षीणत्वायोगादित्यादेरुक्तत्वादिति भावेनाह -- दिगिति॥
तथाह्यनुमानानि । प्रमाजननशक्तिः ज्ञानजनकशक्तिग्राहकमात्रग्राह्या तदन्याग्राह्यत्वे सति ग्राह्यत्वात् संमतवत् । यथार्थज्ञानजनकत्वं ज्ञानजनकत्वहेत्वधीनं न । ज्ञानजनकत्वाधिकरणमात्रवृत्तित्वात् ज्ञानजनकत्ववदित्यादिरूपेण ध्येयानि । भ्रमजनकेपि धर्म्यंशे प्रमाजनकत्वाभावान्नासिद्धिः । भ्रमजनकत्वे च यावज्ज्ञानजनकत्वाधिकरणे वृत्यभावान्न व्यभिचारः -- अप्रमाण्यमितीति ॥ करणगताप्रामाण्यमित्यर्थः ॥
1.तर्हीति नास्ति-मु. 2.द्धिः -मु. 3.सप्तम्यन्तं -मु.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 230.
---------------------- ------------- -----------
एतदप्युक्तम् ।"परतो ऽप्रामाण्य"मिति ॥ तस्मात्प्रामाण्यस्य स्वतस्त्वादपौरुषेयोपि वेदः प्रमाणमेव ॥
करणप्रामाण्य 1 स्य स्वतस्त्वम्

11.21

प्रामाण्यवादः समाप्तः.
ननु कथं 2 वेदास्यापौरुषेयत्वं । तत्र प्रमाणाभावात् । वाक्यत्वाद्यनुमानेन
"छन्दांसि जज्ञिरे"इत्यादिश्रुत्या"प्रतिमन्वन्तरं चैषां श्रुतिरन्या विधीयते"।
एवं न विलक्षणत्वा 4 दस्येति नयसिद्धं स्वतः प्रमाणैरितिश्लोकोक्तं प्रामाण्यस्वतस्त्वं समर्थ्य अधुना विलक्षणा 4-5 दिति हेतोरपौरुषेयत्वरूपवैलक्षण्यवत्वादित्यर्थान्तरोपगमेन ब्रह्मसूत्राभिमतमादिवर्जितैरिति श्लोकोक्तमपौरुषेयत्वं साधयितुं मणिकदाद्युक्तमाशङ्कते -- नन्विति ॥ वाक्यत्वादीत्यापदार्थव्यक्तिरग्रे परोक्तानुमानखण्डनप्रस्तावे ज्ञेया । मण्याद्युदाहृतश्रुतिस्मृती चाह -- छन्दांसीति ॥ -----------------------------------------------------------------------
1.ण्यस्य-छ. 2.मस्या-छ. 3.त्वगु-कुं. 4.अयं ग्रन्थः नास्ति-अ. 5.णत्वादि-मु.
वेदापौरुषेयत्वे अनुमानानि) वेदापौरुषेयत्ववादः पु - 231.
------------------------- ------------------- ------
इत्यादिस्मृत्या च पौरुषेयत्वसिद्धेश्चे 1 तिचेदुच्यते । ज्योतिष्टोमस्य स्वर्गसाधनत्वं वेदतात्पर्यविषयो वा पौरुषेयशब्देतरप्रमा 2 णकः ----
"न चापौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः"इति विष्णुतत्वनिर्णयवाक्यसूचितानां"धर्माधर्मस्वर्गनरकादिकं प्रमाणोपेतं वस्तुत्वा"दित्यादिना जिज्ञासाधिकरणसुधोक्तसामान्यपरिशेषनिष्कर्षभूतानामुक्त्या प्रमाणाभावादिति हेतुं तावन्निराह -- ज्योतिष्टोमस्येति ॥
विशिष्यैवं पक्षनिर्देशे तद्बोधकैवाक्यस्यापौरुषेयत्वासिद्धिर्न तु सर्वस्यापि वेदस्येत्यतः सामान्यपक्षनिर्देशमाह -- वेदेति ॥ यद्वा"यः शब्दो वक्त्रा यदिच्छया प्रयुक्तः स तत्पर इति तदिच्छया वक्तृप्रयुक्तशब्दगोचरत्वमेव शब्दतात्पर्यविषयत्वमितिवेदततात्पर्यपर्यालोचनया तस्य पौरुषेयत्वम्"इति मणिकृदुक्तिखण्डनाय वेदतात्पर्यविषय इति सामान्य 3 पक्षनिर्देशः । यद्वा अस्मिन्पक्षे सप्रमाणकत्वादिति हेतुर्वस्तुत्वादिहेतुना प्रसाध्याङ्गक इति भावेनाह -- वेदेति ॥
आपातप्रतिपाद्ये बाधवारणाय -- तात्पर्येति ॥ लौकिकशब्दतात्पर्यविषये बाधवारणाय वेदेति ॥
ननु कोयं वेदो नाम (1) यदि वेदपदार्थो वेदस्तर्हि इतिहासपुराणतात्पर्यविषये बाधः ।"इतिहाहपुराणः पञ्चमो वेदानां वेदः"इति तयोरपि वेदपदार्थत्वात् । (2) नापि वेदशब्दमुख्यार्थो वेदः । मुख्यत्वप्रयोजकप्रवृत्तिनिमित्तस्येतिहासादिव्यावृत्तिस्यानिरूपणात् । ( 3) नापि शाखासमुदायो वेदः ।
1.रिति-कुं-ग. 2.पकः-ख. 3.न्येन-मु.
न्यादीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 232.
---------------------- ------------- ---------
पौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वात् । यद्यदप्रमाणकत्वे सति सप्रमाणकं तत्तदितरप्रमाणकम् ।
शाखायाः 1 वेदैकदेशत्वेनान्योन्यश्रयात् । (4) नापि सन्दिग्धकर्तृकं वाक्यं वेदः । वादिप्रतिवादिनोर्निश्चयात् । मध्यस्थसन्देहेन पक्षातावच्छेदककरणे अन्योन्याश्रयात् । वादिप्रतिवाद्यनुमानान्तरभावित्वान्मध्यस्थसन्देहस्य । (5) नापि प्रमाणशब्दो वेद इति युक्तम् । भारतादौ गतत्वात् । (6) नापि यथार्थवाक्यर्थज्ञानाजन्यप्रमाणशब्दो वेद इति । परमते ऽप्रसिद्धेः । प्रमाणशब्दमात्रस्य तादृशेश्वरज्ञानजन्यत्वात् । (7) न च जन्ययथार्थवाक्यार्थज्ञानजन्यप्रमाणशब्दो वेद इति युक्तम् । संवादिशुकबालादिवाक्येपि गतत्वेन बाधापत्तेः । सिद्धान्तिमते
नित्यज्ञानव्यासप्रणीतभारतादावपि गतत्वाच्चेति चेत् ॥
उच्यते ।"(8) शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यथार्थवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्व"मिति मण्युक्तरीत्या वा (10)"क्रमा 2 विशिष्टावर्णा वेदः"इति सुधोक्तदिशा वा (11) वक्ष्यमाणदिशा साक्षाद्धर्मादिबोधकशब्दो वेद इति वा (12) प्रमाकरणामूलकत्वे सति प्रमाणशब्दो वेद इति वा ( 13) पूर्वतन्त्रे विधिमन्त्राधिकरणे मन्त्रपदार्थोक्तरीत्या वेद इत्यभियुक्तप्रयोगविषयो वा वेद इति 3 तन्निरुक्त्युपपत्तेः ।
आद्ये सत्यन्तमात्रस्य वेदसमानार्थस्मृतौ ग 4 तत्वाद्विशेष्यम् । वोदार्थस्य शब्दतदुपजीव्यनुमानविषयत्वादसम्भववारणाय शब्दतदुपजीविप्रमाणातिरिक्तेत्युक्तिरिति ॥
1.यां-कुं. 2.विशेषविशि-मु. 3.ऽइतिऽ इत्यन्तरं ऽवाऽ इति वर्तते-अ. 4.म-कुं.
वेदापौत्वे-ननि) वेदापौरुषेयत्ववादः पु - 233.
---------------- ---------------- -----------
वक्ष्यमाणरीत्या पक्षधर्मताबलादपौरुषेयशब्दसिद्धिः ॥
अपौरुषेयशब्दप्रमाणकत्वं वा साध्यम् । तत्र चेन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वं हेतुः ।
तात्पर्यं च तत्प्रमितिशेषत्वमित्यग्रे व्यक्तम् । तद्विष 1 यो ज्योतिष्टोमादिरित्यर्थः । साध्ये बाधवारणाय पौरुषेयेत्युक्तिः । स्वतन्त्रपुरुषपूर्वरकशब्देत्यर्थः । पौरुषेयेतरेत्येवोक्तौ यत्किञ्चित्प्रत्यक्षादिरूपपौरुषेयेतरप्रमाणकत्वेनाप्युपपत्तेः । पौरुषेयशब्द 2 सिध्यार्थान्तरवारणाय शब्दपदम् । पौरुषेयशब्दार्थे व्यभिचारनिरासाय 3 हेतौ सत्यन्तम् । अप्रयोजकतानिरासाय विशेष्यम् - यथासंमतमिति ॥ श्रोत्राद्यप्रमाणकत्वे सति सप्रमाणकं रूपं श्रोत्रादीतरचक्षुःप्रमाणकमित्यर्थः ॥
ननु प्रत्यक्षादिप्रमाणकत्वेनापि साध्योपपत्यार्थान्तरमित्यत आह -- वक्ष्यमाणेति ॥ न चात्र हेतुत्रयेपि विशेषणासिद्धिरित्यादौ वक्ष्यमाणदिशा प्रत्यक्षानुमानावेद्ये पक्षे उक्तरूपसप्रमाणकक्त्वाख्यहेतोः पक्षनिष्ठताया अपौरुषेयप्रमाणकत्वेन विना
पर्यवसानाभावादिति भावः ॥
ननु पक्षधर्मताबलादपि साध्यं सिध्यत् 4 व्यापकतावच्छेदकधर्मप्रकारेणैव सिध्यति नत्वन्यथा । अतिप्रसङ्गादसामर्थ्याच्च
। अन्यथा प्रामाण्याभावसाध्यकमण्युक्तव्यतिरेकिखण्डनायोगादिति वदन्तं प्रत्याह -- अपौरुषेयेति ॥
नन्वेवं प्रागुक्तहेतोरिन्द्रियलिङ्गविषये व्यभिचार इत्यत आह -- तत्र चेति ॥ उक्तरूपसाध्य इत्यर्थः । पूर्वत्रात्र च विशेषणासिद्धिनिरासाय पौरुषेयेत्युक्तिः ।
1.यात्वज्जयो-कुं. 2.ब्दासि-मु. 3.हेताविति नास्ति-मु. 4.पक्षताव-मु.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 234.
----------------------- ------------- -----------
पूर्ववत्सामान्यव्याप्तिः । अप्रसिद्धविशेषणता तु व्याप्तौ सत्यां न दोषः । त्वन्मते अभावसाध्यके 1 व्यभिचारेकिणि हेत्वभावेन साध्याभाव 2 रूपस्य भाव 3 स्य व्याप्तिग्रहरूपानुमितिकरणस्येवेहापि साध्यप्रसिद्धिं विनैव 4 सामान्यव्याप्तिग्रहरूस्यानुमितिकरणस्य निष्पन्नत्वात् ॥
न च तन्निष्पत्तावपि विशेषणज्ञानरूपसहकारिविरहादनुमितिरूपविशिष्टज्ञानानुत्पत्तिरिति वाच्यम् । मन्मते तस्य विशिष्टज्ञानाहेतुत्वात् ।
"आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्"इत्यादिप्रमाणलक्षणं हृदि कृत्वाह -- नदोष इति ॥

सा किं साध्यज्ञाने तन्निरूपितव्याप्तिग्रहायोगाद्व्याप्तिज्ञानरूपकरणविघटकत्वेन दोष उत विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वेनानुमितिरूपविशिष्टज्ञानात्पादकत्वेन सति वह्नित्वाभाववद्विशेष्यको न समर्थप्रवृत्तिजनकत्वादिति व्यतिरेकेणीत्यर्थः । उक्तमतत्पूर्वं परतचस्त्वे प्रामाण्यानुमित्यसम्भववादे ॥
द्वितीयमाशङ्क्य निराह -- न चेति ॥ तस्येति ॥ विशेषणज्ञानस्येत्यर्थः । उपपादयिष्यते चैतन्निर्विकल्पकभङ्ग इति भावः ।
परमतेप्यनुमित्युत्पादप्रकारमाह - त्वन्मतेपीति ॥ विशेषणज्ञानहेतुकत्वमतेपीत्यर्थः- अभावसाध्यकेति ॥ प्रागुक्तव्यतिरेकिणीत्यर्थः॥
1.केवलव्य-मु-च. 2.वस्य-मु-च. 3.रूप-मु-च. 4.सामान्यपदं न -ग.
वेदापौत्वे-नुनि) वेदापौरुषेत्ववादः पु - 235.
-------------- ---------------- ---------
त्वन्मतेप्यबावसाध्यक 1 व्यतिरेकिणीवात्राप्यादौ साध्यविशे 2 ष्यिकाया एवानुमितेः सम्भवात् ॥
यद्वा वेदत्वमपौरुषेयवृत्ति । तदितरावृत्तित्वे सति वृत्तिमत्वात् । यदेवं तदेवं । यथा संमतम् ॥
मणिकृता ज्ञप्तिप्रामाण्यवादे"विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमितिरिति चेत् । प्रथमं न कथं चिज्ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव तत्रेव 3 प्रमाण्यविशिष्टानुमितिः । अभावविशेष्यकप्रतीत्यनन्तरमभाववद्भूतलमिति ज्ञानवत्"इत्युक्तेरिति भावः । अभावसिद्धिदोषहीनं प्रयोगान्तरमाह -- यद्वा वेदत्वमिति ॥ पक्षनिरुक्तिः पूर्ववत्साक्षाद्धर्मबौधकशब्दत्वादिरूपेण ध्येया । साध्यस्य गगनादिवृत्तित्वे बाधादपौरुषेशब्दवृत्तत्वेनैव पर्यवसानामिति भावः । हेतौ तदत्यपौरुषेयपरामर्शः । सत्यन्तमात्रस्यावृत्तिमद्गगनादौ व्यभिचारनिरासाय विशेष्यम् । घटत्वादौ तन्निरासाय सत्यन्तम् ॥ न च सिद्धान्ते --
"एकत्राप्यनवस्थस्य सर्वत्रावस्थितिः कथम्"
इत्यदिना वैशेषिकनयानुव्याख्याने गगनादेर्वृत्तिमत्वोक्तेर्विशेष्यं व्यर्थमिति शङ्क्यम् । असति शशश्रङ्गादौ स्वमते व्यभिचारवारकत्वात् ॥
वृत्तिमत्वं च समवायादिवृत्त्येपि ज्ञेयम् । तेन जगदाधारताप्रयोजकसम्बन्धेनेदानीं वेदत्वमिदानीं घटत्वमित्यादिप्रतीत्या
कालेपि वेदत्वादेर्वृत्तिमत्वेनार्थान्तरत्वं हेतौ विशेष्यवैयर्थ्यमिति च शङ्कानवकाशः ॥
यदेवमिति ॥ यद्यदितरावृत्तित्वे सति वृत्तिमत् तत्तद्वृत्ति ।
1.केकेवल-कुं-च. 2.ष्य-मु. 3. एवेति नास्ति-कुं.
न्यायदीपयुततर्कताण्च्वम् ( प्र.परिच्छेदः पु - 236.
----------------------- -------------- ---------
न यात्र हेतुत्रयेपि विशेषणासिद्धिः । वेदार्थे 1 धर्मा 2 धर्मादावस्मदादिप्रत्यक्षस्यावृत्तेः । ईश्वरयोगिप्रत्यक्षयोश्च धर्मादिवद्धेदं विना असिद्धेः । धर्मादिकं कस्यचित्प्र्रत्यक्षं वस्तुत्वाद्घटवदित्यादावद्यपि धर्माद्यसिद्ध्यऽन्येन्याश्रयात् ।
यथा घटेतरावृत्तित्वे सति वृत्तिमद्घटत्वं घटवृत्तीत्यर्थः । आद्ये हेतौ विशेषणासिद्धिं न चेत्यादिना 3 ग्रन्थेनोद्धारिष्यन् द्वितीयहेतावुपात्तस्येन्द्रियलिङ्गाप्रमाणकत्वरूपाधिकविशे 4 षण्स्यासिद्धिं सुधोक्तविशेषणेन तावदुद्धारन्निन्द्रियपेदनाभिमतं प्रत्यक्षं किमस्मदादिप्रत्यक्षमुतेश्वरयोगिप्रत्यक्षे 5 आद्ये आह -- वेदार्थ इति तस्यैव विवरणं -- धर्मेत्यादि ॥ ज्योतिष्टोमादिर्धर्मः । अन्त्य आह -- ईश्वरेति ॥ असिद्धेरिति ॥ ईश्वरप्रत्यक्षेण योगिप्रत्यक्षेण वा धर्मादिकं सिद्धमित्यस्यास्मदाद्यप्रत्यक्षत्वेन वेदेनैव तस्यावगन्तव्यत्वात् । तथा च 7 वेदेनेश्वरादिप्रत्यक्षं विज्ञाय तेन धर्मादिस्वरूपावगत्यपेक्षया"चोदनालक्षणोर्थो धर्मः"इति जैमिन्युक्तदिशा वेदेनैव तन्निर्णयोस्तु किं बकबन्धप्रयासेनेति प्रत्यक्षाविषयत्वं तस्येति भावः ॥
अस्तु तर्ह्यनुमानेन धर्मादिगोचरेश्वरादिप्रत्यक्षसिद्धिरित्यत आह -- धर्मादिकमिति ॥ प्रमेयत्वादि 8 हेतुरादि पदार्थः -- अद्यपीति ॥ वेदेन विना धर्मादिसिद्धिर्नेति वदन्तं प्रति धर्मादिसाधकतयोपन्यस्तेश्वरादिप्रत्यक्षसाधकानुमानोपन्यासवेलायामपि । न केवलं पूर्वमित्यर्थः -- अन्योन्येति ॥
र्1.थध-छ-ग. 2.अधर्मपदं न -छ-क. 3.ग्रे उद्ध-अ. 4.ष्यस्या-मु. 5.इति विकल्पो मनसि निधायऽ इत्यधिकं-कुं. 6.आदपदं नास्ति-मु. 7.वेदेनेति नास्ति -मु. 8.हेतुपदं नास्ति-मु.
वेदापौत्वे-नुनि) वेदापौरुषेयत्ववादः पु - 237.
------------------ ------------- ---------
ताभ्यामस्मदादीन्प्रति धर्माद्यसिद्धेश्च । इष्टापूर्तयोः प्रेक्षावत्प्रवृत्यन्यथानुपपत्या फलवत्मात्रानुमानेप्यस्य यागहोमादेरिदं फलमित्यस्यातिसूक्ष्मस्य विशेषस्यानुमानायोग्यत्वात् ॥
फलविशेषोद्देशेन ज्योतिष्टोमादिकर्मविशेषे बहूनां प्रेक्षावतां प्रवृत्तिस्तु चैत्यवन्दनादाविवोपपन्ना -- तदुक्तं भगवत्पादैः ॥
धर्मादिसिद्धौ तत्पक्षीकारेणेश्वरादिप्रत्यक्षसाधकानुमानसिद्धिः अनुमानसिद्धौ च तत्सिद्धप्रत्यक्षेण धर्मादिसिद्धिरित्यन्योन्याश्रयादित्यर्थः ॥
अस्तु वा वेदानुमानाभ्यां धर्मादिगोचरेश्वरप्रत्यक्षाभ्यां तथाप्यस्मदादेरनुष्ठानोपयोगिधर्मादिनिश्चयो नेश्वरयोगिप्रत्यक्षाभ्यां सिध्यतीति दोषान्तरं चाह -- ताभ्यामिति ॥ तथाचास्मदादिज्ञानोपायो वेद एवैष्टव्य इति किमीश्वरादिप्रत्यक्षोपन्यासेनेति भावः ॥
एवमिन्द्रियाप्रमाणकत्वरूपविशेषणं समर्थ्य लिङ्गाप्रमाणकत्वरूपविशेषणासिद्धिमुद्धरति -- इष्टेति ॥ दृष्टं यागः पूर्तं तटाकादि"अन्येभ्योपीदृश्यते"इति दिर्घविधानादिष्टापूर्तयोरिति साधु -- इत्य 1 स्यापीति ॥ तज्ज्ञानस्यैवानुष्ठानोपयोगित्वादिति भावः ॥
प्रवृत्तिविशेषणविशेषसिद्धिरस्त्वित्यत आह -- फलविशेषेति ॥ स्वर्गादिरूपेत्यर्थः -- चैत्येति ॥ 2 यथा वेदबाह्यानामनेकेषामधर्मे च फलाहेतौ धर्मत्वादिभ्रान्त्या प्रवृत्तिस्तथा 3 न्धपरंपरयोपपन्ना । न तु धर्मादिस्वरूपं
निर्णाययतीत्यर्थः -- तदुक्तमिति ॥ अपौरुषेयवाक्यत्वादन्येन प्रत्यक्षेणानुमानेन वा धर्मादिसिद्धिर्नेत्येतत् तत्वनिर्णये उक्तमित्यर्थः ॥ तदभावे अपौरुषेयत्ववाक्याभाव इत्यर्थः ॥
1. स्येति -कुं. 2.तथाच-मु. 3.तत्परं -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 238.
------------------------ ----------- ------------
"तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः"। इति ॥
न च पौरुषेयवाक्येन तत्सिद्धिः । पुरुष्वज्ञान 1 मिथ्याज्ञान विप्रलम्भप्रमादकरणापाटवा 2 दीनां सम्भावितत्वेनानाश्वासात् ॥
तन्निवृत्यर्थमीश्वरस्य नित्यसार्वज्ञ्याद्यङ्गीकारे च तदर्थं धर्मबोधके शब्द एवापौरुषेयत्वमात्रं कल्प्यताम् ।
एवमिन्द्रियलिङ्गप्रमाणकत्वरूपविशेषणसमर्थनपरग्रन्थेनैवाद्यसाध्ये अपौरुषेयशब्दसिद्धिर्हेतोः पक्षधर्मताबलादित्येतदप्युपपादितं ज्ञेयम् ॥

यदप्याद्याद्वितीयहेत्वोः पौरुषेयशब्दाप्रमाणकत्वे सतीति विशेषणं यच्च तृतीयहेतावपौरुषेयेतरावृत्तित्वे सतीति विशेषणम् तदसिद्धं"न च पौरुषेयवाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्ते"रित्यादितत्वनिर्णयवाक्यार्थव्यक्तीकरणेनोद्धरति - नचेत्यादिना ॥ पौरुषेयेति । ईश्वरकृतेत्यर्थः ॥ ज्ञात्वापि परप्रतारणं विप्रलम्भः । घटोस्तीतिवाच्ये पटोस्तीत्युक्तिः प्रमादः -- तन्निवृत्यर्थमिति ॥ पुरुषेषु सम्भाविताज्ञानादिदोषनिमित्तकानाश्वासाभावसिद्ध्यर्थमित्यर्थः -- नित्येति ॥ दोष 3 जन्यत्वेन भ्रमत्वनिवृत्तित्यर्थं नित्येति सार्वज्ञ्यविशेषणम् । शब्द एवेत्यत्र सप्तम्यन्तं शब्दपदम् । को विशेष इत्यत उक्तं -- मात्रमिति ॥ तत्र तु सार्वज्ञादिकं बह्वित्यग्रे व्यक्तम् ॥
1.मिथ्याज्ञानेति -कुण्डवलितं -कुं. 2.आदिपदं न -मु-च. 3.षाज-मु.
वेदापौरुषेत्वे-नुनि) वेदापौरुषेयत्ववादः पु - 239.
--------------- ------------------ ---------
अर्थापत्तेरुत्सर्गतः साक्षादुपपादकविषयत्वात् । न तु परम्परयोपपादकं वक्तरि सार्वज्ञ्यादिकम् । अन्यथा वेदस्यासर्वज्ञ्यप्रणीतत्वमङ्गीकृत्याश्वासार्थं तस्य सर्वज्ञप्रणीतशब्दान्तरमूलत्वं कल्प्यं स्यात् ॥
तदुक्तं भगवत्पादैः"अपौरुषेयवाक्याङ्गीकारे न किञ्चित्कल्प्यम्"इति ।
विशेषान्तरं चाह -- अर्थापत्तेरिति ॥ धर्मादिनिश्चयरूपस्योपपादकप्रमाणेन विनानुपपद्यमानस्यार्थापत्तिशब्दितस्य
साक्षादुपपादकं हि धर्मादिप्रमापकशब्दे
अपौरुषेत्वम् । नित्यसार्वज्ञ्यादिकन्तु तत्र धर्मादिनिश्चयकत्वोपपादकोपपादकम् । अज्ञानादिदोषहीनपुरुषकृतत्वं तदुपपादकम् । तदुपपादकं च सार्वज्ञ्यमिति परम्परयोपपादकं बहु च तत्कल्प्यम् । तथाचाल्पत्वात्साक्षादुपपादकत्वात्तदेव कल्प्यमिति भावः ।
ननु लोके क्वापि शब्दे ऽपौरुषेत्वादृष्टेः परम्परा युक्तेवेत्यत आह -- अन्यथेति ॥ एवं साक्षादुपपादके सम्भवति शब्दत्वपोरुषेयत्वयोः सहदर्शनमात्रेण परम्पराश्रयण इत्यर्थः - अङ्गीकृत्येति ॥ शब्दमात्रे ऽसर्वज्ञप्रणीतत्वस्य लोके दर्शनादिति भावः -- तदुक्तमिति ॥ अपौरुषेयत्वमात्रकल्पनं लघ्वित्येतत्तत्वनिर्णये उक्तमित्यर्थः ॥
यद्वाभ्युपेत्योक्तमपौरुषेयत्वमात्रं कल्प्यतामिति तदपि न कल्प्यमेवेत्येतत्संमत्युक्तिव्याजेनाह -- तदुक्तमिति ॥ न किञ्चिदिति । अपौरुषेयत्वमपि वेदकर्तुरप्रसिद्धेरेव सिद्धमिति भावः ॥
वेदकर्तुपुरुषगतदोषहीनत्वोपपादकवक्तृसार्वज्ञ्यप्रतिपादकतया परम्परया धर्मादिबोधकापौरुषेयवाक्याङ्गीकार इति
भ्रान्तिनिरासाय प्रकृतोपयोगितयार्थमाह -- साक्षादिति ॥ साक्षाद्धर्मादिबोधक इत्यर्थः ॥
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 240.
------------------------ ---------------- ---------
साक्षाद्बोधके वाक्ये ऽपौरुषेयत्वमात्राङ्गीकार इत्यर्थः ॥
किञ्चाप्रामाणिकानां सार्वज्ञ्यविप्रलम्भकत्वाप्रमादकरणपटवोपदेष्टृत्वादीनां वेदे तत्कृतत्वस्य च कल्पनीयत्वे कल्पनागौरवं स्यात् ॥
न च सार्वज्ञ्ये 1 नैवाविप्रलम्भादिसिद्धिः । सर्वज्ञेश्वरावतारेष्वपि विप्रलम्भादिदर्शनात् ।
एवं स्वपक्षे लाघवोपपादनेन पोरुषेयशब्दाप्रमाणकत्वादिरूपं अपौरुषेयेतरावृत्तित्वरूपं विशेषणं च समर्थ्य परपक्षे वक्ष्यमाणानुव्याख्यानोक्तगौरवोपपादनेन च समर्थयते -- किञ्चेति ॥ यद्वा न किञ्चित्कल्प्यमित्ययुक्तं अपौरुषेयत्वस्य कल्प्यत्वादित्यतोस्तु तावदेतावत् तथापि न तवेन बह्विति भावेनाह -- किञ्चेति ॥
ननु सार्वज्ञ्यादिकं नाप्रामाणिकं कर्यत्वाद्यनुमानेन सिद्धेः । सार्वज्ञ्येनैव च
सर्वदोषहीनता सिध्यति । तथाहि । धर्मादिसाक्षात्कारवतो न रागादिदोषाः सम्भवन्ति ।"अविद्याक्षेत्रत्वमुत्तरेषाम्"इति पतञ्जल्युक्त्या तेषामज्ञानमूलत्वात् । सर्वज्ञे ऽज्ञानायोगात् । रागादिरहितस्य च तत्कार्यविप्रलम्भायोगात् । एवंभातमहानुभावस्य करणापाटवादेरनाशङ्क्यत्वात् । ज्ञानी सन्नज्ञलोकाय कुतो नोपदिशेत् । प्रसिद्धवेदे तदुपदेशकल्पनस्य लघुत्वाच्चेत्याशङ्क्य प्रत्याह -- न चेत्यादिना निरसिष्यत इत्यन्तेन ॥ आदिपदेन अप्रमादादिकं उपदेष्टृत्वं वेदे तत्कृतत्वं च गृह्यते -- शरीरेपीति ॥
1.ज्ञ्यादि-च. 2ऽआदिकऽ इति नास्ति -अ.
वेदापौरुषेत्वे-नुनि) वेदापौरुषेयत्ववादः पु - 241.
------------------ ------------------- -------
सर्वज्ञस्य शरीरेपि शरीरत्वकृतकरणापाटवादेरवर्जनीयत्वात् । ज्ञानिनामप्युपदेशवैमुख्यदर्शनात् । वेदे तत्कृतत्वप्रसिद्ध्यभावेन तस्यापि कल्प्यत्वात् ॥
कार्यत्वाद्यनुमानेनेश्वर 1 स्य सार्वज्ञ्यसिद्धिस्तु निरसिष्यते ॥
न च वेदादेव तस्य सार्वज्ञ्यादिसिद्धिः । वेदप्रामाण्यस्येश्वरसार्वज्ञ्यादिसिद्ध्यधीनत्वेनान्योन्याश्रयात् । अन्यथा बुद्धाद्यागमात्तस्यापि सार्वज्ञ्यादिकं सिद्ध्येत् । तदुक्तं भगवत्पादैः ॥
"अविप्रलम्भस्त्वज्ज्ञानं तत्कृतत्वादयोपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ इति ॥
तस्मान्न विशेषणा 2 सिद्धिः ॥
वेदे तत्कृतत्वं च गृह्यते -- शरीरेपीति ॥ त्वन्मते सर्वज्ञस्येश्वरस्य नास्ति शरीरं उपदेशौपयिकतया शरीरे ऽङ्गीकृतेपीत्यर्थः ।ज्ञानिनामपीति ॥ सिद्धानामित्यर्थः । 3 व्यक्तमेतत्सर्वं तत्वनिर्णयटीकायाम् -- अन्योन्येति ॥ सिद्धे सार्वज्ञ्ये तत्प्रणीतत्वेन वेदप्रामाण्यसिद्धिः तत्सिद्धो च तेन सार्वज्ञ्यसिद्धरित्यर्थः॥
तदुक्तमिति ॥ जिज्ञासाधिकरणानुव्याख्यान इत्यर्थः 3 । तज्ज्ञानं धर्मादिप्रमितिः । तत्कृतत्वं तेन पुरुषेण कृतत्वम् । आदिपदात्करणपाटवादिग्रहः । ज्ञापकं
निश्चायकं धर्मादेरित्यर्थः । चो यत इत्यर्थे । 4 तत् तस्मादित्यर्थः ।
1.रसा-मु-च. 2.णसि-कुं. 3.अयं ग्रन्थः नास्ति -अ. 4.इदं नास्ति-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 242.
---------------------- ----------- ---------
यद्वा ईश्वरज्ञानं न प्रमेति मते वेदः कालभेदेनानियतानुपूर्वीको न दोषामूलकत्वे सति प्रमामूलकत्वरहितत्वात् गगनवत् । प्रमेति मते दोषामूलकत्वे सति प्रमाकरणामूलकत्वं हेतुः ॥
नियतैकप्रकारत्वमपौरुषेयत्वमिति सुधोक्तिमनुरुध्याह -- यद्वेति ॥ हेतोरसिद्धिनिरासायोक्तम् -- न प्रमेति ॥ मत इति ॥ गुणजन्यस्यैव प्रमात्वेनेश्वरज्ञानस्य तदजन्यत्वान्न प्रमेति मत इत्यर्थः । सिद्धसाधनतानिरासाय साध्ये कालभेदेनेत्युक्तिः । पूर्वोत्तरकल्पभेदेनेत्यर्थः । नियतानुपूर्वीक इत्युक्तावेकप्रकारानुपूर्वीकत्वस्य साध्यत्वप्राप्तौ दृष्टान्ते साध्यवैकल्येन परस्याप्रसिद्धेः परोक्तसाध्यनिरासलाभाय च नञ्द्वयम् ॥

"प्रत्यक्षादिप्रमाणं वा विप्रलम्भादिकं वास्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वं वेदत्वम्"इति तत्वनिर्णयटीकायां प्रमाणपदं प्रमित्यर्थकमुपेत्य तदर्थमेव निष्कृष्य हेतुमाह -- दोषेति ॥ विप्रलम्भादिदोषेत्यर्थः । भ्रान्तिमूलकवाक्ये प्रमितिमूलकपुंवाक्ये च व्यभिचारवारणाय क्रमेण विशेषणविशेष्ययोरुक्तिः -- प्रमेतीति ॥ गुणाजन्यत्वेपि दोषाजन्यज्ञानत्वात्तद्वति तत्प्रकारकत्वाच्च । ज्ञानत्वस्य प्रमात्वभ्रमत्वान्यतरव्याप्यतया भ्रमत्वहीनस्य प्रमात्वाभावे ज्ञानत्वभावप्रसङ्गाच्च प्रमेति मत इत्यर्थः ॥
इदानीं प्रमाणपदं प्रमितिकरणार्थमुपेत्याह-- प्रमाकरणेति ॥ परमते वेदस्येश्वरज्ञानमूलकत्वेपि तस्याजन्यतया करणाभावत्स्वयमकरणत्वाच्च नासिद्धिरिति भावः ॥
वेदापौत्वे-नुनि) वेदापौरुषेयत्ववादः पु - 243.
---------------- -------------------- ------------
यद्यप्यानुपूर्व्यगर्भितस्वरूपे गगने शश्वदेकप्रकारानुपूर्विकत्व 1 मपौरुषेयत्वं नास्ति । तथाप्यनियतानुपूर्वीराहित्य 2 रूपं तदस्त्येव ॥
यद्यपीदमनित्याद्घटादेर्न व्यावृत्तम् । तथापि पौरुषेवाक्यावव्द्यावृत्तत्वात् यद्बुद्धिपूर्वकाबु 3 द्धिपूर्वकवाक्यसाधारणं पौरुषेयत्वं तदभावरूपत्वाच्च न तव्द्यितिरेकसाधनेर्ऽथान्तरम् ॥
यद्यप्येतन्मतेपि पूर्वोक्तदिशा भ्रमसाधारणोपादानादिगोचरज्ञानत्वेनैवेश्वरज्ञानस्य सर्वत्र हेतुतया 4 प्रमात्वेनाहेतुत्वात्प्राचीनहेतूक्तावपि नासिद्धिः । तथाप्यभ्युपेत्यवादेन वा प्रमात्वेन प्रमामूलकत्वविविक्षायाः प्रागनुक्तेर्वा हेत्वन्तरोक्तिः ॥
पर्यवसितसाध्ये साध्यवैकल्यामाशङ्क्य निराह -- यद्यपीति ॥ ननूक्तरूपहेतुद्वयस्य घटादावपि सतस्तत्रानित्यत्वेने 5 व पक्षेप्यनित्यत्वेनैव 6 पर्यवसानसम्भवान्न शश्वदेकप्रमकारानुपूर्वीकत्वरूपसाध्यसिद्धिः स्यात् । विशेष्याभावमात्रेण विशिष्टाभावोपपत्तेरिति भावेनाशङ्क्य निराह -- यद्यपीति ॥ पौरुषेयेति ॥ तथाच
पुंवाक्यव्यावृत्तत्वस्यानुपूर्वीगतानैयत्याभावनिमित्तत्वस्यैव वाच्यत्वात् । प्रकृतेपि पक्षे हेतुसत्वस्यानुपूर्वीयुक्ते तदभावेन पर्यवसाने बाधात् । तद्गतानैयत्याभावेनैव पर्यवसानमिति भावः -- परोक्तमिति ॥ सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वमिति मण्युक्तमितित्यर्थः -- बुद्धीति ॥ चैत्रादिवाक्यं बुद्धुपूर्वकं शुकबालादिवाक्यं चाबुद्धिपूर्वकम् । तदुभयसाधरणं यन्नियतानुपूर्वीकत्वाभावरूपं तत्परोक्तमित्यर्थः ॥
1.रूप-च-छ-क-ख. 2.लक्षणं -मु-च. 3.अबुद्धिपूर्वकेति नास्ति-मु-च. 4.तत्प्र-मु. 5.नै-कुं-अ. 6.पक्षेप्यनित्यत्वेनैनऽ इति नास्ति - कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 244.
------------------------ -------------- ------------
यद्वा स्वप्रतिपाद्यगोचरज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यतानाश्रय इति साध्यम् । तत्र भ्रममूलकत्वे सति प्रमाकारणामूलक्तवं हेतुः । अपौरुषेयत्वपक्षेपि वेदस्य पदवली 1
गोचरज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यताश्रयत्वात्तदभावसाधने बाधः । तन्निवृत्तित्यर्थं स्वप्रतिपाद्येत्युक्तम् । स्वप्रतिपाद्यज्ञानजन्य इत्येवोक्तं पदावलीदोचरमेवेश्वरनिष्ठं ज्ञानं वेदप्रतिपाद्यगोचरमपि भवतीति पुनरपि बाधः । तन्निवृत्यर्थं ज्ञानत्वावच्छिन्नेत्याद्युक्तम् ॥
वाक्यार्थगोचरज्ञानजन्यत्वं पौरुषेयत्वम् इति मते तदभावसाधकमनुमानमाह -- यद्वा स्वेति ॥ ईश्वरज्ञानं प्रमेति मत इति ज्ञेयम् । वेद इत्यनुकर्षः । स्वेन वेदेन प्रतिपाद्यो योर्थो धर्मादिः तद्गोचरं यज्ज्ञानं तत्वावच्छिन्नकारणतानिरूपिता या कार्यता तदनाश्रय इत्यर्थः । गगनमेव दृष्टान्त इति भावः ॥
साध्यगतविशेषणयोः कृत्यं व्यनक्ति -- अपोरुषेयत्वेति ॥ वेदस्येति ॥ क्रमविशेषविशिष्टवर्णानां वेदत्वात्क्रमस्य च कृतकत्वात् कार्यताश्रयत्वस्तीति भावः -- इत्युक्तमिति ॥ प्रतिपाद्येत्युक्तावपि पदवलीत्यादिशब्दप्रतिपाद्यत्वं पदवल्य अप्यस्तीत्युक्तदोषनिरीसायैव स्वेत्यप्युक्तिरिति भावः ॥
नन्वत्राप्युक्तसाध्यवतो गगनघटादितो ऽव्यावृत्तोयं हेतुस्त 2 त्रैवोक्तरूपज्ञानाजन्यत्वेनैवोपपन्नः सन् शश्वदेकप्रकारानुपूर्वीकत्वरूपविवक्षितापौरुषेयत्वं -----
1.गोचरेति नास्ति -छ. 2.त्रयो - अ.
वेदापौत्वे-नुनि) वेदापौरुषेयत्ववादः पु - 245.
------------- ------------------ ----------
इदमपि साध्यं परोक्तस्य प्रमाप्रमा 1 मूलकवाक्यसाधारणस्य पौरुषेयत्वस्याभावरूपम् ॥
न च शुकबालादिवाक्ये पररीत्या व्यभिचारः । तस्यापि पक्षतुल्यत्वात् ॥
यद्वा स्वप्रतिपाद्यगोचरयथार्थज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यतानाश्रय इति साध्यम् । तत्र च प्रमाकरणामूलकत्व 2 मात्रं हेतुः ॥
3 साधयतीत्यर्थान्तरमित्यत आह -- इदमपीति ॥ परोक्तस्येति ॥ चिरन्तनोक्तस्येत्यर्थः -- पौरुषेयत्वस्येति ॥ तथाच
पौरुषेयवाक्यादुक्तरूपसाध्यहीनाव्द्यावृत्तोयं हेतुस्तादृशज्ञानाजन्यत्वरूपसाध्यमादाय पर्यवस्यन्नपि पराभिमतपौरुषेयत्वाभावरूपत्वात्तस्य नार्थान्तरम् । शश्वदेकप्रकारानुपूर्वीकत्वमिवेदमपि पारिभाषिकं किञ्चितपौरुषेत्वमिति भावः । एवमग्रेपि ॥
पररीत्येति ॥ तन्मते वाक्यमात्रस्येश्वरज्ञानजन्यतयोक्तरूपसाध्याभावेपि तत्र हेतुसत्वादिति भावः -- पक्षेति ॥ तस्येशज्ञानजन्यत्वेपि घटादिसाधारणोपादानादिगोचरज्ञानत्वेनैव तज्जन्यतया
स्वप्रतिपाद्यगोचरज्ञानत्वावच्छिन्नेत्यादिरूपसाध्यस्यापि सत्वेन तदभावसंमतेरिति भावः ॥
"वेदाः शब्द 4 जन्यवाक्यार्थगोचरायथार्थज्ञानजन्याः प्रमाणशब्दत्वात्"इति मण्युक्तसाध्यस्याभावसाधकमाह -- यद्वास्वेति ॥ वेद इत्यनुकर्षोत्रापि ध्येयः । प्रागुक्तमेव साध्यपदकृत्यं ध्येयम् ॥
भ्रान्तवाक्ये उक्तरूपसाध्यस्यापि सत्वेन विशेष्यमात्रस्याव्यभिचाराद्दोषमूलकत्वविशेषणस्य व्यर्थत्वमुपेत्याह -- तत्र 5 चेति ॥ 6 निरुक्तसाध्य इत्यर्थः ।
1.भ्रम-छ. 2.मात्रपदं नास्ति -मु-च. 3.नसा-मु. 4.शब्दाजन्य -मु. 5.त्रे-कुं. उक्त - कुं.
न्यादीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 246.
---------------------- --------------- -----------
इदमपि साध्यं परोक्तस्य प्रमाणवाक्यमात्रासाधारण 1 पौरुषेयत्वस्याभावरूपम् । विपक्षे सर्वसमयाभिमतधर्माद्यसिद्धेरुक्तत्वादनुकूलतर्काणां च वक्ष्यमाणत्वा न्नप्रयोजकता ॥
एतेन वेदस्यानादित्वरूपमपौरुषेयत्वं बाधितं सिद्धान्तविरूद्धञ्च । क्रमविशेषविशिष्टानां 3 वर्णानां वेदत्वान्नित्यानां सर्वगतानां च तेषां स्वतः क्रमस्यायोगेनाभिव्यक्तिगतस्येव तस्य वक्तव्यत्वादभिव्यक्तेश्च जन्यत्वेन तद्गतस्य 4 क्रमस्यापि जन्यत्वात् टीकायां"क्रमस्य कृकत्वेपि"इत्युक्तेश्चेति निरस्तम् ।

क्रमस्य कृतकत्वेप्याधुनिकाध्यापकेन स्वबुद्धिस्थपूर्वपूर्वादिवसीयक्रमानुसारेणैवोत्तरदिवसेष्विवेश्वरेणापि स्वबुद्धिस्थप्रवाहानादिपूर्वपूर्वकल्पीये क्रमानुसारेणैवोत्तरोत्तरक्लपेष्वपि वेदस्योच्चरितत्वे 5 न स्वातन्त्र्याभावेना 6 नियतानुपूर्वी 7 रहितत्वादिरूपोक्तत्रिविधापौरुषेयत्वे वाधाद्यभावात् ॥
पूर्ववदर्थान्तरताव्युदासायाह -- इदमपीति ॥ उक्तहेतूनामपौरुषेयत्वेन विनाप्युपपत्तिमाशङ्क्याह -- विपक्ष इति ॥ एतेनेति ॥ यद्वेश्वरज्ञानमित्यादिनोक्तपक्षत्रयेणेत्यर्थः ॥
प्रतिज्ञातं द्वयमपि क्रमेण व्यनक्ति -- क्रमेत्यादिना ॥ टीकायामति ॥ तत्वनिर्णयटीकायामित्यर्थः ॥ एतेनेत्युक्तम व्यनक्ति -- क्रमस्येति ॥
1.णस्य-च-छ-ग-ख. 2.इदं हेतुवाक्यं नास्ति-कुं-ग-क. प्रथमहेतुर्नास्ति-छ-ख. 3.वर्णानामिति नास्ति-कुं-क. 4.क्रमस्येति नास्ति-कग. 5.सप्तम्यन्तः-कुं-ग-ख. 6.न -क-ग-छ. 7.कत्वादि-ख-छ.
वेदापौत्व-नुनि) वेदापौरुषेयत्ववादः पु - 247.
-------------- ------------------- -----------
उक्तञ्च सुधायाम्"नियतैकप्रकारत्वमपौरुषेयत्वम्"इति । एतदप्युक्तं"गौरवदोषेण"इति । क्रमाकृतकत्वस्याप्यपौरुषेयत्वप्रवेशे गौरवदोषेणेत्यर्थः ॥
यद्वा वेद आप्ताप्रणीतः प्रमाकरणामूलकत्वात् । गगनवत् शुकादिवाक्यवद्वा ।
उक्तञ्चेति ॥ जिज्ञासानये"नमानमपि वेदानाम्"इत्यत्र । प्रकृतोपयोगितया अर्थमाह -- क्रमाकृतकत्वस्येति ॥
"वेदः आप्तप्रणीतः वेदत्वाव्द्यातिरेकेणे लौकिकवाक्यवत्"इति परोक्तस्य प्रत्यनुमानमाह -- यद्वावेद इति ॥ वाक्यार्थप्रमावत्वे सति विप्रलम्भादिदोषहीनो ह्याप्तः । तदप्रणीत इत्यर्थः । भ्रान्ताप्रणीततत्वेनार्थान्तरतानिरासायाप्तेत्युक्तिः -- प्रमाकरणेति ॥ परमते वेदस्येश्वरप्रमामूलकत्वेपि तत्करणामूलकत्वस्य नासिद्धिरिति भावः ॥
अन्तरङ्गदृष्टान्तमाह --शुकादीति ॥ शुकबालादिवाक्यवदित्यर्थः । प्रणीतत्वस्योच्चारणधटितत्वेन वा वाक्यर्थप्रमात्वेन रूपेण 1 आप्तप्रमामूलकत्वेन वा विवक्षितत्वाच्छुकादिवाक्येपीश्वरप्रणीतत्वं नेति न साध्यवैकल्यम् । परमते तत्रेश्वरज्ञानस्य भ्रमसाधारण्येनैव हेतुत्वस्य प्रागुपपादनादिति भावः ॥
पक्षतावच्छेदकहेत्वेरैक्यमाशङ्क्य निराह -- अत्र चेति ॥ अकर्तृकत्वप्रसिद्धमत्वं वेदत्वम् ।
1. तत्प्र - कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 248.
------------------------ ------------- -----------
अत्र च पक्षतावच्छेदकं वेदत्वं प्रमाकारणामूलकत्वे सति प्रमाणशब्दत्वं न तु हेतुमात्रम् । प्रत्यक्षाभासादिमूलकशब्दाभासे ऽति व्याप्तेः । येन पक्षतावच्छेदकस्यैव हेतुत्वे तत्समानाधिकरणसाध्यप्रतीतिरूपस्यानुमानफलस्य व्याप्तिग्रहकाल एव सिद्धत्वादनुमानवैयर्थ्यमिति शङ्क्येत ॥
अकर्तृकप्रसिद्धिमत्वं नाम प्रत्यक्षादिप्रमाणं वा विप्रलम्भादिकं वास्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वम्"इति तत्वनिर्णयटीकोक्तस्य निष्कृष्टार्थमाह -- प्रमेति ॥
ननु न हेतुमात्रमित्ययुक्तं तथात्वेपि दोषाभावात्किमधिकप्रवेशेनेत्यत आह -- प्रत्यक्षेति ॥ तथाच वेदपदेन शब्दाभासस्यापि पक्षतापत्तावंशे सिद्धसाधनता स्यादिति भावःठ । दोषान्तरञ्चाह - येनेति ॥ तन्मात्रस्य पक्षतावच्छेदकीकरणेनेत्यर्थः -- तदिति ॥ पक्षतावच्छेदकसमानाधिकरणं यत्साध्यं तत्प्रतीतिरूपस्येत्यर्थः । यत्र प्रमाकारणामूलकत्वं तत्राप्ताप्रणीतत्वमिति गगनादौ व्याप्तिग्रहदशयामेव हेतुसामानाधिकरण्येन तत्साध्यज्ञानस्य जातत्वात् । हेतोरेव पक्षतावच्छेदकत्वेनानुमानफलस्य सिद्धत्वादित्यर्थः ॥
यद्यपि साध्यविशेष्यकप्रतीतेर्व्याप्तिग्रहणदशायां जतत्वेपि साध्यविशेषणकप्रतीतेरिद्देश्यायास्तदानीमभावेन नानुमानवैयर्थ्यम् । तथाप्यतिशयाभावेन तादृशप्रतीतेरुद्देश्यत्वस्यैवायोगात् यत्प्रमाकारणामूलकत्ववत्
तदाप्ताप्रणीतत्ववदित्यपि व्याप्तिग्रहसम्भवाच्चैवमुक्तमिति ज्ञेयम् ॥
सामान्यपरिशेषाभ्यामप्यपौरुषेयत्वं साधयति -- यद्वावेदेति ॥
वेदापौत्वे-नुनि) वेतापोरुषेयत्ववादः पु - 249.
-------------- ---------------- -----------
यद्वा वेदानुपूर्वीनिष्ठादिकारणता केनचिदवच्छिन्नाकारणतात्मकत्वात् दण्ड 1 गतकरणता 2 वत् ॥
न च कॢप्तमानुपूर्वीग 3 तनियततत्तद्वर्णपदादिनिरुप्यत्वं विनान्यदवच्छेदकमस्ति । न चेश्वरविरचितत्वमेव तदवच्छेदकम् । तस्य वेदानुपूर्वीमात्रसाधारण्येन सूक्तविशेषजपादिना फलविशेषानुपपत्तेरिति नियतानिपूर्वीकत्वरूपापौरुषेयत्वसिद्धिः ॥
आनुपूर्वीनाम वर्णानां क्रमविशेषः स च नित्यसर्वगतानां वर्णानामुच्चारणघटितो वा बुद्धघटतो वा वाच्यः । न तु स्वतः । तथाच तादृशानुपूर्वी दृष्टरूपार्थज्ञानार्थापि नियमादृष्टार्था । जपेन चादृष्टार्था सर्ववादिसंमतेत्यदृषष्ट 4 जनिका भवतीति तत्र विद्यमानादृष्टकारणतापक्ष इत्यर्थः । आदिपदेनार्थज्ञानकारणताग्रहः ॥
एवं सामान्यतः कारणतावच्छेदकसिद्धौ प्रसक्तमीश्वररचितत्वं निरसिष्यन् स्वभिमतमवच्छेदकमाह -- न च कॢप्तमिति । पक्षान्तरं निराह -- न चेश्वरेति ॥ सूक्तविशेषेति ॥ पवमानसूक्तपूरुषसूक्तादिजपेन पठनादिना च श्रुतफलविशेषो न स्यादित्यर्थः । श्रूयते च फलविशेषः ॥
"यन्मे गर्भे वसतः पापमुग्रं चज्जायमानस्य च किञ्चिदन्यत्"।
जातस्य च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि"॥
इत्यादिना --
आनुपूर्वीगतेत्यादिनोक्तमेवावच्छेदकम् । न त्वीश्वररचितत्वमित्येतदेवानेकविपक्षबाधकोक्त्या द्रढयति -- अन्यथेति ॥ एतदप्युक्तमिति ॥ अन्यथेत्यादिनोक्तमित्यर्थः ॥
1. ण्डादि-ग. 2.तादि-ग. 3.तं -मु-च-क. 4.ष्टार्थ-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 250.
------------------------ ----------- ----------
अन्यथैतत्कल्पे ऽनर्थहेतुभूताया अन्यादृश्या आनुपूर्व्याः कल्पान्तरे श्रेयःसाधनत्वम् एत्कल्पे ऽनर्थहेतोर्ज्योतिष्ठोमाद्यङ्गव्युत्क्रमस्य ब्रह्महत्यादेश्चकल्पान्तरे श्रेयःसाधनत्वम् एतक्तल्पे दाहकत्वादिस्वभावस्य वह्न्यादेः कल्पान्तरेष्वदाहकत्वादिकं च कल्प्यं स्यात् ॥
एतदप्युक्तम्"गौववदोषेणे"ति ॥
यद्वा प्रत्यक्षन्यायामूला मत्वादिस्मृतिः प्रमाणमूला प्रमाणभूतस्मृतित्वात् । न्यायमूलस्मृतिवत् ।

रीत्यन्तरमाश्रित्य सामान्यपरिशेषाभ्यामपौरुषेयवाक्यसिद्धिं वदन्"धर्मादिकं प्रमाणोपेतं वस्तुत्वात्"इति सुधोक्तसामान्यानुमानमुपलक्षणं मत्वा त्रेधा सामान्यानुमानमाह -- यद्वा प्रत्यक्षेति ॥ प्रत्यक्षादिमूलान्तेरेणार्थान्तरवारणाय प्रत्यक्षन्यायामूलेत्युक्तिः । प्रत्यक्षमूला न्यायामूलाचेत्यर्थः । प्रत्यक्षतोर्ऽथमुपलभ्य रचितस्मृतिः प्रत्यक्षमूला । यथा आद्यभारतपुराणादिरूपा । तस्याः सर्वज्ञव्यासप्रत्यक्षमूलत्वात् । युक्तिबलादर्थं विज्ञाय रचिता स्मृतिर्न्यायमूला । यथा अथातो धर्मजिज्ञासेत्यादि 1 मीमांसासूत्रादिरूरा स्मृतिः । अतादृशी य स्मृतिरित्यर्थः ॥
न च न्यायमतेवाक्यमात्रस्येश्वरनिष्ठप्रत्यक्षप्रमाजन्यत्वात्प्रत्यक्षामूलस्मृतिरप्रसिद्धेति वाच्यम् । वाक्यार्थप्रमात्वेन तज्जन्यत्वस्यैव तन्मूलत्वेनेहाभिप्रेतत्वात् ॥
1. ऽमीमांसासूत्रादि ऽ इति नास्ति - मु.
वेदापौत्वे-नुनि) वेदापौरुषेयत्ववादः पु - 251.
------------- ----------------- ---------
जन्या 1 धर्मादिप्रमा करणजन्या जन्यज्ञानत्वात् संमतवत् धर्मादिकं प्रमाणोपेतं वस्तुत्वात् घटवदित्यादिनापौरुषेयवाक्यसिद्धिः ॥
धर्मादिवुक्तरीत्या प्रत्यक्षानुमानप्रामाण्यस्यबाधितत्वादनन्तकल्पेषु
भिन्नानन्तपौरुषेयवाक्याङ्गीकारे च गौरवात्कार्यत्वहेतोर्नित्यज्ञान इव कर्त्रैक्य इव चास्यापि सामान्यतो दृष्टस्यापौरुषेयवाक्ये तत्राप्यन्येषां सकर्तृकत्वप्रसिद्धेर्वेद च तदभावाद्वेदापौरुषेयत्वे पर्यवसानात् ॥
2 एतदप्युक्तं"गौरवदोषेण"इति ॥
3 वेदापौरुषेयत्वे ऽनुमानानि

11.20

प्रत्यक्षप्रमाकरणं वा प्रत्यक्षपदार्थो ध्येयः । नैयायिकानां न्याय एवातिविश्वासान्न्यामूलस्मृतिवदित्युक्तम् । ईश्वरप्रमांशे बाधवारणाय जन्येति प्रमाविशेषणम् -- संमतवदिति ॥ चाक्षुषादिज्ञानवदित्यर्थः ॥
नन्वेतावता प्रमाणसामान्यसिद्धावपि -- धर्मादावुक्तरीत्येत्यादिना पर्यवसानादित्यरन्तेन ॥ नचात्र हेतुत्रयेपि विशेषणासिद्धिरित्यादिग्रन्थेनोक्तरीत्येत्यर्थः -- एतदपीति । अनन्तकल्पेष्वित्यादिनोक्तमपीत्यर्थः ॥
एवं प्रसक्तं प्रत्यक्षानुमानपुंवाक्यरूपपक्षत्रयं प्रतिक्षिप्य विवक्षितसाध्यपर्यवसानमाह -- कार्यत्वेति ॥ नित्यज्ञानादिसिद्धिप्रकारोग्रे कार्यत्वादिहेतुभङ्गः ॥
1.जन्यापदं न -क-ख-छ. 2.इयं पङ्किर्नास्ति - छ-कार्यत्वहेतोरित्यतः प्रागस्ति -क. 3.इति इत्यधिकं - छ.
अपौरुषेयत्वे अनुकूलकतर्कः) वेदापौरुषेयत्ववादः पु - 252.
---------------------------- ---------------- --------
नचोक्तहेतूनामप्रयोजकता । यदि वेदः पौरुषेयः स्यात्तर्हि --
"यतस्ता हरिणा दृष्टा श्रुता एवा 1 खिलैर्जनैः । श्रुतयो दृष्टयश्चेयि तेनोच्यन्ते पुरातनैः ।
इत्यादि 2 स्मृतिष्वीश्वरेणापि दृष्टत्व 3 स्यैवौक्तिर्न स्यात् । वेदाध्येतृणां तत्र कर्तृविशेषस्मृतिश्च स्यात् । मुक्तकश्लोकादौ तन्नियमाभावेप्यनेककर्तृकाविच्छिन्नाध्ययनधारणादिम 4 त्युरुतरप्रबन्धात्मके भारतादौ ------
पौरुषेयत्वरूपविपक्षे बाधकानि विवक्षुस्तत्वनिर्णयोदाहृतब्रह्माण्डस्मृतौ दृष्टत्वोक्तिविरोधं तावदाह -- यदीत्यादिना ॥ पौरुषेय इति ॥ 5 स्वतन्त्रपुरुषेणेश्वरेण प्रणीतो यदित्यर्थः । श्रुता एव न तु कृता इत्यर्थः । दृष्टा एवेत्यप्येवकारान्वयमुपेत्याह -- दृष्टत्वस्यैवेति ॥"वेदकर्तृरप्रसिद्धेः"इति तत्वनिर्णयवाक्यसूचितं बाधकमाह -- वेदेति ॥ यदीत्याद्यापादकानुवृत्तिः सर्वत्र ज्ञेया ॥
मुक्तश्लोका नाम तत्र तत्र नानाग्रन्थस्थाः ततस्तत उद्धृता इति वा, प्रबन्धेष्वनिबद्धा एव तेनतेन पुरुषेण कृताः सुभाषितश्लोका इत्याहुः ॥
अनेकेति ॥ अनेककर्तृकं यदविच्छिन्नमध्ययनं यच्च तादृशं धारणं अविस्मरणेनानुसन्धानं आदिपदोक्तप्रवचनादिकं तद्वतीत्यर्थः ।
1.परै-कुं-क-ख. 2.ष्वपीश्व-मु. 3.स्योक्तिः -मु-च. 4.ति गुरु-छ-ख. 5.वृत्तिरित्यधिकं वर्तते-कुं.
अपौत्वे ऽनुर्-कः) वेदापौरुषेयत्ववादः पु - 253.
--------------- ----------------- ----------
1 तन्नियमात् ॥
एतेन कर्तृस्मरणस्या 2 विध्यर्थत्वादिति निरस्तम् ॥
वेदे प्रतिकल्प 3 मनियतान्यनेका 4 नुपूर्व्याणि 5 तेषां यथावदध्ययनानि चाभ्युदयकारणानि, अन्यथाध्ययनानि च वाग्वज्रतयानर्थकारणानि,
तथाचाल्पप्रबन्धे तदभावेपि भारतादाविवोक्तविशेषणवत्युरुतरप्रबन्धे वेदे स्यादेव कर्तृस्मृतिरध्यापकानाम् । न च सास्तीति भावः ॥
एतेन गूढकर्तृकवाक्ये सत्यापि पौरुषेयत्वे कर्तृस्मृतिर्नेति व्यभिचार इति प्रत्युक्तम्। उक्तविशेषणवत्युरुतरप्रबन्धे तस्यावश्यकत्वादिति ॥
एतेन"कपिलकणादगौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्वस्मृतिरस्ति"इति मणिकुसुमाञ्जल्यादावुक्तं निरस्तम् । अध्यापकानां स्मृतेरसिद्धेः ॥
यत्तु सुधायां"किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशन्ति तमेवान्यस्मा उपदिशति वेदान्तरं वा"इत्यादिनोक्तं तदपि बाधकं स्पष्टं
विवृण्वन्नाह -- वेद इत्यादिना ॥ आनुपूर्व्याणीत्यस्य कारणान्यनर्थकारणानित्यनयोश्च इति कल्प्यत्वादित्यनेन प्रत्येकमन्वयः -- यथावदिति ॥ तस्मिंस्तस्मिन्कल्प इत्यर्थः -- वाग्वज्रतयेति ॥ वाग्रूपवज्रतयेत्यर्थः ॥
"मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात्"॥
1.तदिति नास्ति-छ-ख. 2.स्यवि-च-क. 3.ल्पं नियता-ख. 4.न्यानु-च-क-ल्पं नान्यनेका -छ. 5.ऽतेषांऽ इति द्विवारं वर्तते -छ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 254.
----------------------- -------------- ------------
अभ्युदयादीनि च विजातीयकारणजन्यत्वात्तार्णाद्यग्निवद्वितीयानीति कल्प्यत्वात्कल्पनागौरवं च स्यात् । अन्यथेश्वर एकस्मन्नेव कल्प एकस्मा एकयानुपूर्व्याविशिष्ट 2 मुपदिशातीति स्यात् । एककल्पीयायाः पूर्वस्य आनुपूर्व्या अपि 3 स्मरणान्न तत्याग इति चेत्तत्किमीश्वरः कल्पान्तरीयां पूर्वामानुपूर्वीं व्यस्मार्षीत् ॥
धर्मादिसिद्धिश्च न स्यात् । प्रकारन्तरेण तदसिद्धेरुक्तत्वात् ।
इत्यादेरिति भावः -- अभ्युदयादीनि चेति ॥ प्रतिकल्पं जायमानानि स्वर्गादीनीत्यर्थः -- विजातीयेति ॥ भिन्नभिन्नानुपूर्वीरूपत्वाद्विजातीयकारणेत्यर्थः -- तार्णेति ॥ तृणाजन्याग्नावरणिजन्याग्नितो वैजात्यम् आरणेयाम्नौ च तार्णाद्यग्नितो वैजात्यं यथा त्वन्मते तथेत्यर्थः । एतच्चाग्रे तृणादीनमिकशक्तिसाधनवादे द्वितीयपिच्छेदे व्यक्तम् ॥
ननूक्तकल्पनाचतुष्टयमपि न दोषायेत्यतः प्रागुक्तापाद्यस्यानिष्टत्वद्योतनाय विपक्षे बाधकमाह -- अन्यथेति ॥
उक्तकल्पनाचतुष्टयस्य गोरवतया दोषत्वानभ्युपगम इत्यर्थः -- इति स्यदिति ॥ गौरवस्य तवादोषत्वादिति भावः । वैलक्षण्यमाशङ्क्य समं प्रकृतेपीति भावेनाह -- एकेत्यादिना ॥
"नहि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ।"
इत्यनुभाष्याद्युक्तबाधकञ्चाह -- धर्मादीति ॥ यदि वेदः पौरुषेयः स्यादित्यनुवृत्तिः -- उक्तत्वादिति । न च हेतुत्रयेपि विशेषणासिद्धिरित्यादिग्रन्थेनेत्यर्थः ।
1.अन्यानु -कुं-छ-क-ख. 2.वेदमित्यधिकं-वर्तते-छ. 3.वि -छ-क-ख-कुं-ग.
अपौत्वेनुर्ऽ-क) वेदापौरुषेयत्ववादः पु - 255.
-------------- ----------------- ------------
वेदस्य पौरुषेयत्वे ईश्वरस्य बुद्धजिनादिना वेदस्य च बुद्धाद्यागमादिना तुल्यताया अपरीहार्यत्वे 1 न वेदप्रामाण्यं च न स्यात् ॥
न च बौद्धागमाद्वेदे महाजनपरिग्रहो विशेषः । महत्वस्य पूज्यत्वरूपत्वे वेदपरिग्रहीतृणां पूज्यत्वस्याद्याप्यसिद्धेः । सङ्ख्यादिक्यरूपत्वे सन्दिग्धासिद्धेः । तुरुष्कागमादौ व्यभिचाराच्च ।
अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पमित्यत्र तत्वनिर्णयटीकायां तर्हि जिनादावपि तत्स्यादित्यापादितं साम्यमीश्वरवादेपि सममितिभावेनाह -- वेदस्य पौरुषेयत्व इति ॥ ईश्वरकृतत्व इत्यर्थः -- बुद्ध 2 जिनादिनेति ॥ ईश्वरसार्वज्ञ्यवद्बुद्धादावपि तद्भावस्यापादनसम्भवादिति भावः ॥
"वेदस्य प्रामाण्यं महाजनपरिग्रहादवधार्यते"इति मण्युक्तमाशङ्क्य निराह - न चेति ॥"अपौरुषेयत्वाद्वेदस्य"इत्येतद्व्याख्यावसरे तत्वनिर्णयटीकोक्तखण्डनरीतिमनुसृत्य महत्वं विकल्प्य निराह -- महत्वस्येति ॥ अद्यापीति ॥ पौरुषेयतया वेदप्रामाण्यविवादवेलायामेव न किन्तु माहजनपरिग्रहात्प्रामाण्यमित्युक्तिदशायामपीत्यर्थः--- सन्दिग्धेति ॥ बौद्धेषु वा वैदिकेषु वा सङ्ख्याप्रकर्षस्यानिर्णयादिति भावः ॥
1.त्वं- न चेदप्रामाण्यं च न स्यात् । न च -क. 2.जिनेति नास्ति -मु.

न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 256.
------------------------- ------------ -----------
सप्तघटिकाभ्यन्तरभोजनादिरूपजीविकादिहेतुदर्शनशून्यत्वरूपत्वे वैदिकेष्वपि केषुचिज्जीविकादिहेतोर्दर्शनात् । बौद्धादिष्वपि केषुचित्तददर्शनाच्च ।
नापि सर्वसम्मतवैद्यशास्त्रपरिगृहीतार्थकत्वं महाजनपरिगृहीतत्वम् , वैद्यशास्त्रे रोगशान्त्यर्थं वैदिककर्मविशेषविधानादिति
वाच्यम् । बौद्धानुसारिवैद्यशास्त्रे तच्छान्त्यर्थं बौद्धागमोक्तकर्मणोपिविधानात् ॥
नापि सर्वसम्मतव्याकरणपरिपालनीयत्वम् । जैनव्याकरणपरिपालनीयत्वस्य जैनागमेति सत्वात् ॥
यत्तु कुसुमाञ्जलौ द्वितीयपरिच्छेदे"हेतुदर्शनशून्यैर्ग्रहणाध्ययनधारणार्थानुष्ठानादिरेव महाजनपरिग्रहः"इत्युक्त्वा सप्तघटिकान्तभोजनादिरूपजीविकारूपो हेतुर्बौद्धेष्वस्ति न वैदिकेष्वित्युक्तम् तदाशङ्क्यनिराह -- सप्तेति ॥ सप्तघटिकाभ्यन्तरे सप्तघटिकामध्ये प्रातःकाले भोजनाभ्यञ्जादिरूजीविकाहेतुर्येषु न दृश्यते ते महान्त इत्यर्थः । जीविकादित्यादिपदेन रागकुहकवञ्जनादिरूपकुसुमाञ्जल्युक्तहेत्वन्तरग्रहः -- बौद्धेति ॥
महत्वं निरस्य तत्परिगृहीतत्वं विकल्प्य निराह -- नापीति ॥ वैद्यशास्त्रपरिगृहीतार्थकत्वं व्यनक्ति -- वैद्यशास्त्र इति ॥ 1 धान्वन्तरमस्त्रारयुतयहोमजपादिरूपवैदिककर्मेत्यर्थः -- बौद्धागमोक्तेति ॥ ज्वरादिशान्त्यर्थं बुद्धार्चनादिकर्मण इत्यर्थः 1 -- जैनेति ॥
1.अयं ग्रन्थः नास्ति - कुं -अ.
अपौत्वे ऽनुर्-कः) वेदापौरुषेयत्ववादः पु - 257.
-------------- ------------------ ----------
न च सर्वदर्शनानुमतार्थकत्वम् वेदोक्त सत्यभाषणादीनां धर्मत्वस्य सर्वदर्शनानुमतत्वादिति वाच्यम् । बौद्धोक्तार्हिसाधर्मत्वस्यापि सर्वैः स्वीकारात् । साङ्ख्यैर्वैदिकहिंसाया अधर्मत्वस्वीकाराच्च ॥
न च मन्त्रायुर्वेदादौ संवादित्वम् । एकदेश संवादित्वस्य बौद्धोक्ताग्निस्तम्भादिकर्मस्वपि दर्शनात् । विसंवादाभावस्य च वेदेप्यभावात् ॥
तस्मादपौरुषेय 1 वेदपरिग्रहादेव वैदिकानां पूज्यत्वम् । न तु तत्परिग्रहाद्वेदस्य प्रामाण्यम् ॥
एतदप्युक्तं"गौरवदोषेणेति ।"बुद्धाद्यागमतुल्यत्वेन 2 विपरीतलक्षणया लाघवदोषेणेत्यर्थः । तस्मात्पौरुषेयत्वे वेदस्य बौद्धागम 3 तौल्यमेवेति सुस्थ 4 एवानुकूलतर्कः ॥
"इन्द्रश्चन्द्रः काशकृत्स्नः पिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥"
इति कविकल्पद्रुमोक्तेस्तस्यापि व्याकरणकर्तृत्वप्रसिद्धेरिति भावः । व्यभिचारासिद्धी क्रमेणाह -- बौद्धेति ॥ साङ्ख्यैरिति ॥
एतदपीति ॥ बौद्धाद्यागमसाम्यमित्येतदपीत्यर्थः । लाघवदोषेण अप्रयोजकतापत्तिरुपदोषेणेत्यर्थः ॥ तत्र हेतुः बौद्धद्यागमतुल्यत्वेनेति ॥
1.वेदपदं नास्ति-छ. 2."गौववदोषेण"इत्यधिकं -कुं-क-ख-छ. 3.तुल्यत्वं - छ. 4. एवकारो नास्ति -छ-क-ख.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 258.
---------------------- -------------- ------------
किञ्च"वाचा विरूपनित्यया । श्रुतिर्वाव नित्या । अनित्या वा न स्मृतयो याश्चान्या वाचः"इत्यादिश्रुत्या --
"अनादिनिधना नित्या वागुत्सुष्टा स्ययंभुवा ।"
"नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः"
इत्यादिस्मृत्या च विरोधः॥
वेदस्य पौरुषेयत्वे तत्वनिर्णयाद्युक्तश्रुत्यादिविरोधं च बाधकमाह -- किञ्चेति ॥
"तस्मै नूनमभिद्यवे वाचा विरूपनित्यया ।
वृष्णे चोदस्व सुष्ठुतिं"
इति मन्त्रस्यायमर्थः । अभितो द्यौः प्रकाशो यस्यासावभिद्युः तस्मा अभिद्यवे वृष्णे वर्षित्रे नूनं निश्चितम् हे विरूप नित्यया वाचा वेदलक्षणया सुष्टुतिं शोभानां
स्तुतिं चोदयस्व प्रेरय कुर्विति विरूपमृषिं प्रत्युच्यते ॥
वाक्छब्दो वागिन्द्रियेपि प्रसिद्ध इति स्पष्टां वेदविषयां श्रुतिमाह -- श्रुतिरिति ॥ आदिपदेन ॥
"विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः ।
अनादिनित्या सा तच्च"
इत्यादि 1 ग्रहः । उक्तश्रुतिद्वये 2 नानादित्वानुक्तेर्देवताधिकरणभाष्योक्तस्मृतिं चाह -- अनादीति ॥ आदिनिधनवर्जितत्वेन नित्येत्यर्थः ॥
ननु विधिः प्रेरणा नियोग इत्यनर्थान्तरत्वाद्विध्युद्देशानां लौकिकवत् स्वतन्त्रवक्तृकत्वमेवेत्यादिचोद्यनिरासाय तत्वनिर्णयोक्तं ब्रह्माण्डपुराणवाक्यं चाह -- नित्य वेदाः समस्ताश्चेति ॥ समस्तपदेन विधिभाग स्यापि गृहीतेरिति भावः-- विरोध इति ॥
1.वक्ष्यमाणपदमधिकं - कुं 2.ये ऽनादि-मु.
अपौत्वे ऽनुर्-कः) वेदापौरुषेयत्ववादः पु - 259.
-------------- ------------------ ----------
न चेदं वाक्यं श्रुतीनां बहुकालीनत्वादुपचारितार्थम् । वावेत्यवधारणात् । तदृशीमाम 1 पि स्मृतीनामनित्यत्वोक्तेश्च । स्मृतौ वाक्यशेषे --
"सर्गेसर्गे ऽमुनैवैत उद्गीर्यन्ते तथैव च ।
तत्क्रमेणैव तैर्वर्णैः तैःस्वरैरेव नान्यथा"
इति क्रमाद्य 2 व्यत्यासोक्तेश्च ॥
"तदुत्पत्तिवचश्चैव भवेव्द्यक्तिमपेक्ष्य ति"
इति वेदोत्पत्तिवाक्यगतिकीर्तनाच्च ।
"विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः ।
अनादिनित्या सा तच्च विना तां न स गम्यते"
इति श्रुत्यन्तरस्थानादिनित्यशब्दोर्ब्रह्मणि मुख्यवित्तिः वेदे त्वमुख्येति वृत्तिद्वयापाताच्च ॥
"यावद्ब्रह्मविष्ठितं तावती वाक्"
इति श्रुत्यन्तरे ब्रह्मतुल्यत्वेन सर्वदेशकालव्याप्ततयावस्थित्युक्तेश्च ।
वेदस्य पौरुषेयत्व इत्यापादकानुवृत्तिर्ज्ञेया । तादृशीनां बहुकालीनानामित्यर्थः -- स्मृताविति ॥ नित्या वेदा इति स्मृतावित्यर्थः -- तदुत्पत्तीति ॥ स्मृतो वाक्यशेषे इत्यनुकृष्यते । नोपचरतार्थमिति साध्येन पञ्चम्यन्तनामन्वयः । तच्च ब्रह्म चानादिनित्यमित्यर्थः । न स गम्यत इति तच्छब्दस्य ब्रह्मशब्दोक्तः परमात्मेत्यर्थः -- यावदिति ॥
1.अपिपदं न - च. 2. दावव्य - च.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 260.
----------------------- -------------- ----------
एतदप्युक्तं"गौववदोषेण"इति । श्रुत्यादिविरुद्धक्रमवैजात्यरूपगौरवेणेत्यर्थः ॥
अपौरुषेयत्वे अनुकूलतर्कः

11.20

"सबस्रधा महिमानः सहस्रं यावद्ब्रह्म"
इति श्रुतौ यस्य सहस्रं अपरिमिता महिमानः प्रत्येकमपि सहस्रधा अपरिमितविधाः । तद्ब्रह्म यावत् देशकालव्यापितया विष्टितं विशेषण स्थितं वाक्वेदवागपि ताव 2 द्देशकालव्यापनित्युक्तेरित्यर्थः । एतदपीति ।. पौरुषेयत्वे श्रुत्यादिविरोध इत्येतदपीत्यर्थः । तव्द्यनक्ति । श्रुत्यादीति ॥
अपौरुषेयत्वे अनुकूलतर्कः

11.21

न चो1 क्तानुमानानां सत्प्रतिपक्षत्वं भङ्क्यम् । वेदः पौरुषेयो वाक्यत्वाल्लौकिकवाक्यवदित्यत्र पुरुषाधीनोत्पत्तिकत्वरूपे सकर्तृकत्वे साध्ये उक्तरीत्या क्रमस्य कृतकत्वेन सिद्धसाधनात् ।
पञ्चमस्तब 3 के कुसुमाञ्जल्याद्युक्तमनुमानमाशङ्क्य प्रतिज्ञादोषेण निराह -- वेद इति ॥ प्रमाकरणामूलकत्वे सति प्रमाणशब्दरूपो वेद इत्यर्थः -- उक्तरीत्येति ॥ वेदापौरुषेयत्वानुमानवादे क्रमविशेषविशिष्टानां वर्णानामित्यादिनोक्तरीत्येत्यर्थः ।"नच लौकिकवाक्यवत्सकर्तृकत्वम् ।
तस्याकर्तृकत्वप्रसिध्यभावात् ।"इत्यादिना तत्वनिर्णय 4 तट्टीकयोरभिमतमप्रयोजकत्वं व्यनक्ति -- अर्थमुपलभ्येत्यादिना ॥
1.क्तहेतूनां-छ-क-ख. 2.तीदे-कुं. 3.ककु-अ-कुं. 4.तदिति नास्ति-कुं-अ.
वेदापौरुषेयत्वानुमानादिभङ्गः ( प्र.परिच्छेदः पु - 261.
--------------------------- -------------- -----------
अर्थमुपलभ्य रचितत्वरूपे विप्रतिपन्ने पौरुषेयत्वे साध्ये च अबुद्धिपूर्वकत्वेपि रेखाविशेषवत्वेनैव पिपीलिकादिलिपेर्लिपित्ववत्, गुणाजन्य 1 योः साक्षिज्ञानेश्वरज्ञानयोर्याथार्थ्यवत्, आकाङ्क्षादिमत्वेनैवाकाङ्क्षादिम 2 त्स्वप्नादिवाक्यस्य वाक्यत्ववच्च वेदस्यापिवाक्यत्वस्योपपत्य गौववेणोक्तसाध्यं प्रत्यप्रयोजकत्वात् ॥
3 अन्यथा वेदो ज्ञानकरणेनाथर्मुपलभ्य रचितो वाक्यत्वादित्यपि स्यात् 3 । अर्थानभिज्ञोच्चारिते आधुनिके वेदे विसंवादिनि शुका 4 दिवाक्ये च व्यभिचाराच्च । उक्तश्रुत्यादिवाधप्रतिकूलतर्कपराहत्यादिसाधारणदोषाच्च ॥
विप्रतिपन्न इति ॥ तथाच न सिद्धसाधनतादोष इति भावः । अबुद्धिपूर्वकत्वेपीत्यस्य वाक्यत्वस्योपपत्येत्यनेनान्वयः । तत्र दृष्टान्तत्रयोक्तिः -- रेखेत्यादि ॥ स्वमतेनोक्तिः -- साक्षीति ॥ शुकादिवाक्येपीश्वररचितत्वेन साध्यसत्वनिरासाय विसंवादिनीति विशेषणोक्तिः ॥
"तर्कपराहतं च वाक्यत्वानुमानं श्रुतिपुराणविरुद्धं चे"ति तत्वनिर्णयटीकोक्तमाह -- उक्तेति ॥ एतच्च प्रतिकूलतर्कपदेनाप्यन्वेति । वेदापौरुषेयत्वानुमाने ये ऽनुकूलतर्का उक्तास्ते सर्वे पौरुषेयत्वे प्रतिकूलतर्का इत्यर्थः । आदिपदेनानुकूलतर्कराहित्यग्रहः -- साधारणेति ।.
1.त्वेपि साक्षी-कु-छ-क-ग-ख. 2.दुन्मत्ता-छ-द्दुःखप्रा-क. 3.इयं पङ्क्तिर्नास्ति -ग. 4. आदिपदं न -मु-च.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 262.
---------------- -------------- ------------
अत्रोक्तं मणौ 1 वेदः सजातीयोच्चारणानपेक्षोच्चरितजातीयो वाक्यत्वात्संभवात् 2 । अत्र साध्ये सजातीयपदं शब्दमूलकशब्दे व्यभिचार 3 परिहारार्थम् । शब्दस्यार्थैक्यमात्रेण मूलत्वोपपत्योच्चारण 4 सजात्यस्यानपेक्षितत्वात् । जातीयपदं त्वाधुनिकवेदे बाधनिरीसार्थम् । 5तत्र च न सिद्धसाधनम् । अपौरुषेयत्वपक्षे सर्वस्यापि वेदाध्ययनस्य गुर्वध्ययनपूर्वकत्वेन
सजातीयोच्चारणसापेक्षत्वात् । न चाप्रयोजकता । उक्तसाध्ये वेदातिरिक्तवाक्यत्वापेक्षया लघुत्वेन वाक्यत्वस्यैव प्रयोजकत्वादिति 6 मैवं ॥
पौरुषेयत्वानुमानमात्रसाधारणेत्यर्थः -- अत्रेति ॥ वाक्यत्वहेतुदूषणविषये तत्परिहारार्थमन्यथानुमानमुक्तं शब्दखण्डे वेदपौरुषेयत्वावाद इत्यर्थः । वेदः पौरुषेयो वाक्यत्वादित्यत्र सजातीयोच्चारणानपेक्षोच्चारितजातीयत्वं पौरुषेयत्वमिति साध्यस्य निरुक्तत्वादेवं प्रयोग उक्तः सजातीयपदं समानजातीयानुपूर्वीकशब्दपरम् । सजातीयोच्चारणानपेक्षया तदपेक्षां विनैवोच्चारितो यस्तज्जातीय इत्यर्थः। सर्गादावीश्वरोच्चारितत्वं पर्यवस्यतीति विवक्षितसिद्धिरिति भावः ॥
अस्फुटत्वात्पदकृत्यं व्यनक्ति-- अत्रेति ॥ पक्षधाद्युक्तमाह--बाधेति ॥ तस्याध्यापकोच्चारणापेक्षयैवोच्चरितत्वाद्बाधः । जातीयपदे दत्ते तु तादृशादिकालीनजातीयत्वान्न बाध इति भावः॥
1.ननु तर्हि वेदः - छ-क-यच्चोक्तं मणौ ननु - ख. 2.इत्यस्तु इत्यधिकं -छ-क.-ख. 3.निरासार्थं-छ-क-ख. 4.जातीयेत्यस्या-छ-क-ख. 5.अ -कुं-छ-क-ख. 6. चेन्मैवं -छ-क-ख.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 263.
------------------- ------------------- ----------
मीमांसकं प्रति सिद्धसाधनाभावेपि मां प्रति सर्गादावीश्वरेण स्वबुद्धिस्थपूर्वपूर्व 1 कल्पक्रमणोच्चारणेपि तस्योच्चरणा 2 न्तरानपेक्षत्वेन सिद्धसाधनात् । व्याप्य इव व्यापकतया हेतोरुक्तसाध्यं प्रति गौरवेणाप्रयोजकत्वाच्च । आकाङ्क्षादिमत्वं तु
त्वया 3 प्याहर्तव्यम् ।
रुचिदत्तस्तु पठ्यमानभारतादौ सम्प्रदायस्ते हेतुनिश्चये साध्यसंदेहे संदिग्धनैकान्त्यमिति जातीयपदमित्यवोचत् -- मीमांसकं प्रतीति ॥ तस्य निरीश्वरवादित्वादिति भावः ॥
"पौरुषेत्वानुमानानामप्रयोजकत्वात्"इति सुधोक्तिमनुरुध्याप्रयोजकत्वं व्यनक्ति -- व्याप्य 4 इवेति ॥ यथा धूमादौ नीलधूमत्वादिकं न व्याप्यतावच्छेदकं किन्तु लाघवाद्धूमत्वादिकमित्युच्यते तथा व्याप्यकेपि पीतवह्नित्वादिकं न व्यापकतावच्छेदकं किन्तु वह्नित्वादिकमेव तद्वदिहापि वेदातिरिक्तवाक्यत्वापेक्षया वाक्यत्व लघ्वितिवत् साध्ये वाक्यत्वानिरूपितव्यापकतावच्छेदकं न सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं किन्तु लाघवादुच्चरितत्वमेवेत्युक्तसाध्ये वाक्यत्वहेतुर्गौरवपराहतः सन्नप्रयोजको भवतीत्यर्थः ॥
नन्वेवं वेदे आकाङ्क्षायोग्यतासत्वादिमत्वमपि न सिध्येत् । लाघवेनोच्चारितत्वमात्रेण वाक्यत्वस्योपपत्या गौरवेणाकाङ्क्षादिमत्वं प्रत्यप्रयोजकत्वादित्यत आह -- आकाङ्क्षादीति ॥ त्वयापि पौरुषेयत्ववादीनापीत्यर्थः ।
1.कल्पपदं नास्ति-मु-च. 2.अन्तरपदं न - मु-च. 3.प्यनुसर्तव्यं -छ-क-ख.प्यादर्तव्यं-ग. 4.इवेति नास्ति-मु.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 264.
---------------------- -------------- -----------
स्वयंप्रति 1 भातानां वेदवाक्यनां सजातीयोच्चारणानपेक्षत्वेनांशे सिद्धसाधनाच्च ॥ एतेन वेदत्वं सजातीयोच्चरणानपेक्षोच्चरितवृत्ति महाजनपरिग्राहतावच्छेदकत्वे सति वाक्यवृत्तित्वात् ।
वाक्यत्वस्याकाङ्क्षादिमच्छब्दरूपतया तदभावे वाक्यत्वस्य स्वरूपोच्छित्तेरुभयसंमततया तत्र गौरवदोषाभावात् । इह च त्वदुक्तगुरुभूतसाध्येन विनाप्यस्तु वाक्यत्वमित्युक्तौ बाधकाभावादप्रयोजकत्वमेव
वाक्यत्वस्येति भावः -- स्वयमिति ॥ गुरुमखोच्चारणापेक्षां विनैवेत्यर्थः ॥
"जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ।
मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः"॥
इति स्मृत्या जन्मान्तरे ऽधीतानामस्मिञ्जन्मनि गुरुमुखोच्चारणापेक्षां विनैव कदाचित्कालविशेषे प्रतीतानां वेदवाक्यानामित्यर्थः ॥
यदत्रोक्तं रुचिदत्तानां तद्भिन्नत्वेन पक्षो विशेणीय इति तन्न । वेदः पौरुषेयो न वेति कृत्स्नवेदविषयपौरुषेयत्वविमत्यनानुवगुण्ये नार्थान्तरात् ॥

मण्युक्तप्रयोगान्तरं निराह -- एतेनेति ॥ निरस्तमित्यन्वयः । अत्रापि साध्ये सजातीयपदं पूर्ववच्छब्दमूलकस्मृतित्वे व्यभिचारवारकं ध्येयम् । पठ्यमानवेदे बाधाप्रसक्तेर्न जातीयपदोक्तिः ॥
महाजनेति ॥ यद्यपि मणौ प्रमाणतावच्छेदक वाक्यधर्मत्वादित्येव ------
1.तीतानां -छ.क,ख.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 265.
------------------ ------------------ ----------
स्वाधिकरणसमानानुपूर्वीकसकलवृत्तित्वाद्वा 1 । भरतत्ववत् । अत्र च पक्षस्यैकत्वेन नांशे सिद्धसाधनम् । आद्ये हेतावेतद्वेदत्वाद्यौ व्यभिचार 2 परिहाराय माहजनेत्यादिसत्यन्तं विशेषणम् । एतद्वेदत्वं तु न 3 तदवच्छेदकम् । लाघवेन धूमत्ववद्वेदत्वस्यैव तदवच्छेदकत्वात् । यागत्वादौ व्यभिचारवारणाय वाक्यवृत्तित्वादित्युक्तम् ।
-- हेतुरुक्तस्तथापि प्रमाणतावच्छेदकत्वस्य प्रमाणमात्रवृत्तित्वरू 4 पत्वऽद्यतनवेदत्वे व्यभिचारात् । तदवच्छित्तिप्रत्ययजनकत्वे स्मृतिसाधारणस्यान्यस्यैव वाच्यत्वादित्यतः पक्षधराद्युक्तविविक्षानुरोधेन महाजनेत्याद्युक्तम् ॥
नरहर्युक्तविविक्षानुरोधेनाह -- स्वेति ॥ स्वस्य वेदत्वस्य यदधिकरणम् सर्गादिकालीनो वाद्यतनैः पठ्यमानो वा वेदः तत्समानानुपूर्वीकाः सर्वैः पाठ्यमाना वेदाः तत्सकलवृत्तित्वादित्यर्थः -- भारतत्ववदिति ॥ तस्य
तादृशाद्यभरतवृत्तित्वात्साध्ववत्वंसाधनवत्वं च व्यक्तमिति भावः -- अंश इति ॥
स्वयंप्रतिभतवेदांश इत्यर्थः -- एतद्वेदत्वेति ॥ बुद्धिस्थं किञ्चिच्चैत्रादिना पठ्यमानवेदत्वमेतद्वेदत्वपदेन गृह्यते । सत्यन्तेनोक्तदोषनिरासं व्यनक्ति -- एतद्वेदत्व 8 न्त्विति ॥ धूमत्ववदिति ॥ धूमत्वं यथावह्निव्याप्यत्वावच्छेदकं न त्वेतद्धूमत्वं तथेत्यर्थः -- द्वितीय इति ॥ हेतावित्यर्थः।
1."वा"इति नास्ति -मु. 2.वारणाय - छ-क-ख. 3.पक्षताव-मु-च. 4.पे ऽद्यतन -अ. 5.न्न-कुं. 6.मिति -कुं -चेति -अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्चेदः पु - 266.
------------------------ ---------------- -----------
द्वितीये सकलपदेनैवैतद्वेदत्वादौ व्यभिचारनिरासः । एतद्वेदत्वस्य स्वाधिकरणेनैतद्वेदेन समानानुपूर्वि 1 के पूर्ववेदे वृत्यभावादिति निरस्तम् । उक्तरीत्या वेदत्वस्य सजातीयोच्चारणानपेक्षेणेश्वरेण स्वयं प्रतिभातवेदैर्वसिष्टादभिश्चोच्चरिते वृत्या सिद्धसाधनात् । वाक्यवृत्तत्वस्यो 2 च्चरितत्वेन माहाजनपरीग्राह्यतावच्छेदकत्वस्य च धर्मादिप्रमापकवृत्तित्वेनैवोपपत्योक्तं 3 साध्यं प्रति गौरवेणाप्रयोजकत्वाच्च । द्वितीयहेतोरपि स्वाधिकरणे सर्वत्र तुल्यानुपूर्वीप्रयोजक कण्ठताल्वादिरूपतुल्यकारणेनैवोपपत्या 4 गौरवेणोक्तसाध्यं प्रत्यप्रयोजकत्वात् ॥
व्यभिचारनिरासं व्यनक्ति -- एतद्वेदत्वस्येति ॥ इतीति ॥ मणावुक्तमेतेन निरस्तमित्यर्थः ॥ एतेनेत्युक्तं व्यनक्ति -- उक्तरीत्येति ॥ मां प्रतीत्यादिनोक्तरीत्येत्यर्थः-- स्वयंप्रतीभातवेदैरिति बहुव्रीहिः ॥
हेतौ विशेष्यविशेषणरूपांशद्वयस्याप्युक्तसाध्येन विनान्यथोपपत्याप्रयोजकत्वलमाह -- वाक्येत्यादिना ॥
उच्चारितवृत्तित्वेनोपपत्येत्यन्वयः । गौरवेणेत्युपलक्षणम् । विपक्षे बाधकाभावेन चेत्यपि ध्येयम् । श्रुत्यादिबाधादिरुपप्रागुक्तसाधारणदोषोप्यत्रानुसन्धेयः -- तुल्यकारणेनेति ॥ येन कारणेन वेदत्वाश्रयव्यक्तिषु सर्वत्र तुल्यानुपूर्वी भवति तादृशकारणेनैव हेतुरुपपन्नः ।
1.समस्त पदं -च-क. 2.ऽच्चारिऽ इति संशोधितं दृश्यते -छ. 3.क्तसा-छ-च- क-ग-ख. 4.गौरवेण इति पदमनन्तरं वर्तते -मु-च-छ-क-ख-ऽगौरवेणऽ इति नास्ति - ग.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषयत्ववादः पु - 267.
-------------------- ------------------- ------------
एतेन बुबोधयिषुपठितो वेदः स्वानपेक्षस्वसमानविषकज्ञानपूर्वकः । बुबोधयिषुवाक्यत्वात् लौकिकवाक्यवदिति निरस्तम् । स्वमानविषयकज्ञानपूर्वकत्वमात्रेण बुबोधयिषुवाक्यत्वस्योपपन्न 1 त्वेन 2 गौरवेण स्वानपेक्षज्ञानं प्रत्यप्रयोजकत्वात् । 3।अन्यथोक्तेनैव हेतुना स्वानपेक्ष 4 स्वसमानविषयकज्ञानकरणसापेक्षत्वमपि सिध्येत् ॥ मन्मते ईश्वर 5 ज्ञानस्य वेदानपेक्षत्वेन सिद्धसाधनाच्च ।
नापि वेदो वाक्यार्थगोचरयथार्थज्ञानजन्यः ।
न त्वन्येन । तच्च कारणं कण्ठताल्वादिकं न तु तलताडनादिरूपम् । तथा च सजातीयोच्चारणानपेक्षोच्चरितवृत्तित्वप्रयुक्ततत्वाभावादप्रयोजकत्वं हेतोरित्यर्थः ॥ बुबोधयिष्विति ॥ शिष्योन्बोधयितुमिच्छताध्यापकेन पठितो वेद इत्यर्थः । इदानीन्तनाज्ञपठितवेदे बाधवारणाय बुबोधयिषुपठितेत्युक्तिः । स्वेति सन्निहितो बुबोधयिषुपठितो वेद उच्यते । तदनपेक्षं तदजन्यमित्यर्थः । तत्समानविषयकं च यज्ञानं तत्पूर्वक 6 इत्यर्थः । तादृश च ज्ञानमीश्वरनिष्ठमिति तज्जन्यत्वेन साध्यसिद्धिरिति भावः । अज्ञोच्चरितवाक्ये वाक्यत्वस्य व्यभिचारनिरासाय बुबोधयिष्विति हेतौ विशेषणम् ॥
"अनुमानानाप्रयोजकत्वात्"इति सुधोक्तमनुरुध्याह -- स्वसमानेति ॥ मण्युक्तं प्रयोगान्तरं प्रत्याचष्टे -- नापि वेद इति ॥
1.त्वेगौ-मु-च. 2.गौरवेण इति नास्ति -छ-क-ख. 3.एतावन्नास्ति - ग. 4.ऽस्वमानाविषयकरणऽ इत्यधिकं -क. 5.ज्ञानपदं नास्ति - ग. 6.कमि-कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 268.
------------------------ ----------- ----------
प्रमाणशब्दत्वात् । भारतवदिति वाच्यम् । यथार्थज्ञानमात्रस्य हेतुत्वविक्षायामर्थबुबोधयिषय पठिते आधुनिकदांशे सिद्धसाधनात् । तन्निरासाय शब्दाजन्यत्वेन ज्ञानस्य विशेषणे च शब्दमूलकशब्दे व्यभिचारात् ॥
सोपि पक्षतुल्य इति चेन्न । प्रामाणण्यस्य स्वतस्त्वेन -----
मणौ वेदा इति पक्षनिर्देशेपि तत्रैव पठ्यमानवदेश्य पक्षसमत्वोक्तेः यत्किञ्चिद्वेदपक्षक 1 त्वेपीष्टसिद्धेर्बहुवचनमविवेकमूलमिति सूचनाय वेद इत्येव पक्षनिर्देशः कृतः । अध्यापकानुपूर्व्यादिज्ञानडजन्यत्वेनार्थान्तरवारणाय साध्ये वाक्यार्थगोचरेत्युक्तिः । वाक्यार्थगोचरज्ञानजन्य इत्येवोक्तो ईश्वरे भ्रमसिद्धावपि नेष्टसिद्धिरिति ताद्रूप्यसिद्धये यथार्थपदम् -- भारतवदिति ॥ प्रत्यक्षमूलाद्यभारतवदित्यर्थः -- मात्रस्येति ॥ शब्दा 2 जन्यत्व विशेषणहीनस्येत्यर्थः । हेतुत्वेति ॥ जनकत्वेत्यर्थः ।

नन्वेतद्धोषनिरासायैव शब्दा 3 जन्येति ज्ञानविशेषणमुक्तं मणावित्यत आह --तन्निरासायेति ॥"तादृशस्यापि द्विकर्तृकत्वमिति"मण्युक्तेर्भावमाशङ्क्याह-- सोपीति ॥ प्राचीनमते पक्षसमेपि सन्दिग्धसाध्यवति हेतुनिश्चयेन व्यभिचारस्य दोषत्वेप्याधुनिकमते दोषत्वाभावस्येश्वरवादे मणावेव व्यनक्तत्वादिति -- प्रामाण्यस्येति ॥ हेतो विशेष्यस्य विशेषणस्य वोक्तरूपसाध्येन विनानुपपत्या विशिष्टहेतुना साध्यसिद्धर्वाच्या । तत्र विशेष्यं शब्दत्वं तावन्नानुपपन्नम् । शब्दाभासेपि तस्य
सत्वात् । किन्तु विशेषणस्य प्रमाजनकत्रूपप्रामाण्यस्यैवानुपपत्या साध्यसिद्धिर्वाच्या ।
1.क्षीकारे-मु-अ. 2.ऽब्दऽ -कुं. 3.ब्द-कुं.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 269.
------------------- ------------------ ----------
-- परतस्त्वेपि यादृच्छिकसंवादिवाक्य इवावश्यक योग्यतादि 1 नोपपन्नत्वेन गौरवे 2 णोक्तसाध्यं प्रत्यप्रयोजकत्वात् । अन्यथोक्तेनैव हेतुना
वाक्यार्थगोचरप्रमाकरणपूर्वकत्वमपि सिध्येत् ॥
एतेन यथार्थज्ञानत्वस्य करणतावच्छेदकत्वं विवक्ष्यत इति निरस्तम् । प्रामाण्यस्य स्वतस्त्वेन परतस्त्वेपि नित्यत्वेनेश्वरज्ञानस्य प्रमात्ववद्वेदस्यापि नित्यत्वेन प्रमाणशब्दत्वोपपत्तेः ।
एतेन वेदस्य यथार्थज्ञानपूर्वकत्वाभावे ऽन्थपरम्परा स्यादिति निरस्तम् । प्रत्यक्षवद्गुणजन्येश्वज्ञानवच्च तदपूर्वकत्वेप्यन्धपरम्पराभावोपपत्तेः ॥
अत एव च देदजन्या प्रमा 3 करणगुणपूर्विका जन्यप्रमात्वात् चूक्षुषप्रमावदिति निरस्तम् ।
तस्याप्यन्यथोपपत्याप्रयोजकत्वमित्यर्थः । स्वतस्त्वेनेत्यस्य ज्ञानजनकत्वशक्त्यैवेत्यर्थः । उपपन्नत्वेनेत्यन्वयः -- परतस्त्वेपीति ॥ गुणप्रयुक्तत्वेपीत्यर्थः । योग्यतादीत्यपदेन योग्यताज्ञानदोषाभावादिग्रहः -- अप्रयोजकत्वादिति ॥ त्वदुक्तसाध्यं प्रतीत्यर्थः -- विवक्ष्यत इति ॥ प्रागुक्तांशतः सिद्धसाधनतानिरासायेति योज्यम् ॥
वेदनित्यत्वेमण्याद्युक्तं बाधकान्तरं निराह -- एतेन वेदस्येति अन्धपरम्परेति ॥ तथाच वेदे ऽनाश्वसः स्यादिति भावः -- अत एवेति ॥
1.एवेत्यधिकं -मु-च - नाचोक्त - छ-ख-क. 2.णाप्रयो - मु-च-क-ग. 3.का - छ-ग-ख-च.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 270.
----------------------- ------------- ----------
अप्रयोजकत्वात् ॥
नापि वेदाः सर्वज्ञप्रणीताः वेदत्वात् व्यभिचारेकेण लौकिकवाक्यवदिति वाच्यम् । अप्रसिद्धविशेषणत्वात् ॥
ननु तर्ह्यसंसारिप्रणीता इति साध्यते । न चैवमप्रसिद्धविशेषणत्वम् । आत्मत्वमसंसारिनिष्ठम् जातित्वात् घटत्ववदित्यनेनासंसार्यात्मसिद्धौ, विमतः कस्यचिद्वाक्यस्य वक्ता आत्मत्वात् अहमिवेत्यनेन सामान्यतो ऽसंसारिप्रणीतत्वसिद्धेरिति चेन्न । उक्तरीत्या गौरवेण
वेदस्वरूपतत्प्रामाण्ययोरसंसारिप्रणीतत्वं विनाप्युपपत्याप्रयोजकत्वात् ॥
नापि वैदिकमहंपदं स्वतन्त्रवक्तृपरं अहंपद ------------
गुणाभावेपि प्रमात्वस्योपपन्नत्वादेवेत्यर्थः। तदेव व्यनक्ति । अप्रयोजकत्वादिति ॥
चिरन्तनानुमानान्तरमाशङ्क्य तत्वनिर्णयटीकोक्तदोषेण निराह । नापि वेदा इति ॥ टीकोक्तमुपलक्षणमुपेत्य परोक्तमन्यदप्याशङ्क्य निराह -- ननु तर्हीत्यादिना ॥ उक्तरीत्येति ॥ प्रत्यक्षवद्गुणाजन्येश्वरज्ञानवच्चेत्यादिनोक्तरीत्योपपत्येत्यन्वयः ।
उदयनोक्तं 1 प्रयोगान्तरमाशङ्क्य निराह । नापीति ॥"तद्ब्रूह्यावेदहं ब्रह्मस्मीति""अहमेव स्वयमिदं वदामि"इत्यादौ श्रुताहमाद्यस्मदादेशपगदमित्यर्थः ॥
1.ऽप्रोयोक्तृऽ इत्यधिकं - अ.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 271.
-------------------- ----------------- -----------
त्वात् संमतवदित्यनेन पौरुषेयत्वसिद्धिरिति वाच्यम् । तथात्वे त्वन्मते वेदे"शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा"इत्यादौ स्वतन्त्रवक्तुरीश्वरस्यैव, भारतादौ च
किं नो राज्येन गोविन्द-
शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् ।
इत्यादौ व्यासस्यैव, लोके च"वाच्यस्त्वया मद्वचनात्स राजा"इत्यादौ कालिदासादेरेवाहं शब्दार्थत्वापातात् ॥
"तथात्वे सङ्कल्पप्रार्थनादिवाक्यानामनर्थकत्वप्रसङ्गात्"इति तत्वनिर्णयटीकां विवृण्वन्नेव हेतुमाह -- तथात्व इति ॥ तैत्तरीयोपनिषादि श्रुते प्रार्थनावाक्यं मे मम शरीरं विशिष्टाश्चर्षण्यः" 1प्रजा यस्य तत् विशिष्टप्रजायुक्तमस्तु मे मम जिह्वा मधुमत्तमा अतिशयेन स्वादुमती भवत्विति प्रार्थनाकर्तृयजमानवाचित्वेन श्रुतास्मदादेशरूपम 2 इति शब्दार्थमीश्वरस्य स्यात् । तथा --
किं नो राज्येन गोवन्द किं भोगैर्जीवितेन वा ।
इति विषादपर गीतावाक्ये तथा --
"पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेहं"
इति शिक्षाप्रार्थनापे अर्जुनकर्क्तृकवाक्ये व्यासस्यैव न इत्यहमिति च श्रुतास्मच्छब्दार्थत्वप्रसङ्गात् । तथा रघुवंशे च मद्वचनादिते सीताप्रयुक्तास्मच्छब्दार्थत्वं कालिदासस्य स्यादित्यर्थः।
1.णयः -मु. 2.मदिति-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 272.
------------------------ ---------- ---------
ननु"शरीरं मे"इत्यादावीश्वरादेरेव स्वतन्त्रवक्तृत्वेपि मन्त्रलिङ्गप्रकरणादिना यजमानाद्यभिप्राया 1 नुप्रवेशाङ्गीकाराद्यजमानार्जुनसीता 2 दिरेवाहं शब्दार्थ 3 इति चेत्तर्हि
वेदापौरुषेयत्वेपि"शरीरं मे"इत्यादिप्रार्थनादिमन्त्रेषु मन्त्रलिङ्गादिना यजमानेश्वराद्यभिप्राया 4 नुप्रवेशस्य मयापि स्वीकृतत्वात्तत्र यजमान एवाहंशब्दार्थः"मामुपास्व"इत्यादौ त्वीश्वर इत्यस्तु ॥
किञ्च मन्मते ईश्वरस्यान्योच्चारणानपेक्षमेवोच्चारयितृत्वेन स्वतन्त्रवक्तृत्वमप्यस्ति॥
एतेन वैदिकेन स्या 5 मामाभूमेत्याद्युत्तमपुरुषेणापौरुषेयत्वसिद्धिः । तदभिधेयायाः सङ्ख्यायाः स्वतन्त्रवक्तृन्वयादिति निरस्तम् ।
"न हि वयं वेदे पुरुषाभिप्रायप्रवेश एव नास्तीति वदामः"इतिटीकोक्तसमाधिं परमुखेनैव वाचयन्नाह -- ननु शरीरमित्यादिना ॥ मन्त्रलिङ्गेति ॥ मन्त्राणामर्थप्रतिपादनसामर्थ्यं हि मन्त्रलिङ्गमिति मीमांसकादिपरिभाषा । व्यक्तमेतल्लिङ्गप्रकरणादिस्वरूपमग्रे द्वितीयपरिच्छेदे । यस्मिन्मन्त्रे यदर्थप्रतिपादनसामर्थ्यं प्रकरणस्थानादिकं वा विद्यते तदभिप्रायानुप्रवेशस्य तत्राङ्गीकारादित्यर्थः ॥
तर्हि"मामुपास्व"इत्यादाव 6 नन्यपरे स्वतन्त्रवक्तृपरता स्यादित्यतः सिद्धसाधनत्वं चाह -- किञ्चेति ॥ 7 स्यामेति ॥"वयं स्यामतयो रयीणां,
1.ऽअनुऽ इति नास्ति-मु-च. 2.दे-च. 3.ता-च. 4.ऽअनुऽ इति नास्ति-मु-च. 5.म भूवमि मु -छ-च. 6.वन्य-कुं. 7.स्यामिति-ऽस्यामहन्ते सदमिद्रातौ तव स्यां ऽ इति वर्तते -मु.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 273.
------------------- ------------------ ----------

तस्याः"गृभ्णामि ते सौभगत्वस्य हस्तं"इत्यदौ परतन्त्रवक्तृन्वयस्यापि दर्शनात् । प्रत्युत त्वत्पक्ष एव"वयं स्याम पतयो रयीणां""भूयिष्टां ते नम उक्तिं विधेम"इत्यादौ बहुवचनादिकमयुक्तम् । स्वतन्त्रवक्तृरीश्वरस्यैकत्वात् ॥
एतेन वैदिकेन युष्मच्छब्देन पौरुषेयत्वसिद्धिः । तस्य स्वतन्त्रवक्तृसंबोध्यवाचकत्वादिति निरस्तम् ।"त्वां प्रपन्नं""वाच्यस्त्वया"इत्यादौ परतन्त्रवक्तृसंवेद्येपि तत्प्रयोगात् ॥
पतयो रयीणां, अपाम सोमममृता अभूम, अभूमानागसो वयं"इत्यादौ श्रुतोत्तमपुरुषयस्य"व्द्येकयोर्द्विवचनैकवचने"बहुषु बहुवचनं"इत्युक्तवचनरूपतया सङ्ख्यावाचित्वात्तदभिधेयायां सङ्ख्याया इत्युक्तम् -- तस्या इति ॥ सङ्ख्याया इत्यर्थः ।"गुभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथा सः"इति बहुवचनवाक्ये उद्वोढुपुरुषेण ते तव हस्तं सौभाग्याय गृभ्णामि""हृग्रयोर्भश्छन्दसि"इति भदेशः गृह्णामीति कन्यां प्रत्युच्चार्यमाणे श्रुतोत्तमपुरुषोक्तसङ्ख्यायास्तद्वाक्यं प्रत्यस्वतन्त्रवक्त्रन्वयदर्शनादित्यर्थः । एकत्वादित्युपलक्षणम् । सर्वनम्यत्वात्प्रणामोक्तिश्च न युक्तेत्यपि ध्येयम् -- इत्यादाविति । पूर्वोक्तगीताहघुवंशवाक्यादौ व्यासकालिदासादेरेव स्वतन्त्रवक्त्रुतयार्ऽजुनसीतादेरेतादृशवक्तृत्वात्तत्संबोध्येपि कृष्णादौ युष्मत्पदादेशप्रयोगदर्शनाद्व्यभिचार इत्यर्थः ॥
न्यादीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 274.
----------------------- --------------- ----------
एतेनैव वैदिकाभ्यां यत्तच्छब्दाभ्यां पौरुषेयत्वसिद्धिः । तयोर्यथाक्रमां स्वतन्त्रवक्तृविष्ठबुद्धि 1 विषये तादृशपरामर्शोपहिते च शक्तत्वादिति निरस्तम् ।"योस्मान्द्वेष्टि"2 इत्यादौ चास्वतन्त्रवक्तृबुद्धिविषयादावपि प्रयोगदर्शनात् । अन्यथा वैदिकानां किमहोबतधिगादिशब्दानामपि स्वतन्त्रवक्तृनिष्ठसंसयसुखदुःखोपहि 3 तार्थत्वाद्वेदस्य नित्यसंशयाद्याधारकृतत्वमपि स्यात् ।
वैदिकाभ्यामिति ।"यश्छन्दसामृशयो विश्वरूपः छन्दोभ्योध्यमृतात्सम्बभूव समेन्द्रो मेधया स्मृणोति"इत्यादौश्रुताभ्यामित्यर्थः -- यथाक्रममिति ॥ स्वतन्त्रवक्तृनिष्ठबुद्धिविषये यच्छब्दः तादृशपरामर्शोपहिते 4 विषये च तच्छब्द इत्यर्थः । पूर्ववदेव वेदे लोके च व्यभिचारमाह -- य इति ॥"अप्रतिष्ठः स भूयाद्योस्मान्द्वेष्ट यं च वयं द्विष्म"इत्यत्र यो द्वेष्टि सः अप्रतिष्टो भूयादिति"वाच्यस्त्वया मद्ववचनात्स राजा"इति हधुवंशे च प्रयोगदर्शनादित्यर्थः ॥
स्वोक्तगत्यन्तरपक्षे अनुकूलतर्कं परपक्षे बाधकं चाह -- अन्यथेति ॥ स्वतन्त्रवक्तृत्वादिकमेवाहमादिपदानामिति पक्षे इत्यर्थः ।"किं स्विद्धिमस्य
भेषजं को न आत्मा किं ब्रह्मेत्यादौ च किं शब्दः 5 इत्यादावहाशेब्दः"6 अहो बतासि यमेनैव ते मनोहृदयं विदाम"इत्यादौ बत शब्दः छन्दोगौपनिषदि सप्तमे"आचार्यं वा ब्राह्मणां वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येनमाहुरित्यादौ च धिक्छब्दः श्रुतः।
1.ऽविशेणऽ इत्यधिकं -मु. 2.ऽइत्यादौऽ इत्यधिकं - क. 3.अर्थपदं नास्ति-छ. 4.परामर्शेत्यधिकं-मु-अ. 5.अत्र ग्रन्थपातः प्रदर्शितः-मु. 6.बतोबतासि इति वर्तते-मु-अ.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 275.
----------------- --------------- ----------
1 तत्र संशयादिकमाहार्थं चेदि 2 हापि स्वातन्त्र्यमाहार्यमस्तु 1 ॥
एतदप्युक्तं"गौरवदोषण"इति ।
एतेनैव काठकं कालापकं इत्यादि समाख्ययेश्वरसिद्धिः । ईश्वरस्यैव कठादिकायपरिग्रहेण तत्तच्छाखनिर्मातृत्वात् । अध्ययनमात्रस्य साधारण्यादिति निरस्तम् ।
तत्र किंशब्देन संशयः अहो 3 इति सुखं बत धिगिति दुखं प्रतीयत इतीश्वरो वेदकर्ता नित्यज्ञानादिमानिव नित्यसंशयादिमानपि तादृशवाक्यकर्तृत्वेन स्यादित्यर्थः ॥
आहार्यं चेदिति ॥ एतेन"न च जिज्ञासा 5 दयः सर्वज्ञे विप्रतिषिद्धा इति युक्तं शिष्यबोधनायाहार्यत्वोपपत्तेः"इति
कुसुमाञ्जल्युक्तं निरस्तम् । सुखदुः खादेरवर्जनीयत्वात्तस्याप्यहार्योरोपत्वे तद्बोधकवेदभागस्याप्रामाण्यापत्तेरिति भावः॥
गौरवेति ॥ नित्यसंशयादिमत्वरूपगौरवदोषेण पुंवाक्यं ज्ञापकं न तदित्यर्थः -- एतेनैवेति ॥ अन्यथोपपन्नत्वकथनेनैवेत्यर्थः -- समाख्ययेति ॥"यौगिकी संज्ञान समाख्या"इति मीमांसकपरिभाषया कठेन कृतं काठकमित्यादियौगिकसंज्ञारूपसमाख्येत्यर्थः । तावता कथमीशकृतत्वमित्यत आह -- ईश्वरस्यैवेति ॥ कठादिमुनिनाधीतत्वात्काठकमित्यस्त्वित्यत आह --
अघ्ययनमात्रस्येत्वेति ॥ अध्येत्रन्तर साधारण्यादित्यर्थः -- कठादि ऋषिधृतत्वेति॥
1.अयं ग्रन्थः नास्ति-ग. 2.दत्र-छ-क. 3.बत इत्यपि वर्तते -मु. अ. 4.संशयेत्यधिकमस्ति - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 276.
------------------------ -------------- -----------
कठादि ऋषिधृ 1 तत्वमात्रेण काठकादिसंज्ञोपपत्तेः ॥
नापि वेदस्तात्पर्य 2 पूर्वकः प्रमाणशब्दत्वात् भारतवत् । न चाप्रयोजकता । तात्पर्यज्ञानस्य शाब्दज्ञानानियामकत्वे हि नानार्थे श्लिष्टे च विनिगमकाभावेनार्थविशेषधीर्न स्यात् । यष्टीः प्रवेशयेत्यादावन्यानुपपत्यभावेन लक्षणा च न ----
तज्जन्मन्यश्रुतानां सुप्तप्रतिबुद्धैरिव कठादिभिर्दृष्टत्वस्य तन्निबन्धनत्वोपपत्तेः"रिति तत्वनिर्णयटीकोक्तदिशा कठादिमुनिभिर्जन्मान्तरेधीतशाखाविशेषस्य प्रतिभाबलवेदानीं स्फुरितत्वेन तदृष्टत्वरूपद्बूद्धिधृतत्वेनोपपत्तेरित्यर्थः ॥
यत्तु मणौ"तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यं"मिति तात्पर्यस्वरुपं निरूप्यन्ते 3"लोके कॢप्तत्वाद्वेदेपीदन्तात्पर्यमिति पौरुषेयत्वम्"इत्यादिनोक्तं तदाशङ्क्य निराह -- नापीति ॥ तात्पर्यपूर्वक इति ॥ अर्थप्रतीतीच्छाया केनाचिदुच्चरित इत्यर्थः । 4 यद्वा अर्थप्रतीतीच्छयोच्चरितत्वरूपतात्पर्यज्ञानपूर्वक एवार्थप्रत्यायक इति साध्यार्थः । प्रमादादिदोपूर्वकशब्दाभासे व्यभिचारनिरासाय प्रमाणेति हेतुविशेषणम् । अर्थप्रमितिजनकशब्दत्वादित्यर्थः ॥
मण्याद्युक्तमेवानुकूलतर्कं निष्कृष्याह -- तात्पर्यज्ञानस्येति ॥ नानार्थ इति ॥ 5 अक्षमानयेत्यादौ -- श्लिष्ट इति ॥ राजा कुवलयोल्लासीत्यादौ पार्थिवजन्द्ररूपार्थद्वयश्लेषयुक्त इत्यर्थः -- अन्वयेति ॥
1.दृष्टत्व-छ. 2.मूलकः-ख. 3.ऽअन्तेऽ इति नास्ति-कुं. 4.यद्वा इति नास्ति - कुं. 5.अज-मु -अश्व-अ.
वेद-पौत्वानु-धङ्गः) वेदापौरुषेयत्ववादः पु - 277.
------------------- ------------------ ----------

-- न स्यादि 1 त्युक्तानुकूलतर्कस 2 द्भावात् । तात्पर्यस्य 3 चार्थप्रत्यायनेच्छयो 4 च्चरितत्वरूपत्वात्पौरुषेयत्वसिद्धिः । तस्माच्छुतिकुमार्यास्तात्पर्यरूपो 5 गर्भ एव पुंयोगे लिङ्गमिति वाच्यम् । तत्प्रमिति शेषत्वरूपस्य तात्पर्यस्येच्छाघटितत्वाभावात् । तद्घटितत्वेपि मन्मते सजातीयोच्चारणानपेक्षस्येश्वरस्यार्थप्रत्यायनेच्छयोच्चारणेपि सर्वदाप्येकप्रकारानुपूर्विकत्वरूपापौरुषेयत्वाहानेश्च ।
गङ्गायां घोष इत्यादौ प्रवाहग्रामयोराधाराधेयभावरूपान्वयानुपपत्या गङ्गापदस्य तीरे लक्षणाश्रीयते । यष्टीः प्रवेशयेत्यादौ तु यष्टीनां गृहप्रवेशान्वयसम्भवेन लक्षणाबीजान्वयानुपपत्यभावात् यष्टिपदस्य यष्टिमत्सु लक्षणा न स्यात् । तात्पर्यज्ञानस्य हेतुत्वे तु यष्टिमत्प्रवेशतात्पर्यानुपपत्तिरूपलक्षणाबीजसम्भवाल्लक्षणा स्यादेवेति भावः ॥
तावता कथं पौरुषेयत्वमित्यत आह -- तात्पर्यस्य चेति श्रुतीति ॥ श्रुतिरूपकुमार्यास्तात्पर्यरूपो गर्भ इत्यर्थः । यथा कुमार्यां गर् 6 भेण चिह्नेन पुंयोगोस्ति तस्या इति ज्ञायते तथा श्रुतेरपि तात्पर्यरूपलिङ्गेन पुरुषकृतत्वरूपपुंयोगो ज्ञायते इत्यर्थः ॥
अस्त्वेवं वेदस्य तात्पर्यपूर्वकत्वं तावता न पौरुषेयत्वसिद्धिरिति भावेनाह -- तत्प्रमिति शेषत्वेति ॥ 7"शेषः परार्थत्वात्"इति जैमिन्युक्तदिशा तत्प्रमित्येकोद्देश्यकत्वं तच्छेषत्वं तदेव तत्तात्पर्यमित्यर्थः -- अन्यथेति ॥
तत्प्रत्यायनेच्छयोच्चरितत्वमत्रेण तत्कृतत्व इत्यर्थः ।
1.उक्तेतिनास्ति - कुं - ग. 2.सनाथत्वात् -मु-च. 3.च इति नास्ति - मु-च-ग. 4.च्चा-क-ख-ग. 5.पग-मु-छ-खर्. 6.भीय-मु. 7.शेषपदं नास्ति-मु.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 278.
----------------------- --------------- ----------
अन्यथात्व 1 न्मतेप्याधुनिकेनार्थज्ञानवताध्यापकेन तदिच्छायोच्च 2 रितस्य
वेदस्याधुनिक 3 कृतत्वं स्यात् । यादृच्छिकसंवादिकुशकादिवाक्ये इच्छारूपतात्पर्याभावेपि शाब्दप्रमादर्शनेन हेतोरप्रयोजकत्वाच्च ॥
न च तत्रापीश्वरेच्छा कल्प्या । अबाधितार्थत्वेन तत्कल्पनस्य शाब्दबोधानन्तरभावित्वेन तत्राहेतुत्वात् । ईश्वराभावं निश्चितवतोपि मीमांसकस्य शुकादिवाक्येन शाब्दप्रमादर्शनाच्च । नानार्थादावपि मन्मते नेच्छायां तात्पर्यं नियामकम् । किन्तु तत्प्रमितिविशेषत्व 4 रूपम् । त्वन्मतेप्यावश्यकं प्रकरणादिकमेवार्थविशेषज्ञापकमस्तु ।
पराभिमतेच्छाघटिततात्पर्यरूपसाध्ये प्रमाणशब्दत्वहेतोरप्रयोजकत्वं चाच -- यादृच्छिकेति ॥ अबाधितेति ॥ शुकादिवाक्यं तदर्थप्रत्यायनेच्छयेश्वरेणोच्चरितं अबाधितार्थत्वादित्यबाधितार्थत्वेन हेतुना तदिच्छयेश्वरोच्चारितत्वकल्पनस्येत्यर्थः । तत्र शाब्दबोधे ईश्वरोच्चरितत्वरूपतात्पर्यज्ञानस्याहेतुत्वादित्यर्थः ॥
अप्रयोजकत्वं प्रकारान्तरेण व्यनक्ति -- ईश्वरा 5 भावमिति ॥ यत्तु तात्पर्यज्ञानस्य शाब्दज्ञाननियमकत्वमुक्तं तत्तथैव । परन्तु न त्वदभिमततात्पर्यज्ञानं नियामकं किन्त्वन्यदेवेति भावेनाह -- नानार्थेति ॥ तत्प्रमितीति ॥ तात्पर्यञ्ज्ञातं सदिति शेषः । एतेन यष्टीः प्रवेशयेत्यादौ लक्षणा न स्यादिति दोषोपि नेति भावः -- आवश्यकमिति ॥
1.तत्पक्षे -क-ख. 2.ऽच्चाऽ इति संशोधितं -च-क-ख-ग. 3.कृत पदं नास्ति - च-छ. 4.रूपपदं नास्ति-मु-छ-ख. 5.न्यत्वमिति -अ.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 279.
-------------------- ------------------ ----------
ज्ञापके च धूमालोकादाविवाननुगमो न दोषाय ॥
यद्वा त्वन्मते काशीमरणश्रवणादिजन्यतत्वज्ञानेष्विव प्रकरणादिजन्यशाब्दबोधेष्वपि वैजात्यं कल्प्यताम् ॥
एतेन वैदिकानि निन्दावाक्यानि 1 हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् लौकिकनिन्दावाक्यवत् । एवं स्तुतिवाक्यमपि पक्षीकृत्य प्रयोक्तव्यमिति निरस्तम्।
तत्प्रत्यायनेच्छायोच्चरितत्वस्यापि प्रकरणादिनैव ज्ञातव्यत्वेन तात्पर्यज्ञानहेतुतयाप्यावश्यकमित्यर्थः॥
नन्वेवं क्विचिल्लिङ्गं क्वचित्प्रकरणम् क्वचित्समाख्येत्यननुगमो ऽतो ऽनुगतं प्रकरणादिजन्यं तात्पर्यज्ञानमेव हेतुरित्यत आह --
ज्ञापक चेति ॥
ननूक्तस्थले वह्निव्याप्यज्ञानत्वेन धूमालोकाज्ञानानामनुगमो वा धूमादिज्ञापकजन्यानुमितौ वैजात्ये 2 न वास्तु । अन्यथा व्यतिरेकव्यभिचारेणानुमितिहेतुतैव न स्यादित्यत आह-- यद्वेति ॥ काशीमरणेन श्रवणादिना च जन्येषु तत्वज्ञानेष्वित्यर्थः ॥
उदयनाद्युक्तमन्यदपि निराह -- एतेनेति ॥"यदश्रुवशीयतत् रजतं हिरण्यमभवत्तस्माद्रजतं हिरण्यमदक्षिण्यमश्रुतं हि यो बर्हिर् 3 ददाति पुरास्य संवत्सराद्गृहे रुदन्तीति""यदभिघारयेद्रुद्रायास्ये पशून्निदध्यात्"इत्यादीनि निन्दावाक्यानीत्यर्थः --
स्तुतीति"वायुर्वै क्षेपिष्टा देवता वायुमेव स्वेन भागेनोपधावति"इत्यादि वाक्यमुपादेयाभिप्रायपूर्वकं स्तुतिवाक्यत्वाल्लोकिकस्तुतिवाक्यवदिति प्रयोक्तव्यमित्यर्थः ॥
1.हान्यपि -ख. 2.त्यंवा-कुं. 3.षिद-अ. षुद-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 280.
------------------------ --------------- -----------
अपौरुषेयत्वेपि मन्मते ईश्वराभिप्रायपूर्वकत्वस्य मीमांसकमतेप्य 1 नादौ संसारेर्ऽथाभिज्ञाध्यापकाभिप्रायपूर्वकत्वस्य सत्वेन सिद्धसाधनात् । स्वतन्त्रेति विशेषणे च गौरवात् । शुकादिवाक्यदाभिप्रायपूर्वकत्वाभावेपि गुणदोष बोधकत्वेनैव निन्दावाक्यतोपपत्तेश्च ॥
एतदप्युक्तं"गौरवदोषेण"इति । तस्मात्पौरुषेयत्वे नानुमानं मानम् ॥
नापि"छन्दांसि जज्ञिरे"इत्यादिश्रुत्यादिकं तस्य --
"तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य तु ।
तत्वनिर्णयटीकोक्तमेव समाधिमाह --अपौरुषेयत्वेपीति ॥ अप्रयोजकत्वं हेतोराह -- शुकादीति ॥ तत्रापीश्वराभिप्रयकल्पनायां पूर्वोक्तदोषो ज्ञेय इति भावः ।
श्रुत्यादिकमित्यादिपदेन"प्रतिमन्वन्तरम्"इति प्रागुक्तस्मृतिग्रहः -- तस्येति ॥
श्रुत्यादेरित्यर्थः । स्मृत्यैव व्याख्यातत्वादित्यन्वयः --तदुत्पत्तीति ॥ श्रुत्युत्पत्तिवचश्चेत्यर्थः । तुर्विशेषार्थः । आदिकालीनां व्यक्तिं 2 त्विति । तेन प्रत्यहमुपाध्यायैर्व्यज्यमानत्वादुत्पत्तिव्यवहारप्रसङ्ग इति निरस्तम् । अत एवावान्तराभिमानानामित्यस्मात्पूर्वार्ध एव --
1.अनादौ संसारे इति नास्ति -छ-ख. 2.मिति -मु.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 281.
------------------ ----------------- -----------
अवान्तराभिमानानां देवानां वा व्यपेक्षया ॥
नानित्यात्वात्कुतस्तेषामनित्यत्वं स्थिरात्मनां"। इत्या 1 दिस्मृत्यैवाभिव्यक्तिपरत्वेन सम्प्रदायप्रवर्तक 2 परत्वेन च व्याख्यातत्वात् । तेनेश्वराधीनोत्पत्तिकत्वस्यैवोक्त्या मानान्तरेणार्थमुपलभ्य रचिचत्वरूपस्य प्रणीतत्वस्यासिद्धेश्च । न ह्युक्तरीत्या क्रमविशेषणघटितो वेद इदानीम 3 प्यस्मदा 4 द्यधीनोत्पत्तिक इति वयमपि वेदप्रणेतारः ॥
"वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया"।

इति गत्युक्तसद्भावेपि तदनुदाहृत्य स्थलान्तरस्थमेव तदुत्पत्तीत्यर्धमुदाहृतम् -- 5 देवानां वेति ॥ देहजन्मापेक्षयेत्यर्थः । मुख्याभिमानिश्रियस्तन्नेत्यतो ऽवान्तराभिमानानामिति । अमुख्याभिमानवतामित्यर्थः -- तेषामिति ॥ वेदानामित्यर्थः -- स्मृत्यैवेति ॥ तत्वनिर्णयोक्तब्रह्माण्डपुराणवचनेनैवेत्यर्थः ॥
"अग्नेरृग्वेदो वायोर्यजुर्वेदः"इत्यादिवाक्यगत्युक्तिपरतयापि तदुत्पत्तिवचश्चेत्यर्धस्यार्थमुपेत्याह -- सम्प्रदायेति ॥ चिरकालविरचितस्य वेदस्य शिष्यप्रविष्येषु प्रख्यानं हि सम्प्रदायः । तत्कारित्वेन चेत्यर्थः । श्रुत्यादेरन्यथासिद्धिं चाह -- तेनेति ॥ श्रुत्यादिनेत्यर्थः । अस्तु तावतैव प्रणीतत्वमित्यत आह-- न ह्युक्तरीत्येति ॥ क्रमविशेषविशिष्टानां वर्णानामित्यादिनोक्तरीत्येत्यर्थः ॥
1.आदिपदं नास्ति -छ - अभिव्यक्तिपरत्वेनेति नास्ति - छ-क-ख. 2.नप-मु-च-परेति नास्ति -छ-क-ख. 3.अपि इति
नास्ति -ख. 4.आदि पदं न - छ. 5.देवानां -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 282.
----------------------- ------------- ----------
ननु यथा वेदानादित्वश्रुतिर्न वेदस्वरूपानादित्वपरा । बाधात् । किन्त्वानुपूर्व्यनन्यथात्वपरा । तन्मात्रेणैव शब्दे ऽनुत्पत्तिव्यवहारात् । तथा तदुत्पत्तिश्रुतिरपि तदन्यथात्वपरेति चेन्मैवम् ।"तत्क्रमेणैव"इत्यादिस्मृत्यानुत्पत्तिश्रुतेः क्रमानन्यथात्वपरत्वे स्थिते उत्पत्तिश्रुतेस्तदविरोधाय क्रमोत्पत्तिपरत्वस्यैवोचितत्वात् । अन्यथा"ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्"इति श्रुत्यासर्वज्ञस्याग्न्यदेरपि वेदप्रणेतृत्वं स्यात् । न चैकस्मिन्वाक्ये ऽनेकेषां स्वतन्त्रप्रणेतृत्वं युक्तम् । युक्तं तु सम्प्रदायप्रवर्तककत्वम् ॥ एतदप्युक्तं"गौरवदोषेण"इति ॥
छन्दांसीत्यादिश्रुत्यादेः क्रमोत्पत्तिपरत्वेनान्यथासिद्धिरयुक्तेति भावेन शङ्क्यते -- नन्विति ॥ श्रुतिरिति ॥"अनादि नित्या सा तच्च"इत्यादिपूर्वोक्तश्रुतिरित्यर्थः -- बाधादिति ॥ क्रमस्य कृतकत्वादिति भावः -- अन्यथात्वेति --
"वेदास्ते नित्यविन्नत्वाच्छृतयश्चाखिलैः श्रुतेः ।
आम्नायो ऽनन्यथापाठादिशबुद्धिस्थिताः सदा"॥
इति माहावाराहस्मृतेरिति भावः -स्मृत्येति ॥ प्रागुक्तयेत्यर्थः -- अन्यथेति ॥ क्रमोत्पत्तिपरत्वमनुपेत्य तदन्यथात्वपरत्वोक्तावित्यर्थः । अस्त्वित्यत आह --नचेति ॥ एतदपीति ॥ एकस्मिन्वाक्ये अनेकेषां स्वतन्त्रप्रणेतृत्वं न युक्तमित्येतदित्यर्थः -- गौरवेति ॥ अनेकस्वतन्त्रप्रणेतृकत्वकल्पनाख्यगौरवदोषेणेत्यर्थः ॥
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 283.
--------------------- --------------- ----------
यद्यप्यृष्यादयोपि केषुचित्पुरुषेष्वचिरावितस्य वेदैकदेशस्य कम्प्रदायप्रवर्तकाः । तथापि नेश्वरवत्सर्वपुरुषेष्वपि प्रलये चिर 1 तदविरतस्य कृत्स्नस्य वेदस्य प्रवर्तका इति न तेषु वेदहेतुत्वव्यवहारः । ईश्वरोपि ह्यस्मन्मते --
"यो ब्रह्माणं विदधाति पूर्वं यो वेदां श्च प्रहिणोति तस्मै"॥
इत्यादिश्रुत्या वेदस्मप्रदायप्रवर्तकत्वान्महोपाध्याय एव । तस्माद्वेदानां पौरुषेयत्वरूपं सादित्मयुक्तम् ॥
अनित्यत्वं त्वत्यन्तायुक्तम् । तथाहि । क्रम 2 विशेषविशिष्टा वर्णा एव वे 3 दाः । क्रमश्च बुद्धिनिमित्तक एव ।
सम्प्रदायप्रवर्तकत्वस्य वेदहेतुत्वव्यवहारे व्यभिचारमाशङ्क्य निराह -- यद्यपीत्यादिना ॥ छन्दांसि जज्ञिरे तस्मादित्यादेः सम्प्रदायप्रवर्तकत्वेन गत्युक्तिरयुक्ता हेतेरसिद्धेरित्यत आह -- ईश्वरोपि हीति ॥ पौरुषेयत्वेति ॥ स्वतन्त्रपुरुषप्रणीतत्वरूपमित्यर्थः ॥
यत्तु --
"प्रमायाः परतन्त्रत्वात्सर्गप्रलयसम्भवात्"॥
इत्यादिना कुसुमाञ्जलौ प्रलये वेदानामुत्सन्नत्वमुक्तम् । तदप्ययुक्तमित्याह - अनित्यत्वं त्विति ॥ वेदानामित्यनुषङ्गः । क्रमस्योक्तदिशा कथं चित्पुरुषाधीनजन्मवत्वेन कृतकत्वसम्भवे प्यानुपूर्व्युच्छेदस्तु न युक्त एवेति तु शब्दार्थः -- इत्युक्तमिति ॥
1.तरेति नास्ति -छ-ख-ग. 2.विशेषणं नास्ति -छ-क-ख-ग. 3.दः - छ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 284.
----------------------- ------------- -----------
न तु स्वत इत्यक्तम् । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुध्युपरम एव वेदे 1 विनाशो वक्तव्यः । न तु
घटादीनामिवापरः । न चेश्वरस्य तथाविधबुध्युपरमो युज्यते । तस्य सर्वदा 2 सर्वज्ञत्वात् ।
अपौरुषेयत्वानुमानवाद्रे उक्तमित्यर्थः- अपर इति॥ स्वरूपध्वंसलक्षण इत्यर्थः ॥
तर्हि पुराणा 3 नापि नित्यत्वं स्यात् । ईश्वरबुद्धिनिमित्तकत्वस्य कदाप्यनाशादित्यतो ऽस्त्येवैवं रुपं नित्यत्वम् । किन्तु क्रमव्यत्यासोपि तत्रेत्यनित्यत्वमिति भावेन तत्वनिर्णयोक्तमेवाह -- पुराणादीनामिति ॥
"पुराणानि तदर्थानि सर्गे सर्गे ऽन्यथैव तु ।
क्रियन्ते ऽतस्तनित्यापि तदर्थाः पूर्वसर्गवत्"॥
इति ब्रह्माण्डपुराणोक्तेरिति भावः ॥
नन्वेवं वेदपुराणयोरीश्वरबुद्धिनिमित्तकत्वेन नित्यत्वे पुराणानामप्यन्यथारजनं निष्फलमिति चेन्न"भगवत्प्रवृत्तेः सर्वत्र 4 स्वप्रयोजनहीनत्वस्य"न प्रयोजनवत्वात्"इति सूत्रकृतैवोक्तेः परप्रयोजनानामतिसूक्ष्माणामुत्पेक्षितुमशक्यत्वात्"इति तत्वनिर्णयटीकासुधायोरेव व्यक्तत्वात् ॥
1.दवि -च-छ. 2.सर्वदा इति नास्ति -छ. सदा -ख.ग. 3.दीना-कु. 4.ऽस्वऽ इति न - कुं.
वेद-पौत्वानु-दिङ्गः) वेदापौरुषेयत्ववादः पु - 285.
-------------------- ------------------ ----------
पुराणादिनामप्यन्यथारचनमेवानित्यत्वमि 1 ति विधिप्रत्ययस्य लोकवद्वेदेप्याप्ताभिप्रयवाचकत्वात् । वैदिकविधिप्रत्ययेनैव 2 वेदस्य पौरुषेयत्वमति तु विधिवादे नि 3 रसिष्यते ॥
4 पौरुषेयत्वानुमानादिभङ्गः

11.21

नन्वेवमपि"विधिर्नियोगः प्रेरणेत्यनर्थान्तरम् । स च प्रेरकपुरुषधर्मः । 5 अतो वैदिकानां विध्युद्देशानां लौकिकवत्स्वतन्त्रवक्तृकत्वमेवोचितम् । यस्तु पौरुषेयत्वं नोपैति तं प्रति विधिरेव । गर्भ इव श्रुतिकुमार्याः पुंयोग 6 प्रमाणम्"इति विधिवाद् मणिकृदुक्तेः ।"आप्ताभिप्रायो विध्यर्थः"इत्युदयनोक्तेश्च ।
"नित्या वेदाःसमस्ताश्च"
इति स्मृत्यक्त्या निरस्तत्वेपि विशिष्य न निरस्तमित्याशङ्कामनूद्य
निरासस्थलमाह -- विधीति ॥ 7 विधिवेदस्येति ॥ विधिभागरूप 8 वेदस्येत्यर्थः -- विधिवाद इति ॥ द्वितीयपरिच्छेदे ॥
9 पौरुषेयत्वानुमाना 10 दिभङ्गः

11.22

1.ऽइतिऽ इति नास्ति -कुं. 2.ऽविधिऽ इत्यधिकं वर्तते -ग-कुं. 3.राकरिष्यते-ग. 4.ऽवेदऽ इत्यधिकमस्ति -कुं-ग. इतिपौ-च-छ. 5.आप्तवैदिकानां विध्युद्धेशालौकिकवत् -स्वतं इत्यस्ति -अ. 6.गे-अ. 7.विधिपदं नास्ति -मु. 8.वेदपदं नास्ति -अ. 9.वेदपदमधिकं - कुं. 10. आदिपदं नास्ति - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 286.
------------------------- -------------- ----------
ननु यदुक्तमीश्वरस्य सार्वज्ञ्यादिकमप्रामाणिकमेव बहु कल्प्यमिति तन्न । तस्य धर्मिग्राहक 1 मानसिद्धत्वात् ॥
तथाहि । अदृष्टाद्वारकस्वोपादानागोचरजन्य कृतिजन्यभिन्नानि समवेतानि जन्यानि,
शास्त्रयोनित्वादिति ब्रह्मसूत्राभिमतमीश्वरस्यानानुमानिकत्वं साधयितुमाह -- यदुक्तमिति ॥ वेदापौरुषेयत्वानुमानोक्तप्रस्ताव इत्यर्थः -- तस्येति ॥ सार्वज्ञ्यादेरीश्वरधर्मिग्राहकमानेन सिद्धेरित्यर्थः ॥ तेन सार्वज्ञ्यमात्रसिद्धावपि तेनैव विप्रलम्भवसिद्धेरग्रे
व्यक्तत्वादेव मुक्तिरिति ज्ञेयम् । तत्र कुसुमाञ्जलौ पञ्जमे परिच्छेदे --
"कार्यायोजनधृत्यादेः पदत्प्रत्ययतः श्रूयते ।
वाक्यात्सङ्ख्याविशेषाच्च साध्यो विश्वकृदव्ययः"॥
इतीश्वरे धर्मिण्यनेकमानान्युक्तानि । तत्र कार्यत्वरूपं मानमेकं मणौ प्रपञ्चितम् । तत्तावदनुवदति-- अदृष्टेति । अत्र जन्यानीत्यन्तं पक्षः । स्वजन्येत्यादीनि त्रीणि साध्यानीति विवेकः । पक्षे स्वपदं जन्येति निर्दिष्टवस्तुपरम् । अदृष्टाद्वारिका या स्वोपादानगोचरा साक्षादेव स्वोपादानगोचरा या जन्या कृतिः तज्जन्यानि घटादीनि तद्भिन्नानि समवायवृत्या स्थितानि पृथिव्यादीनीत्यर्थः ॥
अत्र मणौ"अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यानी"त्युक्तावपि यथाश्रुत
उपादानपदस्य यत्किञ्चिदुपदानपरत्वे रूपाद्युपादानमृदङ्गोचरास्मदादीकृतिजन्यानां शब्दादीनां पक्षतानापत्तेः क्षित्याद्युपादानपरत्वे तद्गोचरजन्यकृत्यप्रसिध्या तदजन्यत्वाप्रसिद्धेस्तदीयव्याख्यानसूक्तपरिष्कारपूर्वकोयं स्वेत्यनुवादः ।
1. प्रमा - मु - च.
ईश्वरस्यानुमानकत्वभङ्गः) ईश्वरवादः पु - 287.
------------------------- ---------- -----------
समवेतपदस्थाने भावपदं वा प्रयोज्यम् । स्वजन्यादृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि 1 वा ।
तथा जन्यकृत्यजन्यत्वं हि जन्यकृतिजन्यान्यत्वमिति मणावेवोत्तरत्रोक्तेर्जन्यकृतिजन्य 2 भिन्नेत्यप्यनुवाद इत्यदोषः ॥
भावेति ॥ समवेतानि जन्यानीत्यत्र भावकर्याणीति वा प्रयोज्यमित्यर्थः। अदृष्टप्रागभाव 3 व्याप्य प्रागभावप्रतियोगीति साध्यांशस्य परिष्कारपूर्वकमनुवादः -- स्वजन्येत्यादि ॥ स्वपदेनोपादानगोचरज्ञानादिकमुच्यते । स्वजन्यं यददृष्टं तत्प्रागभव्याप्यो यः प्रागभावः अदृष्टकारणीभूतज्ञानादिप्रागभावः तत्प्रतियोगि च यत्किञ्चिदुपादानभूतहविरादिगोचरज्ञानादि तद्भिन्नाः स्वजन्यादृष्टजनकभिन्ना इति फलितार्थः । या उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतयः तद्वता जन्यानीत्यर्थः । अत्रापरोक्षज्ञानपदं परोक्षान्यज्ञानार्थकं न त्वपरोक्षत्वजात्याक्रान्तज्ञानपरमित्यग्रे व्यक्तम् ॥
स्वजनकेति ॥ स्वस्य कार्यस्य जनकं यददृष्टं तत उत्तरापक्षधरोक्तदिशादृष्टाधिकरणक्षणोत्तरक्षणवर्तिन्यः न तु तदुत्तरक्षणोत्पत्तिमत्यः । तेन न बाधः शङ्क्यः । तादृश्य उपादानगोचरपरोक्षान्यज्ञानचिकीर्षाकृतयस्तद्वता जन्यानीत्यर्थः । ईश्वरज्ञानादेर्नित्यतया क्षित्यादिकार्यजनकादृष्टोत्तरत्वात् कुलालज्ञानादेरपि घटादिजनकादृष्टोत्तरत्वादिति न दृष्टान्तासिद्धिः । अपरोक्षेति बहुव्रीहिः ।
1.वा इति नास्ति -ग. 2.त्वं नेत्य-अ. 3.प्रारम्भोवा व्याप्यप्रमिति योगीति साध्यांश - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 288.
----------------------- ------------- --------------
अपरोक्षज्ञानचिकीर्षाप्रयत्नविषयीभवदुपादानानि वा । समवेतत्वे सति प्रागभावपतियोगित्वात् भावकार्यत्वाद्वा । घटवत् ॥
अत्र पक्षे जन्यानीतत्येवोक्तेः ध्वंसस्यापि पक्षत्वेनांशे बाधः स्यात् । तस्योपादानाभावात् । तन्निवृत्यर्थं समवेतानीति ॥ तावत्युक्ते घटादेरपि पक्षत्वेनांशे सिद्धसाधनं स्यात् । तन्निवृत्यर्थं जन्यभिन्नानीति -- तावत्युक्ते ऽङ्कुरादेरपि जन्यत्वादाश्रयासिद्धिः । तन्निव्यत्यर्थं जन्यकृतीति ॥
परोक्षान्यज्ञानचिकार्षाप्रयत्नविषयोपादानसमवेतानीत्यर्थः । च्व्यर्थलडर्थौ तु न विवक्षितौ ज्ञेयौ । घटवदिति ॥ स्वपदस्य समभिव्याहृतपरत्वात्तत्र साध्यहेतुसत्वं व्यक्तमिति भावः ॥
हेत्वोर्ध्वंसे गगनपिरमाणादौ च व्यभिचारवारकं विशेषणद्वयं विशेष्यद्वयं चेति व्यक्तमित्युपेत्य पक्षसाध्यगतपदकृत्यानि दूषणोक्ति सौकर्याय तदीयव्याख्यानाद्युक्तानि व्यनक्ति -- अत्रेति ॥ प्रयोग इत्यर्थः । अंशे बाध इत्युक्तं तद्गोचरज्ञानादिजन्यत्वं व्यनक्ति -- तस्योपादानाभावादिति ॥ येन तद्गोचरज्ञानादिजन्यत्वं स्यादिति भावः -- अंशे सिद्धसाधनमिति ॥ अदृष्टजनकभिन्नोपादानगोचरकुलालादिनिष्ठज्ञानादिजन्यत्वात् स्वजनकादृष्टोत्तरत्वात् कुलालज्ञानचिकीर्षादेरिति भावः ॥
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 289.
---------------------- ------------ ------------
न चानीश्वरवादिनं प्रति व्यावर्त्याभावेन जन्यपदं व्यर्थम् । तन्मते प्रमेयो घट इति वत्तदुपरक्तबुद्धेरुद्देश्यत्वात् । उभयसिद्धप्रयोजनवत्वं तन्त्रम् । न 1 त्वेकस्यैवप्रयोजनस्योभयसिद्धिः । तावत्युक्ते शब्दफत्कारादेः पक्षता न स्यात् ।
तस्य शब्दादि । निमित्तभूतमृदङ्गताल्वादिगोचरास्मदादि 2 निष्ठजन्यकृतिजन्यत्वात् । तदर्थं स्वोपादानगोचरेति ॥ तज्जनकास्मदादि । निष्ठकृतेर्निमित्त 3 भूतमृदङ्गादिगोचरत्वेप्युपादानीभूतकाशादिगोचरत्वाभावात् ।
तावत्युक्ते कालीरूपादेः पक्षता न स्यात् ।
मण्युक्तमेवाह -- तन्मत इति ॥ तदुपरक्तेति ॥ तद्विषयकेत्यर्थः । पक्षधराद्युक्तमाह -- उभयसिद्धेति ॥ न्यायमते जन्यमात्रस्येश्वरकृतिजन्यतयाऽश्रयासिद्धिवारणरूपप्रयोजनवत्वं अनीश्वरमते च उद्देश्यसिद्ध्यादिरूपप्रयोजनवत्वमित्युभयसिद्धप्रयोजनवत्वमित्यर्थः ॥
एवं च शब्दफूत्कारादीनां पक्षतैवेति मण्युक्तं हृदि कृत्वाह -- तावत्युक्त इति ॥ जन्यकृतीत्यादावेवोक्त इत्यर्थः । फूत्कारो मुखवायुविशेषः । न स्यादित्युक्तं व्यनक्ति -- तस्येति ॥ तदर्थमिति ॥ शब्दादेः पक्षतासिद्ध्यर्थमित्यर्थः । तां व्यनक्ति -- तज्जनकेति ॥ मृदङ्गः शब्दस्य निमित्तं ताल्वादि च फूत्कारादेः ॥ पक्षधराद्यक्तमाह - कालीति ॥ काली नाम काचित्तपस्विनीतपसा स्वशरीरे गौरं रूपमुत्पादितवतीति तद्रूपादेरित्यर्थः -- तस्येति ॥
1.चै-छ. । एतावन्नास्ति -छ. 2.कृतेर्निमित्तीभूतेत्यादिवर्तते -ख. 3.त्ती -छ-क-ग.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 290.
---------------------- --------- ------------

तस्य स्वोपादानभूतशरीरगोचररतयोक्तरूपकृतिजन्यत्वेन तद्भिन्नत्वाभावात् । भाष्यं च तस्य पक्षतया । अन्यथा पक्षातिरिक्ते तत्र साध्यसन्देहेन सन्दिग्धानैकान्तिकतापत्तेः । तदर्थमदृष्टाद्वारेकेति । कालीकृतिस्त्वदृष्टद्वारैव रूपजनिकेति न दोषः ॥
साध्ये यद्यपि ज्ञानचिकीर्षाकृतीनां मध्ये एकैकोक्तावपीश्वरसिद्धिः । तथापि यावदभिमतविशेषण 1 गुणवत्वसिद्ध्यर्थं त्रितयोक्तिः । साध्यविशेषणानामुद्देश्यसिद्धिप्रयोजकत्वात् ॥
अपरोक्षपदन्तूपादानज्ञानस्यापरोक्षत्वेनैव हेतुत्वाव्द्यापकातसिद्ध्यर्थम् । साक्षात्कारपदं तु नोपात्तम् । प्राभाकरं प्रति साक्षा 2 त्वजातेरसिद्धेः ।
अपरोक्षपदेन तु परोक्षान्यज्ञानस्य विवक्षितत्वाददोषः ।
कालीशरीरोत्पन्नगौररूपस्येत्यर्थः -- सन्दिग्धेति ॥ प्रचीनमतेनेदं दूषणं 3 बोध्यम् । मणिकृन्मते उक्तरूपसन्दिग्धानैकान्त्यं न
दोषायेत्यग्रे व्यक्तत्वात् -- यावदिति ॥ यावन्तो ऽभिमता विशेषणगुणास्तद्वत्वसिद्ध्यर्थमित्यर्थः -- व्यापकतेति ॥ गगनपरमाण्वादिज्ञानस्य शब्दादिकं प्रत्युपादनत्वेपि चीकार्षाकृतिद्वारा शब्दाद्यहेतुत्वाद्भावकार्यत्वादिरूपहेतुव्यापकत्वसिद्ध्यर्थमपरोक्षपदोपादानमित्यर्थः । पक्षधरोक्तमाह -- साक्षात्कारेति ॥ असिद्धेरिति ॥ गुणगतजातेरनङ्गीकारात् । इन्द्रियजन्यज्ञाननपरत्वं तु न शङ्कार्हम् । बाधापातादिति भावः-- भाष्येति ॥
1.णसि-क-ख. 2.त्कारत्वजा -छ. 3.ध्येयं-अ.
ईस्य-नुकत्व-भङ्गः) ईश्वरवादः पु - 291.
-------------------- ----------- ----------
उपादानगोचरपदं तु भाष्यकाराद्युक्तध्वंसव्यावृत्तसकर् 1 तृकत्वसिद्ध्यर्थम् । तावत्युक्ते सिद्धसाधनम् । अङ्कुरादेरपि स्वजनकादृष्टजनकयत्किञ्चिदुपादानभूतहविरादिगोचरज्ञानादिमदस्मदादिजन्यत्वात् । तदर्थमदृष्टेत्यादिभिन्नान्तं ज्ञानादिविशेषणम् । एवं च न सिद्धसाधनम् । काचरणप्रागभावस्य कार्यप्रागभावं प्रति व्याप्यत्वेनास्मदादिनिष्ठादृष्टजनकज्ञानादिप्रागभावस्य स्वजन्यादृष्टप्रागभावं प्रति व्याप्यत्वेन तद्भिन्नत्वाभावात् ॥
न चैवं कपाला 2 दिरूपोपादानगोचरमदृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नं च यज्ज्ञानादि तद्वतास्मदादिनार्थान्तरम् । ज्ञानेच्छाकृतीनां स्वविषयसमवेतकार्यं प्रत्येव जनकत्वेन कपालादि गोचरज्ञानादेः क्षित्याद्यजनकत्वेन बाधात् ॥
गौतमसूत्रभाष्यकारतट्टीकाकारोक्तेरित्यर्थः-- अङ्कुरादेरिति ॥ सर्वस्यापि जीवोपभोग्यतया तत्तददृष्टार्जितत्वेन यदङ्कुरादिकं यज्जीवादृष्टजन्यं तददृष्टं
तावद्यज्ञादि 3 सत्कार्मजन्यम् । तादृशादृष्टजनकं स्वगतरूपाद्युपादानभूतहिविरादिगोचरं यज्ज्ञानादि तद्वदस्मदादिजीवन्यत्वादित्यर्थः -- तदर्थमिति ॥ सिद्धसाधनतानिवृत्यर्थमित्यर्थः -- व्याप्यत्वेनेति ॥ यदा ज्ञानादिप्रागभावस्तदा तज्जन्यादृष्टप्रागभाव इति संभवादिति भावः -- वक्रोक्तिरिति ॥
1.सकार्यकत्व -क. 2.आदिपदं नास्ति - च. 3.सकल -कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 292.
------------------------- ----------- ----------
अत्र यद्यप्यदृष्टजनकभिन्नेत्युक्तेप्यस्मदादिभिर्न सिद्धसाधनम् । तथापीश्वरज्ञानादेरप्यदृष्टजनकत्वाद्बाधः । स माभूदिति वक्रोक्तिः । एवं च न बाधः । ईश्वरज्ञानादेरनादित्वेन प्रागभावप्रतियोगित्वस्यै 1 वाभावेन तत्प्रतियोगिभिन्नत्वात् । तावत्युक्ते दृष्टान्तस्य साध्यवैकल्यम् । कुलालनिष्ठस्य घटजनकज्ञानादिप्रागभावस्य तन्निष्ठविहितादिक्रियान्तरो 2 त्पत्स्यमानादृष्टप्रागभावं प्रति व्याप्यत्वात् । तदर्थं स्वजन्यत्वेनादृष्टं विशेषितम् । एवं च साध्यवैकल्यम् । उत्पत्स्यमानादृष्टस्य घटोपादानादिविषयकज्ञानादिजन्यत्वाभावात् ।
अदृष्टजनकभिन्नेत्यर्थ एवादृष्टप्रागभावप्रतियोगिभिन्नेत्युक्तिरित्यर्थः -- ज्ञानादीति ॥ घटाद्युपादानकपालादिगोचरज्ञानादीत्यर्थः -- तन्निष्ठेति ॥ कुलालिनिष्ठेत्यर्थः । विहितादीति ॥ निषिद्धा 3 करणमादिपदार्थः -- क्रियान्तरेति ॥ कपालादिक्रियातो ऽन्यक्रियेत्यर्थः ॥
स्वजन्यत्वनादृष्टं विशेषितमिति ॥ यद्यपि पक्षधरादावदृष्टपदं स्वजनकादृष्चटपरं स्वपदं च समभिव्याहृतपक्षदृष्टान्तरूपकार्यपरमित्युक्तं तथापि तस्मिन्पदार्थः क्वचिदृष्टान्त इत्यननुगमः ॥
न चात्र ग्रन्धकृदभिमतसामान्यव्याप्तावननुगमो न दोषायेति रुचिदत्तोक्तं युक्तम् । यत्तद्भ्यां सामान्यव्याप्तिर्नानुमानभङ्गमित्यर्थापत्तौ ग्रन्थकृतैव निरासात् ।
1.एवकारो नास्ति - मु-च. 2.रादिनो-च-छ-ग. 3.द्वक-अ.
ईस्य-नुकत्व-भङ्गः) ईश्वरवादः पु - 293.
--------------------- ----------- ----------
द्वितीयसाध्ये ऽस्मदादिभिः सिद्धसाधनवारणाय स्वजनकादृष्टोत्तरेति । तृतीये च विषयीभवदिति विशेषणम् ॥
अत्र च भाष्यादौ सकर्तृकत्वनिरुक्तावुपादानपदप्रक्षेपाद्ध्वंसव्यावृत्तसकर्तृकत्वसिद्ध्यर्थं पक्षसाध्यहेतुषु समवेतोपादाभावपदानि 1 प्रयुक्तानि ॥
तथा कुलालकृतेर्घटजनकादृष्टसमानजातीयागाम्यदृष्टप्रागभावव्याप्यप्रागभावप्रतियोगगित्वेनोक्तदोषतादवस्थ्यात् । तदर्थं ठक्कुरोक्तदिशा जनकत्वं फलोपधानरूपं विविक्षिणीयमिति क्लेश इत्युत्तरसाध्यासाङ्कर्याय च स्वजन्येत्येव विविक्षणीयमिति भावः -- सिद्धसाधनेति ॥ तत्र स्वपदस्य समभिव्याहृतपक्षदृष्टान्तपरत्वात् अस्मदादिजीवकृतेः क्षित्यादिजनकत्वेप्यदृष्टद्वारैव न साक्षादिति क्षित्यादिजनकादृष्टपूर्वभावितया तदुत्तरभावित्वाभावान्न सिद्धसाधनमिति भावः । ठक्कुरादौ तु कालीरूपादावंशतः
सिद्धनाधनवारणाय -- स्वजनकादृष्टोत्तरेति विसेषणमित्युक्तम् -- तृतीये चेति ॥ सिद्धसाधनवारणायेत्यनुषङ्गः । इति विशेषणमिति ॥ तस्य ज्ञानादिविषयोपादानसमवेतानीत्यर्थत्वेन क्षित्यादोरस्मदादिज्ञानादिविषयसमवेतत्वाभावादिति भावः ॥
प्रागुक्तप्रयोगे ध्वंसस्य सकर्तृकत्वानापत्या सकलजगान्निर्मातृकर्तृसिद्धिर्न स्यादित्यतो यद्वेत्यादिना मणावुक्तं पक्षान्तरं तत्पूर्वोक्तपक्षतात्पर्यविविरणपूर्वमनुवदति -- अत्र चेत्यादिना ॥ मात्रेणेति ॥ उपादानादिघटितत्वेन विनेति मात्रपदार्थः -- पक्षादाविति ॥
1. प्रयुक्तपदं नास्ति - ग.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 194.
------------------------- --------------- ---------
यदा तु ध्वंससाधारमसकर्तृकत्वमात्रेणेश्वर 1 सिद्धेस्तन्म्त्रं सिषाधयिषितं तदा पक्षादौ समवेतादिपदान्यनपरेक्षितान्येव । 2 अस्मिंश्च पक्षे अस्मदादिनिष्ठघटादिजनककृतिध्वंसस्य 3 निरुक्तरुपकृतिजन्यत्वेन तद्भिन्नत्वाभावात्तस्य पक्षता न स्यात् । तदर्थं 3 कृतिपदस्थाने सविषय 4 त्रितयेति वाच्यम् ॥

एवं च कृतिध्वंसस्य प्रतियोगिभूतया कृत्याविरोधिगुणभूतेनोत्तरज्ञानेन च जन्यत्वेपि चिकीर्षाजन्यत्वाभावात् । चिकार्षाध्वंसस्य चोक्तरीत्या चिकीर्षाकृतिजन्यत्वेपि ज्ञानजन्यत्वाभावात्तयोरपि पक्षतासिद्धः ॥
पक्षसाध्यहेतुषु समवेतापादानभावपदान्यनपेक्षितानीत्यर्थः ।"नन्वदृष्टाद्वारजन्यकृतिजन्यभिन्नानि जन्यानीत्येव पक्षनिर्देशे सति घठजनककृतिध्वंसस्य पक्षता न स्यादित्यतो जन्येच्छाकृतित्यजन्यत्वं विवक्षणीयमित्युक्त्वा कृतिध्वंसादेः पक्षत्वमुपपादितम् । तदाह -- अस्मिंश्चेति ॥ सविषयकेति ॥ अदृष्टाद्वारकसविषयकत्रितयजन्यभिन्नानि जन्यानीति वाच्यमित्यर्थः -- विरोधीति ॥ उत्तरात्मविशेषगुणभूतयोत्तरकृत्या जन्यत्वादित्यत आह -- चिकीर्षेति ॥ ज्ञानेति ॥ तस्य चिकीर्षातः पूर्वभावितया तज्जनकत्वेन तद्ध्वंसाजनकत्वादिति भावः -- तयोरपीति ॥
1.रःसिद्धः -छ. 2.अन्यथेत्यधिकं वर्तते -छ. 3.अयङ्ग्रन्थः नास्ति -छ. 4.कत्रि -च-मु. 5.त्यजन्य-कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 295.
-------------------- --------- ----------
यद्वा क्षितिरेव पक्षः ॥
नन्वेवं पक्षादन्यत्राङ्कुरे संदिग्धानैकान्त्यम् । न च निश्चितसाध्याभाववति साधनसंदेह एव दोषो न तु सन्दिग्धसाध्येसाधनानिश्चयोपीति वाच्यम् । हेतौ साध्याभाववद्गामित्वसंदेहस्य 1 दुषकताबीजस्योभयत्रापि सत्वात् । नचैवं
विधस्य संदेहस्य पक्षेपि सत्वादनुमानमात्रोच्छेदः । तदर्थमेव पक्षादन्यत्रेति विशेषितत्वादिति चेन्न ।.
पक्षादित्यत्र पक्ष 3 शब्देन प्रयोगविषयविवक्षायां स्वार्थानुमानोच्छेदात् ।
4 कृतिचिर्षाध्वंसयोरपीत्यर्थः ॥
नन्वेवमपि न सर्वध्वंसस्य पक्षता । चरमघटसुखादिध्वंसस्य पक्षबहिर्भावावश्यंभावात् । अन्यथा तस्य भोगतत्साधनेतरतया अदृष्टाजन्यत्वेन स्वजनकादृष्टाप्रसिद्ध्योक्तरूपसाध्यासंभवेन तदंशे बाधापत्तेः । उक्तदिशा अन्योन्याभावस्य पक्षातवच्छेदकतया तस्य तन्मते ऽप्रसिद्ध्या आश्रयासिद्धेश्चेति पक्षधरोक्तरुच्या मणौ"क्षितिरेव वा पक्ष"इत्यदिना पक्षान्तरमुक्त्वोपपादितं तदाह --यद्वेति ॥ पक्ष इति ॥ प्रतिज्ञाविषय इत्यर्थः । संदेहादिरूपपक्षताया अन्यत्रापि भावात् ॥
क्षितेरेव पक्षत्वे मण्युक्तबाधकशङ्का तदुत्तरं च निष्कृष्याहि -- नन्वित्यादिनेष्टसिद्धेरित्यन्तेन ॥ अनुमानमात्रोच्छेदभयात्पक्षादन्येत्युक्तम् ।
1.समस्तं पदं - छ. 2.नेतिनास्ति -च. 3.पदेन -छ. 4.कृतिपदं नास्ति -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 296.
----------------------- -------------- -----------
पक्षलक्षणवद्विवक्षायां 1 चाङ्कुरस्यापि पक्षत्वात् । अत एव तत्र पक्षसमव्यवहारः । अङ्कुरस्यानुपादानं तु क्षितिमात्रोपादानेपीष्टसिद्धेः ॥
नन्वेवं संदिग्धोपाध्याहितः पक्ष एव व्यभिचारसंदेहोपि न दोषः स्यात् । न च तत्रानुकूलतर्काभावा 3 द्व्याप्त्यनिश्चयः । अत्र तु कार्यत्वरूपहेतूच्छित्तेरेव बाधकत्वात्त 4 न्निश्चय इति वैषम्यमित वाच्यम् । पक्ष् व्यभिचारसं 5 देहे 6 स्य दूषकत्वे तर्कस्यापि पक्षे व्यभिचारसंदेहेन प्रशिथिलमूलत्वापातादिति चेन्न ॥
पक्षस्वरूपमग्रे वकल्प्ययिष्यते - पक्षलक्षणवदिति ॥ सिषाधयिषाविरहसहकृतसाधकबाधकमानाभावादरूपपलक्षणवदित्यर्थः -- अत एव - पक्षलक्षणसत्वेदेव । प्रतिज्ञाविषयत्वाभावत्समपदप्रयोग इति भावः --
इष्टसिद्धेरिति । तावतैवेश्वरसिद्धेरिति वा घटादौ निश्चितव्याप्तिकस्य लिङ्गस्य पक्षपक्षसमयोर्दर्शनेनोभयत्राप्यनुमित्यत्पत्तेरिति 7 वार्थः । संदिग्धसाध्यवति हेततुनिश्चयोन दोष इत्यत्र बाधकं वक्ष्यमाणसमाधिमाह -- नन्वित्यादिना अदोषत्वादित्यन्तेन ॥ संदिग्धेति ॥ स श्यामो मित्रातनयत्वादित्यष्टमगर्भस्थविषयप्रयोगे शाकपाकजत्वोपाधेः पक्षाद्व्यावृत्तिसंदेहेनाहितसाध्यसंदेहमूलो व्यभिचारसंशयोपीत्यर्थः । तत्र तस्यादोषत्वे व्याप्तिनिश्चयः स्यादिति भावः । तत्र व्याप्त्यनिश्चयो ऽन्यनिमित्तक इत्याशङ्क्याह -- न चेति ॥ तर्कस्यापीति ॥ साध्याभावे हेतुर्न स्यादित्येवं रूपतर्कस्यापि आपाद्यापादकयोर्व्याप्तिसंदेहेनेत्यर्थः -- विप्रतिपत्यादीति ॥
1.त्वङ्कु-कुं. 2.शयो-छ-ख. 3.न्निश्चयः -छ. 4.न्निश्च-छ. 5.शयस्य-क-छ-ख. 6.स्यादोषत्वात् । तस्य दू -कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 297.
-------------------- ----------- ----------
विप्रतिपत्यादिजन्यस्य पक्षताप्रयोजकस्य संशयस्यानुमित्यनुकूलत्वे 1 नादोषत्वेप्युपाध्याहितस्य तस्या 2 तथात्वेन दोषत्वात् ॥
नन्विदमप्रयोजकं नित्यायाःसर्वविषयायाश्चेश्वरकृतेरिदानीं संदिग्धत्वेन कृतिसामान्यस्य देशतः कालतो 3 वा
व्यतिरेकानिश्चयेन कार्यसामान्यंप्रति कारणत्वाग्रहात् । वह्निधूमसामान्ययोस्तु हृदादौ व्यतिरेकनिश्चयोस्तीति चेन्न ॥
घटकुलालकृतिरूपविशेषयोरेव व्यतिरेकस्य कारणत्वस्य वा ग्रहणेनाबाधे सामान्ययोरपि हेतुत्वसिद्धेः ।
साधारणधर्मादिरादिपदार्थः -- अतथात्वेनेति ॥ अनुमित्यननुकूलत्वेनेत्यर्थः ।"अथ कृतिकार्ययोर्नान्वयव्यतिरेकाभ्यां व्याप्तिग्रहः"इत्यादिना मण्युक्तमेव दूष्यांशं शङ्कापूर्वमनुवदति -- नन्विदमित्यादिना ॥ भावकार्यत्वादिरूपानुमानमित्यर्थः -- इदानीमिति ॥ अनुमानात्प्रागित्यर्थः । ईश्वरकृतिव्यतिरेकस्य न्यायमते ऽप्यभावेन प्राधान्यद्व्यतिरेकमात्र
एवाक्षेपसमाध्युक्तरिति ज्ञेयम् । अन्वयाक्षेपस्याप्युपलक्षणं वा । एवं ह्यनुमानमात्रोच्छेद इत्यत आह -- वह्नीति
॥ घटेति ॥ घटरूपकुलालकृतिरूविशेषयोरित्यर्थः -- कारणत्वस्येति ॥ कार्यकारणभवस्येत्यर्थः ।
1.न तस्या -कुं. 2.तस्येति नास्ति -कुं. 3.वा इति नास्ति -छ-ख.
न्ययदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 298.
----------------------- ----------- ----------
कथमन्यथाकाशादेः समवायिकारणस्य नित्यत्वाद्विभुत्वाच्च समवायिकारणसामान्यव्यतिरेकानिश्चयाच्छब्दादिसमवायिकारणत्वेनाकाशादिसिद्धिः ॥
नन्ववमपि दृष्टान्तः साध्यविकलः कुलालादिकृतेरेवान्वयव्यतिरेकाभ्यां कारणत्वग्रहणे 1 मानाभावेन कुलालस्याहेतुत्वादिति चेन्न ॥
प्रयत्नवदात्मसंयोगस्य 2 चेष्टाद्वारा घटहेतुतया तद्विशेषेणतया प्रयत्नस्येवात्मनो ऽपि हेतुत्वात् ॥
प्रमाणवाक्यत्वेन वक्तृवाक्यार्थप्रमात्वेन कार्यत्वादिकल्पने ऽपि वाक्यसामान्यवक्तृज्ञानसामान्ययोस्तद 3 बाधादबाधन इत्युक्तम् -- आकाशादिसिद्धिरिति ॥ तत्र घटकपालादिरूपविशेषणयोरेव व्यतिरेकादिग्रहणेनेत्युक्तरीतेरेवानुसर्तव्यत्वादिति भावः -- अहेतुत्वादिति ॥ तथाच कतिमज्जन्यत्वरूपसाध्यं तत्र नेत्यर्थः ॥

मानाभावेनेत्यसिद्धम् । कुलालो घटहेतुः तद्धेतुसंयोगावच्छेदकत्वात् कपालवत् घटहेत्वात्मसंयोगवदेकप्रयत्नवद्वेति मानाभावादिति भावेनाह ॥ प्रयत्नेति ॥ प्रयत्नस्यैवैत्युपलक्षणम् । असमवायिकारणसंयोगाश्रयकपालादेरिवेत्यपि ध्येयम्॥
नन्वात्मसंयोगे सति प्रयत्नं विना न चेष्टेति प्रयत्न एव हेतुर्न तु प्रयत्नवदात्मसंयोग इत्यत आह -- संयोगस्येति ॥
1.हणे-छ. 2.चादृष्ट-ख. 3.भावा -कु.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 299.
------------------- --------- ---------
संयोगस्य हेतुत्वे मानं तु, चेष्टा प्रयत्नवदात्मसंयोगासमवायिकारणिका स्वव्यधिकरणतदीय गुणव्यतिरेकप्रयक्तव्यकिरेकप्रतियोगित्वात् । यत्स्वव्यधिकरणतदियगुणव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगि तत्तदियसंयोगसमवायिकरणकम् 1 ।
प्रयत्नवदात्मसंयोगस्य घटहेत्वभङ्गचेष्टाहेतुत्वे मानं त्वनुमानमित्यग्रेतनेनान्वयः -- चेष्टेति ॥ शरीरस्पन्द इत्यर्थः -- प्रयत्नेति ॥ प्रयत्नवत आत्मनः शरीरस्य च यः संयोगः तदसमवायिकारणिकेत्यर्थः । अभिघातकसंयोगेनार्थानतरनिरासाय प्रयत्नवदित्यादिविशेषणम् । हेतौ स्वेति परिस्मन्दः । स्वव्यधिकरणः स्वाधिकरणभिन्नाधिकरणकः तदीयः आत्मीयो गुणः प्रयत्नः तव्द्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वादित्यर्थः । कलालरूपजन्यघटरूपे व्यभिचारनिरासाय तदियेत्युक्तिः । आत्मीयेत्यर्थः ॥
यद्वोक्तप्रतियोगिक्रियात्वादिति हेतुर्द्रष्टव्यः । अतो न व्यभिचारः । हेतोरेवाभावात् । एवं च तदियेति तच्छब्दस्य
समभिव्याहृतपरत्वेपि न दोषः । स्वव्यधिकरणपदकृत्यमग्रे व्यक्तम् ॥
यद्यपि मणौ"या क्रिया व्यधिकरणयदियगुणजन्या"इत्यादिव्याप्त्युक्त्या गुणजन्यत्वादिति हेतुर्वाच्या व्याप्तिश्च तथैव प्रदर्शनीया । तथापि क्रियाया ईश्वर 2 गुणजन्यत्वेपि नेश्वरसंयोगासमवायिकारणकत्वमिति व्यभिचरानिरासाय तट्टीकार्थानुवादो गुणव्यतिरेकप्रयुक्तेत्यादिः ॥
यदिति ॥ यत् परिस्मपन्दाख्यं कर्मेत्यर्थः । मणावपि या क्रियेत्येवोक्तिः ।
1.ऽकेत्यनुमानं गुरुत्वऽ इत्यादि वर्तते -क. 2.गुणपदं नास्ति -अ.
न्यादीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 300.
---------------------- ----------- ----------
यथा स्पर्शवद्वेगवत्पवनाभिघातकारणिका पर्णादिक्रिया पवनसंयोगासमवायिकरणिकेत्यनुमानम् ॥
गुरुत्वव्यतिरेकप्रयुक्त व्यतिरेकप्रतियोगिनि गुरुत्वसमानाधिकरणे पतने
गुरुत्ववद्रव्यसंयोगासमवायिकारणकत्वरहिते व्यभिचारनिरासाय हेतौ स्वव्यधिकरणेत्युक्तम् । अन्यथा चेष्टैव नोत्पद्येत । असमवायिकारणाभावात् । 1 कारणप्रत्यासत्यभावेन प्रयत्नस्य हेतुत्वानुपपत्तेश्च ॥
न चैवमप्यात्मा हेतुभूसंयोगावच्छेदक एव न हेतुरिति वाच्यम् ।
अन्यथा कपालरुपजन्यघटरूपे व्यभिचारापत्तेः -- यथेति ॥ यथा पर्णादिक्रियेत्यन्वयः । तत्र हेतुसत्वव्यक्त्यर्थं स्पर्शवदिति । पर्णादक्रिया स्वव्यधिकरणवायवीयेगरूपगुणव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिनीत्यर्थः -- पतन इति ॥ आम्नफलादिपतन इत्यर्थः । स्वव्यधिकरणयदीयव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगीत्येतावत्युक्ते आम्नादिवृक्षपतनक्रियायां व्यभिचारः । तस्यां स्वव्यधिकरणो य आम्नादिवृक्षः स्वारम्भकावयवसम्बन्धित्वादवयवी यश्च तद्व्यतिरेकप्रयुक्तव्यतिरेप्रतियोगित्वेपि आम्नावयवसंयोगासमवायिकारणकत्वाभावात् अतो यदीयगुणेत्युक्तम् ॥
विपक्ष बाधकरूपं हेतोरनुकूलतर्कमाह -- अन्यथेति ॥ उक्तसाध्याभाव इत्यर्थः -- कारणेति ॥ अन्यथेत्यनुषङ्गः । कारणीभूतप्रत्यासत्तीत्यर्थः । अप्रत्यासन्नस्य हेतुत्वे ऽतिप्रसङ्ग इति भावः ।"असमवायिकारणसंयोगाश्रयस्य तत्कार्यजनकत्वनियमाच्च"इति मण्युक्तमेवोदाहरणनिष्ठतया व्यनक्ति -- घटकारणेति ॥
1.ऽसमवायिऽ इत्यधिकं वर्तते - ख.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 301.
------------------- --------- ---------
घटकारणीभूसंयोगाश्रयस्य कपालस्य घटकारणत्वदर्शनात् ॥
ननु घटादौ ज्ञानस्य कृतिद्वारैव हेतुत्वत्कृतिं च प्रतीष्टसाधनत्वानुमितेरेव हेतुत्वात्साक्षात्कारस्याहेतु 1 त्वेन साध्यलैकल्यमिति चेन्न 2 । कृतिर्हि सिद्ध 3 वृत्तिरसिद्धविषयिणी । तत्र साध्यांशे घटादाविष्ठसाधनत्वानुमितिसत्वेपि सिद्धांशस्य कपालादेः साक्षात्कारव्यतिरेकेण कृतिव्यतिरेकदर्शनेनोपादानसाक्षात्कारस्यापि हेतुत्वात् ॥
न च मनःक्रियाहेतुमनोविषयककृतौ व्यभिचारः समानाधिकरणस्य सिद्धमनोविषयक साक्षात्कारादेरभावादिति वाच्यम् । त्वगिन्द्रियगृहीतमनोवहननाडीगोचरकृत्या नाड्यां क्रियोत्पत्तौ -----
"अथ घटकृतिसाध्येष्टसाधनताज्ञानं चिकीर्षाद्वारा हेतुः । तच्च न प्रत्यक्षम्"इत्यादिना मण्युक्तावेव प्रकारन्तरेण साध्यवैकल्यतत्समाधी निष्कृष्यानुवदति -- नन्वित्यादिना ॥ साध्येति ॥ उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वादिरूपसाध्येत्यर्थः -- व्यभिचार इति ॥ यन्निष्ठा या कृतिः सा तद्गोचरापरोक्षपूर्विकेत्यस्य व्यभिचार इत्यर्थः ॥ तमेव व्यनक्ति -- समानाधिकरणस्येति ॥ साक्षात्कारादेरित्यादिपदेन
चिकीर्षाग्रहः । मनसो ऽतीन्द्रियत्वादिति भावः -- मनोवहनेति ॥
1.त्वात् - मु-च. 2.ऽनऽ इति नास्ति -छ-ख. 3.कृत्यसिद्ध- छ-ख.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 302.
------------------------ ---------- -------
- वेगन्नाड्यां 1 संयोगविशेषरूपनोदनेन मनसिक्रियोत्पत्तिः ॥
यद्यप्युपादानमात्रं सिद्धम् । तथा प्युपादेयवत्वेन साध्यत्वात्तत्र चिकीर्षा युक्ता ॥
न च घटे सिद्धविषयकसाक्षात्कारजनयत्ववदसिद्धविषयकपरोक्षज्ञानजन्यत्वस्यापि दर्शनादीश्वरस्य नित्यप्रत्यक्षवन्नित्यानुमितिः स्यादिति वाच्यम् । सिद्धपरमाण्वादिविषयकपरोक्षज्ञाने सत्यप्यपरोक्षत्वव्यतिरेकेण कृतिव्यतिरेकस्येव साध्यांशज्ञाने सत्यपि परोक्षत्वव्यतिरेकेण कृतिव्यतिरेकस्यादर्शनात् ॥
मनस आधारभूतेत्यर्थः - मनसि क्रियात्पत्तेरिति । तथा च यत्र कृतिनाड्यां तत्रास्त्यपरोक्षादिपूर्वकत्वम् । यत्र मनसि नास्त्यपरोक्षज्ञानं तत्र न कृतिरिति न व्यभिचार इति भावः ॥
नन्वेवमपि सिद्धे करणेच्छाभावेनोपादाने चिकीर्षायोगात्पुनः साध्यवैकल्यमित्याशङ्कामनूद्य निराह -- यद्यपीति ॥ एवमप्रयोजकत्वसाध्यवैकल्ये निरस्य"नन्वेवं घटादावनुमितिजन्यत्वदर्शनादीश्वरे

अनुमितिरपि स्यात्"इत्यादिना मण्युक्ततर्कपराहतिशङोत्तरे अनुवदति -- नचेत्यादिना ॥ ईश्वरे जन्यज्ञानाभावाल्लिङ्गजन्यज्ञानं कथं स्यादिति आह -- प्रत्यक्षस्येन्द्रियजन्यत्वेपि नित्यप्रत्यक्षवदनुमितेर्लिङ्गजन्यत्वेपि नित्यानुमितिः स्यादित्यर्थः । अनुमिते 2 रनित्यत्वे आदिकालीनद्य्वणुकाद्यजननात्तदविनाभूतशरीरेन्द्रिया 3 भावापाताच्चेति भावः अपरोक्षत्वेपि ॥ तस्मिन् ज्ञान इत्यर्थः -- कृतीति ॥ परमाणुगोचरकृतीत्यर्थः --साध्यांशेति ॥
1.ड्यास-मु-च-ख. 2.तेर्नित्य-कुं. 3.अभावपदं नास्ति -मु.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 303.
--------------------- ----------- ----------
ननु 1 द्वेषयोनिकृतिसाध्ये चिकीर्षाभावद्व्यभिचारः । न च तत्रापि भगवतश्चिकीर्षा हेतुत्वेन कल्प्या । एवं हि द्वेषयोनिकृतिसाध्यदृष्टान्तेन क्षित्यादेपरपि द्वेषवज्जन्यत्वापातेन नित्यद्वेषापत्तेरिति चेन्न । तत्रापि द्वे 2 ष्याभावस्यैवेष्ठत्वेन ------
घटपटादिरूपसाध्यांशस्येष्टसाधनत्वेनानुमितिरूपपरोक्षज्ञाने सति तद्विषयककपालादिनिष्ठकृतेर्दर्शनवत् साध्यांशस्येष्टसाधनत्वेनापरोक्षज्ञाने सति साध्यविषयिण्यास्तद्धेतुनिष्ठायाः कृतेर् व्यतिरेकस्य क्वाप्यदर्शनेन साध्यांश 3 स्येष्टसाधनत्वे ज्ञानत्वमेव वद्धेतुनिष्ठकृतौ प्रयोजकम् लाघवात् न तु तत्र साध्यांशस्येष्टसाधनत्व 4 ज्ञान परोक्षत्वमपि । गौरवात् । एवं चेश्वरस्यापि क्षित्यादिरूपसाध्यांशस्य 5 स्वष्टासाधनताज्ञानमपरोक्षरूपमस्तीति तद्धेतूपादनपरमाण्वादिकृतिर्युक्तेति न नित्यानुमित्यापत्तिदोष इति भावः ॥
एवं कृतेरपरोक्षज्ञानपूर्वकत्वे व्यभिचारमुद्धृत्य तत्प्रसङ्गागतमति प्रसङ्गं च निरस्येदानीं कृतेश्चिकीर्षापूर्वकत्वे व्यभिचारचोद्योत्त 6 रे मण्युक्ते 7 एवाह -- ननु द्वेषेति ॥ द्वेषकारणकदुःखनिवृत्यनु 8 कूल कृतिसाध्ये 9 दुःखाभावादावित्यर्थः । तत्रेश्वरीयाचिकीर्षाकल्पनेन व्यभिचाराभावे प्यनिष्टप्रसङ्गस्तु स्यादित्याह -- एवंहीति ॥ तत्र द्वेषयोनित्वमेव कृतेर्नास्ति
येन तदृष्टान्तेन क्षित्यादावपि द्वेषवज्जन्यत्वं स्यादित्याह --तत्रापीति ॥
1.द्वेषयोनि-इतिनास्ति-ख. 2.षाभा-क. 3.स्य स्वेष्ठ-मु. 4.त्वं ज्ञाने -मु. 5.शज्ञा-"स्वेष्ठासाधनता"इतिनास्ति -मु. स्येष्ठ -अ. 6.रं - कुं. 7.क्तमे -कुं. 8. रूप-कुं. 9.चिकीर्षाजन्येत्यधिकं -कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 304.
---------------------- ---------- ---------
- त 1 त्साधनत्वेन ज्ञाने चिकीर्षाय एव 2 संभवेन भिन्नविषयकद्वेषस्याहेतुत्वात् ॥ न चेवं प्रवृत्तियत्नातिरिक्तस्य
क्रियाव्यतिरेकानुगुणस्य द्वेषप्रयोज्यस्य निवृत्तियत्नस्याभावाद्वेषे मानाभावः । द्वेष्मीत्यबाधितानुभावात् ॥
दुःखाभावसाधनेपि तत्साधनत्वेन द्वेष्याभावसाधनत्वेन ज्ञाने सति साधनगोचरचिकीर्षाया एव संभवेनेत्यर्थः -- भिन्नेति ॥ शत्रुवषकद्वेषस्य तद्वधसाधनगोचरकृतेश्च भिन्नविषयत्वेन द्वेष्याभावसाधनकृतौ शत्रुविषयकद्वेषस्याहेतुत्वादित्यर्थः ॥
यदि द्वेषो न कृतिहेतुस्तर्हि द्वेषो ऽलीक एव भवेदित्याशङ्क्य प्रत्यक्षेणासिद्धिमाह --न चैवमिति ॥ एवं द्वेषस्य प्रवृत्तिरूपसाधनगोचरकृता 3 वहेतुत्वे द्वेषविषये मानाभाव इत्यन्वयः । दुःखसाधनादौ निवृत्तिरूप्रयत्नं प्रति भिन्नविषयस्यापि द्वेषस्यैव हेतुत्वात् द्वेषे निवृत्तिरुपकार्यमेव मानमित्यत उक्तम् -- प्रवृत्तीति ॥ प्रवृत्तिरूपप्रयत्नेत्यर्थः --क्रियेति ॥ अङ्गचेष्टादरुपकार्येत्यर्थः -- अभावादिति ॥ दुःखादिकार्याभावनुकूल्यस्य दुःखगोचरद्वेषजन्य निवृत्तिरूप्रयत्नस्याभावादित्यर्थः । प्रवृत्तिरूपो निवृत्तिरूपश्चेति यत्नद्वैविध्यं यदि स्यात्तदा प्रवृत्तिप्रयत्नश्चिकार्षाद्वारेष्टसाधनताज्ञानायसाध्यः । निवृत्तियत्नस्तु द्वेषसाध्य इति द्वेषः प्रामाणिकः स्यात् । न चैवम् । प्रवृत्तिरूपप्रयत्नाभावस्यैव निवृत्तित्वात् ॥
न च निवृत्तिरूप्रयत्नाभाव एव प्रवृत्तिरिति वैपरीत्यं शङ्क्यम् ।
1.त्रसा-क. तत्रेत्यपि वर्तते -ग. 2.वांस-क. 3.त्यहे-अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 305
------------------- ---------- --------
ननु तथापि घटादौ चेष्टाव्यापारककृतेरेव हेतुत्ववधारणात् क्षित्यादौ च चेष्टाया योग्या 1 नुपलब्धिबाधितत्वा 2 त्कृतेरहेतुत्वम् । न चैतस्मिन् --
सुषुप्तिदशायां निवृत्तिविरहसत्वेन प्रवृत्तिसाध्यचेष्टादिकार्याद्यापत्तेः ॥
न च तदा निवृत्तिविरह एव नेति युक्तम् । तदा दुःखसाधनत्वज्ञानविरहेण तन्निमित्तद्वेषस्य निवृत्तिहेतोरभावेन निवृत्तेरभावात् ॥
न चैवं प्रवृत्तियत्नो रागान्नित्तस्तु द्वैषादिति कुसुञ्जल्युक्तिविरोधः । तन्मते तथात्वेपि मणिकृन्मते तदभावात् । अन्यथा"कुतस्तर्हि द्वेषः । शत्रून् द्वेष्मीत्यबाधितप्रत्यक्षा4"दिति मण्युक्तिविरोधात् ॥
एतेन यत्तु कुसुमाञ्जलिवाक्यानुरोधेन कुत इत्यादिमणिवाक्यस्य पक्षधरीयं क्लेशनार्थवर्णनं तत्तु मणुकृदभिप्रायाज्ञानमूलमिति विभावितं ध्येयम् ॥
एवं कृतेरपरोक्षज्ञानचिकार्षापूर्वकत्वं व्यभिचारनिरासेन समर्थ्य"स्यादेतत् घटादौ कृतिसाध्यता हस्तादिव्यापाराद्वारैव न तु साक्षात् इत्यादिना मण्युक्तबाधशङ्कातत्समाधी आह -- ननु तथापीत्यादिना ॥ अप्रयोजकत्वसाध्यवैकल्यव्यभिचारनित्यानुमितिनित्यद्वेषापत्तिरूपतर्कपराहत्यदोषाणामभावेपीत्यर्थः -- चेष्टेति ॥ अङ्गचेष्टेत्यर्थः -- अहेतुत्वमिति ॥ तथाच कृतिमज्जन्यं बाधितमिति भावः ॥
न चेष्टाकृत्योर्द्वारिभावापन्नतया घटादौ हेतुना किन्तु प्रत्येकमेव । न चैवं कृतिचेष्टयोः पौर्वापर्यानुपपत्तिः । पितापुत्रयोः पौर्वापर्ये 3 प्येकत्र घटे द्वयोः स्वातन्त्रेण हेतुत्वपदुपपत्तेः । तथा च यथोक्तसाध्ये न बाध इति भावेनाशङ्क्य निराह -- न चेति ॥
1.ग्योप-च. 2.त्वेन कृ-मु-च.. 3.णैक -मु.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 306.
----------------------- ---------- ---------
न चैकस्मिन् घटे पितापुत्रयोरिव चेष्टाकृत्योः स्वातन्त्र्येण हेतुना । घटानुकूलचेष्टाश्रयसन्निहितस्य तदनुकूलकृतिमतो
निगडनिश्चलदेहत्वेन चेष्टारहितस्यापि पुंसस्तद्धेतुत्वापत्तेरपि 1 चेन्मैवं ॥
चेष्टाव्यापारककृतित्वेन कारणता न तावत्कार्यमात्रे क्षित्यादौ, व्यभिचारेण त्वयापि तथा नभ्युपगमात् ॥
नापि कृतिजन्यत्वावच्छिन्ने । आत्माश्रयेण कृतिजन्यत्वस्य स्वानवच्छेदकत्वात् । घटादौ कार्यविशेषे तथा कारणत्वे च सामान्यविशेषन्यायेन कार्यसामान्ये कृतित्वेनैव हेतुत्वात् ॥
अत एव चेष्टाजन्यत्वशरीरजन्यत्वादि 2 रूपोपाधिरपि न ।

व्यभिचारान्न प्रत्येकं हेतुरित्याह -- घटेति ॥ किं कार्यमात्रे कृतिजन्यकार्यमात्रे वा घटादिकार्यविशेषे वेति हृदि विकल्प्याद्यद्वयं निरस्यान्ते त्विष्टसिद्ध्या न बाध इत्याह -- चेष्टेत्यादिना ॥ त्वयापीति ॥ निरीश्वरादिनापि । न केवलमशरीरेश्वरवादिना मयेत्यर्थः -- अवच्छिन्न इति ॥ कार्यमात्र इत्यनुकर्षः --सामान्येति ॥ यद्विशेषयोः कार्यकारणाभावः बाधकाभावे तत्समान्योरपीति न्यायेन घाटादिरूपकार्यविशेषत्वेन चेष्टाद्वारककृतित्वेन कार्यकारणभावे व्यभिचाररूपबाधकाभावेन कार्यत्वेन कृतित्वेन कार्यकरणभावकल्पनपक्षेपि केवलकृतेरेव हेतुत्वादित्यर्थः -- अत एवेति ॥ कृतित्वेन कृतिजन्यत्वस्य न्यायप्राप्तत्वादेवेत्यर्थः ॥
1. चेन्न -मु - च. 2.रूपपदं न -छ-ख.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 307.
------------------- ----------- ---------
गौरवेण चेष्टात्वादिना रूपेणा कारणत्वेनोपाधेरप्रयोजकत्वम् ॥
न 1 न्वथापि ज्ञानमनित्यमेव कर्ता शरीर्येवेत्यादिव्याप्तिबाध इति चेन्न । ज्ञानत्वादेनित्यत्वादिना कार्यकारणभावादेरभावेन व्याप्तेरेवाभावात् । कार्यकृत्योश्च कार्यकारणभावात् । अन्यथावयवोमहाने 2 वेत्यादिव्याप्त्या परमणुरपि न सिध्येत् ॥
अत एवादृष्टाद्वारकानित्यज्ञानाजन्यत्वादिना सत्प्रतिपक्षत्वमपि निरस्तम् ।
अनित्यज्ञानादिमज्जन्यत्वादिरादिपादार्थः -- नेति ॥ न भवतीत्यर्थः -- चेष्टात्वादिनेति ॥ शरीरत्वारादिपदार्थः ॥
स्यादेतत् कर्ता शरीर्येव ज्ञानमनित्यमेवेत्यादिप्राथमिकव्याप्तिग्रहप्रत्यक्षविरोधात् इत्यादिनोक्तशङ्कोत्तरे निष्कृष्यानुवदति -- नन्वित्यादिना ॥ अन्यथेति ॥ व्याप्तिप्रयोजककार्यकारणभावस्य साध्येन विना हेतोरनवस्थितत्वादेरनुकूलतर्कस्याभावेपि व्याप्त्यभ्युपगम इत्यर्थः ॥ व्द्यणुकं स्वन्यूनपरिमाणद्रव्यापब्धं कार्यत्वाद्घटवदित्याद्यनुमानेन परमाणुसिद्धिर्न स्यात् । यो ऽभावः स महान् यथा 3 त्र्यणुकादिः । अवयवश्चायं परमाणुरित्यनेन बाधादिति स्यादित्यर्थः ॥
नन्वथापि क्षित्यादिकं नोक्तसाध्यवत् अदृष्टद्वारकानित्यज्ञानाजन्यत्वात् 4 घटवदित सत्प्रतिपक्षत्वम् । असिद्धिनिरासाय हेत्वोरदृष्टद्वारकेत्याद्युक्तिरित्यत आह -- अत एवेति ॥ तदेव व्यनक्ति ।
1.नुतथा -मु-च. नन्वपि - क-ख. 2.एवकारो नास्ति -छ-ख. 3.द्वय-कुं. 4.शरीरजन्यत्वात् -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 308.
------------------------ ------------ ---------
अप्रयोजकत्वात् । अजन्यत्वस्यै 1 व हेतुत्वसम्भवेन व्याप्तिग्रहानौपयिकविशेषणान्तरवैयर्थाच्च ॥
अत एव शशशृङ्गप्रतिबन्द्यपि निरस्ता । तत्रानुकूलतर्काभावात् ष कत्रैक्यं तु लाघवात् ॥
नन्वनुमितेर्व्यापकांशे व्यापकतापच्छेदकमात्रप्रकारकत्वादिहापि व्यापकः कर्ता व्यापकतावच्छेदककर्तृत्वेन न सि 2 ध्येते । एकत्वेन कथं सेत्स्यतीति चेन्मैवं । अनुमितिसामाग्रीमहम्ना तथात्वेपि लाघवतर्कसहकारि 3 रूपप्रमाणसामग्रीमहिम्नाक्यस्य 4 प्रकारत्वेपपत्तेः । तच्चक्षित्यद्युपादानगोचरं ज्ञानादिकं लाघवादेकं नित्यं चेति विषसंकोचकाभावात्कपालघटादिगतरूप---
अप्रयोजकत्वादिति ॥
नन्वेवमयोग्यस्य साधने शशो विषाणवान् पशुत्वाद्गोवदिति शशश्रुङ्गसिद्धिरपि स्यादिति आह -- अत एवेति ॥ अप्रयोजकत्वादेवेत्यर्थः । तदेव व्यनक्ति -- अनुकूलेति ॥
नन्वेवं कर्तृमात्रसिद्धावपि तदेकत्वं कुतः सिद्धमित्यत आह -- कत्रैक्यं त्विति ॥ तदेव शङ्कोत्तराभ्यां व्यनक्ति -- नन्वित्यादिना ॥ अस्तु कत्रैकः तद्गतज्ञानादेरेकत्वादिसिद्धिः कथमित्यत आह -- तच्चेति ॥ ज्ञानादिकमित्यन्वयः ॥
1. ऽएव ऽ इति नास्ति -कुं. -ग. 2.ध्यतु-मु-च-क. 3.र-ग-ख-कुं. 4.स्वेत्यधिकं-ख.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 309.
--------------------- -------- ----------
गुरुत्वादावीश्वरस्यै 1 व कर्तृत्वेन रूपाद्युपादानभूतकपालादिगोचरत्वावश्यंभावाच्च सर्वविषयकमेवेति ॥
अत्रोच्यते । अनुपलब्ध प्राक्कोदिषु भूभूधरादिषु कार्यत्वमेव कुतः । सावयवत्वादिति चेत् । सावयवत्वं सांशत्वं चेद्गगनादौ व्यभिचारि 2 --
एवमूदितमनुमानं दूषयितुं प्रतिजानीते -- अत्रोच्यत इति ॥"हेतुविरोधो द्विविधः असिद्धिरव्याप्तिश्चे"ति भगवत्पादोक्त्या हेतुदोषयोरसि 3 द्धिव्याप्त्यभावयोर्मध्ये ऽसिद्धेरेव प्राथम्यात् परैरप्यसिद्धविरुद्धेत्यादिप्राचां निर्देशेनासिद्धेः प्राथम्योपगमाच्च । समवेतत्वे 4 सतीत्यादिनाभिमतकार्यत्वहेतोरसिद्धिं तावत्"किञ्चानुपलब्धप्रक्कोटिषु कार्यत्वं कुतःसिद्धम्"इत्यादिना तत्वनिर्णयटीकोक्तां प्रपञ्चयति -- अनुपलब्धेति ॥ प्रक्कोदिः प्रागभावः ॥
ननु क्षित्यादिकं कार्यं सावयवत्वाद्घटवदित्यनुमानात्तत्सिद्धिः । न च सावयवत्वेनैवोक्तरूपकृतिमज्जन्यत्वं साध्यतां किं मध्ये कार्यत्वसाधनेनेति
वाच्यम्। पूर्वोक्तरीत्या कृति 5 जन्यत्वे कार्यत्वस्येव सावयवत्वस्यानुकूलतर्काभावात् कार्यत्वरूपसाध्येन हेतूच्छित्यादिरूपानुकूलतर्काभावदिति भावेनाशङ्क्यते -- सावयवत्वादिति चेदिति ॥
"तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात्"इत्यादिशास्त्रयोनिसूत्रसुधोक्तिं हृदि कृत्वाह -- गगनादौ व्यभिचारीति ॥ तदेव व्यनक्ति -- गगनेति ॥
1.एवकारो नास्ति -मु-च-छ. 2.रात् -क. 3.द्वयव्याप्तवो-कुं. 4.त्वदित्यदिना-मु. 5.मज्जन्य-कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 310.
----------------------- ------------ ---------
गग 1 नादेः परमाणोश्च संयोगत्वेन सांशत्व 2 सिद्धेः । विस्तृतं चैतदन्यत्र । द्रव्यारब्धद्रव्यत्वं चेदकार्यत्ववादिनं प्रत्यसिद्धम् ।
गगनादिः सांशः संयोगित्वात् घटवत् । न चाप्रयोजको हेतुः । तस्येह पक्षी नेह पक्षीत्यबाधितप्रतीत्या गगनादौ व्याप्यवृत्तित्वायोगेन स्वात्यन्ताभावसामानाधिकरणषूपाव्याप्यवृत्तित्वस्य चैकत्र विरोधेनैकदेशरूपांशवृत्तित्वस्यैव गगनादौ
सर्वत्र व्याप्यवृत्तित्वायोगेनैकदेशरूपांशवृत्तित्वस्यैव वाच्यत्वात् । तस्याप्यौपाधिकत्वे ऽनवस्थाद्यापातेन स्वाभाविकांशव्यतिरेकेण संयोगित्वस्यैवानुपपत्तेरिति भावः ॥
नन्वेवं गगनकालपरमाण्वादेरपि संयोगित्वेन सांशत्वे तुल्यन्यायतया 3 शस्यापि संयोगित्वेन सांशत्वं तदंशस्याप्योवमिति परमाण्वंशस्याप्यानन्त्यं स्यात् । तथा च गगनपरमाण्वोस्तुल्यपरिमाणतापत्तिः । किञ्च परमाणुत्वव्याघातः । अपि चोपादानादिरूपावयवादिरिक्तांशसत्वे मानाभावात् तद्रूपांशवत्वस्य गगनादावप्यभ्युपगमे ऽनित्यत्वापेत्तेश्चेत्यत आह । विस्तृतं चैतदन्यत्रेति ॥
"अतः सर्वपदार्थानां भागाःसन्त्येव सर्वदा ।
सर्वदिक्ष्वभिसंबन्धादविभागः पराणुता ॥
इत्याद्यनुव्याख्यासुधायोर्वैशेषिकाधकरणे वस्तृतमित्यर्थः ।
1.नकालादेः -क-च-छ-ख. 2.त्वेन-छ-ख. 3.सांश -कुं.
ईस्या-नुक्व-भङ्गः) ईश्वरवादः पु - 311.
------------------ ---------- ------------

द्रव्यसमवेत 1 द्रव्यत्वं चेत् 2 जात्यादेरिवाकार्यत्वेनाप्युपपत्या अप्रयोजकता । मध्यमपरिमाणत्वं चेत्तदाप्यप्रयोजकतैव -- गगनप्रदेशस्येव सांशत्वेनै 3 व तदुपपत्तेः । अवयवनैरपेक्ष्येणैव मध्यमी 4 भूतपरिमाणाश्रयत्वमात्रेण द्रव्यस्य मध्यमपरिमाणत्वोपपत्तेश्च ॥
सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानधिकतदवयवपरंपरा गगनेप्येवमित्यङ्गीकारे तुल्यपिरमाणतापत्तेः । यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं नास्ति स परमाणुरित्युक्तेर्व्याघाताभावादित्या 5 द्युक्तेरिति भावः । तथोपादानातिरिक्तांशसत्वादिकं चोपाधिखण्डटीकाभावप्रकाशिकायां विस्तृतमित्यर्थः ॥
जात्यादेरिवेति ॥ अद्रव्यस्य जातेरेकत्वसङ्ख्यापरिमाणादेर्द्रव्यसमवेतत्वप्यकार्यत्वे यथा द्रव्यसमेतद्रव्यस्याप्यकार्यत्वमस्तु । विपक्षे बाधकाभावादिति भावः -- गगनप्रदेशस्येवेति ॥ यथा इह पक्षीत्यादिप्रतीत्या पक्ष्याद्याधारप्रदेशस्य मध्यमपिरमाणत्वेपि तस्य प्रदेशस्याप्युक्तदिशानेकांशयुतत्वं तथा क्षित्यादेरवयवारब्धत्वरूपकार्यत्वाभावेपि गगन 6 पूर्वोत्तरावधिशून्यानन्तांशयुतत्वाभावेनानेकांशयुतपरमाणुतो ऽनेकांशयुतत्वेन च तदुभयपरिमाणान्यपिरिमाणरूपमध्यमपरिमाणत्वस्योपपत्तेरित्यर्थः ॥
परिमाणस्यावयवोपचयहेतुकत्वमुपेत्योक्तम् । वस्ततस्तदेव मास्त्वित्याह -- अवयवेति । यथा परमाण्वादाववयवनैरपेक्ष्येणैवाणुपिरिमाणं महत्परिमाणं च तथा मध्यमपिरमाणमस्तु ।
1.द्रव्यत्वं चेत् इतिनास्ति -कुं. 2.ऽरूप्यसमवेतऽ इत्यपि वर्तते -क.
3.द्रव्यसमवेत -ख-ग. 3.ऽएवऽ इति नास्ति -छ-कुं. 4.मभू-क-छ-ख. 5.आदिपदं नास्ति -मु. 6.पूर्वोत्तरपदं न -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 312.
-------------------------- ---------- ---------
भूम्यादेरुपलभ्यमाना भागास्तु नारम्यकरूपा अवयवाः किन्तु गगनस्य प्रदेशभेदा इव कालस्य क्षणादय इव चांशा एव सन्तु ॥
अत एव भूमेः खननादिना पूर्वावयवनिनाशेनावयव्यन्तरोत्पत्तेः कार्यत्वं सिद्धमिति निरस्तम् । क्षणादिनाशेन कालस्यापि तत्प्रसङ्गात् ।
प्रदीपगुणे प्रभायां दर्शनात् । न च प्रभा न गुणोपितु द्रव्यमिति युक्तम् । गुणाद्वाऽलोकवदितिसूत्रभाष्यटीकाचन्द्रिकासु
तदनुविधानादिना गुणत्वसमर्थनादिति भावः ॥
अवयवनैरपेक्ष्येणेत्या 1 द्युक्तप्रमेये प्रत्यक्षबाधमाशङ्क्य निराह -- भूम्यादेरिति ॥ नन्वाकाशप्रदेशानां विनाशादृष्टेर्भूम्यवयवानां तदृष्टेर्भूम्यवयवानां तदृष्टेर्वैषम्यमित्यत आह --कालस्येति ॥ प्रदेशभेदक्षणलवादीनामौपाधिकत्वे भूम्यवयवा 2 नामपि तथात्वमस्त्विति भावः -- पूर्ववयवीति ॥ नोदनाभिघातादिनावयवक्रियाद्वारा परमाणुपर्यन्तमसमवादिकारणसंयोगनाशेन पूर्वद्रव्यनाशे सति पुनरदृष्टाधीनपरमाणुसंयोगद्वारा खण्डक्षित्यादिकार्योत्पत्तेः पीलुपाकप्रक्रियासिद्धत्वात्कार्यत्वं सिद्धमित्यर्थः ॥
न चैवं खण्डक्षित्यदौ कार्यत्वसिद्धावप्यखण्डक्षित्यादौ न सिद्धमिति भागासिद्धिरिति वाच्यम् । नाशेन तत्रापि तदनुमानादिति भावः ॥
1.आदिपदं नास्ति - कुं. 2.अदित्यधिकं --कुं.
ईस्या-नुकत्वं-भङ्गः) ईश्वरवादः पु - 313.
------------------ --------- ----------
खनकादेरेव भूम्यादिकर्तृत्वापत्तेश्च । प्रत्यभिज्ञाविरोधाच्च । क्षणभङ्गापाताच्च॥
तदुक्तं भदवत्पादैः"विपर्ययेणाप्यनुमातुं शक्यत्वात्"इति ।
अत एवेत्युक्तं व्यनक्ति --क्षणादीति ॥ न च क्षणादीनामौपाधिकत्वात्तत्रोपाधिनाश एवेति युक्तम् । विशेषणनाशे विशिष्टस्य नाशात् । अंशानामौपाधिकत्वस्योपाधिखण्डनादौ निरासेन स्वभाविकत्वाच्चेति भावः ।
खननादिना क्षितिनाशोत्पत्यङ्गीकारो ऽप्युक्त 1 एवेति भावेनाह -- खनकादेरिति ॥ तथाचांशतःसिद्धसाधनता स्यादिति भावः ॥
यदत्रोक्तं मणौ"तत्र क्षितिनाश एव कर्तृत्वं न तु खण्डक्षितौ"अवस्थितिसंयोगेभ्य एव तदुत्पत्तेः इति । तन्न । तथात्वे खण्डक्षितिनाशेप्यकर्तृत्वापातात् । अनुभवविरोधस्योभयक्ष तुल्यत्वात् ॥
एकदेशनाशकर्तृत्वे त्वखण्डक्षित्युत्पत्तिरेव नेति कुतः कार्यत्वं क्षित्यादेरिति भावेनाह -- प्रत्याभिज्ञेति ॥ क्षणेति ॥ प्रतिक्षणं क्षित्यादौ वाय्वाद्यभिघातादिनैकैकावयवापगमेन प्रतिक्षणं तदपगमनिमित्तनाशोत्पत्त्योरुपेयत्वादिति भावः ॥
एवं सावयवत्वं सांशत्वदिरूपेण विकल्प्य व्यभिचारासिद्ध्यन्यथासिद्ध्य उक्ताः । अस्तु सावयवत्वे यत्किञ्चित् । अथापि तर्कपराहतिः । सावयवत्वात् क्षित्यादिकं कार्यं चेत् अनुपलब्धप्राक्कोटित्वादकार्यमपि स्याद्गगनवदिति भावेन तत्संवादोक्त्या व्यनक्ति -- तदिति ॥ क्षित्यादौ कार्यत्वानुमानं तर्कपराहतमित्येतत्"न चानुमानात्तत्सिद्धः विपर्ययेणाप्यनुमातुं शक्यत्वात्"इति तत्वनिर्णये उक्तमित्यर्थः ॥
1.एवेति नास्ति - कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 314.
----------------------- ------------- -----------
अस्मदाद्यनुपलम्भमानप्राक्कोटित्वेन हेतुना गगनादिदृष्टान्तेनाकार्यत्वस्याप्यनुमातुं शक्यत्वादित्यर्थः ॥
किञ्च घटादौ दर्शनमात्रेण भूभूधरादेः सावयवत्वेन कार्यत्वानुमाने रूपादौ दर्शनमात्रेण परमाण्वादेः सावयवत्वविपर्ययेण निरवयवत्वेन कार्यत्वानुमानं 1 किं
न स्यात् ॥
प्रकृतोपयोगितया तद्वाक्यार्थमाह -- अस्मदिति ॥ पूर्ववाक्यस्य तु सावयवत्वानुमानात् क्षित्यादौ कार्यत्वसिद्धिरिति न च वाच्यमित्यर्थ इति भावः ।
एतेन कार्यत्वस्यासिद्ध्युक्तिपरटीका 2 मूलरूढेति दर्शितम् ॥
ननु सावयवत्वकार्यत्वयोर्घटादिषु भूयः सहचारदर्शनात्प्राक्कोटिरप्यस्ति क्षित्यादेरित्यनुमीयत इत्यसिद्धो हेतुरिति चेत् तत्किमन्यथानुपपत्तिरूपानुकूलतर्कसहितं सहचारदर्शन केवलं वा । नाद्यः । अन्यथोपपत्तेरुक्तत्वात् । नान्त्यः । अतिप्रसङ्गादित्याह -- किं चेति ॥ मूलवाक्यं विवृण्वन्नेवाह -- सावयवत्वविपर्ययेणेति ॥ फलितमाह -- निरवयवत्वेनेति ॥
न च गगनादौ व्यभिचारः शङ्क्यः । कार्यातिरिक्तस्य सर्वस्यापि विप्रतिपत्या पक्षत्वात् । अत एव परमाण्वादेरित्युक्तिः । न
च परमाणुकालाकाशादेः कार्यत्वे कारणान्तरमपि तस्योपेयम् तस्याप्येवमित्यनवस्थापत्यादिदोष इति वाच्यम् । बीजाङ्कुरवदुपपत्तेः । प्रलयस्य च निरीश्वरवादिनो संमते। । निरवयवमध्ये कस्य चिदकार्यस्य कस्यचित्कार्यर्योपगमवत् कस्यचित्सावयवस्यैवाकार्यस्याभ्युपेयत्वाच्च ॥
1.ऽकर्तरिऽ इत्यधिकं -क. 2.अपि इत्यधिकं वर्तते -मु.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 315.
-------------------- --------- ---------
एतदप्युक्तम्"विपर्यणेति"॥
किं च कर्त्रभावेपि कार्यत्वस्य सकारणकत्वमात्रेणोपपन्नत्वेनाप्रयोजकता 1 । अन्यथा कर्मादिकारकविशेषाभावेनासनशयनादिकार्यं न स्यात् ॥

कर्मादिकं न सार्वत्रिकम् । कर्ता तु सार्वत्रिक इति चेन्न । तस्यैवाद्याप्यसिद्धेः ।
निरवयं द्रव्यमकार्यमेवेति चेत् निरवयं वस्तु कार्यमेव रूपादिवदित्युपपत्तेः ॥
नन्ववयवाभावे तत्समवेतत्वरूपकार्यत्वं बाधितमिति चेत् । रूपादिवदेवोपपत्तेः ।
द्रव्यस्यायं नियम इति चेत्तस्यैव निरस्यत्वात् । समवायस्याग्रे निरसिष्यमाणत्वेन परि 2 माणत्वेनैव कार्यत्वोपपत्तेश्चेत्यादिज्ञेयमिति भावः -- एतदपीति ॥ निरवयवत्वेन परमाण्वादेः कार्यत्वानुमानमित्यर्थः ॥
एवं कार्यत्वस्यासिद्धिमुक्त्वा व्याप्त्यभावोपपादनाय"कारणाभावप्रयुक्तत्वात्कार्याभावस्य"इत्यादिना टीकोक्तमनुकूलतर्काभावं प्रपञ्चयंस्तदपि मूलारूढं दर्शयति -- किञ्चेत्यादिना एतदप्युक्तमित्यन्तेन ॥ अन्यथेति ॥ कर्तृरूपकरकविशेषाभावेन कार्याभाव इत्यर्थः -- आसनेति ॥ आस उपवेशने आस्ते शीङ् स्वप्ने शेते भा दीप्तौ भातीत्यादेरकर्मकत्वादसनादिकार्यं कर्मसंप्रदानापादानकारकहीनमिति कर्यं न स्यादित्यर्थः ॥
1.एव इत्यधिकं -छ. 2. णामत्वे -अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 316.
----------------------- ------------ ---------
घटादौ दर्शनं तु 1 सकर्तृकत्वस्यैव शरीरधर्माधर्मसुखादुःखस्वप्रयोजनापेक्षादिमज्जन्यत्वादेरप्यस्ति ॥
एतदप्युक्तं विपर्ययेणेति"। परानङ्गीकृतशरी 2 रजन्यत्वादिनेत्यर्थः ॥
विपर्ययेणेत्यस्य पराङ्गीकृतवैपरीत्येनेत्यर्थमुपेत्याह -- परानङ्गीकृतेति ॥ तथा च कार्यत्वस्य शरीरसुखदुःखादिमज्जन्यत्वादिना सहभावदर्शनेपि यथा तत्र कार्यत्वमप्रयोजकं तथा स कर्तृकत्वेपीति भावः । अस्मिन्पक्षे"न चानुमानात्तत्सिद्धिः"इति पूर्ववाक्यस्य कार्यत्वानुमानात्सकर्तृकत्वसिद्धिरिति न चेत्यर्थो ध्येयः ॥
ननु लोके सकर्मकाकर्मकादिकार्यं दृष्टिमित्यस्तु कर्मादिहीनमपि कार्यम् । कर्तृहीनस्तु न दृष्टम् । किन्तु कर्तृमदेव । क्षित्यादि तु 3 विप्रतिपन्नम् । न च शरीरादिमत्कर्तृकमपि दृष्टिमित्युक्तमिति वाच्यम् । कृतिं विना कार्यत्वानुपपत्तिवत् शरीरादिकं
विना तदनुपपत्तेरभावात् । कार्यत्वं हि कृतिकर्मत्वम् । ऋहलोर्ण्यदिति प्यत्प्रत्ययान्तस्य करोतेस्तदर्थत्वात् । न च
कार्यशब्दो रूढः ।
"भवेतां यदि वृक्षस्य वाजिकर्णो कथं च न ।
अदृ 4 ष्टां समुदायस्य कः शक्तिं जातु कल्पयेत्"॥
इति प्रोक्षण्यधिकरणवार्तिकोक्तरीत्यावयवार्थसम्भवे समुदायशक्तिकल्पनानुपपत्तेः। अन्यथा प्रोक्षण्यादिशब्दोप्युदकविशेषे रूढ
इति स्यादित्यतो ऽस्तु नाम कार्यत्वं कर्तृजन्यत्वे प्रयोजकं तथापि त्वदुक्तविशिष्टसाध्येत्वप्रयोजकमेवेत्याह -- किञ्चेत्यादिना ॥
1.तु. इति नास्ति क-ख. ऽकर्तृरिवऽ इति वर्तते -ग. 2.रिज-क-कुं. 3.तो -मु. 4. कॢप्तां - अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 317.
------------------ ---------- ---------
किञ्चास्तुकृतेः कार्यसामान्यं प्रति हेतुत्वम् । तथापि 1 त्वतुक्तस्वजन्येत्यादिबहुविशेषणविशिष्टकृतित्वेन न । किन्तु तद्विपरीतेन लघुना कृतित्वेनैव ॥
न चैवं कपालगोचरकृत्यभावेपि 2 पटगोचरकृत्या घटोत्पत्तिः शङ्क्या । घटरूपकार्यविशेषं प्रति कपालगोचरकृतिरूपविशेषस्य हेतुतया तद्रहितायाः सामान्यसामग्र्याः कार्यजनकत्वात् ॥
न चैवं प्रकृतेपि क्षित्युपादानगोचरकृतिरूपकारणविशेषः कल्पत इति वाच्यम् । त्वया कल्प्यमाकृतिविपरीतायाः कॢप्तायाः क्षितिजनकादृष्टजनककृतेरेवेह विशेषकारणत्वात् ॥
ज्ञानचिकीर्षाकृतिनां प्रत्येकमेव हेतुतया साध्यत्रयोपगमेन मिलितानामहेतुत्वात्कृतेरित्येवोक्तं न तु ज्ञानादेरिति । एवमग्रेपि । तदिति ॥ हेतुत्वमित्यर्थः ॥
एतदपि दूषणं मूलारूढमिति भावेन कार्यत्वानुमानात् स्वजन्यादृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वादिसिद्धर्न चेति पूर्ववाक्यार्थमुपेत्य
विपर्ययेणेत्युत्तरवाक्यस्थविपर्ययशब्दार्थं वदन्नेवाह -- तद्विपरीतेनेति ॥ कार्यविशेषं प्रतीति ॥ यत्सामान्यन्यायादिति भावः ॥
न चानुमानत्तत्सिद्धिरिति पूर्ववाक्यस्थतत्सिद्धिशब्दार्थं विवृण्वन्नेव शङ्कामनूद्य निराह -- नचैवमिति ॥ प्रकृतेपीति ॥ क्षित्यादावपीत्यर्थः ॥
उत्तरवाक्यस्थविपर्ययशब्दार्थं वदन्नेव हेतुमाह -- त्वयेत्यादिना ॥ क्षितिजनकादृष्टेति ॥ हविरादिगोचरजीवकृतेरेवेत्यर्थः । अदृष्टस्य यज्ञादिसत्कर्मजन्यत्वात् ॥
1.न इति अत्रास्ति - मु. तत् इत्यधिकं-छ. 2.यत्किञ्चिद्रो -ग- कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 318.
----------------------- ----------- --------
न च कपालगोचरकृतिव्यतिरेकेण घटव्यतिरेक इव क्षित्युपादानगोचरकृतिव्यतिरेकेण क्षितिव्यतिरेको दृष्टः । येन सापि हेतुः स्यात्।
नन्वेवं घटादावपि तज्जनकादृष्टदजनककृतेरेव हेतुत्वमस्तु । न तु कपालगोचरकृतेरविशेषादित्यत आह -- न चेति ॥ येन सापीति ॥ क्षितिजनकादृष्टजनकहविरादिगोचरजीवकृतिव्यतिरेकेण क्षित्यादव्यतेरेस्तु"कार्यमात्रे ऽदृष्टं हेतुः"इति
वदतस्तवापि संमत इति तादृशकृतिस्तु स्यादेव हेतुरिति भावः । उक्तं च सुधायाम्"अदृष्टवतां जीवात्मनामेव कर्तृत्वोपपत्तेः"इति शास्त्रयोनिसूत्रे ॥
नन्वेवं नेदं सकर्तृकत्वं तथात्वे भोजकादृष्टद्वारा भोक्तृकृतिजन्ये घटादौ भोक्तृकर्तृकत्व व्यवहारापत्तेः । उक्तं च मणौ"अत एव घटभोक्ता न तत्कर्ता व्यवह्रियत इति"इति चेन्न । अदृष्टद्वारकघटाद्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमतोपि तदनुकूलाङ्गचेष्टानिरपेक्षकृतित्वाव्यवहारात् तदनुकूलचेष्टावत्येव तव्द्यवहारात् त्वदुक्तचेष्टानिरपेक्षकृतिमज्जन्यत्वेपि
सकर्तृकत्वव्यवहारानापत्या सकर्तृकत्वविवादापरिहारेणार्थान्तरतापत्तेः । शरीरचेष्टादिहीनेपि क्षित्यादतर्तरि कर्तृत्वं पारिभाषिकं चेत् अदृष्टद्वारा क्षित्यादिजनककृतिमत्यपि कर्तृत्वं
पारिभाषिकमेवास्त्विति भावः ॥
नन घटादावुपादान 1 व्यतिरेकेण घटादिव्यतिरेकदृष्ट्या तादृशकृतिमति कुलाले मुख्यकर्तृत्वोपपत्तेरिहापि क्षित्याद्युपादानकृतिमान् मुख्य एव कर्ता स्यादित्यत आह -- घटादाविति ॥
1. कृतिपदं नास्ति - कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 319.
------------------- --------- ---------
घटादौ दर्शनमात्रेण तत्कल्पने च त्वदुक्तचेष्टानिरपेक्षकृतिविपरीता चेष्टा द्वारककृतिरेव कल्प्या स्यात् ॥
एवं च कृतेः कारणतावच्छेदककृतित्वेनैव जनकता साध्यते 1 चेदस्मदादिकृत्या सिद्धसाधनम् । तन्निवृत्यर्थं स्वजन्येत्यादिविशेषणोपादाने ऽप्रयोजकता । तेन रूपेण कृतेरकारणत्वात् ॥
न चानुमानात्तत्सिद्धिरिति पूर्ववाक्यार्थानुवादो -- घटादौ दर्शनमात्रेण तत्कल्पने चेति ॥ स्वोपादानगोचरकृतिकल्पने चेत्यर्थः । क्षित्यादाविति योज्यम् । उत्तरवाक्यस्थविपर्ययशब्दार्थं वदन्नेवापाद्यमाह -- त्वदुक्तेति ॥ चेष्टाद्वारककृतिरेवेति ॥

ननूक्तमत्र घटादौ कार्यविशेषे चेष्टाद्वारककृतिदृष्टावपि यत्सामान्यविशेषन्यायेन कार्यसमान्ये कृतित्वेन हेतुत्वादिति चेन्न । कॢप्तया क्षितिजनकदृष्टजनककृत्यैवौपपत्तावकॢप्तकृतिकल्पनस्यैव बाधकत्वेन बाधकाभाव इत्यस्यासिद्धेरिति भावः ॥
छलोत्तरत्वनिरासायानुमानदोषं निष्कृष्याह -- एवं चेति ॥ दर्शनमात्रस्यातिप्रसञ्जकत्वे सतीत्यर्थः -- अकारणत्वादिति ॥ घटादौ दर्शनमात्रस्य शरीरचेष्टाद्यतिप्रसञ्जकत्वात् यत्सामान्यविशेषान्यायस्या 2 कॢप्तानेकादृष्टकल्पनाप्रसङ्गबाधितत्वेनाग्रे दूष्यत्वेन चानवतारादि भावः ॥
1. ध्याचेत् - कुं. 2.स्यक्ल - कुं.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 320.
----------------------- ----------- ----------
किञ्चोपादानशब्दो यदि यत्किञ्चिदुपादानपरस्तदा शब्दफूत्कारादौ सिद्धसाधनम् । तस्यापि यत्किञ्चित्प्रत्युपादानभूतमृदङ्गादिगोचरास्मदादिनिष्ठज्ञानादिजन्यत्वात् । यदि तु सर्वलोकसिद्धव्युत्पत्यनुसारेण समभिव्याहृतपरस्तदोपादानशब्दार्थीभूतसमायिकारणे लाघवात्समवायिका 1 रणभागत्यागेन ---
नन्वस्तु तर्हि उपादानागोचरेत्याद्येव साध्यमित्यतः"कार्यसामान्यं हि कारणसामान्यायत्तम्"इति टीकां हृदि कृत्वा पराभिमतसाध्यं निराह -- किञ्चोपादानेत्यादिना ॥ सिद्धेति ॥ अंशतःसिद्धसाधनमित्यर्थः॥
न च तत्र ज्ञानेच्छयोर्न कारणत्वम् । किं तु कृतिमात्रस्यैव मिलितानां तेषां स्वविषयसमवेतकार्यं प्रत्येव जनकत्वादिति वाच्यम् । ज्ञानादिघटितं साध्यत्रयमेवेदमिति मणिकृदभिमतत्वेनोक्तदोषापिरिहारात् ॥
यतत्रोक्तं ठक्कुरादावुपादानगोचरत्वेन यस्य ज्ञानादेर्जनकत्वं तादृशज्ञानादिजन्यज्ञानं साध्यम् । तेन च रूपेण
स्वविषयसमवेतकार्यंप्रत्येव जनकत्वान्न दोषः । स्वजन्या 2 दृष्टेत्यादिविशेषणं तु का 3 लीरूपेंऽशतःसिद्धसाधनतावारणायेति । तन्न । वक्ष्यमाणदिशा लाघवेन कारणगोचरज्ञानादित्वेन जनकतयोक्तरूपेण जनकत्वस्य क्वाप्यकल्पनात् ॥
यत्किञ्चिदिति ॥ स्वगतरूपाधिकं प्रतीत्यर्थः । मृदङ्गादीत्यादिपदेन ताल्वादिग्रहः -- उपादानशब्दार्थीभूतेत्यादि ॥ वेदान्तिमत इव परीणामिकारणानङ्गीकारात्समवायिकारणेत्युक्तम् ।
1.कारणपदं नास्ति - च-क-ख-ग. 2.न्येत्यादि -कुर्ं. 3.यरु -मु.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 321.
------------------- ---------- -----------
क्षित्यधिकं प्रति त्वदुक्तविपरीतक्षित्यादिकारणगोचरकृतित्वेनैव
कारणत्वग्रहात्तथाभूतकरणसाधनेपि सिद्धसाधनमेव । क्षितिजनकादृष्टजनकज्ञानादेरदृष्टद्वारा क्षितिजनकहविरादिविषयत्वात् । न च हविरादि क्षितिं प्रति प्रयोजकमेव न तु कारणमिति वाच्यम् । तत्रा 1 पि कारणशरीरप्रविष्टानन्यथासिद्धभागत्यागेन त्वदुक्तविपरीतनियतपूर्वव 2 र्त्तिरूपप्रयोजकगोचरकृतित्वेनैव हेतुत्वे ऽतिलाघवात् ।
स्वोक्तदोषं मूलारूढं दर्शयितुं न चानुमानात्तत्सिद्धिरिति पूर्ववाक्यस्य क्षित्याद्युपादानगोचरज्ञानादित्वेन तज्जन्यत्वसिद्धिर्न चेत्यर्थमुपेत्योत्तरवाक्यस्य विपर्ययशब्दार्थमाह -- त्वदुक्तेति ॥ कारणत्वग्रहादिति ॥ घटादौ लाघवेन घटादिकारणगोचरकृतित्वेनैव कारणताग्रहात् क्षित्यादावपि तथैव कारणत्वकल्पनादित्यर्थः ।.
अस्तु तथैवोपादानपदं कारणमात्रपरम् । तावतापीश्वरसिद्धे 3 रित्यत आह -- तथाभूतेति ॥ क्षित्यादिकारणगोचरकतित्वेन रूपेण कृतिरूपकारणसाधने 4 चेत्यर्थः । उक्तरूपज्ञानवज्जन्यं चिकीर्षावज्जन्यमित्यत्राप्येवं दोषो ध्येय इति भावेन कृतिमात्रस्य प्राग्व्वयहारेपि ज्ञानादेरित्युक्तम् । न चैतदर्थमेव स्वजन्यादृष्टेत्यादि विशेषणमुक्तमिति वाच्यम् । तत्पक्षे ऽप्रयोजककत्वदोषस्य हेतावुक्तत्वादिति भावः -- प्रयोजकमेवेति ॥ घटे कुलालपितृवदिति भावः । मूलारूढताप्रदर्शनाय त्वदुक्तविपरीतेत्युक्तिः । एवमग्रेपि -- प्रयोजकगोचरेति । त्वदुक्तेत्यर्थः ॥
1.था-ग-कुं. 2.वृत्ति-छ.ख-कुं. 3.द्धि-अ. 4.नेपी-मु-ऽचऽ इति नास्ति-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 322.
------------------------ ------------ ---------
यच्चोक्तं विशेषयोरनन्वयव्यतिरेकेण वा कारणत्वेन वा सामान्योरपि कारणत्वमिति । तत्र च न तावदाद्यः । अन्वयव्यतिरेकचोस्त्वदुक्तविपरीते स्वसमानप्रकारककार्यकारणभावग्रह एव सामर्थ्यस्य कॢप्तत्वात् । अधिक 1 सामर्थ्यकल्पनायां च बीजाभावात् ।
ननु यदुक्तं क्षित्याद्युपादागोचरकृतिव्यतिरेको न दृष्टः । येन सा पि हेतुरिति । तन्न । विशेषयोरन्वयादिदृष्ट्या सामान्ययोरपि तत्कल्पनादित्यत आह -- यच्चोक्तमिति॥ नन्विदमित्यप्रयोजकमित्यादिशङ्कोत्तररूपपूर्वग्रन्थ इत्यर्थः -- त्वदुक्तविपरीत इति ॥ घटकुलालकृत्योरन्वयादिना कार्यसामान्यकृतिसामान्ययोः कार्यकारणभाव इति यत्वदुक्तं तद्विपरीते घटत्वकुलालकृतित्वरूपान्वयव्यतिरेकप्रकारसमानप्रकारकार्यकारणभाव एव सामर्थ्यमित्यस्य दण्डघटादौ निर्णीतत्वादित्यर्थः ॥
बीजेति ॥ ननु बाधकाभाव एव बीजमिति चेन्न । तादृशसामर्थ्यकल्पनायामनेकादृष्टकल्पनस्यैव बाधकत्वात् । घटादावदृष्टस्य हस्तचेष्टानिरपेक्षकृतिजन्यत्वनित्यसर्वविषयज्ञानादिजन्यत्वादेरनेकस्य कल्प्यत्वात् । कॢप्तसामर्थ्यमात्रस्वीकारे तु लाघवात् । अन्यथा तन्तुरूपयोरन्वयव्यतिरेकाभ्यां कार्यगतरूपसामान्यं प्रति कारणतरूपसामान्यं कार्यगतगुणमात्रं प्रति
कारणगतगुणमात्रं कारणमिति वा कल्प्यं स्यात् । 2 तत्र यद्यद्बाधकमुपनिपतति तत्सर्वमपि तदनुगुणप्रक्रियाकल्पनया परिहार्थं स्यादिति भावः ॥
1.केसा - छ-कुं. 2.ऽतत्रऽ इति एकमेव वर्तते -मु.अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 323.
------------------- ---------- ------
नापि द्वितीयः विमते सामान्यं कर्यकारणभावापन्ने बाधकं विना कार्यकारणभावापन्नविशेषसंबन्धित्वात् । धूमवह्निसामान्यवदित्यत्र व्यतिरेकावच्छेदकरूपवत्वस्यै 1 वोपाधित्वात् । न च साधनव्यापकता । त्वत्पक्षे कृतित्वस्य देशतः कालतश्च व्यतिरेकहितेश्वरकृतिवृत्तित्वेन व्यतिरेकानवच्छेदकत्वात् ।
सामान्ये इति द्विवचनान्तम् । कार्यसामान्यकृतिसामान्ये इत्यर्थः -- बाधकं विनेति ॥ सामान्ये व्यभिचाररूपबाधकं विनेत्यर्थः । यद्धर्मवत्वेनोपस्थितयोः 2 विशेषयोः कार्यकारणभावस्तद्धर्मालिङ्गतत्वं तत्संबन्धित्वं ध्येयम् । घटकुलालयोः

कार्यकारणभावे कार्यसमान्यपुरुषसामान्ययोः प्रमाणवाक्यत्वेन वक्तृवाक्यार्थप्रमात्वेन कार्यत्यादिकल्पने ऽपि वाक्यसामान्यवक्तृज्ञानसामान्ययोश्च तदभावद्व्यभिचारवारणाय बाधकं निनेति -- व्यतिरेकेति ॥ अत्र रूपशब्दो धर्मपरः । धमसामान्यवह्निसामान्ययोः कार्यकारणभावो हि न तादृशधूमविशेषवह्निविशेषसंबन्धित्वनिबन्धनो ऽपितु यत्र वह्न्यभावस्तत्र धूमाभाव इति व्यतिरेकं प्रत्यवच्छेदक 3 भूतवह्नित्वधूमत्वाख्यधर्मवत्वनिमित्त एव । कार्यकारणभावापन्न घटदण्डादिस्थले सर्वत्र तथा दर्शनेन 4 साध्यव्यापकत्वं व्यक्तमिति साधनव्यापकत्वं व्यनक्ति 4 -- न चेत्यादिना ॥
व्यतिरेकावच्छेदकरूपवत्वस्यैव कारणयायां तन्त्रत्वे शब्दसमवायिकारणतयाऽकाशसिद्धर्न स्यात् । 5 तथा ज्ञानादिसमवायिकारमत्वेन आत्मसिद्धश्च न स्यात् 5 । परत्वापरत्कारणतया देशकालसिद्धश्च न स्यात् ।
1.एवकारो नास्ति - च-छ-क-ख. 2.विशेषयोरिति नास्ति -कुं. 3.भूतपदं नास्ति -अ. 4.ऽनात्। साध्यव्यापकत्वं व्यनक्तिऽ इत्यस्ति-कुं. 5.इयं पङ्क्तिर्नास्ति - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 324.
----------------------- ----------- ---------
न चैवमाकाशाद्यसिद्धिः । साक्षिणैव तत्सिद्धेः । शब्दादिकारणत्वेन तदसिद्धावपि गुणस्य समवेतत्वव्याप्त्या शब्दसमवायिकारणत्वेनैव तत्सिद्धेश्च ।
तेषां नित्यविभुत्वेन व्यतिरेकावच्छेदकरूपवत्वाभावादित्याशङ्क्य निराह -- न चैवमिति ॥ साक्षिणैवेति ॥ आत्मस्वरूपज्ञानरूपेण साक्षैणैवेत्यर्थः । शब्दज्ञानाविधौरजातिबधिरादेरप्याकाशप्रतीत्या शब्दकारणतयैवाकाशधीरिति नियमाभावात्साक्षिणैवेत्युक्तम् ॥
विवृतं चैतत् ।
"सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।"
इत्याद्यानुमानिकपादीयानुव्याख्यानसुधयोर्वादावल्याञ्चेति भावः ॥
किञ्च"द्र 1 व्यकारणत्ववत् समवायिकारणत्वं विशिष्टंम न ग्राह्यं किन्तु समवायित्वसमानाधिकरणं कारणत्वमेव समवायिकारणत्वम् । तथा च"उभयग्राहकसमाजादुभयग्रहे 2 अर्थसमाज"इति पक्षधाद्युक्तेः केवलसमवायित्वग्राहकोपनिपातेन तन्मात्रेस्यापि ग्रहणसम्भवादिति भावेन साक्षिणि विप्रतिपन्नं प्रत्यन्यथाप्याकाशसिद्धमाह -- शब्देति । समवायित्वेनेति । समवायवृत्या शब्दाश्रयत्वेनेत्यर्थः । शब्दः क्वचिदाश्रितः गुणत्वादिति सामान्यतस्तदाश्रयसिद्धौ 3 शब्दोष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टग्रव्यवृत्तित्वे बाधकोपपन्नत्वे सत्याश्रितत्वादिति सामान्यपिरशेषाभ्यां
शब्दादिसमवायित्वेनैव सिद्धिसम्भवादिति 4 भावः ॥
समवायिकारणत्वं विशिष्टमेव ग्राह्यमिति मतेपि तेन 5 रूपेणाकाशसिद्धिप्रकारं मण्युक्तमेव दर्शयति --निमित्तेति ॥
1.ऽव्ये समऽ इत्येव वर्तते -कुं. 2.वार्थः समा -मु. नार्थः समा-अ. 3.शब्दपदं न - कुं. 4.त्यर्थः -अ. 5.ऽस्वऽ
इत्यधिकं -कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 325.
--------------------- ----------- ---------
निमित्तकारणताग्रहे यत्र यदा न दण्डस्तत्र तदा न घट इति संसर्गाभावरूपस् व्यतिरेकस्य तन्त्रत्वेपि समवायिकारणत्वग्रहे यन्न समवायिकारणं तत्र न कार्यमित्यन्योन्याभावरूपव्यतिरेकस्यैव तन्त्रत्वेन शब्दसमवायिकारणत्वेनापि तत्सिद्धिसम्भवाच्च । न च समवायिभिन्न इव त्वन्मते कृतिविषयिभिन्नः प्रसिद्धः । येन कृतेरप्यन्योन्याभावरूपव्यतिरेकेण कारणता गृह्यत । सर्वस्यापीश्वरकृतिविषयत्वात् । पारिमाण्डल्यस्यापि स्वनिष्ठघटाभावसाक्षात्कारं प्रति संयुक्तसमवेतविशेषणतारूपप्रत्यास 1 त्यन्तर्भूततया हेतुत्वेनेश्वरकृतिविषयत्वात् ।
आदिपदेन व्याप्त्यसमवायिकारणग्रहः -- संसर्गाभावरूपस्येति ॥ निमित्तकारणकार्ययोराश्रययिभावाभावात् संसर्गाभावस्य तन्त्रत्वमिति भावः ॥
नन्वेवं चेदीश्वरकृतिसिद्धिरप्येवमस्तु । यन्न कृतिविषयः न तत्र
कार्यमित्यन्योन्याभावरूपव्यतिरेकेणैव कृतिकार्ययोः कार्यकारणत्वग्रहसम्भवेन क्षितिरूपकार्यानुकूलकृतिसिद्धिरित्यत आह - न चेति ॥ सर्वस्यापीति ॥ ईश्वरकृतेः कारणमात्रविषयकत्वात् सर्वस्यापि यत्किञ्चित्प्रतिकारणत्वादिति भावः॥
नन्वस्त्वात्मकालकाशादेरपि स्वगतगुणोपादानतयेश्वरकृतिविषयत्वम् । परमाणुपरिमाणस्य पारिमाण्डल्यशाब्दितस्य किञ्चित्प्रत्यप्यकारणत्वात् । तत्र यन्न कृतिविषयो न तत्र कार्यमिति व्यतिरेकग्रहः सुशक इत्यत आह-- पारिमाण्डल्यस्यापीति ॥ व्द्यणुकगतहृस्वपरिमाणस्याप्युपलक्षणं ध्येयम् -- योग्यप्रतियोगिकत्वादेरपि ॥
1. त्ति भू - छ - क -ख.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 326.
----------------------- ------------ ---------
न च तत्र घटाभावो न प्रत्यक्षः । अभावप्रत्यक्षत्वप्रयोजकत्वेन त्वदुक्तस्य योग्यप्रतियोगिकत्वादेस्तत्रा 1 पि सत्वात् । एवं च त्वतुक्तदेशकालापरिच्छिन्नकृतिजन्यत्वविपरीतपरिच्छिन्निकृतिजन्यत्वेनाप्यनुमितिः स्यात् ॥
यच्चोक्तमुपादानज्ञानं साक्षात्कारत्वेनैव 2 हेतुरिति ----
अन्योन्याभावप्रत्यक्षे ह्यधिकरणप्रत्यक्षं तन्त्रम् । न त्वभावप्रत्यक्षमात्रे । अभावप्रत्यक्षे हि प्रतियोगियोग्यत्वं वा यत्र यत्सत्वमनुपलब्धविरोधीत्युक्तदिशा प्रतियोगिसत्वप्रसञ्जनप्रसञ्जितप्रतियोगकत्वरूपमनुपलब्धेर्योग्यत्वं वा तन्त्रम् । तच्च पारिमाण्डल्यादावभावग्रहेप्यस्तीति स्यादेवाभावः प्रत्यक्ष इत्यर्थः ॥
न द्वितीय इत्यादिनोक्तं दोषं"विपर्ययेणाप्यनुमातुं शक्यत्वात्"इति मूलारूढं कुर्वन्नेव निष्कृष्य दर्शयति -- एवं चेति ॥ बाधकाभावेन व्यतिरेकरूपवत्वस्य कारणत्वे तन्त्रत्वे सतीत्यर्थः -- परिच्छिन्नेति ॥ असर्वविषयानित्यर्थः । तथाच कार्यत्वहेतुरप्रयोजक इति भावः ॥
एवं पराभिमतकृतिजन्यत्वांशे कार्यत्वहेतोरप्रयोजकत्वमुक्त्वा
अपरोक्षज्ञानजन्यत्वांशेप्यप्रयोजकत्वमिति भावेन कृतेरपरोक्षज्ञानपूर्वकत्वं प्रागुक्तं निराह -- यच्चोक्तमित्यादि ॥ हेतुरिति ॥ कपालादिकृतावित्यर्थः ॥ तथाच क्षित्यादिनिष्ठकार्यत्वहेतोर्व्यापकतया क्षित्यादिजनकमपीश्वरज्ञानपरोक्षमेव सिद्ध्यतीति
यदुक्तमित्यर्थः -- त्वन्मते चेष्टेत्यादि ॥
1.अपिपदं नास्ति -ग-कुं. 2.ऽकृतिऽ इत्यधिकं - छ-क-ख-ग.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 327.
------------------- ---------- --------
-- 1 तदपि न । त्वन्मते चेष्टोपादानस्य वायवीयशरीरस्याप्रत्यक्षत्वेपि तदधिष्टातुरात्मनश्चेष्टाहेतुकृतेरावश्यकत्वेन त्वदुक्तापरोक्षज्ञानत्वविपरीतेन ज्ञानत्वेनैव कृतिहेतुत्वात् । परमाण्वादिपरोक्षज्ञानेन कृत्यभावस्तु न साक्षात्वविरहात् । किं तु कृतियोग्यताप्रयोजकदेशकालविशेषसत्वविषयकत्वविरहात् । अत एवान्धस्याप्ताक्यादिना देशकालविशेषहेयोपादेयज्ञाने सति हानोपादाने युक्ते । यच्च कपालदृष्टान्तेन कारणीभूतसंयोगाश्रयत्वेनात्मनः --------

वायवीयशरीरादावुपादानापरोक्षज्ञानाभावेपि चेष्टाहेतुतया कृतिसत्वेनापोक्षत्वस्य कृतौ व्यभिचारादिति भावः ॥
तर्हि परमाण्वाकाशादिगोचरलिङ्गादिजन्यज्ञानेनापि तद्गोचरकृतिः स्यादित्यत आह -- परमाण्वादीति ॥ देशेति ॥ कपालादेरिव देशविशेषे कालविशेषे सत्वाभावादित्यर्थः । परमाणोर्नित्यत्वेन कालविशेषसत्वं नास्ति गगनादौ तु देशविशेषसत्वं नेति न तत्र कृतिरिति भावः -- अत एवेति ॥ ज्ञानत्वेनैव कृतिहेतुत्वादेवेत्यर्थः -- हेयेति ॥ तत्र सर्पोस्ति अत्र रजतमस्तीति ज्ञाने सतीत्यर्थः ।.
नन्वस्त्वपरोक्षज्ञानवत्वसिद्ध्यभावस्तथापि कुलालवत्कार्यहेतुतया स्यादेवेश्वरसिद्धिः । कुलेले घटहेतुत्वस्य प्रागेव साधनादित्यतः प्रागुक्तं दृष्टान्ते साध्यवैकल्योद्धारमनूद्य निराह -- यच्चेति ॥ घटकारणीभूतसंयोगाश्रयस्य कपालस्य घटकारणत्वदर्शनादितिग्रन्थेनोक्तमित्यर्थः -- लघुन इति ॥
1.तन्न - ग.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 328.
------------------------ ---------- --------
-- कारणत्वसाधनं 1 तन्न । कपालादेः कारणत्वे त्वदुक्त विपरीतस्य लघुनः कार्याश्रयत्वस्यैव तन्त्रत्वात् ।
कार्यासमवायिकारणसंयोगाश्रयत्वापेक्षया कार्यश्रयत्वस्य लघुत्वात् । तथा चात्मनस्तदभावापन्न घटहेतुत्वमिति दृष्टन्तः साध्यविकल एवेति भावः । न च भुतकालादेरपि घटकारणत्वप्रसङ्गः। समवायवृत्या तदाश्रयत्वस्याभिमतत्वात् ॥
एतच्चाभ्युपेत्योक्तम् । वस्तुतस्तु समवायस्याग्र निरसिष्यमाणतया ॥
"तन्तुभ्योन्यः पटः साक्षात्कस्य दृष्टिपथं गतः"
इति स्मृत्या संयोगाविशेषवशिष्टकपालद्वयातिरिक्तघटस्यैवाभावादृष्टान्तासिद्धिः॥
किं च संयोगस्य हेतुत्वोपगमेपि तदवच्छदकत्वेनान्यथासिद्धत्वादात्मनो न हेतुत्वम् । न चैवं चेष्टाद्वारा घटहेतुप्रयत्नवदात्मसंयोगावच्छेदकत्वेनात्मनोन्यथासिद्धौ तत एव प्रयत्नस्याहेतुत्वमिति युक्तम् । प्रयत्नस्य स्वतन्त्रान्वव्यतिरेकाभ्यामेव हेतुत्वेन तस्य तादृशसंयोगविशेषणत्वनिबन्धनत्वाभावात् । प्रयत्नवदात्मसंयोगस्य हेतुत्वेन मनाभावाच्च । येन तदाश्रयतयाप्यात्मा हेतुः स्यात् । स्वव्यधिकरणतदीयगुणव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं तु मन्त्रपाठजन्यविषच 2 लने मन्त्ररूरशब्दगुणकाकाशसंयोगासमवायिकारणत्वहीने स्वव्यधिकरणमन्त्ररूपाकाशीयगुणव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपहेतुमति व्यभिचारि । तथा तुलायामेकदिगवस्थिताधकगुरुत्वजन्यापरदिगवथितोन्नमनक्रियायां च व्यभिचारि ।
1.तत्र - छ - क - ख. 2.हाने - अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 329.
------------------- ---------- ---------
यच्चोक्तं ज्ञानमनित्यमेवेत्यादि व्याप्तिरमूलेति तन्न ।
न च तत्रापि साध्यमस्तीति वाच्यम् । विप्रतिपत्तेः । न च क्रमेण स्थलद्वये व्यभिचारवारणायादृष्टाद्वारकेति प्रत्यक्षेति च गुणविशेषणम् । मन्त्रस्त्वाशुतरविनाशित्वाददृष्टद्वारैव विषचलनहेतुः गुरुत्वगुणश्च न प्रत्यक्ष इति वाच्यम् । तथात्वे स्वव्यिधिकरणपदवैयर्थ्यापत्तेः । प्रत्यक्षपदेनैव प्रागुक्ततत्कृत्यलाभाददृष्टवदात्मसंयोगस्य कारणताभङ्गप्रसङ्गाच्च । चेष्टायामात्मकारणत्वप्राप्तवपि घटं प्रत्यात्मनः कारणत्वासिद्धेश्च ॥
एतेन मूर्तवृत्तियत्कार्यं यदियगुणनिमित्तकारणकं तत्तत्संयोगजन्यमिति व्याप्त्या संयोगकारणत्वसिद्धिः । अत्र शब्दजन्ये गगनसंयोगजन्ये शब्दगोचरप्रत्यक्षे व्यभिचारनिरासाय मूर्तेति । तन्तुरूपजन्ये तन्तुसंयोगाजन्ये पटरूपे तन्निरासाय निमित्तेति । दण्डावयवीयदण्डनिमित्तके दण्डावयवसंयोगाजन्ये घटे तद्वारणाय गुणेति पदमिति रुचिदत्तोक्तं निरस्तम् । पूर्वोक्तोन्नमनक्रियायां व्यभिचारादित्यलम् ॥ नन्वस्तूपादानगोचरज्ञानं ज्ञानत्वेनैव कृतिहेतुर्न त्वपरोक्षत्वेन । अस्तु च घटादौ कुलालकृत्यादेरेव हेतुतया कुलालस्याहेतुत्वेन तद्दृष्टान्तेश्वरस्या च क्षित्यादिहेतुतया सिद्ध्यभावः । तथापि तादृशज्ञानं कार्यत्वहेतोः पक्षधर्मताबलान्नित्यमेव सिध्यतीति तदाश्रयतयेश्वरसिद्धिर्भवतु को दोषः । न च ज्ञानमनित्यमेव साक्षात्कारस्त्विन्द्रयजन्य एव इच्छा ज्ञानजन्यैव कृतिरिच्छाजन्यैवेत्यादिव्याप्तिबाधः । ज्ञानत्वानित्यत्वयोः
कार्यकारणभावादेरभावेन व्याप्तेरमूलत्वात् । कार्यकृत्योश्च कार्यकारणभावादित्युक्तत्वादित्यतस्तन्निराह -- यच्चेति । यथाहि कृतिचजन्यत्वमेव प्रयोजकं लाघवात् न तु शरीरजन्यत्वादिकमित्युच्यते तथा आत्मविशेषगुणत्वादिरेव मनःप्रभृतिकारणजन्यत्वे प्रयोजक इति आत्मविशेषगुणत्वस्येश्वरीयज्ञानेच्छाकृतिषु तिसृष्वपि सत्वात् । साक्षात्कारत्वेच्छात्वकृतित्वरूपधर्मत्रयस्यापीश्वरीयज्ञानादौ प्रत्येकं सत्वेन च मनःप्रभृतिकारणजन्यत्वापत्त्या अनित्यत्वस्य दुर्वारत्वादिति भावः ॥
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 330.
--------------------- -------------- ----------
लाघवेन कृतिजन्यत्वे जन्यत्वस्यै 1 व मनोजन्यत्वे आत्मविशेषगुणत्वस्यैव इन्द्रियजन्यत्वे साक्षात्कारत्वस्यैव ज्ञानजन्यत्वे इच्छात्वस्यैव इच्छाजन्यत्वे कृतित्वस्यैव तन्त्रत्वेन व्याप्तेः समूलत्वे त्वदुक्तविपरीतस्येश्वरज्ञानाद्यनित्यत्वस्या 2 नुमातुं शक्यत्वात् ॥
न चास्या व्याप्तेरस्मदादिज्ञानादिमात्रवषयकत्वात्कार्यत्वानुमानेन च पक्षधर्मताबलादस्मदादि भिन्नकर्तृसिद्ध्या भिन्नवषकत्वादप्रतिबन्धकतेति वाच्यम् ।
सङ्क्यापिरमाणाद्यात्मसामान्यगुणे मनोजन्यत्वाभावाद्विशेषगुणत्व 3 स्येत्युक्तम् । मनोजन्यत्वं च मनस्त्वेन रूपेण तज्जन्यत्वं ध्येयम् । तेन मनःक्रियायामात्ममनः
संयोगादौ च मनोजन्ये नाव्याप्तिदोषः । एवं ज्ञानजन्यत्व इत्यादिना तज्जन्यत्वं ध्येयम् ॥
"वयं तु ब्रूमः पक्षधर्मताबलान्नित्यत्वं सिध्यति"इत्यादिना मण्युक्तमेवाशङ्क्य निराह - न चास्या व्याप्तेरिति ॥ ज्ञानमनित्यमेव साक्षात्कार इन्द्रियजन्य एव इजच्छाज्ञानजन्यैवेत्यादिव्याप्तेरित्यर्थः -- मात्रेति ॥ पक्षधर्मताबललभ्याप्रसिद्धज्ञानाद्यविषयकत्वादित्यर्थः -- 4 कर्त्रिति ॥ अपरोक्षज्ञानचिकीर्षाकृतिमत्पुरुषसिद्ध्येत्यर्थः ।
1.स्थलचतुपष्टयेपि ऽएवऽ इति नास्ति -ख. 2.अपि इत्यधिकं - ख -ग. 3.णस्ये - अ. 4.कृतीति - अ.
ईस्या-नुकत्व-भङ्गः ) ईश्वरवादः पु - 331.
-------------------- --------- ---------
सामान्यप्रत्यासत्याभ्युपगमे समानविषयकत्वात् । तदनभ्युपगमे स्थापनानुमानव्याप्तेरप्रसिद्धकर्तुसाधकत्व इवास्या अपि व्याप्तेस्तद्बा 1 धकत्वे समानप्रकारकत्वस्यैव तन्त्रत्वात् । अन्यथा बाधसत्प्रतिपक्षाव 2 प्यप्रतिबन्धकौ स्याताम् । प्रत्यक्षादिसिद्धाभावप्रतियोगि यच्छैत्यम् तदन्यस्यैव शैत्यादेः पक्षधर्मताबलात्सिद्धिरिति तत्रापि सुवचत्वात् ।
अदृष्टद्वारकशरीरजन्यत्वमुपाधिश्च ।

किमेतद्भिन्नविषयत्वं यत्र धूमस्त्वाग्निरिति महानसादौ धूमवह्न्योर्व्याप्तिग्रहः सामान्यप्रत्यासत्या पर्वतादिपक्षनिष्ठधूमवह्नी अपि विषयीकरेतीति त्वन्मतरीत्योच्यते, अथ सामान्यप्रत्यासत्तेरभावात् अन्यत्र जायमानव्यात्पिग्रहः पक्षीयहेतुसाध्येनावगाहते तथापि समानप्रकारकत्वमात्रेण पक्षीयहेतुसाध्ययोर्लिङ्गिलिङ्गिभावे नियामक इति मीमांसकरीत्योच्यत, इति विकल्पौ हृदि कृत्वा क्रमेण निराह -- सामान्येति ॥ समानेति ॥ कार्यत्वकृतिजन्यत्वरूपसमानप्रकारकत्व 4 स्यच ज्ञानत्वानित्यत्वरूपसमानप्रकारकत्व 5 स्यते 4 त्यर्थः -- अन्यथेति ॥ उक्तव्याप्तेरबाधकत्व इत्यर्थः ॥
बाधादेरप्रतिबन्धकत्वं व्यनक्ति -- प्रत्यक्षेति ॥ वह्निः शीतो वस्तुत्वादित्यादौ यत्पक्षधर्मताबललभ्यं शैत्यं तदन्यस्यैव शैत्यस्याभावः पक्षीभूतवह्निव्यति 6 रिक्ते गृहीत इति पक्षीभूतवह्नावेव वा यदि शैत्याभावो गृहीतः -----
1.द्वन्ध-ख. 2.ऽअपिऽ इति नास्ति -ख. 3.धर्मपदं न -ख. 4.एतावन्नास्ति -अ. स्यैव-कुं. 5.स्येव ज्ञानत्वनित्यत्वरूपसमानप्रकारकत्वस्यैवेत्यर्थः -- कुं. 6.रेके-अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 332.
----------------------- -------- --------
न चायं पक्षधर्ममात्रव्यावर्तकविशेषणवत्वात्साधनघटितत्वाद्व्याप्तिग्राहकतौल्येन हेतुसमानयोगक्षेमत्वाच्चानुपाधिरिति वाच्यम् ।
-- तदापि त्वगिन्द्रियगृहीताभावप्रतियोगिशैत्यादन्यदेवे 1 दं साध्यमानं शैत्यमिति वक्तुं शक्यत्वादित्यर्थः ॥
एवं कार्यत्वानुमाने ऽसिद्ध्यप्रयोजकत्वबाधानुक्त्वोपाधि 2 ञ्चाह -- अदृष्टेति ॥ क्षित्यादेरदृष्टद्वारास्मदादिशरीरजन्यत्वात्साधनाव्यापकत्वायादृष्टाद्वारकेति शरीरेति च विशेषणम् । घटादौ साध्यव्यापकत्वं व्यक्तम् ॥
उपाध्याभासोयमित्याशङ्क्य निराह -- न चायं पक्षमात्रेति ॥
तादृशस्याप्युपाधित्वे पर्वतेतरत्वादेरप्युपाधितापत्यानुमानमात्रोच्छेद इति भावः -- साधनेति ॥ कार्यत्वापरपर्याय जन्यत्वघटितत्वादित्यर्थः । तादृशस्याप्युपाधित्वे ऽतिप्रसङ्गादिति भावः ॥
यद्यपि समवेतत्वे सति जन्यत्वं साधनं न तु जन्यत्वमात्रम् । तथापि साधनविशेषितवत्साधनैकदेशविशेषितोपि नोपाधिरिति भावेनेदं योज्यम् । यद्वा ध्वंससाधारणपक्षत्वे जन्यत्वमेव हेतुरिति तदभिप्रायमेतत् ॥
व्याप्तिग्राहकेति ॥ यत्र सकर्तृकत्वं यत्र शरीरजन्यत्वमिति व्याप्तिग्राहकं भूयःसहचारदर्शनादिकं यत्र जन्यत्वं तत्र सकर्तृकत्वमिति व्याप्तिग्रहेपि तुल्यमिति 3 व्याप्तिग्राहकतौल्येनेत्यर्थः । तथाच साध्यव्यापकत्वानिश्चयान्नोपाधिरिति भावः॥
4 शङ्काग्रन्थमण्युक्तमेव समाधिमाह -- शरीरजन्यत्व इत्यादिना दर्शनादित्यन्तेन ॥ अननुगतत्वेनेत्यनन्तरं अनवच्छेदकत्वादिति शेषः ।
1.ऽइदंऽ इति नास्ति -अ. 2.च इति नास्ति-अ. 3.त्यर्थः -व्याप्ति-अ. 4. 3 3 3 पृष्टे, ऽहेतुसमानयोगक्षेमस्येतीऽ त्यारभ्य ऽ सिद्ध्यतीति भावः ऽ इत्यन्तं अत्रास्ति -मु.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 333.
-------------------- ------- ----------
शरीरजन्यत्वे त्वदभिमतघटित्वादेरननुगतत्वेन तद्विपरीतस्य 1 कर्तृजन्यत्वस्यैवाच्छेदकत्वेन साध्यव्यापकत्वात् । सति च साध्यव्यापकत्वे बाधोन्नीतस्य पक्षेतरत्वस्य सह्निनाधूमसाधन आद्रेन्धनप्रभववह्निमत्वरूपस्य साधनघटितस्य जलस्य रसत्वेन गन्धवत्वे साध्ये पृथिवीत्वरूपस्य हेतुसमानयोगक्षेमस्य चोपाधितादर्शनात् । न च कर्तृजन्यत्वे लाघवेन
जन्यत्वस्यैवावच्छेदकत्वाद्धेतोर्व्याप्ति निश्चये साध्यव्याप्यहेत्वव्यापकत्वादुपाधेः साध्याव्यापकतेति वाच्यम् ।
मूलारूढताभिव्यक्त्यर्थं तद्विपरीतेत्युक्तम् । साध्येति ॥ सकर्तृकत्वरूपसाध्येत्यर्थः । पक्षेतरत्वस्येति ॥ तेजो ऽनुष्णं पदार्थत्वादित्यत्रातेजत्व 2 रूपोपाधेर्व्यावृत्या
तद्व्याप्यसाध्या 3 भावस्यापि निर्णयादिति भावः ॥
वह्निनेत्यादि ॥ ननु तत्र धुमवत्वे वह्निमत्वमात्रमप्रयोजकम् । अनुकूलतर्काभावात् । साधनघटितोपि स्यादुपाधिरिति चेत्तुल्यं प्रकृतेपि त्वदभि 4 प्रेतसकर्तृकत्वे कार्यत्वहेतोरहप्रयोजकत्वस्य प्रागुपपादनादिति भावः ॥
हेतुसमानयोगक्षेमस्येति ॥ रसत्वस्य गन्धवत्वेन व्याप्तिः पृथिवीत्वोपहिते ग्राह्या । नत्वन्यत्र । सा च तत्र येन मानेन ग्राह्या तेनैव च गन्धवत्वपृथिवीत्वयोरपि सिद्ध्यतीति भावः ।"लाघवेन बाधकं विना कर्तृजन्यत्वे हि जन्यत्वमवच्छेदकं न तु शरीरजन्यत्वं गौरवात् । तथाच न शरीरजन्यत्वे सकर्तृक 5 त्वव्यापकम् । घटादौ त्वार्थःसमाजः । घटत्वेन शरीरजन्यत्वनियमात्"इत्यादिना मण्युक्तमाशङ्क्य निराह । न च कर्त्रीति । हेतोरिति । जन्यत्व हेतोरित्यर्थः । ध्वंससाधारणपक्षत्वपक्षे जन्यत्वस्यैव हेतुत्वादिति भावः ॥
1.समस्तं पदं -कुं-ग-छ. 2.रूपपदं नास्ति -अ. 3.ध्यस्याप्यभावनिर्ण -अ. ध्यव्याप्त्यभावनि - मु. 4.मते -अ- मु. 5.त्वे - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 334.
----------------------- ----------- ----------
त्वदुक्तरीत्या कर्तृजन्यत्वे जन्यत्वमदच्छेदकं शरीरजन्यत्वे तु घटत्वादिकं वा अथवा तद्विपर्ययेण शरीरजन्यत्वे 1 जन्यत्वं कर्तृजन्यत्वे तु घटत्वादिकं 2 वेति सन्देहेन सन्दिग्धोपाधेर्दुष्परिहारत्वात् ॥
न च कर्तृजन्यत्वं प्रथमं ज्ञातं सच्छरीरजन्यतावच्छेदकत्वेन कल्प्यम् । तच्च कार्यत्वावच्छिन्नमेव ज्ञातमित्युपजीव्यविरोधान्न कर्तृजन्यत्वं शरीरजन्यतावच्छेदकमिति वाच्यम् । त्वदुक्त 3 रीत्या शरीरजन्यत्ववत्तद्विपरीतकर्तृजन्यत्वस्यापि प्रथमं घटत्वाद्यवच्छेदेनैव ज्ञानसम्भवात् ॥
प्रथमं कर्तृजन्यत्वे जन्यत्वमवच्छेदकं कॢप्तमिति तद्विरोधेन शरीरजन्यत्वे न सकर्तृकत्मवच्छेदकं अत एव न सन्दिग्धोपाधित्वमित्यादिमण्युक्तमाशङ्क्य निराह -- न च कर्तृजन्यत्वमिति ॥ तच्चेति ॥ कर्तृजन्यत्वमित्यर्थः । कर्तृजन्यत्वे
लाघवेन जन्यत्वस्यैवावच्छेदकत्वात् । कार्यत्वावच्छिन्नं कार्यत्वव्यापकम् । कर्तृजन्यत्वं शरीरजन्यतावच्छेदकं न सम्भवति । तस्य कार्यत्वरूपहे 4 त्वव्याकत्वात् । शरीरजन्यत्वं 5 सकर्तृकत्वव्याप्यकार्यत्वाव्यापकं 6 सकर्तृकत्वव्यापकं 7 चेत्यस्यायोगात् । अत उपजीव्यविरोधान्न कर्तृजन्यत्वं शरीरजन्यतावच्छेदकमित्यर्थः -- शरीरजन्यत्ववदिति ॥
1.कर्तृपदमधिकं -कुं. छ. 2.चेति-च. 3.रीत्या -इतिनास्ति -मु.च-क-ख.रा. 4.तुव्या-अ. 5.त्वस-अ. 6.कस-अ. 7.कत्वेचे -अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 335.
------------------- --------- ---------
किञ्च कृतिकार्ययोः कार्यकारणभावग्रहेपि न ज्ञानेच्छयोः सिद्धिः ।

शरीरजन्यत्वं घटत्वादिनावच्छिद्यते यत्र घटत्वादिकं तत्र शरीरजन्यत्वमिति कर्तृजन्यत्वं तु कार्यत्वेन यत्र कार्यं तत्र कर्तृजन्यत्वमिति एतच्च प्रथमं ज्ञायत इति यथा त्वोच्यते, तथैव कर्तृजन्यत्वं घटत्वादिनैवावच्छिद्यते यत्र घटत्वादि 1 तत्र
कर्तृजन्यत्वमिति प्रथमं चास्य ज्ञानं सम्भवत्येन । ग्राहकसत्वात् । तथा च कर्तृजन्यत्वं घटत्वादिनावच्छिन्नतया प्रथमं ज्ञातमिति तद्विरोधान्न कार्यत्वावच्छिन्नत्वेन पश्चाज्ज्ञातुं शक्यमिति कार्यत्वस्येन कर्तृजन्यत्वाव्याप्यत्वात्तेन कथं त्वदभिमतसकर्तृकत्वानुमानम् । प्रत्युत शरीरजन्यत्ववच्छेदकत्वेनैव कार्यत्वस्यावगमात्तेन तदनुमानमेव स्यादित्यर्थः ॥
ननु यत्सामान्यविशेषन्यायेन कृतित्वकार्यत्वयोरवच्छेद्यावच्छेदकभावग्रहे सति कृतिजन्यत्वव्याप्यकार्यत्वा 2 व्यापकत्वात्साध्यापव्यापकत्वं शरीरजन्यत्वस्येति चेन्न । प्रागेन यत्सामान्येति न्यायलभ्यपक्षस्य खण्डनात् ॥
अभ्युपेत्यापि कार्यत्वेन कृतिजन्यत्वानुमानम् । ज्ञानचिकीर्षावत्वांशे शरीरजन्यत्वमुपाधिर्भवत्येव । न हि कृतित्वकार्यत्वयोरिव ज्ञानत्वकार्यत्वयोरिच्छात्वकार्यत्वयोर्वा व्याप्यव्यापकभावे बीजमस्ति । येन ज्ञानेच्छाजन्यत्वव्याप्यकार्यत्वाप्यापकत्वाच्छरीरजन्यत्वं साध्यव्यापकं स्यादित्यत आह -- किञ्चेति । ग्रहेपीत्यस्य ग्रहात्कार्यत्वेन कृतिसिद्धावपीत्यर्थो ध्येयः -- न
ज्ञानेच्छयोः सिद्धिरिति ॥ तयोः शरीरसंबन्धनिमित्तत्वादीश्वरे च त्वया तदनङ्गीकारादिति भावः ॥
1. सकर्तृ - अ. 2. त्वस्या - कुं .
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 336.
----------------------- -------------- ----------
आत्मनः शरीरसम्भन्धे ज्ञानगतकार्यत्वस्येव ज्ञानादिसम्भन्धेपि त्वदुक्तकृतित्वमात्रविपरीतकृतिगतकार्यत्वस्यै 1 व तन्त्रत्वात् ।
न च 2 कृतिवज्ज्ञानेच्छयोरपि स्वासन्त्र्येण कार्यहेतुत्वात्तत्सिद्धिः । आत्मसंयोगे सत्यपि कृतिव्यतिरेकेणेव कृतौ सत्यां ज्ञानादिव्यतिरेकेण कार्यव्यतिरेकादर्शनात्॥
ननु कार्यत्वेन कृतिसिद्धावुपेतायां कृतेर्ज्ञानेच्छापूर्वकत्वस्य घटकृत्यादौ दर्शनात्कृत्यानुषङ्गिकतया तयोरपि सिद्धिः स्यादेव । न च शरीरसम्भन्धे तन्त्रयोर्ज्ञानेच्छयोर्भावात्तत्प्रत्युक्तशरीरसम्भन्धसिद्धिः । तस्य जन्यज्ञानादिप्रयुक्तत्वादित्यतः तर्हि जन्यकृतावेव ज्ञानेच्छापूर्वकत्वं नत्वजन्यत्वकृताविति कार्यत्वस्य पक्षधर्मताबलान्नित्यकृतिसिद्ध्या न ज्ञानेच्छयोः सिद्धिरिति भावेनाह -- आत्मनः इति ॥
नन्वस्तु कार्यत्वेन कृतेरि 3 व स्वान्त्र्येण ज्ञानादिसिद्धिः । शरीरजन्यत्वोपाधेः साध्यव्याप्यचहेत्वव्यापकत्वेन निराससम्भवादिति भावेनाशङ्क्य निराह -- न चेति ॥ यद्वा ज्ञानेच्छयोः सिद्धिः किं कृत्यनुषङ्गिकत्वेनोतस्वान्त्र्येणा 4 थ ज्ञातस्यैव कृतिविषय 6 त्वात्कृतेःस्वातोर्थासम्बद्ध 7 त्वद्विषयेण सह कृतेः प्रत्यासत्तित्वेन । आद्यस्योत्तरं -- आत्मन इत्यादि ॥ द्वितीयमाशङ्क्य निराह -- न चेत्यादि ॥ आत्मसंयोग इति ॥ आत्मनो विभुत्वेन त्वन्मते सदा संयोगा 8 दिति भावः ।
1.एवकारो नास्ति-छ-कुं-ग. 2.कृतिवदिति नास्ति-ग. 3.रेव -कुं. 4.अथ इति न -अ. 5.न-कुं. 6.वेद्य इत्यधिकं -अ. 7.न्धात्-मु- अ. 8.गभावा -अ.
संभवा-मु
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 337.
------------------ --------- ---------
न च कृतेर्विषयप्रत्यासत्त्यर्थं ज्ञानापेक्षा कृतिविषययोर्ज्ञानस्यैव 1 प्रत्यासत्तित्वादिति वाच्यम् । कृत्यजनकज्ञानस्य प्रत्यासत्तित्वे ऽतिप्रसङ्गात्तज्जनकज्ञानस्य च कृतिकाले नष्टत्वेनाप्रत्यसत्तितया ज्ञाने ज्ञानस्वरूपस्येव कृतावपि कृतिस्वरूपस्यैव
प्रत्यसत्तित्वात् । अन्यथा कृतिकालं ज्ञानाभावेन घटं करोमीति घटतत्योः सम्बन्धधीर्न स्यात् । तस्मात्वदुक्तकृत्यादि 2
त्रयविपरीतकृतिमात्रवत्वेनाप्यनुमितिः स्यात् ॥
3 किञ्चास्तु कृतिप्रत्यासत्तित्वेन ज्ञानसिद्धिः।
नन्वस्त्वतिप्रसङ्गभिया जन्यकृतावन्यत्र जनकज्ञानस्य प्रत्यासत्तित्वम् । एवं च ज्ञानस्य कृतिप्रत्यसत्तित्वे क्वचित्सिद्धे सतीहागत्यानीदृशस्याप्यस्तु प्रत्यसत्तित्वमित्यतोन्यत्रापि तन्नास्तीत्याह -- तज्जनकेति ॥ अनन्यगत्यास्तु नष्टस्यापि तथात्वमपीत्यत आह -- ज्ञान इति ॥ उक्तं च"न प्रयोजनवत्वात्"इत्यधिकरणसुधायाम् ॥
"महातात्पर्ययुक्तेश्च"
इत्येतद्व्याख्यावसरे"प्रयत्नस्य विषयनियमार्थं बुद्धिरेष्टव्येति चेन्न ---
1.एतवकारो नास्ति - रा. 2. त्रितय - कुं - छ - ग. 3. एतावन्नास्ति - क.
न्यायदीपयुततर्कताण्च्वम् (प्र.परिच्छेदः पु - 338.
------------------------- ---------- ------
इच्छा तु कथं सिद्ध्येत् । तथा च त्वदुक्त 1 त्रितयविपरीतद्वितयवत्वेनाप्यनुमितिः स्यात् ॥
किच्ञोपाधेर्व्यभिचारोन्नायकत्वपक्षे त्वदुक्तसकर्तृकत्वविपरीताकर्तृकत्वस्य शरीरजन्यत्वेनाप्यनुमातुं शक्यत्वात्सत्प्रतिपक्षता । न च कर्त्रजन्यत्वे ऽजन्यत्वस्यैव तन्त्रत्वादप्रयोजको हेतुः । 2 शरीरजन्यत्वे कर्तृजन्यत्वं वावच्छेदकं कर्तृजन्यत्वे
कार्यत्वं वेति संदेहस्योपपादितत्वेन स्थापनाहेतुतौल्यात् ॥
-- बुद्धिवत्स्वतोविषयप्रवणतोपपत्तेः इति 3 इति भावः -- कथं सिध्येदिति ॥ किं कृत्यानुषङ्गिकत्वेनाथ स्वतन्त्र्येणोत कृतिप्रयत्नसत्तित्वेन । न पक्षत्रयमपि सम्भवति । पूर्वोक्तदोषादिति भावः ॥
एवं कार्यत्वहेतोः सोपाधिकत्वमुक्त्वा सत्प्रतिपक्षतां चाह -- किच्ञेत्यादिना ॥ ननु प्रमाणलक्षणे"स एवोपाधिदोषोपि"इत्युक्तोपाधेः प्रतिपक्षत्वेनैव दोषत्वोपगमात्, प्राचीनन्यायमते तथैवाभ्युपगमाच्चोपाध्युक्त्यैव तद्व्यतिरेकरूपप्रतिपक्षस्योक्तत्वात् किञ्चेति दोषान्तरतयोक्तिरयुक्तेत्यत आह -- व्यभिचारेति ॥ मणिकृन्मते व्यभिचारोन्नायकत्वोपगमनोपाध्युक्त्या हेतोर्व्यभिचारबुद्धेरेवोदयेन प्रतिपक्षबुद्धेरनुदयादिति भावः -- विपरीतेति ॥ विमतं क्षित्यादि अकर्तृकं शरीराजन्यत्वाद्गगनवदित्यनुमातुं शक्यत्वादित्यर्थः । अत्र शरीरजन्यत्वदसिद्धिरिति शङ्कानवकाशः -- अप्रयोजक इति ॥ अकर्तृकत्वे अजन्यमात्रस्य प्रयोजकत्वादिति भावः ।"सन्देहस्येति प्रतिपक्षतानिर्वाहायोक्तम् ।
1.कृत्यादि इत्यधिकं -कुं-छ-क. 2.शरीरजन्यत्वं कर्तृजन्यत्वं वा - क. 3. पुनः ऽइतिऽ इति नास्ति -कुं-अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 339.
-------------------- --------- ----------
अथ मतं आकाशादवजन्यत्वस्यैवाकर्तृकत्वेन व्याप्तिग्रहाच्छरीरविशिष्टे तस्मिंस्तदभावव्द्याप्यत्वासिद्धिः । तथा 1 च विशेषणविशेष्ययोरेकैव व्याप्तिर्व्यासज्यवृत्तिरिति वा, विशिष्टव्याप्तिशब्दार्थः विशेष्यनिष्टैव व्याप्तिर्विशेषणेनावच्छिद्यत इति वा । तत्र व्यासज्यवृत्तित्वे केवलविशेष्यावृत्तित्वासंभवो हेतुः । विशेषणेनावच्छेद्यत्वे तु विशेष्यतावच्छेदकस्य व्या 2 प्यतावच्छेदकत्वासम्भवः । प्रकृते तु नोभयम् ।

वस्तुतस्तु कर्तृजन्यत्वे कार्यत्वं नावच्छेदकम् । तेन विनापि तस्योपपत्तेः। अन्यथा कर्मजन्यतावच्छेदकमपि कार्यत्वं स्यादित्यादिना
कार्यत्वहेतोरप्रयोजकत्वस्योक्तत्वादिति -- तौल्यादिति ॥ तथा च नाप्रयोजकत्वमिति भावः ॥
अपि च"शरीर 3 जन्यत्वे व्यर्थविशेषणत्वम् । लाघवेनाजन्यत्वस्यैव व्याप्यत्वा"दित्यादिना मण्याद्युक्तं निष्कृष्यानुवदति
-- अथ मत मित्यादिना अत्रोच्यते इत्य 4 न्तेन -- विशिष्टव्याप्तीति ॥ विशिष्टहेतुनिष्ठा व्याप्तिरिति शब्दार्थ इत्यर्थः -- तत्रेति ॥ कल्पद्वय इत्यर्थः -- हेतुरिति ॥ यथा शब्दो नित्यः भावकार्यत्वादित्यादौ -- विशेषणेनेत्यादि ॥ यथा कृष्णागरुवह्निमान् सुरभिधूमवत्वादित्यादाविति भावः -- विशेष्यत्वावच्छेदकेति ॥ अजन्यत्वारूपावच्छेदकेत्यर्थः ॥
1.हि - कुं-छ-ग-रा. 2.प्त्य -कुं-छ-ग. 3.रा-मु. 4.तिपर्यं -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.पिरिच्छेदः पु - 340.
----------------------- -------- ----------
व्याप्तौ केवलविशेष्यरूपाजन्यत्वनिष्ठतायाः विशेष्यत्वावच्छेदकावच्छिन्नतायाश्च सम्भवात् । न च व्याप्तिवत्प्रक्षधर्मताया अप्यनुमित्यङ्गत्वात्तत्सिद्ध्यर्थं विशेषणमिति वाच्यम् । व्याप्तिसमानाधिकरणाया एव तस्या अङ्गत्वेनात्रविशेष्यनिष्ठव्याप्तिव्यधिकरणाया विशिष्टवृत्तिपक्षधर्मताया अनङ्गत्वात् ॥
न च चक्षुस्तैजसं रूपादिषु पच्ञसु 1 रूपस्यैव ग्राहकद्रव्यत्वात् इत्यादौ विशिष्टवृत्तिपक्षधर्मता विशेष्यवृत्तिव्याप्तेरङ्गं दृष्टमिति वाच्यम् । तत्राप्यवधारणमहिम्ना रूपेतरविशेषगुणाव्यज्ञकत्वे सति रूपग्राहकत्वस्य हेतृत्वेन विशेष्यमात्रस्य मनसि व्यभिचारितया व्याप्तेरपि विशिष्ठत्वात् । न चात्राजन्यत्वरूपस्य विशेष्यस्य व्यभिचारोस्ति ॥
रुपादिषु पच्ञस्विति स्वरूपकथनं मत्वाह -- तत्रापीति ॥
ननु रूपस्यैवेत्यादेरेव रूपेतरविशेषगुणेत्याद्यर्थकत्वे रूपादिषु पच्ञस्विति व्यर्थम् 2 । अतो रूपेतराव्यज्ञकत्वमेव तदर्थो वाच्यः । तथा च चक्षुषो रूपत्वस्यापि व्यज्ञकतया हेतोरसिद्ध्यापत्या तन्निरासकविशेषणविशिष्ट एव पक्षधर्मता
व्याप्तिस्तु विशेष्य इत्यरुचेरप्रसिद्धिवारकत्वेन सार्थक्यं मन्वान आह -- यद्वेति ॥ अलब्धात्मकत्वस्येति ॥ क्वाप्यप्रसिद्धेर्मनःप्रभृते रूपत्वस्यापि ग्राहकत्वादिति भावः ॥
1.मध्ये इत्यधिकं -कुं-छ. 2.अत्र"एकविशेषणं विशिष्टावरकधर्मताव्याप्तिस्तु विशेषादित्यरुचेः"इति पङ्क्तिरस्ति - अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 341.
------------------ --------- ----------
यद्वा मनसि व्यभिचारवारकस्यावधारणस्य रूपादिष्विति विशेषणं विना 1 लब्धात्मकस्य व्यभिचारवारणाशक्त्या विशेषणस्यापि तल्लाभसंपादनद्वारा व्यभिचारवारणाप्रयोज 2 कत्वमेव । अजन्यत्वं तु शरीरविशेषणं विनापि गगनादौ लब्धात्मकम् ॥
अथ मत नीलधूमादावपि विशिष्टनिष्ठैव 3 व्याप्तिः । तत्र व्यभिचारोपाध्योरभावात् । अन्यथा विशेषणानामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् । किं तु नीलधूमत्वं न तदवच्छेदकम् । गौरवात् । अपि तु धूमत्वमेव । न च व्यभिचारवारकनैल्यविशेषणवत्वेनाज्ञात एवं व्याप्तिग्रहात्तद्वत्वेन ज्ञाते व्याप्तिप्र 4 माविरह इति वाच्यम् । सहचारदर्शने 5 व्यभिचारादर्शने च सति द्रव्यत्वादिमत्तयाज्ञातेपि धूमे ऽव्यभिचारादिरूपव्याप्तिग्रहादिति चेन्मैवम् ।
"नीलधूमादौ व्याप्तिरस्त्येव। अन्यथा विशेषणानामव्याप्यत्वे निराश्रया व्याप्तिः स्या"दित्यादिना मण्युक्तविशिष्टनिष्ठव्याप्तिपक्षा 6 शङ्कामनुवदति -- अथ मतमित्यादिना मैवमित्यन्तेन ॥ नीलधूमादावपीति ॥ तथा च शरीरजन्यत्वेपि विशिष्टहेतौ व्याप्तिरस्त्यैवेति 7 तत्र व्याप्त्यसिद्धिप्युत्पादनमयुक्तमिति भावः ॥
1.नुपल-क. 2.नक-कुं-ग-छ. 3.एवकारो नास्ति -कुं-छ-क. 4.मिति-कुं-च-ग.
5.उपाध्यभावदर्शने -ग. 6.क्षश-कुं-क्षाननु-अ. 7.तत्रेतिद्विवारमस्ति-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 342.
----------------- ---------- -------------
अनुमितिप्रयोजकव्याप्तिविरहो हि व्याप्यत्वासिद्धिः . तत्प्रयोजिका च व्याप्तिः साध्यसामानाधिकरण्यावच्छेदकरूपवत्व 1 लक्षणा न त्वव्यभिचाररूपानौपाधिकत्वरूपा वा । गौरवात् । अपदार्थत्वे न अवाक्यार्थत्वेन चोदाहरणवाक्येन तदप्रतीतेश्च । तद्विरहश्च सामानाधिकरण्याभावेन वा यथा निरधिकरणे वस्तुनि, सत्यपि तस्मिंस्तस्य साध्यनिरूपितत्वविरहाद्वा यथा विरुद्धे, सतोरपितयोर्धर्मस्यानवच्छेदकत्वविरहाद्वा यथेयं पृथिवी द्रव्यत्वादित्यत्र द्रव्यत्वे ।
विशिष्टहेतोर्व्याप्तिविरहवादी अवान्तरविशिष्टनिष्ठव्याप्तिपक्षचोद्यं व्याप्तिवादे 2 मणिकृदभिमतव्याप्तिलक्षणमुपेत्य निराह -- मैवमित्यादिना ॥ गौरवादिति ॥ नञ्घटितत्वादिति भावः -- उदाहरणेति ॥ यो यो धूमवानसनावसावग्निमानित्यादिरूपवाक्येन धूमे वह्निरूपसाध्यनैकाधिकरण्यस्य तदवच्छेदकधूम 3 त्ववत्वस्य च प्रतीतेरिवाव्यभिचारादेरप्रतीतेरित्यर्थः -- वस्तुनीति ॥ पर्वतोग्निमान् गगनवत्वादित्यत्र गगनाख्यवस्तुनीत्यर्थः -- तस्मिन्निति ॥ सामानाधिकरण्य इत्यर्थः -- विरुद्ध इति ॥ पर्वतो ऽग्निमान् हृदत्वादित्यादावित्यर्थः -- द्रव्यत्व इति ॥ तत्र सामानाधिकरण्यस्य तस्मिन्पृथवीत्वसामानाधिकरण्यावच्छेदकम् । द्रव्यत्वस्य पृथवीत्वमात्रसामानाधिकरण्याभावादिति भावः ।
1.रूपा - ख. 2. द -कुं. 3. मव - कुं. 4.व्यवत्वं - कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 343.
------------------- --------- ----------
व्यर्थविशेषणे च नीलधूमादौ सामानाधिकरण्ये तस्य साध्यनिरूपितत्वे च सत्यपि नीलधूमत्वस्य वह्निनिरूपितसामानाधिकरण्यावच्छेदकत्वविरहाव्द्याप्तिविरहः ।
नन्विहावच्छेदकत्वं न तावदवच्छित्तिप्रत्ययहेतुत्वादिकम् । आत्माश्रयात् । नाप्यवच्छेद्यान्यूनानातिरिक्तवृत्तित्वम् । वह्निसामानाधिकरण्यवत्वलोकादावविद्यमाने धूम 1 त्वादावपि तदभावात् ।
किन्त्वनतिरिक्तदेशकत्वम् । तच्चनीलधूमवत्वेप्यस्ति । न च तत्रातिव्याप्तिवारणायावच्छेद्यनतिरिक्तदेशकधर्मान्तराघटितत्वे सतीति विशेष्यते ।
अस्तु प्रकृते किमित्यत आह -- व्यर्थेति ॥ आदिपदेन शरीरा 2 जन्यत्वादिग्रहः -- अवच्छेदकत्वविरहादिति ॥ गौरवादिति भावः । तथा च विशिष्टो 3 हेतुर्व्याप्तिशून्य एवेति भावः ॥
विशिष्टनिष्ठव्याप्तिवादी व्याप्तिवादे पक्षधराद्युक्तमवच्छेदकत्वनिरुक्तिनिष्कर्षमनुवदन्नीलधूमत्वादावपि साध्यसामानाधिकरण्यावच्छेदकत्वमस्तीति शङ्क्यते -- नन्वित्यादिना मैवमित्यन्तेन ॥ 4 आदिपदेनावच्छेद्यव्याप्यत्वावच्छेद्यसमनियतत्वादिग्रहः -- आत्माश्रयादिति ॥ हेतु 5 त्वस्य नियतपूर्ववृत्तित्वरूपत्वान्नियमस्य व्याप्तितया व्यात्पिज्ञाने व्यात्पिज्ञानस्यावश्यकत्वादिति भावः -- अतिव्याप्तीति ॥

1.वत्वा -च. 2.रज-अ. 3.ष्टहे- कुं. 4.इयं पङ्क्तिः ऽ अतिव्याप्तीति ऽ इत्यतः प्रगस्ति - अ. 5.कत्व - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 344.
-------------------------- ------------- ------
नीलधूमत्वस्य च धूमत्वरूपतादृशधर्मान्तरघटितत्वान्न तदवच्छेदकतेति वाच्यम् । एवं सति व्याप्तिशरीरस्याभाव 1 द्वयघटितत्वेनातिगौरवात् । उदाहरणवाक्ये तदभावाच्चेति चेन्मैवम् ॥
अवच्छेदकत्वं हि विशेषणताविशेषरूपः स्वरूपसम्बन्धः । न चास्याप्युदाहरणवाक्यादप्रतीतिः ।
उदाहरणस्थधूमपदोपस्थापितस्य धूमत्वस्योदाहरणवाक्योपस्थापितेन धूमगतवह्निसामानाधिकरण्येन सहावच्छेदकत्वरूपसम्बन्धस्य संसर्गविधया भानात् ।
प्रमेयधूमत्वद्रव्यधूमत्वनीलधूमत्वैतद्धूमत्वादावपि वह्निसामानाधिकरण्यरूपावच्छेद्यानतिरिक्तदेशकत्वसत्वादतिव्याप्तीत्यर्थः -- अभावद्वयेति ॥ साध्यसामानाधिकरण्यानतिरिक्तदेशकधर्मान्तरघिटितत्वे सति
साध्यसामानाधिकरण्यानतिरिक्तदेशकत्वमित्यत्र यद्यपि नञ्त्रयप्रवेशादभावत्रयं तथापि अनतिरिक्तेत्यस्यैव द्विरुपादानादभावद्वयेत्युक्तम् । यद्वा सत्यन्तप्रविष्टनञ्द्वयापेक्षया अभावद्वयेत्युक्तम् ॥
केचित्तु तादृशधर्मान्तराघटितत्वे सति साध्यसामानाधिकरण्यदेशत्वं तदर्थः । एवं चाभावद्वयमेवेत्याहुः । तच्चिन्त्यम् । प्रमेयत्वद्रव्यत्वादावतिव्याप्तेः ॥
को विशेषणताविशेषः । विशिष्टज्ञानजनकज्ञानविषत्वादिरूपत्वे चात्माश्रयादित्यत आह -- स्वरुपसम्बन्ध इति ॥
ननु कुत एवमिति चेत् । अवच्छेदकत्वनिरुक्तेरिति वदन्ति । तथाहि । यदुक्तमवच्छेद्यानतिरिक्तदेशकत्वमवच्छेदकत्वमिति । तन्न ।
1. त्रय - क - ख - रा.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 345.
------------------- --------- ----------
स च स्वरूपसम्बन्धो लघुनि धूमत्व एव कल्प्यते । न तु गुरुणि नीलधूमत्व इति नीलधूमे न व्याप्तिः ॥
न च लघुधूमत्वमपि नीलधू 1 मे ऽस्तीति वाच्यम् । हेतुतावच्छेदकस्यैव हि सामानाधिकरण्यावच्छेदकता वाच्या । उपस्थितत्वाद्धर्मान्तरकल्पने गौरवाच्च । इह 2 तु हेतुतावच्छेदकत्वेनोपात्तस्य नीलधूमत्वस्य शरीरजन्यत्वस्य च सामानाधिकरण्यानवच्छेदकत्वेन व्याप्यत्वासिद्धेः ॥
इदं सुखि आत्मत्वादित्यादावीश्वरात्मनि सुखाभावसमानाधिकरणे व्यभिचारिणि गतत्वात् । आत्मत्वस्य जीवात्मनि सुखसामानाधिकरण्येनात्मत्वत्वस्य सुखसामानाधिकरण्यानतिरिक्तवृत्तित्वात् ॥
न च साध्याभावचसमानाधिकरणावृत्तित्वमवच्छेदकत्वम् । आत्मत्वं त्वीश्वरात्मनि सुखाभावसमानाधिकरणमेवेति वाच्यम् । केववान्वयसाध्यकहेतावभावात् । तत्र साध्यकहेतावभावात् । तत्र साध्याभावाप्रसिद्धेः ॥
नापि साध्यसामानाधिकरण्याभावाधिकरणावृत्तिमवच्छेदकत्वम् । आत्मत्वं त्वीश्वरात्मवृत्तित्वावच्छेदेन सुखसामानाधिकरण्याभावाधिकरणमेवेति वाच्यम् ।
वृक्षः एतत्कपिसंयोगवान् एतद्वृक्षत्वादित्यदाव्याप्तेः । एतद्वृक्षत्वस्यापि मूलावच्छेदेनैतत्कपिसंयोगसामानाधिकरण्याभावाधिकरणत्वात् । यदि चैतद्वृक्षत्व एतत्कपिसंयोगसामानाधिकरण्यस्य सत्वात्कथं तदभाव इति । तर्ह्यात्मत्वेपि तुल्यमेतत् । विरुद्धयोरप्यवच्छेदकभेदेनाविरोध इत्येतस्यापि साम्यात् ।
1. मत्वे - ग - ख. 2. च - क - रा - ख.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 346.
------------------------ -------- --------
न चैवं विमतो निर्धूमः आद्रेन्धनप्रभववह्निरहितत्वात्, सुरभि 1 धूमरहितः चन्दनप्रभववह्निरहितत्वादित्यादावपि व्याप्यत्वासिद्धिः स्यादिति वाच्यम् । तत्र कार्यमाकारणभावमूलकानुतर्केण वह्निरहितत्व 2 आन्द्रेन्धनप्रभववह्निरहितत्वा 3 दावपि व्याप्तिनिश्चयादिति ॥
नापि अधिकरणैकदेशानवच्छेदेन साध्यसामानाधिकरण्याभाववदवृत्तित्वं तत् । एतद्वृक्षत्वे चाधिकरणैकदेशमूलावच्छेदेनैव साध्यसामानाधिकरण्यमिति विशिष्टव्यतिरेकस्य तत्रापि सत्वान्नाव्याप्तिः । आत्मत्वे तु ईश्वररूपाधिकरणवृत्तित्वावच्छेदेनैव साध्यसामानाधिकरण्याभाववत्वम् । न तु तदैकदेशावच्छेदेनेति न तत्रातिव्याप्तिः । केवलान्वयिनि च तादृशसाध्यसामानाधिकरण्याभाववत्वं गगनादौ प्रसिद्धमिति न कोपि दोष इति युक्तम् । सुखादेरव्याप्यवृत्तितया जीवात्मन्यप्यात्मत्वस्य सुखसामानाधिकरण्याभावाधिकरणतया तत्र तदेकदेशवृत्तित्वस्यैवावच्छेदकत्वादिति दिक् ॥
तस्मादवच्छेदकत्वानिरुक्तेः स्वरूपसम्बन्ध एवावच्छेदक 4 त्वमिति नीलधूमे ऽस्तीति । तथा च तादृशावच्छेदकधर्मवत्वान्नीवलधूमोपि व्याप्य एवेति शङ्कितुर्भावः ॥
न चैवमिति ॥ गुरुधर्मस्य व्याप्यतानवच्छेदकत्वे कारणविशेषाभावेन कार्यविशेषाभावानुमानं न स्यादित्यर्थः ॥
1.धूमपदं- न -क. 2.इव इत्यधिकं - कुं-छ-क-ख-ग. 3.दित्या -कुं-छ. 4.कमि -कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 347.
-------------------- ---------- --------
अत्रोच्यते ॥
व्यभिचारज्ञानस्य ह्यनुमितिप्रतिबन्धकत्वमनुभवसिद्धम् । त्वदनुमतं च । तच्च न बाधादिवत्साक्षा 1 त्साध्यविरु 2 द्धविषयकत्वात् । किं तु करणीभूतव्याप्तिज्ञानविघटनद्वारा । तच्च व्याप्तेस्त्वदुक्तसाध्यसामानाधिकरण्यावच्छेदकरूपवत्वविपरीतेव्यभिचाराभावविशिष्टसहचाररूपत्व एव युक्तम् ।
एवं नीलधीमदृष्टान्तेन शरीरजन्यत्वस्य व्याप्यत्वासिद्धत्वे पूर्वपक्षिते 3 सति न मण्युक्तं व्याप्तिस्वरूपमनुमित्यङ्गम् किन्त्वन्यदेव तच्चास्ति नीलधूमे शरीरजन्यत्वे च अतो न व्याप्तिशून्यत्वमिति भावेन सिद्धान्तयति -- अत्रोच्यत इत्यादिना ॥ त्वदनुमतं चेति ॥ अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमिति व्यभिचारादिहेत्वाभासलक्षणोक्तेरिति भावः ॥
अनुमितिप्रतिबन्धकत्वं हि द्वेधा । अनुमितिविषयविरोधिविषय 4 त्वेन साक्षादेव वा, तत्कारणीभूतज्ञानविषयाभावगाहित्वेन तत्करणवघटकत्वेन वा । तत्राद्यं बाधप्रतिपक्षयोरेव । न त्वन्यस्य । द्वितीयं तु स्यादिति भावेनाह -- तच्चेत्यादिना ॥ व्याप्तिज्ञानेति ॥
यद्यपि परामर्श एवानुमितिकरणम् तार्किकमते । यथाह"लिङ्गपरामर्शो ऽनुमान"मिति । तथापि करणस्य व्यापारवत्वनियमात्परामर्शस्य करणत्वे व्यापाराभावाव्द्याप्तिज्ञानं करणं परामर्शो ऽवान्तरव्यापार इति लिङ्गकरणतावादे मणिकृदुक्तरीत्या करणीभूतव्याप्तिज्ञानेत्युक्तम् -- तच्चेति ॥ व्याप्तिज्ञानविघटकत्वमित्यर्थः । मूलारूढतां दर्शयितुं विपरीत इत्युक्तिः ॥
1.त् । सा-च-क. 2.द्वा-च-क-ग-रा. 3. ऽसतिऽ इति नास्ति -कुं.
4.कत्वे - कुं -अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 348.
----------------------- ----------- --------

विरुद्धवत्सहचाररूविशेष्यांशविरोधेपि व्यभिचाराभावरूपविशेषणांशेन सह वैषयिकविरोधात् । न तु साध्यसामानाधिकरण्यावच्छेदक 1 रूपवत्वात्मकत्वे 2 तद्युक्तम् । परस्परविरहानात्मकत्वेन साक्षादविरोधात् ॥
न च व्यभिचारेण हेतुतावच्छेदकस्य साध्यसामानाधिकरण्यानवच्छेदकत्वानुमात्पम्परया विरोधः । व्यभिचारज्ञानान्तरमेव व्याप्तिविरहज्ञानानुभवेन परम्पराकल्पने ऽनुभवविरोधात् ।
युक्तमित्येतव्द्यनक्ति - विरुद्धवदिति ॥ साध्याभावमात्रसम्बद्धविरुद्धहेत्वाभासवदित्यर्थः -- वैषयिकेति । भावाभावरूपविरुद्धविषयकृतेत्यर्थः -- तद्युक्तमिति ॥ व्याप्तिज्ञानविघटकत्वं युक्तमित्यर्थः -- परम्परयेति ॥ पर्वतो धूमवाने वह्निमत्वादित्यत्र वह्नित्वादिरूपहेतुतावच्छेदकं न साध्यसामानाधिकरण्यवच्छेदकम् साध्याभावसमानाधिकरणवृत्तित्वादिति साध्यसामानाधिकरण्या 3 नवच्छेदकत्वानुमितिः । तया च तादृशावच्छेदकधर्मवत्व 3 रूपव्याप्तज्ञानं नेति व्यभिचारज्ञानस्यानवच्छेदकत्वज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकत्वमित्यर्थः ॥
1.कत्वात्मकत्वे -छ. रूपपदं न -ग. 2.कत्वेन-कुं. 3.अयं ग्रन्थः नास्ति - अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 349.
-------------------- ----------- ----------
बाधा 1 दिवत्साक्षादनुमितिप्रतिबन्धकत्वस्यासिद्ध्यादिवत्परामर्शविषयाभावत्वस्य 2 चाभावेनोपाधिवद्धेत्वाभास 3 त्वोपाधित्वाभावात्तेश्च ॥
न चोदाहरणवाक्येन तदप्रतीतेः तदप्रतीतिः । तत्र वीप्सास्तीति मते"नित्यवीप्सयोः"इति सूत्रेण व्याप्तिप्रतिपादनेच्छायां सत्यामादिष्टस्यैकार्थ ---
अनुभवे विवदमानं प्रत्याह -- बाधा 4 दिवदिति ॥ हेत्वाभासत्वोपाधित्वेति ॥ अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वस्य हेत्वाभावसतायामुपाधि 5 त्वरूपत्वात्तस्य च व्यभिचारोन्नायकोपाधाविव साध्यसामानाधिकरण्यानवच्छेदकत्वानुमापके व्यभिचारेप्यभावेनोपाधिवद्व्यभिचारोपि हेत्वाभावसो न स्यादित्यर्थः । तदप्रतीतिरिति ॥ व्यभिचाराभावविशिष्टसहचाराप्रतीतिरित्यर्थः । तत्रेति ॥ उदाहरणवाक्य इत्यर्थः । अवयवग्रन्थे पक्षद्वयस्याप्युक्तेः । वीप्सास्तीति मते नास्तीति मत एति मतद्वयोक्तिः । सूत्रेण व्याकरणसूत्रेणेत्यर्थः ॥
सूत्रस्थवीप्साशब्दार्थमाह -- व्याप्तीति । आदिष्टस्य आदेशतया विहितस्य । व्याकरणे ऽष्टमाध्यायाद्यपादे"नित्यवीप्सयोः"इत्यत्र"सर्वत्र द्वे"इत्यधिकारसूत्रस्थपदद्वयानुवर्तनेन क्रियापौनःपुन्यरूप 6 नित्येर्ऽथे वीप्सायां च वर्तमानस्य सर्वस्य वर्णसमुदायरूपपूर्वतनशब्दस्य द्वे भवत इत्यर्थः ॥
अत्र च पक्षद्वयं सम्भवति । पूर्वस्थितशब्दस्य स्थाने शब्दतोर्ऽथतश्च समानशब्दरूपे द्वे आदेशौ भवत इति वा, पूर्वतनशब्दस्य द्विरुच्चारणं भवतीति वा ।
1.आदिपदं न -ग-. 2.वा-छ. ऽचऽ इति नास्ति -ग. 3.सोपाधि-क-ख-रा. 4.आदिपदं न -मु. 5.धिरु - कुं. 6.मित्यर्थे - अ.
न्यायदीपयुततर्कमाण्च्म् (प्र.परिच्छेदः पु - 350.
----------------------- ---------- ------
-- वाचकत्वेनैकपदरूपस्य योय इत्यस्य शब्दस्यानुमित्यङ्गत्वेन निर्णीताव्यभि 1 चारविशिष्टसहचार 2 रूपव्याप्तिवाचकत्वोपपत्तेः ॥
वीप्सा नास्तीति मते उदाहरणोत्पादितसहचारदर्शनसहकृतेन मनसैवोक्तव्याप्तिज्ञानसम्भवात् । तथाच व्यभिचाराभावविशिष्टसहचाररूपा व्याप्तिर्नीलधूमे शरीरजन्यत्वे चास्तीति कथं तयोर्व्याप्यत्वासिद्धिः ॥
तत्राद्यपक्षस्यैव भाष्ये मञ्जर्यां च स्थिरत्वोक्तेरादिष्टस्येत्युक्तम् । तत्र स्थानिवद्भावेनार्थवत्वात्प्रातिपदिकत्वम् । अर्थैक्यात्समुदायस्यैकपदत्वं चेति
भावेनैकार्थ्येत्याद्युक्तिः ॥
शब्दस्येति ॥ वाचकत्वेनान्वयः। वीप्सित 3 शब्देन यावत्साधनाधिकरणोपस्थितौ तत्र साध्यवत्वविधानात्
यावत्स्वाश्रयाश्रितसाध्यसम्बन्धरूपव्याप्तिप्रतीतेः तस्या एवानुमित्यङ्गत्वनिर्णयादिति भावः ॥
यत्तु मणावुदाहरण 4 निरूणप्रस्तावे"वीप्सायामपि व्यभिचारतादवस्थ्यमिति तु वय"मित्युक्तम् । तदयुक्तम् । व्याप्तिप्रतिपादनेच्छायामादिष्टस्य यो य इत्यस्यच यावत्साधनाधिकरणे साध्यसम्बन्धबोधनशक्तेर्व्युत्पन्नत्वेन व्यभिचारशङ्कानवकाशात् ॥
एवं नीलधूमादिसाधारण्येन व्याप्तिमुपपाद्येदानीं, नीलधूमादौ प्याप्त्यभावेपि शरीरजन्यत्वे ऽस्ति न च शरीरपदस्यासिद्धिवारकतया व्यभिचारावारकत्वेन व्यर्थत्वात्कथं व्यर्थविशेषणवति व्याप्तिरित्यतो व्याप्त्याश्रयविकासकतया व्याप्तिग्रहौपयिकत्वेन न व्यर्थविशेषणत्वमिति भावेन तां तत्रोपपादयति -- किञ्चेत्यादिना ॥
1.चरितसह-कुं-रा. 2.ऽग्रहसम्भवात् । तथाचऽ इत्यादि वर्तते -क. 3.प्साश-कुं. 4.ऽनिरूपणऽ इति नास्ति -अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 351.
------------------- -------- ----------
किञ्च हेतुशरीरघटकं द्विविधम् । किञ्चित्संकोचकम् । यथा नीलधूमादित्यत्र नीलत्वम् । किञ्चद्विकासकम् । यथा प्रमात्वाश्रयविषयत्वादित्यर्थकेप्रमेयत्वादित्यत्राश्रयविषयत्वम् । 1 प्रमेयत्वादित्युक्त 2 व्यभिचाराभावात् । तत्र संकोचकविपरीतस्यान्त्यस्य स्वेन विकासितदेशे 3 व्याप्तिग्रहौपयिकत्वान्नव्यर्थता । अन्यथा लक्षणरूपे व्यतिरेकिणि भागासिद्धिरूपाप्याप्तिहरणाय विशेषणं न प्रयुज्येत ।
संकोचकमिति । हेतुलक्षणस्य प्याप्त्यधिकरणस्याल्पत्वसम्पादकम् । धूमादित्य 4 नेन नीलानीलसाधारणधूमत्वाधिकरणमात्रस्य । व्याप्त्याश्रयत्वं लभ्यते । नीलत्वविशेषणे तु नीलधूममात्रस्येति नीलत्वं व्याप्त्यधिकरणसेकोचकम् ।
घटो ऽभिधेयः प्रमात्वाश्रयविषयत्वादित्यत्र प्रमात्वादित्युक्ते तन्मात्रस्यैव व्याप्त्यश्रयत्वलाभो नान्यत्र । विशेष्यभागस्याप्युक्तौ तु प्रमेयत्वमात्रस्यापि तथात्वलाभाद्व्यधिकरणविकासकमित्यर्थः ॥
ततः किमित्यत आह -- तत्रेति ॥ द्वयोर्हेतुशरीरघटकयोर्मध्य इत्यर्थः । अन्त्यस्येति ॥ व्याप्त्याश्रयविकासकस्येत्यर्थः । असिद्धिवारकस्यापीति शेषः । अन्यथेति ॥ असिद्धिवाकत्वेनैव व्यर्थत्वे गुणाश्रयो द्रव्यमित्यत्र गुणान्त्यताभावानधिकरणत्वरूपद्रव्यलक्षणे गुणानधिकरणत्वस्याद्यक्षणस्थितघटादौ सत्वेपि द्वितीयादिक्षणस्थे तस्मिन्नभावेनाव्याप्तिवारणायात्यन्त्यन्ताभावेति विशेषणं नोपादीयेत ।
1.प्रमात्वा -छ-ग. 2.क्तेपि-छ-ग-क-रा. 3.व्याप्तिग्रहानौपयिकत्वाद्वयर्थता-ख-छ. 4.न्तेने -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 352.
----------------------- ---------- ---------
शरीरपदं 1 चाजन्यत्वस्याङ्कुरादावसंभावितस्य विकासकमिति न व्यर्थम् ॥
अपि च शरीरजन्यत्वादीत्यत्र शरीरविशिष्टो ऽभावो 2 न हेतुः । किन्तु शरीरविशिष्टस्य जन्यत्वस्याभावः ।

तस्य द्रव्यमितरेभ्यो भिद्यते गुणात्यन्ताभावानधिकरणत्वात् व्यतिरेकेण गुणादिवदित्यत्र द्वितीयादिक्षणस्थघटादौ भागा 3 सिद्धिवारकत्वात् । लक्षणमपि केवलव्यतिरेकी 4 त्युक्तत्वेन व्यावृत्तिव्यवहारयोः साधने लक्षणस्य केवलव्यतिरेकित्वादिति भावः ॥
यद्वा गुणाभावानधिकरणत्वादित्युक्तावाद्यक्षणस्थघटे भागासिद्धिवारणायात्यन्तेति विशेषणं नोपादीयेतेत्यर्थः ॥
अस्त्वेवं प्रकृते किमित्यत आह -- शरीरेति ॥ अजन्यत्वादित्येवोक्तावङ्कुरादावसम्भावनया हेत्वसिद्धिशङ्कायां तत्रापि हेतुसत्वोपपादकत्वेन हेत्वधिकरणबाहुल्यसम्पादकत्वेन हेतुविकासकम् । तत्रादृष्टा 5 द्वारकशरीरजन्यत्वाभावस्य प्रत्यक्षत
एवावगमसम्भवात् । अतो न
व्यर्थं शरीरविशेषणमित्यर्थः ॥
न केवलं हेतुविकासकत्वेन शरीरपतमर्थवत् किन्तु"विशिष्टस्योपाधेः साध्यव्यापकत्वमस्त्येव । उपाध्यभावश्चात्र प्रतिपक्षत्वेनोक्त"इति तत्वनिर्णयटीकोक्तदिशा विशिष्टाभावरूपहेतुसरूपोपस्थापकतयापि व्याप्तिग्रहौपयिकत्वेनेत्याह -- अपिचेति ॥ अभाव इति ॥ जन्यत्वाभाव इत्यर्थः -- न हेतुरिति ॥ तथात्वे हि जन्यत्वाभावमात्रस्य गगनादावकर्तृकत्वेन व्याप्तस्य हेतुस्वरूपस्याजन्यत्वपदेनैवोपस्थितिसम्भवेन शरीरपदं व्यर्थं स्यात् ।
1. चज-कु. 2.अत्रग्रन्थपातः दर्शितः-मु. 3.भागे ऽसि-मु. 4.कीयुक्त-कुं. 5.ष्टद्वा - कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 353.
------------------ -------- --------
स च विशेषणविशेष्ययोरभावाभ्यां भिन्न एव । विशेषणविशेष्यसम्बन्धो विशिष्टमिति मते पदार्थान्तरमिति मते च प्रतियोगिभेदात् । विशेषणावच्छिन्नं विशेष्यमेव विशिष्टमिति मते प्रतियोगितावच्छेदकभेदाते । तादृशविशिष्टाभाव 1 धीश्च न विशेषणज्ञानं विना युक्ता । प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानसाध्यत्वादभावज्ञानस्य ॥
एवं च शरीरविशेषणं विशेष्याभावविपरीतव्याप्त्याश्रयीभूतविशिष्टाभावोपस्थाप 2 नौपयिकं व्याप्तिग्रहौपयिकमेव । आश्रयज्ञानं विना व्याप्तेरग्रहात् ॥
न चैवमित्यर्थः । न च भिन्न एवेत्यन्वयः । यदि न भिन्नस्तदा लाघवेन विशेष्याभावादेरेव व्याप्यतया विशिष्टाभावो न व्याप्यः स्यात् । न चैवमित्यर्थः ॥
कुत इत्यतस्तद्व्यनक्ति । विशेषणेति ॥ प्रतिवादिमतानुरोधेनाह -- पदार्थान्तरमितीति ॥ अस्त्वतिरिक्तो ऽभावस्ततः किमित्यत आह -- तादृशेति ॥ प्रतियोगितावच्छेदकप्रकारकेति ॥ तथा च शरीरजन्य 3 त्वत्वेन शरीरजन्यज्ञानं न शरीरज्ञानं विना युक्तमित्यर्थः । ततः किमित्यत आह -- एवं चेति ॥
यदत्रोक्तं मणौ"शरीरजन्यत्वाभावो नाखण्चो हेतुः । यदि हि शरीरजन्यत्वं सकर्तृकत्वप्रयोजकं स्यात्तदा तदभावप्रयुक्तः सकर्तृकत्वाभाव इति ----
1.वस्य धि -कुं-ग विशिष्टस्याभावस्य- ग. 2.नेनव्याप्ति -कुं नौपाधिकं -क. 3.त्वेन -कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 354.
------------------------ -------------- --------
न च गगनादौ व्याप्तिग्रहार्थं विशिष्टाभावग्रहकाले विशेष्याभावस्यापि ग्रहनियमाल्लाघवेन तत्रैव व्याप्तिग्रहान्न विशिष्टाभावे तद्ग्रह इति वाच्यम् । विशेष्याभावाग्रहणेपि शब्दादिना विशिष्टाभावग्रहणे 1 न नियमाभावात् । क्वचिदुपस्थितिमात्रेण लाघवा 2 दरे अयं घटो जन्यः कृतकत्वादित्यत्र लघुनि शीघ्रोपस्थितिके च घटत्वे सत्यपि कृतकत्वनिष्ठव्याप्तिग्रहं प्रतीव प्रकृतेपि लघौ विशेष्याभावे सत्यपि । विशिष्टाभावनिष्ठव्याप्तिग्रहं प्रति भिन्नविषयत्वेन गौरवस्याप्रतिबन्धकत्वात् ।
-- तस्य साध्यव्या 3 प्यता स्यात् । न चैवम् । किन्तु जन्यत्वम् । लाघवादि"त्यादि तत्तु"अदृष्टाद्वारकशरीरजन्यत्वमुपाधिश्च"इत्यादिनोपाधेः सकर्तृकत्वप्रयोजकत्वप्रतिपादनपरपूर्वग्रन्थेनैव निरस्तमित्यभिप्रेत्य लाघवेन विशेष्याभावस्यैव व्याप्यत्वं न विशिष्टाभावस्येति विशिष्टाभावस्य व्याप्यत्वासिद्धिचोद्यं निराह -- न चेत्यादिना । सामग्रीवशेनाजन्यत्वस्यापि क्वचिदुपस्थितिसम्भवादस्तु विशिष्टाभावस्याव्याप्यत्वमित्यत आह -- क्वचिदिति ॥ भिन्नविषयत्वेनेति ॥ विशिष्टाभावमध्ये विशेष्याभावस्याप्रवेशात् । अत एव पूर्वं"विशेषणविशेष्ययोरभावाभ्यां भिन्न एव"इत्युक्तमिति भावः ॥
1.हणे-कुं. 2.हेण-ख-रा. णनि-क. 2.देरिव-छ. । अयं ग्रन्थः नास्ति -क -"गौरवस्या"इत्यनन्तरं"व्याप्तिर्विशेष्या"इत्यादेः सत्वेन लोपः सूचितः -- ख. 3. पकता - अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 355.
-------------------- --------- ---------
नहि नीलधूमनिष्ठा व्याप्तिर्धूमत्वेनेव । विशिष्टाभावनिष्ठा व्याप्तिर्विशेष्याभाव 1 त्वेनावच्छेत्तुं शक्या । तत्र तदभावात् । येनावच्छेदकांशे लाघवं सहकारि 2 स्यात् ॥
नन्वेवं वह्न्यनुमापकं धूमप्रागभावादौ, पृथिव्या इतरभेदानुमापके पृथिवीत्वसमवाये च, त्वदभिमता व्यर्थविशेष्यता न स्यात् । धूम 3 पृथिवीत्वा 4 दिनिष्ठव्याप्तितो धूमप्रागभावपृथिवीत्वसमवायनिष्ठव्याप्तेर्भिन्न 5 त्वेन तस्याः धूमपृथिवीत्ववृत्तिधर्माभ्यामवच्छेत्तुमशक्यत्वादिति चेन्न । इष्टापत्तेः ॥
नन्वखण्च्स्य प्याप्यत्वेप्यखण्च्निष्ठा व्याप्तिर्जन्यत्वाभाव 6 त्वेनैवावच्छिद्यते । नीलधूमनि 7 ष्ठा व्याप्तिर्धूमत्वे 8 नैव । तथा च हेतुस्वरूपोपस्थितौ विशेष्याभावविशिष्टाभावयोर्भिन्नत्वेन लाघवासहकरेप्यवच्छेदकग्रहे लाघवं सरकारि स्यादेवेत्यत आह -- न हीति ॥ तत्रेति । विशिष्टाभावे जन्यत्वाभाव 9 त्वाभावादित्यर्थः ॥
उक्तार्थे बाधकमाशङ्क्येष्टापत्या निराह -- नन्वित्यादिना ॥ वह्नीति ॥ गिरिर्वह्निमान् धूमप्रागभाव 10 वत्वात् पृथिवी इतरभिन्ना पृथिवीत्वसमवायवत्वादित्यादावित्यर्थः । तर्हि विशेष्यत्वं क्वापि दोषो न स्यादित्यत आह -- व्यर्थेति ॥ आदिपदेन तादृशालोकवत्वादिग्रहः ॥
1.ववत्वेन-कुं. 2.री-ग-क. 3.मे-ग. 4.आदि पदं न -कुं. 5.विषय -क. 6.वेनै-कुं. 7.ष्ठव्या-अ. 8.नेव-कुं. 9.वाभा-कुं. 10.वात्-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 356.
----------------------- ---------- --------
व्यर्थविशेष्योदाहरणन्तु अयमभिधेयत्व 1 वान् 2 प्रमेयत्वे सति धूमत्वादित्यादिकम् । नीलधूमादित्यादौ विशेषणाश्रयनिष्ठव्याप्तेर्विशेष्यतावच्छेदकेन धूमत्वेना 3 वच्छेदसम्भवरूपव्यर्थविशिषेणतादु 4 ष्टिबीजस्यैव प्रकृतेपि विशेष्यतावच्छेदकावच्छिन्ननिष्ठव्याप्तेर्विशेषणतावच्छेदकेन प्रमेय 5 त्वेनावच्छेदकसंभवरूपस्य व्यर्थवि 6 शेष्यतादु ष्टि 7 बीजस्य सम्भवात् ॥
तस्माव्द्यर्थविशेषणस्य न क्वापि व्याप्यत्वासिद्धित्वेन दुषणता ॥

नन्वत्राप्यखण्डं विशेष्यमात्रादन्यदेन व्याप्त 8 मिति सुवचनमित्यतो व्यर्थविशेषणस्थल इवात्रापि दूषकताबीजप्रदर्शनेन व्यर्थविशेष्यतां व्यनक्ति -- नीलेति ॥ विशेषणाश्र 9 यनिष्ठेति ॥ नैल्यरूपविशेषणयुक्तधूमनिष्ठेत्यर्थः । विशिष्टस्य पदार्थान्तरत्वाभावमतेनैव मुक्तिः । विशेष्यतावच्छेदकेना धूमत्वेनेत्यर्थः । सम्भवेति ॥ व्यभिचाराभावादिति भावः ॥ दुष्टीति ॥ विशेषणस्य दुष्टताबीजस्येत्यर्थः । प्रकृतेचपि प्रमेयवत्वे सति धूमवत्वादित्यादावित्यर्थः । सम्भवरूपस्येति । प्रमेयवत्वादित्युक्तेपि व्यभिचाराभावादिति भावः॥
व्यर्थविशेषणस्य दूषणताबीजं निर्धारयन्नेव शरीरजन्यत्वे तन्नास्तीत्युपपादयति ॥ तस्मादिति ॥ नीलधूमादेरपि व्याप्यताया उपपादनादित्यर्थः ।
1.यवान्-ग-कुं. 2.प्रमेयवत्वे सति धूमवत्वादित्यस्ति -कुं. 3.धूमत्वेनेति नास्ति -ग-कुं. 4.ष्ट-छ-ख-क-रा. 5.त्वत्वेन-मु. 6.षणता-च-ख-क. 7.ष्ट-छ-क-ख-रा. 8.प्य-अ. 9.आश्रयपदं न -अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 357.
-------------------- --------- -------
किन्तु विशिष्टस्य हेतुत्वाभिप्रायेण प्रयोगे ऽधिकत्वेन । हेतुद्वयोक्तौ द्वितीये प्रथमेन कृत 1 कार्यत्वस्येव विशिष्टेपि विशेष्येण कृतकार्यत्वस्य दु 2 ष्टिबीजस्य 3 सत्वात् । विशेष्यस्यैव हेतुत्वाभिप्राये त्वर्थान्तरत्वेन । प्रकृते तु विशिष्टाभावरूपहेतुकार्यस्यान्येनाकारणान्नाधिकत्वम् ॥
न च विशिष्टाभाव 4 कार्यं विशे 5 ष्याभावेन कर्तृं शक्यम् । विशिष्टोपस्थितौ विशेष्याभावोपस्थितिनियमस्य, तस्य हेतुत्वान्वये 8 विशेष्याभावस्य हेतुत्वान्वयनियमस्य चाभावात् ॥
नाप्यर्थान्तरम् । असिद्धिवारकत्वेन प्रकृतोपयोगात् ।
अन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगस्याधिकत्वात्कथमात्रान्येन कृतकार्यत्वमित्यत आह ॥ हेतुद्वयेति ॥ धूमवत्वादालोकवत्वाच्चेत्येवं रूपेणेति भावः ।
अर्थान्थरत्वेनेति ॥ प्रकृतानुपयुक्ता 11 न्वितोक्तिरर्थान्तरमित्युक्तर्थान्तररूपनिग्रहसस्थानत्वेनेत्यर्थः । अत्रापि दूषणता व्यर्थविशेषणस्येत्यनुषङ्गः ।
1.करणत्वस्य -क-रा. 2.ष्ट--छ-क-रा. 3.सम्भवात् -छ-कुं. 4.रूप-छ. 5.षणा-ख. ष्येण-क. 6.ष्योप-च-छ-ख-ग-क-रा. 7.ष्यस्य-कुं 8.यनियमस्य चा -छ-कुं. 9.अधिकत्वं नेति -अ. प्रयोग इत्यस्याधिकत्वेनेति -मु. 10.ऽ व्यधिकरणस्यऽ इत्यधिकं -कुं. 11.क्तोक्ति - अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 358.
------------------------ ----- -----
एतदेवाभिप्रेत्योक्तं टीकाकारैः"पक्षधर्मतासिद्ध्यर्थत्वात्"इति । तस्मात्सत्प्रतिपक्षत्वं दुष्परिहरम् ॥
तदेवं कार्यत्वहेतोर्दुष्टतया प्रमित्यनुन्मुखत्वाल्लाघवतर्कानुगृहितेन तेन कर्त्रैक्यसिद्धिरित निरस्तम् । कार्यसामान्यस्य कर्तृमात्रसापेक्षत्वेपि तद्विशेषस्य घटस्य कुलालरूपकर्तृसापेक्षत्ववत्, वेदस्य शरीरसहकृतेश्वरसापेक्षत्ववच्च गुरुतरकार्यस्य सजातीयकारकस 1 हितकर्तृसापेक्षत्ववदर्शनेन त्वदुक्तैककर्तृकत्वविपरीतानेककर्तृकत्वेनाप्यनुमातुं शक्यत्वाच्च ॥
एतदेवाभिप्रेत्योक्तमिति ॥ विमतं विकर्तृकं अस्मत्सम्मतकर्तृरहितत्वादिति तत्वनिर्णय 2 टीकायामुक्तमित्यर्थः । शरीरेति विशेषणस्येति शेषः ॥
यदपि मणौ"ननु क्षित्यादावेन 3 कर्तृसिद्धिः कुतः"इत्यादिना"उच्यते"इत्यन्तेनैककर्तृसिद्धिमाक्षिप्य"तत्र प्रमाणे लाघवगुविषयते"इत्यादिना समाधानमुक्तं तदपि निराह -- तदेवमिति ॥ तद्विशेषस्येति ॥ कार्यविशेषस्येत्यर्थः । शरीरेति ॥"सर्गादावदृष्टभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानविवक्षासहकृतान्मीनकण्ठताल्वादिक्रियातज्जन्यसंयोगाद्वेदोत्पत्तिः"इति मण्युक्तेरिति भावः -- विमतनेककर्तृकं
गुरुतरकार्यत्वात्प्रासादादिकार्यवदित्यनुमातुं शक्यत्वादित्यर्थः ॥
1.हकृत-मु. 2.ऽवाक्यऽ इत्यधिकं -अ. 3.क-अ. 4.कारकेत्यधिकं-कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 359.
------------------- --------- --------
वैदिकेश्वरस्य तु वेदेनैव सर्वं सिद्धम् । तस्मान्न कार्यत्वहेतुनेश्वरसिद्धिः ॥
एतेन अस्तु तर्हि परमाण्वोर्द्रव्यारम्भकसंयोगहेतु ---
ननेवं त्वन्मतेपीश्वरसिद्धिः कर्त्रैक्यसिद्धिः नित्यज्ञानादिसिद्धिश्च न स्यात् । अनुमानस्य त्वया दूषितत्वादित्यतः"वैदिकेश्वरस्य तु वेदेनैव सर्व 1 शक्तित्वोक्तेः सर्वमुपपद्यते"इति भाष्यवाक्यं हृदि कृत्वाह --- वैदिकेति ॥ वेदैकसमधिगम्येत्यर्थः -- वेदेनेति ॥"द्यावा भूमी जनयन्देव एकः, 2 परस्य शाक्तिर्विवधैव श्रूयते स्वाभाविकां ज्ञानबलक्रिया च, यदात्मको भगवांस्तदात्मिका व्यक्तिः"इत्यादिभाष्याद्युक्तवेदेनेत्यर्थः ॥
एवं --
कार्ययोजनधृत्यादेः पदात्प्रत्ययतः श्रूतेः ।
वाक्यात्सङ्ख्याविशेषाच्च"।
इति कुसुमाञ्जलिसङ्गृहीतेश्वरसाधकहेतूनां मध्ये मण्युक्तकार्यत्वहेतुप्रपञ्चनं निरस्येदानीं"अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानिस्वतन्त्रानुमानानि निरसनीयानि"इति शास्त्रयोनिसूत्रसुधोक्तिं विवृण्वानः कुसुमाञ्जल्युक्तहेत्वन्तराण्यपि क्रमेण निराह -- एतेनेत्यादिना ॥
1.कर्तृत्वो - कुं. 2.अपरा - कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 360.
--क्रियारूप 1 कार्यायोजनेनेश्वरसिद्धिः । विमतं परमाण्वादि चेतनाधिष्टितं स्पन्दते जडत्वात् शरीरवदित्यनुमानात् । अन्यथा जडत्वहानेरिति निरस्तम् ।
उक्तरीत्या त्वदुक्तविपरीतस्यास्मदादीनामेवादृष्टद्वारा 2 प्यधिष्ठातृत्वस्य सम्भवेन सिद्धसाधनात् । अदृष्टाद्वारकेति विशेषणे ऽप्रयोजकत्वात् ।
कार्ययोजनेति ॥ यद्यपि कुसुमाञ्जलौ"आयोजना खल्वपि"इत्यादिना आयोजनमेव हेतु 3 रुपात्तः । कार्येति कार्यत्वं हेतुः । तथापि"युज्यते संयुज्यते अन्योन्यं द्रव्यमनेनेत्यायोजनं द्व्यणुकारम्भसंयोगजनकं सर्गाद्यकालीनपरणाणुकर्म"इति वर्धमानोक्त्या कार्यपदेन द्व्यणुकादिकार्या 4 योजनमित्यन्वयमुपेत्य कार्यायोजनेनेत्युक्तमिति ज्ञेयम् । क्वचित्तु"आयोजनेनेत्यत्येव"पाठः ॥
सिद्धिरित्युक्तं प्रयोगोक्त्या व्यनक्ति ॥ विमतमिति ॥ तत्किमित्यतः । परमाण्वादीति ॥ आदिपदेन द्व्यणुकादिग्रहः । चेतनाधिष्ठिं सदेव स्पन्दत इति साध्यार्थः । अप्रयोजकत्वं हेतोर्निराह । अन्यथेति । चेतनवत्स्वत एव स्पन्दवत्व इत्यर्थः । एतेनेत्युक्तं व्यनक्ति । उक्तरीत्येति ॥
उक्तदोषनिरासायादृष्ठाद्वारकचेतनेति विशेषणमाशङ्क्य निराह -- अदृष्टेति ॥ जडत्वहेतोरदृष्ठद्वारकचेतनाधिष्ठितत्वेनाप्युपपत्तेरप्रयोजको हेतुरिति भावेनाह -- अप्रयोजकत्वादिति ॥
1.ऽअप्रयोजनेनऽ इत्यपि पाठः -च. अयमेवपाठः -ख-क-रा. 2.अपि पदं न -कुं. 3.रुक्तः - मु. 4.ऽअर्थाऽ इत्यधिकं - कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 361.
------------------ ---------- ------
अनेनेश्वर 1 सार्वज्ञ्यासिद्धिश्च । इदमुत्तरानुमानेष्वपि द्रष्टव्यम् ॥

एतेनैव विमतं ब्रह्माण्डादि धारकप्रयत्नवता धृतम् गुरुत्वे सत्यपातित्वात् वियति विह 2 ङ्गमशरीरवत् ।
ननु अदृष्टस्यापि केनचिदधिष्ठातृचेतनेन भाव्यमिति स एवेश्वर इति चेन्न । तत्राधिष्ठातुः कृत्याभावात् । न तावन्नोदनादिकम् । अद्रव्यत्वात् । न चातिशयाधानम् । स किं गुणो ऽतीन्द्रयः कश्चिच्छक्तिविशेषः । न द्वयमपि ।
त्वया गुणे गुणान्तरानङ्गीकारात् । शक्यनभ्युपगमाच्च । नापि सहकारिसमवधानम् । अदृष्टादेव तदुपपत्तेः। नापि कार्यकारित्वम् । तस्यादृष्टस्वभावत्वात् । एककार्योत्पत्यनन्तरं कार्यान्तरा 3 नुत्पादनं 4 च प्रबलादृष्टान्तरप्रतिबन्धेनोपपत्तेरिति सुधायामेव व्यक्तत्वादिति भावेन दोषान्तरमाह -- अनेनेति ॥ उक्तानुमानेन कस्यचिच्चेतनस्यैव सिद्ध्या तत्सार्वज्ञ्यासिद्धेः । सार्वज्ञ्यस्य धर्मिग्राहकमानसिद्धत्वादि 5 तीश्वरवादोपक्रमात्पूर्वं त्वदुक्तमयुक्तमिति भावः -- इदमिति ॥ सार्वज्ञ्यासिद्धदीषणमित्यर्थः ॥
धृतिरूपं हेत्वन्तरमपि कुसुमाञ्जल्युक्तदिशानूद्य निराह -- एतेनेति ॥ ब्रह्माण्डादीत्यादिपदेन पृथिव्यादिग्रहः । साध्ये व्यापकतासम्पत्तये धारकेति प्रयत्ने विशेषणम् । अन्यादृशप्रयत्नस्यापतनाहेतुत्वात् । लघुवस्तुन्यपतनवति व्यभिचारवारणाय गुरुत्वे सतीति 6 हेतुविशेषणम् । पतमाने गुरुत्ववति तन्निरासाय विशेष्यम् -- वियतीति ॥ गगने विहरत्पक्षिशरीरं यथा प्रयत्नवता चेतनेन विहगजीवेन धृतं --
1.स्यसा -कुं. 2.हग-कुं. 3.अन्तर इति नास्ति -कुं. 4.नस्य न - कुं. 5.इति इति नास्ति -अ. 6.हेतौ-कुं-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 362.
----------------------- -------- --------
विमतं ब्रह्माण्डादि प्रयत्नवद्विनाश्यं विनाशित्वात् पाठ्यमानपटवदिति निरस्तम् । उक्तसिद्धसाधनाप्रयोजकत्वान्यतरानिस्तारात् ॥
न च घटादिनिर्माणं स्वतन्त्रपुरुषविश्रान्तं निर्माणत्वात् इदानीन्तनापूर्वंवस्तुनिर्माणवत्, घटादिशब्दव्यवहारः स्वतन्त्रपुरुषविश्रान्तः व्यवहारत्वात् डित्थादिशब्दव्यवहारवत्. लिपिव्यवहारः स्वतन्त्र 1 पुरुषविश्रान्तः व्यवहारत्वात् इदानीन्तननूतनलिपिव्यवहारवदित्याद्यनुमानैस्तत्सिद्धिरिति वच्यम्।
2 तथा ब्रह्माण्डादिधारकः कश्चन चेतनःसिद्ध्यति । स एवेश्वर इति भावः ॥
3 धृत्यातेरित्यत्रापिंपदोपात्तानुमानं व्यनक्ति । विमतमिति ॥ उक्तेति ॥
एतच्चोपलक्षणम् । प्रबलादृष्टप्रतिबन्धेन गुरुत्ववतोप्यपतनोपपत्याप्यप्रयोजकत्वमपातित्वहोतोः । सन्दिग्धासिद्धत्वं च"पततोपि तस्य महत्वेन पतनानुपलम्भवात्"इति सुधोक्तमपि ध्येयम् ॥
पद्यते गम्यते व्यवहाराङ्गमर्थो ऽनेनेति वृद्धव्यवहार एव पदशब्देनोच्यते । ततोपीश्वरसिद्धिः । तथाहि । यदेतत्पटादिनिर्माणनैपुण्यम् कुविन्दादीनां वाग्व्यवहारश्चेत्यादिकुसुमाञ्जल्युक्तिं 4 हृदि कृत्वा पदादीश्वसिद्धिरित्येतदपि निराह -- नचेत्यादिना ॥ स्वन्त्रेति ॥ तज्जातीयनिर्माणानुपजीवित्वं पुरुषस्य स्वान्त्र्यम् । द्वितीये तु तज्जातीयव्यवहारानुपजीवित्वम् । तत्र पर्यवसितत्वं तत्र विश्रान्तत्वम् । अस्मदादिपुरुषविश्रान्तत्वेन बाध 5 वारणाय । स्वतन्त्रेति ॥ लाघवेनेत्यस्य कल्पनादित्यन्वयः -- सुप्तेति ॥ पूर्वकालैकेति समासः ।
1.पुरुषपदं न -ख-रा. 2.यथा-अ. 3.धृत्यादेरित्यादिपदोपक्रान्तानुमानं-अ. 4.क्तं-मु-अ. 5.निरासाय-कुं-मु-अ.
ईस्या-नुकत्वं-भङ्गः) ईश्वरवादः पु - 363.
-------------------- ------- ---------
लाधवेन सर्गादिवभवानां सुप्तप्रबुद्धन्याये न त्वदभिमतविपरीतस्य कल्पान्तरीयसंस्कारोद्बोधमात्रस्य कल्पनादेन घटादिनिर्माणादेरुपपत्या हेतूनामप्रयोजकत्वात् । अन्यथा ईश्वरस्य, द्व्यणुकादिक्रमेणारब्धतदीयानन्तरशरीरादेश्च कल्पने गौरवात् ॥
सुप्तः सन् यः पश्चात्प्रबुद्धः स यथा सुप्तेः पूर्वमनुभूतं घटनिर्माणादि करोति तथैव सुष्ट्या 1 दावदृष्टादिवशेन लब्धदेहः सर्गाद्यकालीनकुलादिरेव प्रलयात्पूर्वकालीनानुभवजन्यसंस्कारोद्बोधेन प्रागनुभूतं स्मृत्वा सर्गादौ घटादिनिर्माणं तव्द्यवहारं च करोतीत्युपपत्या त्वदभिमतस्वतन्त्रपुरुषकृतत्वा 2 सिद्धेरप्रयोजकत्वादित्यर्थः ॥
तर्कपराहतिं चाह -- अन्यथेति ॥ स्वतन्त्रपुरुषेणैव घटादिनानाचित्रनिर्माणानां सृष्ट्यादौ कृतत्वे कुलालकुविन्दादिनानाशरीराणां धारणेनेश्वर एव तानितानि विचित्रनिर्माणानि करोतीत्यनन्तदेहकल्पनमीश्वरस्य स्यात् । तानि च
द्व्यणुकादिक्रेण जन्यानीति कल्पनीयमित्यप्रामाणिकानेककल्पनाद्गौरवमित्यर्थः॥
"प्रत्ययपदेनात्राश्वासविषयः प्रामाण्यमुच्यते"इत्यादिना"न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति"इत्यन्तेन कुसुमाञ्जलिग्रन्थेनोक्तं प्रत्ययादीश्वरसिद्धिरित्येतत्प्रमेयमपि निष्कृष्यानूद्य निराह ।
1. आदिपदं न - कुं. 2. प्रसि - मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 334.
----------------------- ---------- --------
न च वाच्यं सर्गादौ ब्राह्मणत्वादेरधिकारस्या 1 ज्ञाने कर्मानुष्ठानसंभवात् स्वतस्तदभिज्ञः कश्चित्स्वीकार्य इति । स्तनपानप्रवृत्तिहेत्विष्टसाधनतानुमितिहेतुव्याप्तिस्मृतिव 2 त्सर्गादि 3 भवानां प्राचीनकल्पानुष्ठितस्य ब्राह्मण्या 4 दिहेतोः कर्मणः, तस्य ब्राह्मणत्वा 5 विनाभावस्य च, स्मृतिसंभवात् ॥
नचवाच्यमित्यादिना ॥ स्वतस्तदिभिज्ञान इति ॥ अन्यथानाश्वासेनानुष्ठानलोपापत्तेरिति भावः । स्तनेति ॥ स्तनपानप्रवृत्तिहेतुर्या इष्टसाधनतानुमितिः तद्धेतुव्याप्तिस्मृतिवदित्यर्थः । सर्गेति ॥ सर्गेदावुत्पन्नानां ब्राह्मणादीनामित्यर्थः । तस्येति ॥ कर्मण इत्यर्थः ॥
श्रुतेरिति हेतोर्ह्ययमर्थः । वेदाः सर्वज्ञप्रणीताः वेदत्वाव्द्यतिरेकेण पामरवाक्यवदिति श्रुतिरूपकार्येण व्यतिरेकिहेतुनेश्वरसिद्धिरिति । वाक्यादित्यस्य तु वेदावाक्यानि पौरुषेयाणि वाक्यत्वादस्मदादिवाक्यवदित्यन्वयिना वाक्यत्वहेतुनेश्वरसिद्धिरिति । तदुभयमपि वेदापौरुषेयत्ववादे निरस्तमित्युपेत्य"सङ्ख्याविशेषाच्च साध्यो विश्वकृदव्ययः"इत्यस्य प्रपञ्चनपरेण"सङ्ख्याविशेषात् खल्वपि"इत्यादिना कुसुमाञ्जनिग्रन्थेनोक्तं निष्कृष्यानुवदन् शङ्क्यते -- नन्वित्यादिना ॥ द्रव्यत्वेन हेतुना त्र्यणिकस्य परिमाणवत्वे सिद्धे तस्य परिमाणस्य कार्यगुणत्वेन जन्यत्वे च सति भावकार्यस्य च कारणत्रयजन्यतया त्र्यणुकस्य समयिकारणस्यादृष्टा 6 निर्मितस्य भावेप्यसमवायिकारणं व्द्यणुकागतत्रित्वसङ्ख्या वाच्या
त्रिभिर्व्द्यणुकैस्त्र्यणुकारम्भादिति भावेन सङ्ख्या जन्यत्वं तावद्धर्मानोक्तप्रयोगोक्त्या साधयति - त्र्यणिकपरिमाणमिति ॥
1.राज्ञा -ख. 2.त्स्वर्गा-ख. सर्वत्राप्येवमस्ति-क. 3.भुवां-छ., भावानां-ख-क., भाविनां -रा. 4.णत्वादि-व-छ-क-ख-रा. 5.आदि इत्यधिकं -ग-कुं. 6.कपालमात्रेणारब्धघटान्तरगतातिशयितपरिमाणवत् -- ख.
ईस्या-नुकत्वं-भङ्गः) ईश्वरवादः पु - 335.
------------------ -------- ---------

ननु त्र्यणुकपरिमाणं सङ्ख्यासमवायि 1 कारणकं परिमामप्रचयाजन्यपरिमाणत्वात् । एतद्घटारम्भककपालद्वयसमानपरिमाण 2 ककपालत्रयारब्धघटान्तरगतातिशयितपरिमाणवत् । न च विशेषणासिद्धिः । त्र्यणुकपरिमाणस्य द्व्यणुकपरिमाण----
तदुक्तरित्या द्व्यणुकपरिमाणस्य पक्षतोपगमेनोक्तरुपसाध्यसाधनेपि वक्ष्यमाणदिशा
परमाणुगतद्वित्वरुपसङ्ख्यानिमित्तकारणापेक्षाबुध्याश्रयत्वेनेश्वरसिद्धिरस्ति । तथापि पररमाणुव्द्यणुकपरिमाणयोर्द्वयोरप्यणुपरिमाणत्वात् व्द्यणुकपिरमाणपक्षतापक्षे हेतोर्विशेषणासिद्धेर्वक्ष्यमाणदिशा
परिर्तुमशक्यत्वात् त्र्यणुकपरिमाणस्य पक्षत्वोक्तिः । हेतौ परिमाणाजन्येत्युक्त्या घटादिपरिमाणे प्रचयाजन्येत्युक्त्या तूलपिण्डपरिमाणे जन्येत्युक्त्या परमाण्वादिपरिमाणे गुणत्वादित्यनुक्त्वा परिमाणत्युक्त्या घटगतरूपादौ व्यभिचारशङ्का निरस्ता । न च हेतोरप्रयोजकत्वं शङ्क्यम् । जन्यपरिमाणस्य सङ्ख्यापरिमाणप्रचयरूपत्रितयजन्यत्वात् । द्वाभ्यामजन्यत्वे सति जन्यत्वस्य सङ्ख्याजन्यत्वेन विनानुपपत्तेरिति भावः ॥
वर्धमानाद्युनुक्तमपि दृष्टान्तं स्वयं दर्शयति -- एतद्घटेति ॥ कश्चिद्बुद्धस्थो घट एतद्घटपदेनोच्यते । घटान्तरगतातिशयितपरिमाणे कपालस्थत्रित्वसङ्ख्याजन्यरूपसाध्यस्योक्तरूपहेतोश्च सत्वं व्यक्तमिति भावः-- अणुत्वापत्तेरिति ॥ तथा च त्र्यणुकस्याप्रत्यक्षतापत्तेरिति भावः ॥
1.यी - क - ख - ग. 2. ष्टादेर्निमित्त - कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 366.
----------------------- ------------ ---------
--जन्यत्वे 1 तद्वदेवाणुत्वापत्तेः । निरवयवावयवारब्धे 2 द्व्यणुके द्व्यणुकान्तरनिष्ठभूयोवयवासंयोगित्वं 3 सति तत्संयोगित्वरूपस्य प्रचयस्याप्यसम्भवात् । तस्मात्र्यणुकपरिमाणं प्रति परमाणुपरिमाणं न परिमाणा 4 रम्भकं अणुपरिमाणत्वात् द्व्यणुकपरिमाणवत् । न चाप्रयोजकता । व्द्यणुकपरिमाणस्य परमाणुपरिमाणा 5 दणुकमत्वापत्तेः । तस्मात्परिशेषाद्व्यणुकपरिमाणस्य परमाणुनिष्ठद्वित्वसङ्घ्यैवासमवायि 6 कारणम् ।
प्रचयस्वरूपं वदन्नैव तदजन्यत्वं व्यनक्ति -- निरवयवेति ॥ निरवयवाभ्यां परमाणुरूपावयाभ्यामारब्ध इत्यर्थः । वर्धमानोक्तप्रयोगान्तरमाह -- एवमिति ॥ सङ्ख्याया एव जनकत्वेन व्द्यणुकपरिमाणजन्म न तु तत्परिमाणेनेति न बाधो व्द्यणुकपरिमाणानुत्पादो वा शङ्क्य इति भावः । अयं च प्रयोगो व्द्यणुकपरिमाणे । तत्रोक्तप्रयोगो ऽत्रापि ध्येयः ॥
व्द्यणुकपरिमाणे ऽणुत्वस्योपगमेनेष्टापत्तिनिरासायाह -- अणुतमत्वेति ॥ तस्मादिति ॥ परिमाणस्याजनकत्वात् प्रचयस्य च प्रागुक्तरूपस्यासम्भवादित्यर्थः । ततश्च किमीश्वरसिद्धावागतमित्यतः कुसुमाञ्जल्युक्तप्रयोगमाह -- ते चेति ॥
1.त्ववत्-क. 2.ब्ध-कुं. 3.गरु-क. 4.न्तरा-छ-क-ख-रा. 5.णवद-कुं. 6.प्रायः ऽयीऽ इत्येवास्ति - क-रा.
ईस्या-नुकत्वं-भङ्गः) ईश्वरवादः पु - 367.
-------------------- ---------- ---------
ते च त्रित्वद्वित्वे अपेक्षाबुद्धिजन्ये अनेकवृत्तिसङ्ख्यात्वात् घटवृत्तिद्वित्वादिवत् । अपेक्षाबुद्धिश्चास्मादादिष्वसं 1 भविनी तदाधारमीश्वरं कल्पयतीति चेन्मैवम् ॥
सङ्ख्यायो 2 नित्वेपि व्द्यणुकपरिमाणं प्रति त्वदुक्तपरमाणुगतद्वित्वविपरीतयोः
परमाणुगतैकत्वयोः त्र्यणुकपरिमाणं च प्रति व्द्यणुकनिष्ठैकत्वानामसमवायिकारणत्वसंभवात् ।
3 व्द्यणुकपरिमाणगते इत्यर्थः । एकत्वे व्यभिचारवारणाय हेतावनेकवृत्तीत्युक्तिः । संयोगादौ तद्वारणाय सङ्ख्यात्वादित्युक्तिः । तदाधारमीश्वरमिति ॥ द्वित्वस्य
निमित्तकारणभूतापेक्षाबुद्धिनाश 4 नाश्यत्वनियमेपीश्वरबुद्धेर्नित्यतया कारणान्तरनाशप्रयुक्त एव परमाण्वादिगततद्वित्वादिनाश इति न तस्य नित्यत्वशङ्केति भावः ॥
आद्यहेतोरन्यथोपपत्या त्वदभिमतापेक्षाबुद्ध्याश्रयत्वेन नेश्वरसाधकतेत्यप्रयोजकत्वमिति भावेन सिद्धान्तयति ॥ मैवमित्यादिना ॥ संख्यायोनित्वेपीति ॥ व्द्यणुकत्र्यणुकपरिमाणयोः परमाणुकगतसङ्ख्याजन्यत्वेपीत्यर्थः ।
अपीत्यभ्युपगमवादः -- व्द्यणुकेति ॥ व्द्यणुकत्रयनिष्ठेत्यर्थः ॥
ननु नैवं सम्भवति । एकत्वानामनेकत्वात् । द्वित्वत्रित्वयोस्तु प्रत्येकमेकैकत्वेन लाघवात् द्व्यणुकत्र्यणुकगतपरिमाणयोर्द्वयोरपि
स्वावयवगतैकत्वसङ्ख्याजन्यत्वाविशेषेण त्र्यणुकपिमाणस्याप्यणु 5 त्वापत्तेश्चेत्यत आद्यं निराह -- एकत्वानामिति ॥
1.म्भवि-कुं-छ-ख. 2.गित्वे-छ-ख-ग-रा. 3.त्र्यणुकव्द्यणुकगते-कुं. 4.शेना-मु. 5. त्वेपपत्तेः - कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 368.
----------------------- --------- ----------
एकत्वानामनेकत्वेपि कॢप्तत्वात् । द्वित्वत्रित्वयोस्तु प्रत्येकमेकत्वेपि कल्प्यत्वात् ॥ न च त्र्यणु 1 करिमाणस्य द्व्यणुकगतानेकैकत्वासमवायिकारणकत्वे द्व्यणुकपरिमाणवदणुत्वं स्यादिति वाच्यम् । अणुत्वरूपं 2 विशेषं प्रति 3 नित्यसङ्ख्यात्वेन महत्वरूपं विशेषं प्रति जन्यसङ्ख्यात्वेन हेतुत्वोपपत्तेः ॥
अन्त्यमाशङ्क्य निराह -- न चेति ॥ नित्येति ॥ परमाणुगतैकत्वयोः
नित्यत्वात्तज्जन्यं द्व्यणुकपरिमाणमणु । द्वयणुकगतानां त्रयाणामेकत्वानां जन्यत्वाज्जन्यं त्र्यणुकपरिमाणं महदित्युपपत्तेरित्यर्थः ॥
यद्यपि त्रिभिरेकत्वैर्जन्यत्वादेव त्र्यणुकपरिमाणं महत् एकत्वद्वयजन्यत्वाद्व्यणुकपरिमाणमण्विति सुवचम् । तथापि चतुरणकादि परिमाणस्यापि सङ्ख्यात एव जननोपपत्तेरिति वैशिषिकाधिकरणसुधोक्तदिशा सर्वकार्यपरिमाणानामप्येकरूपत्वलाभेन कॢप्ततत्तत्समवायिकारणगतानेकैकत्वसङ्ख्याजन्यत्वमेव स्यात् । त्र्यणुकादिकार्यगतपरिमाणस्य सर्वस्यापि त्वन्मते महत्वेन जन्यसङ्ख्योत्पन्नत्वेनाणुपरिमाणवैलक्षण्योपपत्तेरिति भावेनैव जन्यशङ्ख्यात्वेनेत्येवमुक्तम् ॥
ननु कारणगतैकत्वसङ्ख्यायाः कार्यगतपरिमाणं प्रति नियतपूर्ववृत्तित्वेपि द्वित्वत्रित्वादिसङ्ख्यां प्रत्यसमवायिकारणतया कॢप्तत्वेन तन्तुरूपादेरिवान्यथासिद्धत्वान्न परिमाणकारणत्वम्, कुतस्तद्विशेषासमवायिकारणत्वमिति चेन्न ।
1.अत्र सर्वत्र ककारो नास्ति -ख. 2.पवि-क-रा-कुं. 3.प्रतिजन्यसंख्यात्वेन-ख.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 368.
-------------------- --------- --------
किञ्च द्रव्यारम्भकत्वेन कॢप्स्य त्वदुक्तसङ्ख्याविपरीतस्यैकस्य संयोदस्यैव परिमाणहेतुता कल्प्या । नियतपूर्ववृत्तित्वेन कॢप्तेतस्मिन्नन्यथासि 1 द्धिमात्रकल्पने लाघवात् । न तु द्वित्वस्य । तत्स्वरूस्यानन्यथासि 2 द्धत्वमात्रकल्पने लाघवात् । न तुद्वित्वस्य । तत्स्वरूपस्यानन्यथासिद्धनियमपूर्ववृत्तित्वानां च कल्पने गौरवात् ॥

अन्यत्र तथात्वेपि परमाणु 3 गतैकत्वसङ्ख्याया असम्भविततापेक्षाबुद्धिजन्यपरिमाण्वादिगतद्वित्वबहुत्वसंख्ये 1 प्रत्यसमवायित्वकल्पनापेक्षया परिमाणसमवायिकारणकल्पनस्यैयोचितत्वात् । तद्धेतोरेवास्तु हेतुत्वं किं तेनेति न्यायात् । अनेकत्वं तु कॢप्तत्वात्कल्प्य
द्वित्वाद्यपेक्षया लघ्वित्युक्तम् ॥
यद्येकत्वानामेनकत्वेनापरितोषं मन्यसे तर्हि कॢप्तत्वाद्द्रव्यारम्भकमेव परिमाणारम्भकमस्तु । किं सङ्ख्ययापीत्याह -- किञ्चेति ॥ एकस्येति ॥ त्र्यणुकारम्भकद्व्यणुकत्रयसंयोगस्यानेकत्वेपि द्व्यणुकारम्भकपरमाणुद्वयसंयोगस्यैकत्वादेकस्येत्युक्तम् । अत एवाग्रे"न तु द्वित्वस्ये"त्येवेक्तिः ॥
ननु द्रव्येत्पत्तावन्यथासिद्धस्य कथं परिमाणहेतुतेत्यत आह -- नियतेति ॥ अनन्यथेति ॥ अनन्यथासिद्धिश्च नियमश्च
पूर्ववृत्तित्वं च तेषामिति विग्रहः । द्वित्वजन्यत्वेपि परिमाणस्य नेश्वरसिद्धिरित्याह -- किञ्चेदानीन्तनेति ॥
1.द्वत्व-ख-क. 2.द्विमात्र-कुं-ग, द्धनियतपूर्ववर्तित्वानां -च-ख-रा, नियमपूर्व-ग.
ण्वादि -अ. 4.ऽसंख्येऽ इति नास्ति-कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 370.
----------------------- ----------- -------
किञ्चेदानीन्तनब्राह्मणस्य ब्राह्मणपूर्वकत्वेपि सर्गादिकालीनस्य तस्यादृष्टविशेषोपहितभूतपूर्वकत्ववत् इदानीन्तनद्वित्वादेरपेक्षाबुद्धिजन्यत्वेप्यादिकालीनस्यादृष्टविशेषोपहितपरमाणुमात्रपूर्वकत्वमस्तु । अन्यथा नित्यापेक्षाबुद्धिवन्नित्यब्राह्मणोपि कल्प्यः स्यात् ॥
युक्तं चैतत् । अन्यथा समवाय्यपेक्षाबुद्धिनाश 1 रूपयोः परमाणुवृत्तिद्वित्व 2 नाशहेत्वोपभावेन तन्नाशाभावापातात् । अदृष्टविशेषोपहिताया ईश्वरनिष्ठापेक्षाबुद्धेर्हेतित्वेन तन्नाशाद्वित्व 3 नाशे आवश्यकत्वाददृष्टविशेष एव हेतुरस्तु ।
"ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः परिकीर्तितः"।
इति स्मृतेराह-- ब्राह्मणस्येति ॥ भूयेति ॥ पृथिव्यादिपञ्चमाहाभूतेत्यर्थः । सर्गादावदृष्टोपगृहीतभूतभेदान्मीनादिशरीरोत्पत्तावित्यादिमणिकृदाद्युक्तेरिति भावः॥
वैजात्ये समाने ऽपि कोत्र पक्षे विशेष इत्यत आह -- युक्तं चैतदिति ॥ अन्यथेति
॥ नित्येश्वरापेक्षाबुद्धिजन्यत्व इत्यर्थः -- तन्नाशेति॥ द्वित्वनाशेत्यर्थः । ईश्वरापेक्षाबुद्धेर्नित्यत्वादवनिनाशे ऽपि तदुत्पादित द्वित्वादे निमित्तान्तरनाशेन नाश इति वर्धमानोक्तमाशङ्क्य निराह -- अदृष्टेति ॥ तन्नाशेति ॥ अदृष्टनाशेत्यर्थः -- न चैवमिति ॥ क्वचि 4 द्दृष्टोपहितपरमाणुपूर्वकत्वे ---
1.रूपपदं न -छ-च-क-ख-रा. 2.विनाश-मु-च-छ-क-रा. 3.त्वादि-रा. 4.ददृष्टो-कुं.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 371.
-------------------- ---------- --------
न चैवमननुगमः । ब्राह्मणवद्वैजात्यसंभवात् ॥
किञ्च द्वित्वादेरपेक्षाबुद्धिजन्यतैव न । अन्वयव्यतिरेकानुविधानस्य व्यञ्जकत्वेनाप्युपपत्तेः । न चाविनिगमः । सेनादिबुद्ध्यालम्बनस्येयत्तयानिश्चितानेकैकत्वबुद्धिजन्यस्य बहुत्वस्य सत्वेपि इयत्तया विनिश्चितैकत्वबुद्धिरूपव्यञ्जकाभावेन शतत्वाद्यप्रतीत्या व्यञ्जकत्वस्य त्वयापि स्वीकारात् ॥
वस्तुतस्तु व्द्यणुकादिपरिमाणं त्वदुक्तसङ्ख्या विपरिमाणजन्यमेव ।
-- क्वचिदपेक्षा 1 बुद्धिपूर्वकत्वे च सतीत्यर्थः -- ब्राह्मणवदिति ॥ आदिकालीनब्राह्मणस्य कारणवैजात्यवदिहापि संभवादित्यर्थः । यद्वा तृणारणिमणिन्यायेनादिकालीनेदानीन्तनयोर्ब्राह्मणयोर्भिन्नकारणजन्ययोर्वैजात्यवदिहाप्युपपत्तेरित्यर्थः ॥
2 द्वित्वादेरपेक्षाबुद्धिजन्यत्वमभ्युपेत्योक्तम् । वस्तुतस्तदेव नास्ति । येन तदाश्रयतयेश्वरसिद्धिः स्यादित्याह --किञ्चेति ॥ तदन्वयाद्यनुविधाना 3 त्कथमित्यत आह -- अन्वयेति । एवमुत्प्रेक्ष्य स्वयं पक्ष चतुष्टयमुक्त्वा इदानीं --
"महत्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥
यथा तथैव हृस्वत्वात्पारिमाण्डल्यतोपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः"॥
इत्यादिवैशेषिकाधिकरणानुव्याख्यानोक्तसमाधिमाह -- वस्तुतस्त्विति ॥ विपर्ययेणापीत्यादिवाक्यारूढत्वाय
त्वदुक्तसङ्ख्याविपरीतेत्युक्तिः ॥
बुद्धिपदं न -मु. 2.द्वित्वाश्रय कार्यबुद्धि -अ. 3.नरूपमित्यत आह - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 372.
----------------------- ---------- ---------
परमाणुव्द्यणुकपरिमाणं परिमाणा 1 रम्भकन्द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकपरिमाणवदित्याद्यनुमानात् ॥
न च परमाणुपरिमाणं 2 परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवत्, अणुपरिमाणत्वात् मनःपरिमाणवदित्य 3 नेन सत्प्रतिपक्षता । द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात् ॥
सुधोक्तप्रयोगमाह- परमाणुव्द्यणुकपरिमाणमिति ॥ समुदायाभिप्राय 4 मेकवचनम् । परिमाणे इत्यर्थः । स्वस्वकार्यव्द्यणुकत्र्यणुकगतपरिमाणारम्भके इति 5 साध्यार्थः । द्रव्यसमवायिकारणगतपरिमाणत्वादिति हेत्वर्थः । अत्र द्रव्येत्युक्त्या शब्दसमवायिकारणगतगगनपरिमाणे, समवायीत्युक्त्या घटकारणदण्डादिपरिमाणं. गुणत्वादित्यनुक्त्वा परिमाणत्वात्युक्त्या परमाण्वादिगतरूपादौ व्यभिचारशङ्का निरासः । आदिपदेन"व्द्यणुकत्र्यणुकपरिमाणे स्वाश्रयसमवायिकारणगतपरिमाणारब्धे कार्यगतपरिमाणत्वात् चतुरणुकादिपरिमाणव"दित्यादिसुधोक्तग्रहः । इत्याद्यनुमानात्परिमाणजन्यमेवानुमीयत इति पूर्वेणान्वयः ॥
सुधोक्ते एव प्रतिपक्ष 6 शङ्कातत्समाधाने चाह -- न चेत्यादिना ॥ मृत्पिण्डादिपरिमाणे व्यभिचारवारणाय हेतौ नित्येत्युक्तिः -- द्रव्येति ॥
1.अन्तरा इत्यधिकं-कुं. ऽपरिमाणऽ इत्यारभ्य, न वेत्यादौ ऽपरिमाणंऽ इत्यन्तं नास्ति -क. 2.न परिमाणारम्भकं-मु-छ-ख. 3.दित्यनुमानेन -कुं-क. 4.येणै-इ. 5.त्यर्थः -इ. 6.क्षाशं -मु.
ईस्या-नुकत्वः-भङ्गः) ईश्वरवादः पु - 373.
---------------------- ------- --------
न चाप्रयोजके हेतुः । कारणगतगुणानां कार्य 1 गुणं प्रति सजातीयत्वेनानम्भकत्वस्योत्सर्गिकत्वत् । परिमाणसामान्यं प्रति कारणत्वग्रहदशायां परिमाणत्वस्य नियमेनोपस्थितेश्च ॥

गगनकालपरिमाणे साध्यव्यापकत्वात् साधनवति पक्षे ऽभावेन साधनाव्यापकत्वादिति भावः। न च पूर्वसाधनव्यतिरेकत्वान्नायमुपाधिः, प्रतिपक्षमात्रोच्छेदापत्तेरिति वाच्यम् । प्राची 2 नहेतोरनुकूलतर्कवत्वेन साध्यव्याप्यत्वनिश्चये सति तद्व्यतिरेकस्य प्रतिपक्षानुमाने साध्यव्यापकत्व निश्चयात् । यत्र तु स्थापनाया आभासत्वं तत्रैवं विशेषादर्शनदशायां सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकस्य साध्यव्यापकत्वेनानुपाधित्वम् । यथा शब्दो ऽनित्यः गुणत्वादित्यत्र शब्दो नित्यो व्योमैकगुणत्वादित्यनेन सत्प्रतिपक्षे गुणत्वाभावेनोपाधिः । जलपरमाणुरूपे साध्याव्यापकत्वात् । अत्र पूर्वसाधनव्यतिरेकस्याप्युपाधित्वे न कोपि 3 दोष इति भावेन स्थापनायां निरुपाधिसहचारकार्यकारणभावग्रहरूपानुकूलतकारै व्यनक्ति । न चाप्रयोजको हेतुरित्यादिना ॥ औत्सर्गिकत्वादिति ॥ जातित एव प्राप्तत्वात् अपवादाभावे तस्यापि प्रमाणत्वात् । बाधकस्य चेहाग्रे निरसिष्यमाणत्वात्
अस्याप्युत्सर्गविषत्वमेवेति भावः॥
नचैवमपि तूलपिण्डादिपरिमाणस्य 4 शिथिलभूयो ऽवयवसंयोदरूपप्रचयमात्रजन्यत्वात् तूलपिण्डसमवायिकारणगतपरिमाणे व्यभिचारी 5 स्थापनाहेतुरिति वाच्यम् । तस्यापि पक्षतुवल्यत्वात् ॥
1.ऽगतऽ इत्यधिकं-छ. 2.गुक्त-मु. 3.विशेष इति -इ. 4.प्रशि-अ. 5.रस्था-अ-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 374.
----------------------- ----------- ---------
ननु तूलपिण्डादिपरिमाणे प्रचयाख्य संयोगविशेषस्य समानपरिमाणाल्पसङ्ख्याकावयवारब्धापेक्षया तादृशाधिकसंख्याकावयवारब्धद्रव्यगतातिशयितपरिमाणे बहुत्वसङ्ख्यायाश्च कारणत्वदर्शनात् सामान्यविशेषन्यायेन
परिमाणसामान्यं प्रति संयोगसामान्यस्य संख्या 1 सामान्यस्य वा कारणत्वमस्त्विति चेन्मैवम् ।
न चैवं सत्यंशे बाधः । प्रचयकारणताया अप्यनिवारणात् । न चोभय2 कारणत्वकल्पने गौरवदोषः ।"द्वयोरपि कॢप्तशक्तित्वा"दिति सुधायामेवोक्तत्वत् । न च कॢप्तशक्तित्वं परिमाणे 3 ऽसिद्धम् । कारणगतेत्यादिनोक्ततर्कद्वयसिद्धत्वात् । वक्ष्यमाणदिशा प्रचयसङ्ख्ययोः परिमाणहेतुत्वादिति भावः ॥
कारणपरिमाणस्य कार्यपरिमाणं प्रतीव प्रचयसङ्ख्ययोरपि कारणत्वं कॢप्तमिति इह परमाण्वादिगतसङ्ख्यापि कारणं स्यादिति शङ्कते -- नन्वति ॥ संयोगविशेषस्येति ॥ कारणत्वदर्शनादित्यन्वयः । 4 प्रचयः प्रसङ्गादुपात्तः । बहुत्वस्य कारणत्वग्रहे स्थलमाह । समानेति ॥ तुल्यपरिमाणकपालद्वयारब्धघटापेक्षया 5 तत्तुल्यपरिमाणकपालत्रयजन्यघटगतपरिमाण इत्यर्थः । तादृशेति ॥ पूर्वद्रव्यावयवसमानपरिमाणेत्यर्थः ॥ सामान्येति ॥ यद्विशेषयोः कार्यकारणभावो बाधकाभावे तत्सामान्ययोरपि कार्यकारणभाव इति न्यायेनेत्यर्थः ॥
कार्यगतपरिमाणं प्रति कारणगतपरिमाणमेव सर्वत्र हेतुर्न तु प्रचयादिरपीति सिद्धान्तयति -- मैवमित्यादिना ॥
1.या वा -छ-संख्यासमामान्येति नास्ति -ख. 2.यत्र का -कुं. 3.णसि-मु. 4.प्रचयेत्यादि नास्ति-कुं. -इ. 5.तत् इति नास्ति -मु.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 375.
------------------- --------- -------
औत्सर्गिकस्य नियतोपस्थितिकस्य च 1 साध्ये सत्येव तद्विपरीते प्रमाणप्रवृत्तेः । न चैवं द्व्यणुकत्र्यणौकपरिमाणयोः परमाणुपरिमाणसाजात्यं स्यादिति वाच्यम् ।
गुणत्वासाक्षात्द्व्याप्यजात्या साजात्यापादन इष्टापत्तेः । तद्व्याप्यजात्या तदापादने तन्तुपरिमाणगतस्य महत्वव्याप्यस्या 2 पकर्षरूपजातिविशेषस्य 3 पटपरिमाणे ऽभावेन व्यभिचारात् । अन्यथा संख्यासंयोगजन्यत्वे ऽपि महत्समवेतयोस्तयोरणौत्वजनकत्वं स्यात् ॥
किञ्च द्व्यणुकादिपरिमाणस्य केवलसङ्ख्यायो 4 नित्य एव द्वित्वादिवत्सङ्ख्यात्वेन कारणसाजात्यं स्यात् ॥
5 यद्वा अन्यत्र सङ्ख्याया 6 मपि 7 कॢप्तशक्तित्व 8 मस्तु । प्रकृते तु उत्सर्गतः प्राप्तपरिमाणहेतुत्वमेवास्तु बाधकाभावादित्याह -- मैवमित्यादिना ॥ अस्ति 9 परमाण्वादिपरिमाणारम्भवादे ऽपि तुल्यपरिमाणापत्तिरेव बाधिकेत्याशङ्क्य निराह -- न चैवमिति ॥ परमाण्वादिपरिमाणस्य स्वकार्यगतपरिमाणारम्भकत्व इत्येवंशब्दार्थः -- साजात्यमिति ॥ तथा चाप्रत्यक्षतापत्तिरिति भावः । साक्षाद्व्याप्येति ॥ परिमाणत्वजात्येत्यर्थः ॥
तद्व्याप्यव्याप्येति ॥ परिमाणं चतुर्विधम् । अणुत्वं, महत्वं, दीर्घत्वं हृस्वत्वं चेति ।
1.च इति नास्ति-कुं. 2.स्योत्क-कुं-ग. 3.पटपदं न -ख. 4.गिते-क-छ-रा. 5.यद्वेत्यादि नास्ति -इ. 6.या अपि -मु. 7.ऽकॢप्त......प्रकृतेतुऽ इत्यन्तं नास्ति -मु. 8.त्वेपीहोत्सर्ग-अ. 9.स्तु-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 376.
---------------------- ----------- ---------
किञ्च परसिद्धं 1 परिमाणत्वावान्तरमणुत्वादिजातिभेदमङ्गीकृत्ये 2 दमुक्तम् ॥
वस्तुतस्तु यथा त्र्यणुकादिषु महत्वमे 3 कजातीयमेवोत्कर्षापकर्षवत्, यथा 4 चाणुत्वं परमाणुद्व्यणुकयोः एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कार्षापकर्षवद्वर्तते । एतस्यैवोत्कर्षापकर्षो च प्रतियोगिभेदेन सन्निकर्षविप्रकर्षाविवाविरुद्धौ विस्तरस्तु सुधायां द्रष्टव्यः ॥
नीलत्वपीतत्वाद्यवान्तरजातिवत्परिमाणत्वान्तरजातिचतुष्टयमुपेत्य
परमाणावेवाणुपरिमाणं द्व्यणुके हृस्वपरिमाणं त्र्यणुकादौ महत्वादित्यभ्युपगमेन द्व्यणुकेप्यणुत्वरूपपरिमाणत्वावान्तरजातिमत्परिमाणं त्र्यणुके च हृस्वत्वरूपपरिमाणत्वव्याप्यजातिमत्परिमाणं स्यादित्यापादाने चेत्यर्थः ॥
स्वोत्प्रेक्षितपक्षैः सहोक्तानि पञ्चमा समाधानान्यपि 6 परिमाण 7 प्रवादाननु 8 कूलानीति मन्वानः ऽपरमतमाश्रित्य परस्येदं दूषणाभिधानम्"इति सुधोक्तं हृदिकृत्वाह - किञ्च परासिद्धेत्यादि ॥
1.द्धप-ग-कुं. 2.त्यचे-मु. 3.एकपदं न -छ-ख-क-रा. 4.वा-च-छ-क-रा. अवयवाणुत्वं पर-ख. रसा-कुं-ग. 6.न परि-मु-अ. 7.ण्वादा -मु - अ. 8.दानुकू - मु - अ.
ईस्या-नुकत्व-भङ्गः) ईश्वरवादः पु - 377.
------------------- ---------- ---------
तस्मादीश्वरस्य 5 सार्वज्ञादेर्वेदनिरपेक्षानुमानेनासिद्धेः कल्पनागौरवं सुस्थम् ॥
1 ईश्वरस्यानुमानिकत्वभङ्गः

11.22

2 ईश्वरवादः समाप्तः ॥
सुधायामिति ॥ वैशेषिकाधिकरणे समयपाद इत्यर्थः ॥
ईश्वरस्यानुमानिकत्वभङ्गः

11.23

ईश्वरवादः समाप्तः ॥
ननु तथापि वर्णसमुदायरूपस्य 3 वेदस्य न नित्यत्वम् । शान्तः कोलाहलः श्रुतपूर्वो गकारो नास्तीत्यादिप्रत्यक्षेण, वर्णो ऽनित्यः भावत्वे सति कृतकत्वादितयनुमानेन च वर्णानामेवानित्यत्वादिति चेदुच्यते ।
तथापीति ॥ पौरुषेयत्वे धर्माद्यसिद्धावपि 4 कल्पनगौरवदोषभावेपि वेद 5 पौरुषेयत्वे मानाभावेपीत्यर्थः । न नित्यत्वमिति ॥ नानादिनित्यत्वमित्यर्थः ॥
द्वितीयस्तबके कुसुमाञ्जलावुदयनोक्तमाह ॥ शान्त इति ॥ श्रुतेति ॥ पूर्वं श्रुतः श्रुतपूर्व इत्यर्थः । शब्दो ऽनित्य उत्पत्तिधर्मत्वादित्युदयनानुमानस्य
परिष्कारपूर्वं मणानुक्तस्यायमनुवादो वर्ण इत्यादि ॥
1.इति इत्यधिकं -छ. 2.ईश्वरवादः समाप्तः इति-ख. पुस्तकभिन्नेषु नास्ति. 3.वेदपदं न -रा. 4.प्यपौ-इ. 5.दापौ-इ-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 378.
------------------------ ---------- ----------
शान्तः कोलाहल इति धार्घ्वनि 1 वषयैव । ध्वनिविशेषस्यैव कोलाहलत्वात् । श्रुतपूर्वो गकारो नास्तीति धीस्तु नास्त्येव ।श्रुत 2 एव गकारः पुनःश्रूयते एक एव गकारो ऽसकृदुच्चारित इत्यादिप्रत्याभिज्ञाविरोधात् । किन्तूच्चारणेनोपलब्ध 3 वर्णस्यानुपलब्धिमात्रेण श्रुतपूर्वो गकारो न श्रूयत इत्येव 4 धीः । उक्तं हि टीकाकारैः"प्रागुच्चारणा 5 दनुपलब्धा वर्णा
उच्चारणे सत्युपल 6 लभ्यन्ते इत्येवानुभवसिद्धम् । न तु तेषामुत्पत्तिर्विनाशो वा"इति ॥
मणौ वर्णात्मकशब्द इत्युक्तावपि मणिकृन्मतेंऽशतस्सिद्धसाधनस्या दोषत्वाद्वर्णपदानर्थकत्यम् । वर्ण इत्येव तु छलत्वात्तथाशङ्कैव न युक्तेति वर्णो ऽनित्य 7 इत्येवानुवादःकृतः ।
वर्णानामनित्यत्वेपि न वेदनित्यत्वक्षतिः । तथाप्यभ्युपेत्य तत्समाधत्ते । उच्यत इत्यादिना ॥ व्यक्तं चैतद्वेदान्ते ग्रन्थ एव ॥
ध्वनिविशेषस्यैवेति ॥ यत्तु वर्धमाने 8 अनभिव्यक्तवर्णत्वव्याप्यजातिविशेषो वर्णसमूह एव कोलाहल इत्युक्तम् । तन्न । वर्णशून्यध्वनिविशेषेपि कोलाहलपदप्रयोगात् ॥ प्रत्यभिज्ञेति ॥ तद्भ्रान्तित्वं त्वग्रे निरसिष्यत इति भावः ॥ उक्तं हीति ॥"न चोच्चारणकाल एव वर्णा 9 नुत्पत्तिरिति वाच्य"मिति तत्वनिर्णयवाक्यसम्बन्धिटीकायां वर्णजन्मवर्णाभावबुध्योरुच्चारणक्रियाविषत्वमित्येतदुक्तमित्यर्थः ॥
1.विशेष इत्यधिकं-मु. 2.पूर्व इत्यधिकं-ख. 3.स्य व -च-ग-ख-कुं. 4.ऽएवऽ इति नास्ति-क-ख-कुं. 5.णानु-कुं. 6.ब्धा-ख. 7. नित्य इति नास्ति -कुं. 8.नाभि -मु. 9.नामु -अ-इ.
वर्णा(शब्दा)नित्यत्वस्य प्रत्यक्षत्वभङ्गः) वर्णवादः पु - 379.
------------------------------------ ------ ----------
अस्तु वा सा । 1 तथापि घटो नास्तीतिवन्न विशेष्यमात्रनिषेधिका । श्रुतपूर्वत्वनिशिष्टनिषेधस्त्वलं कृतपूर्वश्चैत्रो नास्तीतिवत्पूर्वकालावच्छिन्नश्रवणध्वं 2 सरूपविशेषण 3 निषेधेनाप्युपपन्नः 4 ॥
अस्तु वा सा विशेष्यमात्रनिषेधिका । तथापिव्यञ्जक उच्चारणे ऽव्यञ्जकत्वभ्रान्त्यालिङ्गे ऽनुपलब्धिमात्रे योग्यानुपलब्धिरूपलिङ्गाभिमानाद्भ्रान्तिरूपानुमितिरेव सा ।
अनुभवे विप्रतिपन्नं प्रत्याह -अस्तु वा सेति ॥ श्रुतपूर्वो गकारो नास्तीति धीरित्यर्थः । न विशेष्यमात्रेति ॥ घटस्य केवलत्वादस्य च सविशेषणत्वादिति भावः । अलमिति ॥ पूर्वमलङ्कृतो ऽलङ्कृतपूर्व इत्यर्थः । विशेषणनिषेधेनेति ॥"सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामत"इति न्यायादिह न विशेष्यबाधस्य प्रागुक्तप्रत्यभिज्ञानविरोधेन व्यक्तत्वादिति भावः ॥
विशेष्यबाधे विवादिनं प्रत्याह ॥ अस्तु वा सेति ॥ धीरिस्यर्थः । तथापीति ॥ भ्रान्तिरूपेत्यादिनान्वयः । भ्रान्तिरूपत्वे बीजमाह ॥ व्यञ्जक इति ॥ वर्णौ नास्ति अनुपलब्धेः स्तम्भादिवदिति लिङ्गाभालजन्यानुमितिरेव । न प्रत्यक्षरूपा । नापि प्रमितिरूपा । परमाण्वादावनुपलम्भे सत्यपि नास्तित्वाभावेन व्यभिचारितयानुपलब्धिमात्रस्यालिङ्गत्वेन तल्लिङ्गत्वस्याभिमानिकत्वात् । अलिङ्गे च लिङ्गत्वाभिमानो योग्यानुपलब्धित्वभ्रममूलः। सोपि भ्रमः उच्चारणस्य न वर्णाभिव्यञ्जकत्वम् । किन्तूत्पादकत्वमेवेति भ्रान्तिमूल एवेत्यर्थः॥
1.ऽतथापिऽ इति नास्ति-छ- 2.ध्वंसपदं नास्ति -मु-च, ध्वंसेनाप्यु-रा. 3.ध्वंसेनाप्युप -छ-ख. 4.न्ना - कुं.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 380.
-------------------------- -------- ---------
न तु प्रत्यक्षा । प्रत्यासत्यभावात् ॥
न चेन्द्रियविशेषणता प्रत्यासत्तिः । चक्षुषा स्वविशेषणीयभूतस्य घटनिष्ठरूपप्रतियोगिकाभावस्य ग्रहप्रसङ्गाक् ।
एतेन श्रुतपूर्वो गकारो नास्तीति प्रतीतिर्निरनुमानादित्यसत् । शब्दस्यैव पक्षीकरणे हेतोरनाश्रयात्वम् । आकाशस्य पक्षत्वे तद्वत्तयानुपलभ्यमानत्वहेतोर 1 नेकान्तिकत्वम् । शब्दसद्भावकालेपि तस्य सत्वात् । एवं कालपक्षेपि दोषात् । अहमिदानीं निःशब्दश्रोत्रवान् शब्दोपलब्धिधरहितत्वात् बधिरवदिति चेन्न । दृष्टान्तस्य साध्यविकलत्वात् व्याहतत्वाच्चेत्यादिखण्डनं
निरस्तं ध्येयम् ॥
अतीतघटादौ ज्ञानविषयत्वाभावप्रतियोगित्वादिधर्मवदनुपलभ्य मानधर्मस्यापि सम्भवेनासिद्ध्यादेरनापत्तेरिति । न तु प्रत्यक्षेति ॥ तादृशबुद्धेः प्रत्यक्षत्वेपि शुक्तिरूप्यादिप्रत्यक्षवत्प्रत्यभिज्ञारूपप्रबलप्रत्यक्षबाधाद्भ्रान्तिरेवेति सुवचम् । तथाप्युदयनोक्तप्रत्यक्षत्वोपपादनखण्डनायैवमुक्तिः ॥
अस्ति हि श्रोत्रशब्दाभावयोर्विशेषणविशेष्यभाव इत्यादिनोदयनोक्तमाशङ्क्य निराह -- न चेन्द्रियेति ॥ श्रोत्ररूपेन्द्रिये शब्दाभावस्य सत्वेन तयोः सम्बन्धान्तरमात्रेण तदुपश्लिष्ट्स्वभावरूपविशेषणताप्रत्यासत्तिरित्यर्थः । विशेषण 2 भावेनैव समवायावयोर्ग्रहणादिति भावः -- चक्षुषेति ॥ स्वसम्बन्धिविशेषणतयैवाभावादेरिन्द्रियेण ग्रहणात् । न तु स्वविशेषणत्वेनैव ।
1. नैका - अ- इ. 2.विशेष्य इत्यधिकं -मु.
वर्णा-त्वस्य-प्रत्व-भङ्गः) वर्णवादः पु - 381.
----------------------- ------- --------
1 त्वदभिमतस्य योग्ये ऽधिकरणे ऽनुपलब्धिरूपस्येन्द्रियसचहकारि 2 णो ऽसत्वाच्च । त्वन्मते 3 चाधिकरणस्य गगनस्यायोग्यत्वात् ॥
न चाधिकरणस्यायोग्यत्वेपि प्रतियोगिनो योग्यत्वात्तत्सहकारिणी योग्यस्यानुपलब्धिरस्तीति वाच्यम् । पार्थिवपरमाणौ जलत्वाभावस्य प्रत्यक्षत्वप्रसङ्गात् ॥
तथात्वे घटनिष्ठं यद्रूपं तत्प्रतियोगिकाभावस्य चक्षुष्यपि सत्वेन चक्षुषा विशेषणतारूपप्रत्यासत्या मम चक्षुषा घटरूपं नेति रूपाभावग्रहणप्रसङ्ग इत्यर्थः॥

ननु प्रत्यासत्तेः फलबलकल्प्यत्वाद्रूपाभावादिना विशेषणतारूपप्रत्यासत्तिकल्पकं नेत्यतो दोषान्तरमाह -- योग्य इति ॥ यद्वा स्वसम्बन्धिविशेषणतयैवाभावादेरिन्द्रियेण ग्रहणात् ॥ चक्षुषा च घटादिरूपाभावो रूपत्वादौ रूपं नेति गृह्यत एव । प्रकृते च श्रोत्रसंम्बन्ध्याकाशविशेषणतास्त्येव शब्दाभावस्येत्यतः किं योग्ये स्वसंबन्धिनि विशेषणतयाभाव ग्रहः उतायोग्ये ? आद्य आह -- योग्य इति ॥ अनुपलब्धीति ॥ प्रत्यक्षयोग्यप्रतियोगिनो ऽनुपलब्धीत्यर्थः । सिद्धान्ते साक्षिप्रत्यक्षत्वादाह -- त्वन्मत इति ॥ अन्त्यो ऽतिप्रसङ्गदुष्ट इति भावः । ननु नातिप्रसङ्गः । प्रतियोगिनो योग्यत्वस्यातिप्रसङ्गभञ्जकत्वादिति भावेनाशङ्क्य निराह ॥ न चेति ॥
त्वदभिमतस्येति नास्ति -ग. 2.रूप इत्यधिकं-ग. 3.च इति नास्ति -क-रा.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 382.
----------------------- ----------- --------
न च प्रतियोगिवद्व्याप्येतरप्रतियोग्यु 1 पलम्भकसामग्रीरूपयोग्यताविशिष्टानुपलब्धिस्तत्सहकारिणी । एवं च जातिग्रहे व्यक्तियोग्यताया अपि कारणत्वात्परमाणोश्चा 2 योग्यत्वान्नोक्तदोषः ।
यद्वा अनुपलब्धिर्हिप्रत्यक्षस्याभावग्रहे सरकारिणी । सा च नानुपलब्धिमात्रम् । अति प्रसङ्गात् । किन्तु योग्यानुपलब्धिः । सा च योग्ये ऽधिकरणे ऽनुपलब्धिरूपा वा, योग्यस्य प्रतियोगिनो ऽनुपलब्धिरूपा वा, योग्य 3 रूपानुवलब्धि 4 भूतानुपलब्धिरूपा वा ? तत्रानुपलब्धेर्योग्यत्वं च किं प्रतियोगितद्व्याप्येतरेत्यादिरूपं वा, प्रतियोगिसत्वविरोधित्वरूपं वा, प्रतियोगिसत्वा 5 पादनेत्यादिरूपं वा ? पक्षपञ्चके ऽपि न वर्णाभावस्य प्रत्यक्षतासिद्धिरिति भावेनाद्यं निराह । योग्य इति ॥ द्वितीयमाशङ्क्या निराह ॥ न चेति ॥
उक्तदोषनिरासाय तृतीयं पक्षं 6 कुसुमाञ्जल्युक्तमाशङ्क्य 7 निराह । न चेति ॥ प्रतियोगि 8 घटादि, 9 यच्च
घटादिव्याप्यं सन्निकर्षादि, ताभ्यामित्तरा 10 घटादिलक्षणप्रतियोग्युपलम्भकसामग्री सैवानुपलब्धेर्योग्यता । तद्विशिष्टानुपलब्धिरभावप्रत्यक्षे सहकारिणीत्यर्थः । घटाभावप्रत्यक्षे तथादर्शनादिति भावः । प्रतियोगिसत्वेनुपलब्धेरेवाभावः । तव्द्याप्ये सत्यपिप्रतियोगिनः सत्वनियमेनानुपलब्धिर्नेति ताभ्यामितरत्वेनोपलभ्यकसामग्री विशेषिता ॥ नोक्तदोष इति ॥ उपलम्भकसामग्रीरूपयोग्यताभावेन पार्थिवपरमाणौ जलत्वाद्यभावप्रत्यक्षतापत्तिदोषो नेत्यर्थः ।11 नन्वेवं शाब्दाभावोपि न
प्रत्यक्षः स्यात् जातिग्रह इव विशेषणग्रहेप्याश्रययोग्यत्वस्य तन्त्रत्वा . . . . योग्यानुपलब्ध्यभावादित्यत आह ॥ विशेषणेति ॥
1.ग्यनुप-रा. 2.च इति नास्ति-छ. 3.भूत-मु-अ. 4.रूप-मु-अ. 5.संजन-मु. 6.ऽयद्वाऽ इत्यादि एतत्पर्यन्तो ग्रन्थः नास्ति -इ. 7.ऽआशङ्क्यऽइति नास्ति-कुं. 8.गी-मु. 9.दिः -मु-अ. 10.नन्वित्यादि नास्ति -अ-इ-मु.
वर्ण-त्वस्य-प्रत्व-भङ्गः) वर्णवादः पु - 383.
--------------------- -------- ---------
विशेषणग्रहे त्वाश्रययोग्यता न हेतुः । अन्यथागन्धादिग्रहो न स्यादिति । शब्दाभावग्रह 1 उक्तरूपानुपलब्धिरस्तीत्युदयनोक्तं युक्तम् । एकस्य संयोगिनो ऽपगमे सति संयोग 2 ध्वंसस्याप्रत्यक्षतापातात् । तत्र प्रतियोगिभूतात्संयोगात्तद्व्याप्यात्सन्निकर्षाच्चातिरिक्तस्य संयोगोपलम्भकस्यैकस्य संयोगिनो ऽभावात् । वर्णोपलम्भकस्योच्चारणस्याभावेनोपलम्भकसामग्र्या असत्वाच्च ॥
एतेन प्रतियोगिसत्वविरोध्यनुपलपलब्धिरूपा 3 योग्यानुपलब्धिस्तत्सहकारिणी,
शब्दरूप 4 रसगन्धातिविशेषणेत्यर्थः । तथा च गगनलक्षणाधिकरणस्यायोग्यत्वेप्युक्तरूपयोग्यताविशिष्टशब्दानुपलब्धेर्भावेन श्रोत्रेण गगने शब्दाभावग्रहो युक्त इति भावः कुतोप्रत्यक्षत्वापात इत्यतः यावदुलम्भकमेलनरूपसामग्र्यभावादिति भावेनाह ॥ तत्रेति ॥
एकसंयोगिनोपगमस्थल इत्यर्थः ॥
ननु संयोगाभावान्याभावप्रत्यक्षे सहकारिणीयमनुपलब्धोर्योग्यतेत्यत आह।वर्णेति॥
सन्निकर्षग्रन्थान्ते मण्युक्तदिशा शब्दाद्यभावप्रत्यक्षत्वानुकूलं चतुर्थपक्षभूतं योग्यत्वमनूद्य निराह ॥ एतेनेति ॥ प्रतियोगिसत्वविरोधीति बहुर्व्रीहिः । यस्या अनुपलब्धेः प्रतियोगिसत्वं विरोधि सानुपलब्धिर्योग्यानुपलब्धिः । भूतले घटाद्यनुपचलब्धस्तादृशी । परमाण्वाद्यनुपलब्धिस्तु नैवम् ।
1.तु इत्यधिकं -क-ख-कुं-रा. 2.प्रध्वं -ख. 3.पयो-च. 4.रूपपदं न -कुं-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 384.
----------------------- ----------- ---------
सा च शब्दाभावे संयोगध्वंसे चास्ति, शब्दादेः 1 सत्वेनुपलब्ध्ययोगात्, पार्थिवपरमाणुगते जलत्वाभावे तु नास्ति, व्यक्तेरयोग्यत्वेन जलत्वानुपलब्धिसम्भवादिति मण्युक्तं निरस्तम् । उक्तप्रत्यभिज्ञया शब्दस्य सत्वेपि व्यञ्जकाभावेनानुपलभ्यसम्भवात् ॥
एतेनैवप्रतियोगिस 2 त्वासञ्जनप्रयु 3 क्तसञ्जनविषयभूतोपलब्धेरभावरूपा योग्यानुपलब्धिस्तत्सहकारिणी । अत एव 4 पक्षिलभाष्ये यदिस्यात्तर्ह्युपलभ्येतेति तर्कपुरस्कारमेवाभावज्ञानं व्यत्पादितम् । न चैवं घटे मनस्त्वात्यन्ताभावो वायौ रूपवदन्योन्याभावश्च प्रत्यक्षः स्यात् ;
तत्सत्वेप्यनुपलब्धिसम्भवादिति भावः ॥ तत्सहकारिणीति ॥ अभावप्रतच्यक्षसहकारिणीत्यर्थः । अस्मिन्पक्षे उदयनपक्षोक्तं 5 दोषद्वयं नेति व्यनक्ति ॥ न चेति ॥ शब्दादेरित्यादिपदेन संयोगग्रहः । पूर्वोक्तदोषश्च नेत्याह ॥ पार्थिवेति ॥ उक्तेति ॥
एक एव गकारोसकृदुच्चारित इति प्रागुक्तप्रत्यभिज्ञयेत्यर्थः ॥
पञ्चमं पक्षमनूद्य निराह -- एतेनेति ॥ प्रतियोगिसत्वासञ्जनेति ॥ आसञ्जनं देश विशेषे वर्तमानता । तत्प्रयुक्तासञ्जनविषयत्वं यस्या उपलब्धेः तादृशोपलब्ध्यभावो योग्यानुपलब्धिः । प्रतियोगिसत्वासञ्जनप्रसञ्जितप्रतियोगिताकत्वमनुपलब्धेर्योग्यत्वमित्यर्थः --
तत्सहकारिणी अभावप्रत्यक्षसहकारिणि -- उक्तेति ॥ व्यञ्जकाभावेनेत्युक्तरीत्येत्यर्थः ।
1.दौ-छ. 2.त्वन्प्र इति शोधितमस्ति - छ-त्वाप्र-ख. 3.योज्या -छ.
यदि घटे मनस्त्वं स्यात्तर्हि योग्यव्यक्तिवृत्तित्वात् घटत्वमिवोपलभ्यत ; यदि महति वायौ रूपवत्तादात्म्यं स्यात् तर्हि पृथिव्यामिवोपलभ्येतेत्या 2 सञ्जनसम्भवादिति वाच्यम् । उक्तयोग्यानुपलब्धेः सत्वेनेष्टापत्तेरिति निरस्तम् । उक्तरीत्या शब्दस्य सत्वेप्यनुपलभ्यसम्भवेन शब्दसत्वासञ्जनेनोपलब्ध्यासञ्जनासम्भवात् । कथं च विपर्यये पर्यवसाननहितेतर्के नियमेन सापेक्षस्याभावज्ञानस्याननुमितित्वम् । तस्मात्पररीत्यापि न वर्णध्वंस ऐन्द्रियकः । पराभिमतस्य 3 सत्तयेन्द्रियसहकारिणो ऽनुपलभ्यस्याभावात् ॥

अस्मिन्पक्षे ऽनुमितित्वं स्फुदमित्याह -- कथमिति ॥ यदिह शब्दः स्यादुपलभ्येत नोपलभ्यते अतो नास्ति शब्द इति विपर्यये पर्यवसानसहिते । तर्क इति विषयसप्तमी । तादृशतर्कविषये नियमेनापेक्षासहितस्येत्यर्थः । त्वन्मते तर्कस्या 4 नुमानानुग्रहकमात्रत्वेनानुमितिरेव तर्कसापेक्षत्वादिति भावः -- पराभिमतस्येति ॥ प्रतियोगिसत्वप्रसञ्जितप्रतियोगिकत्वादिरूपयोग्यत्वस्येत्यर्थः । अनुपलभ्यस्येत्यन्वयः-- सत्तयेति ॥ स्वरूपसत्तया न तु ज्ञान 5 येत्यर्थः । तथात्वेह्यनुमानरूपतया पृथड्मानत्वेनेन्द्रियसहकारित्वाभावादिति भावः ॥
1.त्येवो -ख. 2.सर्वत्र ऽप्रऽ इत्यधिकमस्ति-ख. 3.सत्तयेति नास्ति-छ-रा. 4.ऽनियमेनऽ इत्यधिकं -मु-ए. 5.ततया-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 386.
----------------------- --------- -------
मन्मते तु नेन्द्रियस्यानुपलब्धिः सहकारिणी । तथा हि । सहकारिण्या अनुपलब्धेः प्रत्यक्षाप्रत्यक्षसाधारणोपलब्धिसामान्याभावरूपत्वे शङ्के शङ्खत्वेन
लिङ्गेन श्चैत्ये ऽनुमिते श्वतो नेत्यभावभ्रमानुदयप्रसङ्गः ॥
न चोक्तरूपानुपलब्धिरभावप्रमाहेतुरिति वाच्यम् । गुञ्जापुञ्जे चक्षुषारोपितेन वह्नित्वेनोष्णस्पर्शानुमितौ सत्यां त्वचोष्णस्पर्शाभावप्रमानुदयप्रसङ्गात् ॥
ननु भवन्मते घटाभावादिग्रहे चक्षुरादेर्यादृशो ऽनुपलभ्यः सहकारी तादृश एव ममापि शब्दाभावग्रहे ऽस्त्वित्यत आह -- मन्मते त्विति ॥ चक्षुरादीना घटादेरिव तदभावस्यापि साक्षात्संयोगसम्बन्धेनैव ग्रहणोपपत्तौ किमनुपलब्धिसहकारिणेति भावेन सहकारिताखण्डनमारभते -- तथा हीति ॥
अनुपलब्धिरिन्द्रियसहकारिणीति वदन् 1 प्रष्टव्यः अनुपलब्धिपदेन प्रत्यक्षादिसाधारणप्रतियोगिज्ञानसामान्याभोवो वा प्रत्यक्षादिसाधारणप्रतियोगिप्रमाभावो वा प्रतियोगिप्रत्यक्षाभावो वा अभावग्राहकेन्द्रियकरणकप्रतियोगिप्रत्यक्षाभावो (वा) विवक्षितः । आद्येपि 2 फलीभाताभावग्रहपदेनाभावज्ञानमात्रताभावप्रमेति । आद्य आह -- सहकारिण्या इति ॥ आद्यस्य द्वितीयमाशङ्क्य निराह -- न चेति ॥ वह्नित्वेनेत्यनन्तरं लिङ्गेनेति शेषः ॥
1. ऽ वादी ऽ इत्यधिकम् - इ. 2. अपिपदं न - मु.
वर्णा-त्वस्य-प्रत्व-भङ्गः) वर्णवादः पु - 387.
---------------------- --------- ----------
न च प्रमात्वविशेषितोक्तपलब्धिसामान्याभावो ऽभावप्रमाहेतुरिति वाच्यम् । शुक्तौ रूप्यभ्रमे सत्यपि रूप्यप्रमाभावस्य सत्वेन रूप्याभावप्रसङ्गात् ॥
न चोक्तरूपानुपलब्धिः प्रत्यक्षरूपोपलब्धिविशेषाभावरूपा, ततो नोक्तदोष इति वाच्यम् । तथापि मण्डूकवसाञ्जनदोषेण वंशमुरगत्वेन 1 चक्षुषा पश्यतस्त्वचोरग 2 त्वाभावप्रमितिप्रसङ्गात् ॥
प्रत्यक्षशब्देनाभावग्राहकत्वेना 3 भिप्रेतेन्द्रिय 4 कारणकज्ञानविवक्षायामपि कपाले घटो 5 स्तीति चाक्षुषसाक्षात्कारस्य विनश्यदवस्थाऽपन्ने घटे उत्पन्नत्वाद्घटध्वंसानन्तरं चक्षुषा घटध्वंससाक्षात्कारो न स्यात् । ध्वंससाक्षात्कारोत्पत्यपेक्षया पूर्वक्षण रूपे ध्वंसोत्पत्तिक्षण उक्तरूपस्य
घटसाक्षात्कारस्य स्थित्या तदभावरूपहेत्वभावात् ॥
तस्माद्भावसाक्षात्कारे ऽभावानुपलब्धिरिवाभावसाक्षात्कारे ऽपि 6 न भावानुपलब्धिः सहकारिणी ।
द्वितीयमाशङ्क्य निराह -- न च प्रमात्वेति ॥ तृतीयमनूद्यनिराह -- न चोक्तरूपेति ॥ अभावग्राहकेन्द्रियसहकारिरूपेत्यर्थः । अन्त्यपक्षमनूद्य निराह - प्रत्यक्षेति ॥ चाक्षुषसाक्षात्कारस्येति ॥ विनश्यदवस्थापन्नघटविषये 7 जातस्येति भावः ॥
1.चक्षुषा इति नास्ति - ख। 2.गाभाव -च-छ. 3.भिमतें-च-ख-क. 4.करणक-ख-क-रा. 5.नास्तीति -छ-क. 6.ऽनऽ त्यनन्तरमस्ति -च-मु. 7.द्वारस्येति - अ.
न्यादीपयुततर्कताण्डवम् वर्णवादः पु - 388.
--------------------- -------- ----------
किं त्ववर्जनायसन्निधिः । तदुक्तं पद्धतौ अनुपलब्धिस्त्ववर्जनीयसन्निधिरेवेति । अभावप्रत्यक्षतायां त्व 1 धिकरणयोग्यता तन्त्रम् । अन्यथा परमाणौ जलत्वाभावग्रहप्रसभङ्गस्यापरिहार्थ 2 स्यात् । इतरनिरूप्येषु ज्ञानेच्छादीर्घत्वपरत्वपृथक्त्वादिषु कॢप्तत्वाच्च । अन्योन्याभावग्रहे त्वायापि स्वीकृतत्वाच्च । न तु त्वदुक्तानेकविशेषणविशिष्टानुपलब्धिस्तन्त्रम् । अकॢप्तत्वात् । विशेषणप्रयोजनस्यातिप्रसङ्गनिरासस्य दीर्घत्वादौ कॢप्ताधिकरणयोग्यतयैव सिद्धेश्च ॥
नन्वभावप्रत्यक्षत्वप्रयोजकाधिकरणयोग्यता किमिन्द्रियग्राह्यत्वमात्रं किं वा प्रतियोगिग्राहकेन्द्रियग्राह्यत्वं यद्वाभावग्रहकेन्द्रियग्राह्यत्वम् ।
तर्ह्यभावप्रत्यक्षे किं तन्त्रमित्यतः"तत्प्रत्यक्षतायां धर्मिण एव प्रत्यक्षतोपयुज्यते"इति पृथगधिकरणीयसुधावाक्यं हृदिकृत्वाऽह ॥ अभावेति ॥ इतरेति ॥ सम्बन्धिकपदार्थेष्वित्यर्थः -- अनेकेति ॥ प्रतियोगिसत्वासञ्जनप्रसञ्जितप्रतियोगि
3कत्वादिरूपानेकविशेषणाविशिष्टेत्यर्थः॥
नन्वनुपलब्धिमात्रस्य ग्राहकत्वे पार्थिवपरमाण्वादौ जलत्वाद्यभावः प्रत्यक्षः स्यादित्यतिप्रसङ्ग इत्यत आह -- विशेषणेति ॥ दीर्घत्वेति परिमाणविशेषः । आदिपदेन पृथक्त्वादिप्रागुक्तधर्मग्रहः ॥
अस्तूक्तरीत्याभावप्रत्यक्षत्वे ऽधिकरणयोग्यत्वस्यमेव तन्त्रं तावतापि शब्दाद्यभावप्रत्यक्षता सेत्स्यतीति भावेन शङ्कते -- नन्विति ॥
1.यामधि-क-ख-कुं. 2.रात्-क-ख-ग-कुं. 3.गित्वा-कुं.
वर्णा-त्वस्य-प्रत्व-भङ्गः) वर्णवादः पु - 389.
---------------------- ------- ------------
आद्ये ऽधिकरणं प्रतियोगिसमवायि चेदाश्रयनाशजन्यो भूतलिष्ठो घटध्वंसः प्रत्यक्षो न स्यात् । आश्रयमात्रं चेच्छब्दाधिकरणमपि योग्यमेव । वने सिंहनाद इत्यादिप्रतीत्या विशेषणरूपप्रत्यासत्याधिकरणस्य वनस्यापि प्रत्यक्षत्वात् । न द्वितीयः । स्तंभजीवनिष्ठयोः पिशायेश्वरान्योन्याभावप्रत्यक्षत्वापातात् । न तृतीयः। वायुगुडपाषाणेषु रूपतिक्तरससौरभाभावप्रत्यक्षत्वापातादिति चेन्न ॥
प्रत्यक्षो न स्यादिति ॥ तत्राश्रय 1 भूतसमवायिनोनाशेनै 2 न्द्रियकत्वारोपाधिकरण 3 योग्यताभावात् । भूतलस्य चासमवायित्वादिति भावः -- वनस्यापि प्रत्यक्षत्वादिति ॥ तथा च तदभावस्यापि प्रत्यक्षत्वमेवेति भावः ॥
अप्रत्यक्षत्वेति ॥ मणौ हि सन्निकर्षग्रन्थान्ते स्तम्भे पिशाचतादात्म्या 4 भावः प्रत्यक्ष इति प्रतियोगिसत्वविरोध्यनुपलब्धिरूपयोग्यानुपलब्धिरभावप्रत्यक्षनियामिकेति प्रत्यक्षेस्तम्भादौ पिशाचा 5 न्योन्याभावप्रत्यक्षत्वमुपपादितम् 6 तन्न स्यात् । तत्र भवदभिमत 7 प्रतियोगिग्राहकेन्द्रियग्राह्यत्वरूपाधिकरणयोग्यताया अभावात् । प्रतियोगिनस्तत्रातीन्द्रियत्वादिति भावः ॥
वायुगुडेत्यादि ॥ तत्र यथाक्रमं रूपतिक्तरसगन्धाभावानां चक्षूरसनघ्राणेन्द्रियग्राह्यत्वात् वाय्वादीनां च क्रमेण चक्षूरसनघ्राणा 8 विषयत्वेन तत्राभावग्राहकेन्द्रियग्राह्यत्वाभावादिति भावः ॥

1.यी -अ. 2.वेन्द्रि -अ. 3.णेयो-कुं. 4.त्म्या -कुं. 5.द्यन्यो-अ. 6तत्तवापि संमतमित्यधिकम् -अ. 7.तस्यप्र -इ-अ. 8.द्यवि -मु.
न्यायदीपयुततर्कताण्डवम् वर्णवादः पु - 390.
---------------------- ------ --------
यन्निष्ठत्वेनाभावो ज्ञायते तस्य प्रतियोगिसमवा 1 यिरूपस्य वान्य 2 रूपस्य वाधिकरणस्याभावग्रहकत्वेनाभिमतेन्द्रियग्राह्यत्वमधिकरणयोग्यतेति स्वीकारात् ॥ एवं च कपालनाशजन्यस्य भूतलनिष्ठस्य घटध्वंसस्य स्तम्भजीवनिष्ठयोः पिशाचेश्वरान्योन्याभावयोश्च प्रत्यक्षता । सिद्धा भूतलस्तम्भयोर्घटध्वंसपिशाचान्योन्याभावग्राहकचक्षुरादिग्राह्यत्वात् । जीवस्यापीश्वराद्भेदग्राहकसाक्षिग्राह्यत्वात् ॥
अत एवोक्तमनुव्याख्याने ॥
"शास्त्रगम्यपेशानाद्भेदः स्वात्मन ईयते ।
अनुभूतिविरोधेन कथमेकत्वमुच्यते"॥ इति ॥
अधिकरणपदेनाभावप्रतीत्यधिकरणमात्रमित्युपेत्य अन्त्यपक्षाङ्गीकारेण समाधिमाह -- यन्निष्ठत्वेनेति ॥ पूर्वोक्तदोषं निराह -- एवं चेति ॥ तार्किकरीत्या मानसत्वभ्रमनिरासायाह -- जीवस्येति ॥ यद्वा जीवेश्वरभेदस्य द्वासुपर्णेत्याध्यागमग्राह्यतया कथमिन्द्रियग्राह्यत्वमित्यत आह -- जीवस्येति ॥ भेदान्योन्याभावयोरेकत्वाद्भेदेत्युक्तम् -- साक्षीति ॥ स्वरूपेन्द्रियग्राह्यत्वादित्यर्थः -- अत एवेति ॥ उक्त 3 रूपेन्द्रियग्राह्यत्वरूपाधिकरणायोग्यत्वस्याभावप्रत्यक्षे 4 तन्त्रत्वादेन । द्वितीयाध्यायतृतीयपादे"पृथगुपदेशात्"इत्यत्र शास्त्रैकगम्येश्वरभेदो जीवे साक्षिप्रत्यक्षसिद्ध इत्युक्तमित्यर्थः - ईयत ॥ साक्षिणा ज्ञायत इत्यर्थः ॥
1.य- च-ख. 2.ऽअन्यरूपस्येति नास्तिऽ -छ. 3.स्वरू -अ. 4.क्षत्वतं -इ-अ.
वर्णा-त्वस्य-प्रत्व-भङ्गः) वर्णवादः पु - 391.
---------------------- ---------- --------
वनादिकं च शब्दाभावग्राहकत्वेनाभिमतश्रोत्राग्राह्यमिति न शब्दाभावस्य श्रवणता ॥ यत्तु वाय्वादौ रूपाद्यभावानामप्रत्यक्षत्वापादनं, तन्न । 1 त्वन्मते नीरूपो वायुः न तिक्तः इति वाय्वादिविशेष्यकप्रतीतीनामिव मन्मतेपि 2
वायौ न रूपं गुडेन तिक्ततेति वाय्वादिविशेषणकप्र 3 त्ययानामपि लैङ्गिकत्वेनेष्टापत्तेः । तत्र विशेष्ययोग्यतारूपप्रत्यक्ष 4 त्वहेत्वभावेनेव प्रकृतेपि दीर्घत्वादौ कॢप्ताधिकरणयोग्यतारूपद्धेत्वभावेन योग्यानुपलब्धिरूपलिङ्गाद्यनुसंधानकल्पनात् । न च भट्टमत इव मन्मते ऽनुपलब्धिरप्यनुमेया । येनानुपलब्धेरप्यनुपलब्ध्यन्तरानुमेयत्वेनानवस्था स्यात् ॥
न चैवं वाय्वादौ रूपाद्यभावस्यानुमेयत्वे चक्षुरादिव्यापारवैयर्थ्यम्,
शब्दाधिकरणमपि योग्यमेवेति प्रागुक्तं निराह -- 5 वनादिकमिति ॥ प्रागुक्तं 6 दोषान्तरं च निराह -- यत्विति ॥ ननु वाय्वादिविशेष्य 7 कप्रतीतावधिकरणयोग्यत्वाभावाल्लैङ्गिकत्वं युक्तमित्यत आह -- तत्र विशेष्येति॥ प्रकृतेपीति ॥ वाय्वादिविशेषणरूपाद्यभावप्रतीतावित्यर्थः । स्यादित्यनन्तरं किन्तु साक्षिप्रत्यक्षेति योज्यम् ।"अस्मत्पक्षे ऽनुपललब्धेः स्वप्रकाशसाक्षिसिद्धत्वान्नानवस्थे"ति प्रमाणलक्षणटीकोक्तेरिति भावः ।
1.त्व-क-छ-ख-क-रा. 2.अपिपदं-ख-क-ग-रा. 3.तीतानां-क. 4.क्षहे -ग-ख-क-रा. 5.वेदादिकमिति -ई वर्णादिकमिति -अ. 6.क्तदो-इ. 7.ष्यप्र-अ.
न्यायदीपयुततर्कताण्डवम् वर्णवादः पु - 392.
----------------------- ------ ------
पक्षस्य वाय्वादेश्चक्षुराद्ययोग्यत्वात्, लिङ्गीभूताया अनुपलब्धेश्च साक्षिवेद्यत्वात्, प्रतियोगिनश्च स्मरणादिति वाच्यम् । लिङ्गिभूतानुपलब्धिविशेषणयोग्यतान्तर्गतालाकोदिग्रहार्थत्वात् ॥
उक्तं हि प्रमाणलक्षणे"योग्यानुपलब्धेश्च लिङ्गत्वम्"इति । लिङ्गत्वेनोक्ता 1 योग्यानुपलब्धिश्च 2 न ग्राहकाभाव 3 प्रयुक्ता ॥
वैयर्थ्यमित्युक्तं व्यनक्ति-पक्षस्येत्यादिना ॥ रूपादिलक्षणप्रतियोगिज्ञानार्थं च नेत्याह -- प्रतियोगिनश्चेति ॥ अनुपलब्धिविशेषणेति ॥ अनुपलब्धिमात्रं नाभावग्राहकम् व्यभिचारात् । किन्तु योग्यानुपलब्धिरेव । योग्यता च प्रतियोग्युपलम्भकसामग्र्यादिरूपेति भावः । योग्येति ॥ टीकोक्तरीत्या योग्यस्यानुपलब्धिः 4 योग्यानुपलब्धिरिति विग्रहः । संसर्गाभावग्रहे प्रतियोगियोग्यतापि तन्त्रमित्यग्रे व्यक्तत्वात् ॥
न चैव"मनुपलब्धिस्त्वर् 5 वर्जनायसन्निधि"रिति प्रागुक्तपद्धतिवाक्याविरोधः"अभावो 6 नुमा प्रत्यक्षं चे"तिप्रमाणलक्षणे ऽभावद्वैविध्यस्याप्युक्त्या प्रत्यक्षेणाभावग्रहे ऽनुपलब्धिरवर्जनीयसन्निधिः अन्यत्र लिङ्गत्वेनेत्याविरोधात् ॥
नन्वनुपलब्धिलङ्गतास्थले ऽनुपलब्धेरुपलम्भकसामग्र्यभावनिमित्तकतया तत्साहित्यरूपयोग्यताख्यविशेषणाभावाद्धेतोरलसिद्धिरित्यत आह -- लिङ्गत्वेनेति ॥
1.क्तनुप-ग-ख. 2.ऽनऽ इति नास्ति -ग-छ-क-ख-रा. 3.वाप्र-ग-छ. 4.ब्धिरिति विग्रहः -इ. 5.ऽतुऽ इति नास्ति -इ. 6.वे ऽनु-मु.
वर्णा-त्वस्य-प्रत्व-भङ्गः) वर्णवादः पु - 393.
----------------------- --------- ----------
न चाधिकरणयोग्यतायास्तन्त्रत्वे आत्मादौ धर्माद्यभावोपि प्रत्यक्षः स्यादिति शङ्क्यम् । संसर्गाभावग्रहे त्वदभिमता प्रतियोग्यतापि तन्त्रमिति मया स्वीकृतत्वात् । दृष्टानुसारिणी हि कल्पना ।
ध्वनिध्वंसोपि योग्यानुपलब्धिरूपलिङ्गगम्य एव । न तु प्रत्यक्षः । अत एव ॥
"क्वचिद्घटाद्यभावोपि प्रत्यक्षेणावगम्यते ।"इति ब्रह्मतर्के,"अभावो ऽनुमा प्रत्यक्षं च परामर्शापरामर्शाविशेषादिति"प्रमाणलक्षणे,"प्रायेणानुमाने ऽन्तर्भाव 1 ज्ञापनाय क्रमोल्लङ्घन"मिति प्रमाणलक्षणटीकायां च, प्रत्यक्षप्रतियोगिकाभावस्यापि क्वचिदेव प्रत्यक्षत्वमुक्तम् ॥
कुसुमाञ्जल्याद्युक्तमाशङ्कते - न चेति ॥ तन्त्रत्व इति ॥ अभावप्रत्यक्षत इति
शेषः -- प्रतियोगियोग्यतापीति ॥ एतेन"अधिकरणयोग्यत्वं भेदग्रहे तन्त्र"मिति सुधोक्तिः"प्रतियोगियोग्यत्वं तन्त्र"मिति लक्षणटीकोक्तिश्चाविरुद्धोपपादिता ज्ञेया -- अत एवेति ॥ प्रागभावादिरूपसंसर्गाभावग्रहे ऽधिकरणप्रतियोगिनोर्द्वयोरपि योग्यत्वस्यापेक्षितत्वादेवेति 2 बाहुल्येनानुमानान्तर्भावादेवेत्यर्थ। क्वचिदेव प्रत्यक्षत्वमुक्तमित्यन्वयः । तत्वनिर्णयोक्तब्रह्मतर्कवाक्ये इत्यर्थः -- क्रमेति ॥ अभावो ऽनुमा प्रत्यक्षं चेति 3 मुलवाक्यं प्रत्यक्षमनुमा चेति वक्तव्ये
अनुमाप्रत्यक्षञ्चेति ----
1.सूचनाय-ग-कथनाय-क. 2.ऽवाऽ त्यधिकम्-मु. 3.इतः, ऽक्रमव्यत्यासोऽ इत्येतत्पर्यन्तं नास्ति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 394.
----------------------- ---------- ---------
तस्माद्वर्णानित्यत्यवादिनस्तव रीत्यापि वर्णध्वंसग्रहे सहकारि 1 णो ऽभावात्प्रत्यासत्त्याभावाच्च तदनित्यत्वे न प्रत्यक्षं मानम् ॥
शब्दानित्य 2 त्वस्य प्रत्यक्षत्वभङ्गः

11.23

-- क्रमव्यत्यासो बाहुल्येनाननुमानान्तर्भावद्योतनायेति टीकार्थः 4 -- सहकार्यभावादिति ॥ योग्यानुपलब्धिरूपसहकार्यभावादित्यर्थः -- प्रत्यासत्तीति ॥ इन्द्रियविशेषणतादेर्दूषितत्वादिति भावः ।"न प्रत्यक्षम्"इति पदविभागः ॥
वर्णानित्यत्वस्य 5 प्रत्यक्षत्वभङ्गः

11.24

ननु तर्हि योग्यानुपलब्धिरूपं लिङ्गं वर्णध्वंसादौ मानम 3 स्त्विति चेन्न । व्यञ्जकाभावेनाप्यनुपलम्भसंभवेन विशेषणासिद्धेः ॥
"व्यञ्जकभावाभ्यामेवोपलम्भानुपलम्भा"विति तत्वनिर्णयटीकां हृदि कृत्वाऽह -- व्यञ्जकेति ॥ ध्वनिरूपव्यञ्जकेत्यर्थः -- विशेषणेति ॥ प्रतियोग्यनुपलम्भक 6 सहितानुपलब्धेरेव
योग्यानुपलब्धित्वाद्व्यञ्जकाभावनिबन्धनानुपलब्ध्यभावनिश्चयेंऽधकारावृत्ते घटवति गेहे घटाभावप्रमापातादिति भावः ॥
र्1.यभा-ग. 2.त्वप्र-ग. 3.स्ती-ख-रा. 4.ततः ऽप्रत्यासत्तीतिऽ इत्येवास्ति - इ. 5.त्वप्र -मु. 6.म्भस-इ.
वर्णानित्यत्वे अनुमानभङ्गः) वर्णवादः पु - 395.
-------------------------- -------- --------
एतेन वर्णाः 1 प्रयत्नोत्पाद्यः 2 तदनभिव्यङ्ग्यत्वे सति तदनन्तरमुपलभ्यमानत्वात् घटवत् इति निरस्तम् । विशेषणस्यापाततः सन्दिग्धासिद्धेः । विमर्शे वक्ष्यमाणरीत्या 3 निश्चितासिद्धेश्च ॥
एतेनैव वर्णो ऽनित्यः उत्पत्तिमत्वे सति भावत्वत् , सामान्यवत्वे सति अस्मदादिबहिरिन्द्रिय 4 ग्राह्यत्वात् 5 घटवत्, प्रत्यक्षविशेषगुणत्वात् घटरूपवत्,
मणिकृदाद्यभिमतहेतूनाशङ्क्य निराह - एते 6 नेति ॥ प्रयत्नाभिव्यङ्ग्ये प्रयत्नानन्तरमुपलभ्यमाने व्यभिचारनिरासाय हेतौ तदित्यादिसत्यान्तम् । गगनादौ तन्निरासाय विशेष्यम् -- आपातत इति ॥ नित्यत्वसाधकविसेषादर्शनदशायामित्यर्थः -- विमर्श इति ॥ उत्तरभङ्गे वक्ष्यमाणदिशा प्रत्यभिज्ञाविरोधादनित्यो न भवतीति विशेषदर्शने सतीत्यर्थः ।
एतेनैवेति ॥ ध्वंसे व्यभिचारनिरासाय हेतौ भावत्वादिति विशेष्योक्तिः । गगनादौ तन्निरासाय सत्यन्तम् । द्वितीयहेताविन्द्रियप्रत्यक्षत्वादित्यस्यैन्द्रियकरणज्ञान 7 विषयत्वादित्यर्थः । क्वचिदिन्द्रियग्राह्यत्वादित्येव पाठः । तत्र प्रत्यक्षत्वमात्रस्यात्मनि व्यभिचारात् बहिरिन्द्रिये 8 त्युक्तिः । तथापि योगिबहिरिन्द्रियप्रत्यक्षत्वमादायोक्तदोषनिरासाय -- अस्मदादीति ॥ घटत्वादौ तन्निरासाय सत्यन्तम् । तन्मात्रस्यात्मन्यपि सत्वाद्विशेष्यम् । तृतीये च गुणत्वमात्रस्य गगनादिपरिमाणादौ, --
र्1.णाः -छ. 2.द्याः -छ. 3.संदिग्धा -क. 4.प्रत्यक्षत्वात् -ग. 5.च इत्यधिकं-छ. 6.नैवेति -अ. 7.करणत्वात्-अ. 8.ग्राह्येत्यधिकं -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 396.
----------------------- ------------- --------
उत्कर्ष 1 वत्वात् मधुरादिरसवत् बहिरिन्द्रियव्यवस्थापकगुणत्वात् घट 2 रूपवदित्यादि 3 मण्युक्ता 4 नुमानं तत्र मानम् । विपक्षे च शब्दध्वंसग्राह्यकप्रत्यक्षानुपपत्तिर्बाधिकेति निरस्तम् । विपक्षे बाधकस्यैव निरासात्॥
विशेषगुणत्वस्य जलपरमाण्वादिरूपादौ, प्रत्यक्ष 5 गुणत्वमात्रस्य चात्मकत्वादौ, सत्वाद्व्यभिचारनिरासाय प्रत्यक्ष 6 गुण्त्वादित्युक्तिः -- उत्कर्षेति ॥ उत्कर्षवत्वे सत्यपकर्षवत्वादित्यर्थः । एकैकस्य गगना 7 दिपरिमाणे परमाण्वादिपरिमाणे च सत्वादुभयोक्तिः । तारमन्द्रत्वादिरूपोत्कर्षादिः पक्षे, दृष्टान्ते च माधुर्यादिशयादिः, तथापि जातिरूपोत्कर्षादिरुभयत्र सम इति भावः -- बहिरिन्द्रियेति ॥ शब्दज्ञानं करणसाध्यम् कार्यत्वात् इति करणसामान्यसिद्धौ चक्षुरादेरूपादिज्ञानकरणत्वादिना शब्दज्ञानहेतुत्वात्परिशेषाच्चक्षुरादिबाह्येन्द्रियचतुष्टयादन्यच्छोत्रेन्द्रियं सिद्ध्यतीति श्रोत्ररूपबिहिरिन्द्रियव्यवस्थापकगुणत्वादित्यर्थः । गुणत्वमात्रस्य गगनादिपरिमाणादिगुणे इन्द्रियव्यवस्थापकगुण 8 त्वास्यात्मगतैकत्वादौ बहिरिन्द्रियव्यवस्थापक 7 त्वमात्रस्य रूप 10 त्वरसत्वेन व्यभिचारनिरासाय बहिरिन्द्रियव्यवस्थापकगुणत्वादित्युक्तम् । ननु
चैतद्वृनाव 11 प्यस्तीति चेत् किं तावता । यथोक्तसाध्यस्यापि तत्र सत्वात् -- तत्रेति ॥ वर्णानित्यत्व इत्यर्थः । एतेनेत्युक्तं व्यनक्ति -- विपक्ष इति ॥
1.कत्वात् -ग. 2.ऽगतऽ इत्यधिकम्-छ-ख-क-रा. 3.मण्युक्तेति नास्ति -ग-ख. 4.क्तमनु-छ-ख-रा. 5.क्षादि-इ. 6.विशेषेत्यधिकं-इ. विशेष्येत्यधिकं-अ. 7.आदिपदं न -इ. 8.णस्य-अ. 9.कमा-अ. 10.त्वरसत्वादौ सत्वेन -इ.अ. 11. न्यादाव-मु.
वर्णा-त्वे ऽनु-मान-भङ्गः) वर्णवादः पु - 397.
----------------------- ---------- ----------
आद्ये हेतावुत्पत्तिमत्वस्य द्वितीये प्राभाकरं प्रति सामान्यवत्वस्य नैयायिकं प्रत्यपि क्षिणिके 1 शब्दे विषयजन्येन्द्रियकरणकज्ञानविषयत्वस्य तृतीयपञ्चमयोर्मां प्रति गुणत्वस्य चतुर्थे उत्कर्षवत्वे सत्यपकर्षवत्वस्य मन्द्रतमे तारतमे चासिद्धेश्च ।
प्रातिस्विकदोषं चाह -- आद्य इत्यादिना ॥ षष्ठ्यन्तानामसिद्धेश्चेत्य 2 नेनान्वयः । उत्पन्नो गकार इति मण्युक्तप्रतीतिस्तु नास्त्येवेति भावः -- प्राभाकरं प्रतीति ॥ तस्यापि वर्णनित्यत्ववादित्वेन तं प्रत्यपि प्रयोज्यत्वात् । नित्यत्ववादे गकारादिव्यक्तेरेकत्वेन तत्र सामान्याभावात् । गुणत्वपक्षेपि तेन गुणगतजातेरनङ्गीकारादिति भावः । तं प्रति हेत्व 3 न्तरं भविष्यतीत्यत आह -- नैयायिकं प्रतीति ॥
तन्मते कदम्बमुकलादिन्यायेन भेरीदाडनो 4 च्चारणा 5 तिदेशाच्छ्रोत्रदेशपर्यन्तं सजातीयशब्दपरंपरोत्पत्तेः । अन्त्योपान्त्यशब्दयोः सुन्दोपसुन्दन्यायेनान्यनाशस्य च स्वीकारात् । सर्वशब्दानामिवान्त्य 6 स्यापि त्रिक्षणस्य 7
त्वोपगमेनान्त्यशब्दस्थितिक्षणस्यैवोपान्त्यशब्दस्य विना 8 शक्षणत्वादन्त्यस्य तृतीयक्षणे पूर्वशब्दस्य ध्वंसेनान्त्यस्य विनाशकाभावे नित्यतापत्तेः । क्षणिकत्वे चोपान्त्यशब्दविनाशक्षणस्यैवान्त्यशब्दविनाशक्षणत्वेन नित्यत्वापत्तिदोषाभावात्क्षणिकत्वं स्वीकृतम् । अतस्तस्मिन्ज्ञानात्पूर्ववृत्तित्वस्याभावेन ज्ञानजनकेन्द्रियसन्निकर्षायोगात् विषयजन्यं इन्द्रियकरणकं यज्ज्ञानं 9 तद्विषयत्वस्यासिद्धेरित्यर्थः ।
मांप्रतीति ॥ मन्मते वर्णस्य द्रव्यत्वादिति भावः -- शब्दत्वस्येति ॥
1.केन्त्यशब्दे-ग. कशब्दे-ख. क्षणिकपदं न -क. 2.त्यन्वयः- इ. 3.त्वनन्तरमितिशोधितम् -अ. 4.नादिदेशा-इ. 5.णादिदे-अ. 6.शब्दस्यापि -इ. 7.वर्तित्वेन -इ. 8.नश्यत्क्षण -अ. 9.तदिन्द्रियत्वस्या -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 397.
----------------------- ---------- ----------
शब्दत्वरसत्वादिना सांकर्यप्रसङ्गेन शब्दे रसे चैकस्या उत्कर्षादिरूपा 1 या
जातेरभावेनासिद्धिसाधनवैकल्यान्यतरापाताच्च ॥
न चोत्कर्ष 2 स्य गुणत्वव्याप्यजात्या 3 सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वेन, अपकर्ष 4 स्य --
तारत्वस्य शब्दत्वपरिहारेण रसे, शब्दत्वस्यापि तारत्वपरिहारेण मन्दशब्दे, तारशब्दे च तारत्वशब्दत्वयोरुभयोर 5 पि समावेशेन
"व्यक्तेरभेदस्तुल्यत्वं संकरोथानवस्थितिः ।
रूपहानिरसंबन्धो जातिबाधकसंग्रहः ॥"
इति कारिकोक्तसांकर्यरूपजातिबाधकेन तारत्वादेर्जातित्वायोगात् । 6 एवं रसत्वादिनापि सांकर्यं ध्येयम् ॥

नच तर्हि शब्दत्वस्यैव जातित्वं त्यज्यतामिति वाच्यम् । तस्यानुगकप्रतीत्यादिना जातित्वस्य परमते सिद्धत्वादिति भावः ॥
सजातीयेति ॥ पक्षे शब्दान्तरं दृष्टान्ते रसान्तरं ध्येयम् । तारशब्दश्रवणे शब्दान्तचरस्यानुपलम्भात् । यद्यपि मणौ सजातीयेत्याद्येवोक्तम् । तथापि सुखादिसाक्षात्काराप्रतिबन्धकत्वात्तव्द्यावृत्तये तदीयटीकोक्तस्यानुवादो -- गुणत्वव्याप्यजात्येति ॥ प्रतिबन्धकत्वमात्रे तूक्ते फलोपधान 7 प्राप्तौ बुभुत्सावशान्मन्देपि शब्दे गृह्यमाणे तारशब्दस्याप्रतिबन्धकतया तत्साधारणानुगतधीसिद्ध्यर्थं तदवच्छेदकत्वेनेत्युक्तम् ।
1.पजा-छ. 2.त्वस्य-ख. 3.स्वजा-छ. सजातियाप्रतिबध्यसाक्षात्कारविषतावच्छेदकत्वेन -ख. 4.त्वस्य-ख. 5.अपिपदं न -इ. 6.एवमित्यादि नास्ति-इ. 7.नाप्रा - इ.
वर्णा-त्वे ऽनु-मान-भङ्गः) वर्णवादः पु - 399.
---------------------- -------- -----------
चोक्तजात्या 1 सजातीयप्रतिबध्यसाक्षात्कारविषयतावच्छेदकत्वेनानानुगम इति वाच्यम् । उक्तरूपस्योत्कर्षस्य वा परिमाणे ऽभावेनैकस्य 2 हेतुत्वे ऽपि परममहत्परिमाणाणुपिरमाणयोर्व्यभिचाराभावेनोभयग्रहणवैयर्थ्यात् । उत्कर्षापकर्षयोः प्रत्येकं 3 हेतुत्वे च य 4 थोक्तमन्द्रतमतारतमयो 5
र्भोगासिद्ध्यपरिहारात् । 6 उक्तहेतुपञ्चकेपि श्रोत्रावृत्तित्वस्योपाधित्वाच्च ।
तथा च तत्र बुभुत्सोत्तेजिकेति भावः - उक्तेति ॥ गुणत्वव्याप्यजात्येत्यर्थः । तारशब्दश्रवणे सत्यपकृष्ठशब्दानुपलम्भादिति भावः ॥
किञ्चायं विशिष्ट ए 7 के हेतुरुत प्रत्येकं हेतुः ? आद्ये गगनपरिमाणे चाव्यभिचाराय हि विशेष्यं चेति वाच्यम् । न च तत्र व्यभिचारप्रसक्तिरस्ति । स्वस्य साक्षात्काराभावात् । सजातीयसाक्षात्कारप्रतिबन्धकत्वाभावाच्चेति भावेनाह -- उक्तरूपस्येति
॥ परिमाणे गगनादिपरिमाणे -- अभावेनेति ॥ तत्र साक्षात्काराप्रसक्तेरिति भावः ॥
अन्त्ये दोषमाह -- उत्कर्षेति ॥ श्रोत्रवृत्तित्वस्येति ॥ तस्य घटादौ रूपरसादौ च साध्यव्यापकत्वात्साधनवति पक्षे शब्दे ऽभावेन साधनाव्यापकत्वात् । यदिन्द्रियं 8 यद्गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तमितिन्यायेन शब्दस्य श्रोत्रवृत्तित्वादिति भावः ॥
1.स्वजा -छ. 2.कैकस्य -ग-छ-ख. 3.कहे-ग. 4.थाक्रमं -ग-ख. 5.भागपदं न -छ. 6.उक्तेत्यादिग्रन्थः नास्ति
-ख-क-रा. 7.एवोक्तो-इ. 8.यत्पदं नास्ति-अ.
न्यायदीपयुततर्कताण्डवम् ( प्र.परिच्छेदः पु - 400.
------------------------ ------------ ----------
विपक्षाच्छ्रोत्रवृत्तिपरिमाणतो व्यावृत्तत्वान्न पक्षेतरता ॥
वर्णानित्यत्वे ऽनुमानभङ्गः

11.24

न च श्रोत्रमशकसंयोगादौ साध्यव्यापकत्वम् । श्रोत्रेतरावृत्तित्वे सति श्रोत्र 3 वृत्तित्वा 4 भावस्याभिमतत्वात् । न च सिद्धान्ते ऽथापि दोषः । पररीत्या परस्य दोषोक्तेरिति भावः ॥
पक्षमात्रव्यावर्तकश्रोत्राख्यविशेषणवत्वात्पर्वतेतरत्वादेरिव नोपाधित्वमस्येत्याशङ्क्याह -- विपक्षादिति ॥ श्रोत्रस्याकाशात्मकत्वेन तत्परिमाणस्याजन्यत्वादिति भावः । एतच्चोपलक्षणम् । बाधादिस्थले
पक्षेतरत्वस्याप्युपाधित्वस्वीकारात् । प्रकृते विपक्षे बाधकाभावस्येह प्राग्व्यक्तत्वेन हेतूनामप्रयोजकत्वस्य वक्ष्यमाणदिशा बाधस्य च निर्णयेन पक्षेतरत्वस्याप्युपाधित्वे दोषो नेत्यपि ध्येयम् ॥
वर्णानित्यत्वे 5 नुमानभङ्गः

11.25

किञ्च स एवायं गकार इति प्रत्यभिज्ञान 2 बाधः ।
"तदेवेदं वचनमिति प्रत्यभज्ञानविरोधात् । न च सादृश्यात्प्रत्यभिज्ञान भ्रान्तिरिति वाच्यम् । सोय देवदत्त इत्यादेरपि तथात्वप्राप्तेः"इति तत्वनिर्णयतट्टीकयोरुक्तं व्यक्तीकुर्वन् उक्तहेतूनां बाधितविषयत्वं चाह -- किञ्चेति ॥ यद्यपि प्रत्यभिज्ञान न वर्णनित्यत्वं विषयीकरोति । तथापि पूर्वं गकारं श्रुतवतः पुनस्तच्छृवणे स एवायं गकार इति --------
1.त्वानु -ग-ख. 2.विरोधः-क-रा. 3. त्रा - इ. 4.त्वभा-इ. 5.त्वानु-अ-इ.
वर्णानित्यत्वे प्रत्यभिज्ञाविरोधः) वर्णवादः पु - 401.
---------------------------- -------- --------
न च तानेव शालीनु 1 पभुञ्जमह इत्यादिवत्सोयं गकार इति व्यपदेशो गौण इति वाच्यम् । प्रत्यभिज्ञाबाध उक्ते व्यपदेशगौणत्वशङ्क्या व्यधिकरणत्वात् । प्रत्यभिज्ञायाश्च 2 स्थायिपदार्थान्तर इवात्राप्यनुभवचसिद्धत्वात् । ते शालय इमे शालयो न भवन्तीतिवत् स गकारो ऽयं गकारो न भावतीति भेदप्रत्ययाभावाच्च ॥
- जायमाना प्रत्यभिज्ञा प्रोक्तनस्येदानीन्तनेनैक्यं गोचरयन्ती तावत्कालस्थिरत्वमवगाहत इति --
तावत्कालं स्थिरं चैनं कः पश्चान्नाशिष्यति ।
इति न्यायेन पराभिमताशुतरविनाशस्य व्यचिरेकान्नित्वत्व एव पर्यवस्यतीति मण्युक्तदिशा वा टीकोक्तदिशा 3 पूर्वं पूर्वतरं पूर्वतममप्येवमित्यनादिनित्यतैव सिद्ध्यतीति भावेन प्रत्यभिज्ञाबाध इत्युक्तम् ॥
अत्र चत्वारः पक्षाः सम्भवन्ति । ज्ञानमेवेदं नेति वा, ज्ञनत्वेप्यभिज्ञैव न प्रत्यभिज्ञेति वा, प्रत्यभिज्ञात्वेपि जात्य 4
भेदविषयेति वा, व्यक्त्यभेदविषत्वेपि भ्रान्तिरिति वा । तत्राद्यं कुसुमाञ्जल्याद्युक्तमाशङ्क्य निराह -- नचेति ॥ शालीन् सूक्ष्मव्रीहिवेशेषात् । ज्ञानमेवेदं नेत्युच्यत इत्यत आह -- प्रत्यभिज्ञाया इति ॥ स्थायीति ॥ सोयं देवदत्त इत्यादाविवि स एवायं गकार इति प्रत्यभिजानामीत्यनुभवसिद्धत्वादित्यर्थः । तत्राप्येवमनुभवो ऽस्तीत्यतस्तत्र विपरीतदर्शनान्न प्रत्यभिज्ञानुभवस्य भावोस्ति । अस्ति चेदपि भ्रम एव । प्रकृते तु न तथेति भावेनाह ॥ ते शालय इति ॥
1.न्भुञ्जत-ग. न्यभुञ्महे-छ-क. ऽभ्रजामऽ इति शोधितम् -छ-न्भुञ्जानः -ख. 2.च इति नास्ति -ग. 3.पूर्वपूर्वतपमप्येव-इ.
पूर्व पूर्वतममप्ये -अ. 4.तिभे-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 402.
------------------------ ----------- ---------
न चैवं प्रत्यभिज्ञा पुरोवर्तिनि गकारे गत्वेनोपस्थितगकाराभेदविषया, सा च पुरोवृत्तिगकारस्य स्वाभेदेनाप्युपपन्ना, न तु 1 तत्काला 2 द्यवच्छेदेनोपस्थितगकाराभेदविषयेति वाच्यम् । प्रत्यभिज्ञान्तरवत् सोयमिति तत्तेदन्ताधिकरणाभेदप्रतीतेः ॥
नन्वियं गत्वादिजात्यभैदविषया । न च तथात्वे तज्जातीयोयमित्याकारः स्यादिति वाच्यम् । जात्यभेदादधिकस्य जादिगतस्य जातित्वस्य चप्रतीतावेव तदाकारादिह च जातित्वस्याप्रतीतेरिति चेन्न ।
द्वितीयं पक्षमनूद्य निराह -- न चेयमिति॥ प्रतभिज्ञेति ॥ तव प्रत्यभिज्ञात्वेनाभिमतेत्यर्थः -- उपपन्नेति ॥ तथा चाभिज्ञैव जाता न तु प्रत्यभिज्ञेति भावः -- तत्कालेति ॥ अतीतकालेत्यर्थः ॥
तृतीयं पक्षमाशङ्कते -- नन्विति ॥ तथा सति तज्जातियोयमिति स्यादिति मणिग्रन्थोक्तं निराह -- न च तथात्व इति ॥ तज्जातियोयमित्यस्य तन्निष्ठजातिमानयमिति 3 ह्यर्थः । स चाकारो जातित्वभान एव युक्तो नान्यथेति भावः । सामान्यनित्यतायाः प्रमामविरुद्धत्वादिति स्वमतावष्टम्भेन वास्तवमुपेत्य
टीकायां परिहारोक्तावपि पररीतिमनुसृत्य स्वयं परिहारमाह-- तारत्वादिनेति ॥
1.ऽतत्ऽ इति नास्ति -छ-क-रा. 2.आदिपदं न -छ-क. 3.ऽहिऽ इति नास्ति -इ-अ.
वर्णा-नित्वे-प्रज्ञा-विधः ) वर्णवादः पु - 403.
---------------------- ----- -------
तारत्वादिना 1 सांकर्यस्य वक्ष्यमाणत्वेन गत्वादिजातेरेवाभावात् । स एवायं घट इत्यादेरपि तथात्वापातेन व्यक्त्यभेदस्य क्वाप्यसिद्ध्यापत्तेश्च । 2 क्वापि प्रत्यभिज्ञाया भ्रन्तित्वाभावापत्तेश्च । घटान्तराद्ग्रृहीतभेदेपि घटे स एवायं घठ इति प्रत्यभिज्ञाप्रसङ्गाच्च ॥
किञ्च प्रत्यभिज्ञाजनके स एवायं गकार इति वाक्ये स इत्यस्य जातित्वे ऽयमित्यस्य च व्यक्तिपरत्वे जात्या सह व्यक्तेरेवाभेदः प्रती 3 येत न तु जात्या सह जातेः । तथा च निरसिष्यमाणभ्रान्तित्वपक्ष एवान्तर्भावः स्यात् ॥
क्वापीति ॥ सो ऽयं 4 देवदत्त इत्यादा 5 वपि जातिविषयत्वस्य वक्तुं शक्यत्वादिति भावः -- घटान्तरादिति ॥ तत्राप्यनुगतजातेः सत्वादिति भावः । जात्यभिप्रायेण तादृशप्रत्यभिज्ञापादनमिष्टमिति मन्वानं प्रत्याह --- कञ्चेति ॥ शाब्दप्रत्यभिज्ञायां या विषयव्यवस्था सैव प्रत्यभिज्ञायामपि भविष्यति । तथा च 6 तत्र सोयमिति तदिदंशब्दाभ्यां किं जातिव्यक्त्योरुक्तिरथ जातेरेव उत व्क्तेरेवेति वाच्यम् । पक्षान्तरासंभवात् । आद्येपि 7 व्यक्तेर्जात्यभेदोपि किं साक्षादथ परंपराय 8 वा । तत्राद्यं निराह -- प्रत्यभिज्ञाजनक इति ॥
1.संकरस्य-छ-ख-क-रा. 2.अद्यापि-क. 3.यते- छ-क. 4.दीप इत्या-अ. 5.देरपि-इ. 6.ऽकिंऽ इत्यधिकम्-अ-इ. 7.व्यक्तिजात्योरभे-मु. 8.ऽवाऽ इति नास्ति - अ- इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 404.
------------------------ ------ --------
नच जात्यभेदोपि व्यक्तौ परंपरासंबन्धेनास्तीति न भ्रान्ति 1 त्वमिति वाच्यम् । क्वापि व्यक्त्यमेदा 2 सिद्ध्यादि पूर्वोक्तदोषात् ॥
उभयोरपि जातिपरत्वे च व्यक्तिवाचकगकार 3 सामानाधिकरण्य 4 मुक्तम् । उभयोरपि व्यक्तिपरत्वे तु शब्दजन्यप्रत्यभिज्ञा
व्यक्त्यभेदविषयेति प्रत्यक्षप्रत्यभिज्ञापि तद्विषयैव । तयोः करणकृताभ्यां परोक्षत्वापरोक्षत्वाभ्यां भेदेपि विषयकृतभेदाननुभवात् ॥
न चैवं सोयं कुन्तलकलाप इत्यादिवद्भ्रान्तिः ।
भ्रान्तित्वप्रक्ष एवेति ॥ तथा च तन्निरासेनायं पक्षो निरस्तो भविष्यतीति भावः ।
अन्त्यमाशङ्क्य निराह -- न चेति ॥ जातेर्जात्यभेदः साक्षात् तत्समवायसंबन्धेन व्यक्ताविति परंपरयेति 5 भावः । द्वितीयं निराह -- उभयोरपि 6 जातीति ॥ तृतीयं निराह -- उभयोरपि 7 व्यक्तीति ॥
नन्वस्तेवं प्रत्यभिज्ञा गकार 8 व्यक्त्याक्यविषा । तथापि सा भ्रान्तिरस्तु । परि 9 लूनपुनर्जातकुन्तलकलापयोः सादृश्यान्निमित्तात्सोयं कुन्तलकलाप इति प्रत्यभिज्ञावदिति चतुर्थं पक्षमाशङ्क्यते -- न चेति ॥ तत्र परि 10 लूनकुन्तलसमूहस्य भूमौ पतितस्य दर्शनेन नायमसाविति बाधकज्ञानोदयवदिह तदभावादित्याह -- बाधकेति ॥
1.न्तिरित -ख-रा. 2.दसि-ग. 3.ऽगऽ इत्यधिकम्-ग. 4.मयुक्तं-ग-छ-रा. 5.त्यर्थः-अ-इ. 6.जातिपदं न -इ. 7.व्यक्तीति इत्येवास्ति -इ. 8.आदित्यधिकम् -अ-इ. 9.धून-अ. 10. धून-अ.
वर्णा-नित्वे-प्रज्ञा-विधः ) वर्णवादः पु - 405.

---------------------- --------- -------
न च भेदधीर्बाधिका । स गङ्कारोयं गकारो न भवतीति विशे 1 ष्ये भेदबुद्धेरभावात् ॥
तारो गकारो मन्द्रो न भवतीति धिस्तु विशेष्याभेद 2 ज्ञानेन पाकरक्ते घटे न श्याम इतिवत्, मुण्डिते यैत्रे न शिखीतिवच्च विशिष्टभेदविषयैव । न विशेष्यभेदविषया ॥
इयांस्तु 3 भेदः ; तद्विशिष्टं मम पदार्थान्तरम्, तव तु विशेषणोपरक्तं विशेषणविशेष्यसंबन्ध एव वेति । उभयथापि न विशेष्याभेदहानिः ॥
ननु 4 बाधकदर्शनाद्बाधकाभावादित्यसिद्धमिति चेत्तत्किं भेदज्ञानमुतोत्पत्तिविनाशज्ञानमथ विरुद्धधर्मवत्वज्ञानम्, यद्वा गत्वादिव्याप्यजातिविशेषानुभवरूपज्ञानं बाधकम् । आद्यमाशङ्क्य प्रत्याह -- न चेति ॥ 5 न बाधकेत्यतः सा किं विशेष्यभेदविषयाथ तारत्वादिविशिष्टभेदविषयेति 6 विकल्प्यद्यं निराह -- स इति ॥ द्वितीयेत्विशिष्टापत्तिरिति भावेनाह -- तार इति ॥ विशिष्टभेदधीर्बाधान्न विशेष्यभेदविषयणीति भावेनोक्तम् -- विशेष्याभेदज्ञानेनेति ॥ हेतुनेति शेषः ॥
ननु, विशिष्टं न विशेष्याधितो ऽतिरिक्तमिति मते अस्तु विशेष्यभेदविषयेत्यत आह -- इयांस्तु भेद इति ॥ उपरक्त विशेष्यमेव न तु केवलमित्यर्थः ।
1.शिष्य-च-शेष्य-क. 2.मानेन-ऽमात्रेणऽ इति शोधितम् ऽविशेष्याभेदमानेनऽ इत्येतदुपरिरेखाभिः पराहतम्-छ. ष्यभेदभानेन -रा-ग-क. 3.विशेषः -ख. 4.बाधकाभावादित्येवास्ति -अ-इ. 5.ऽ कुतःऽ इत्यधिकम् - अ. ऽ नबाधकेत्यतऽ - इति नास्ति -इ. 6.इति ऽ विकल्प्यऽ इति नास्ति -इ-अ. 7.पराह-अ-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 406.
----------------------- ---------- --------
नापि तारो नष्टो मन्द्र उत्पन्न इत्युत्पत्यादिधीर्बाधिका । पाकरक्ते श्यामो नष्ट इत्यादिवन्मन्मते विशिष्टनाशविषयत्वेन त्वन्मते तु विशेषणनाशिविषयत्वेन मतद्वयेपि विशेष्यनाशाविषयत्वात् ॥
1 नापि तारत्वादिविरुद्धधर्मसंसर्गधीर्बाधिका । योगकारो 2 मन्द्रः स एव तार इति सामानाधिकरण्यानुभवेनैकस्मिन्नैव चैत्रे शिखित्वमुण्डित्ववद्घटे श्यामत्वरक्तत्ववत्, गगने शब्दतदभाववत्, आत्मन्यदृष्टतदभाववच्च, गगने शब्दतदभाववत्, आत्मवियदृष्टतदभाववच्च काला 3 दिभेदेनाविरोधात् ॥
न चैकदैव चैत्रमैत्रोच्चारितयोर्गकारयोस्तारत्वमन्द्रत्वे दृश्यते इति वाच्यम् । एकदैव गगने विहगदेहसंयोगतदभाववत्, आत्मनि सुखदुःखा 4 दिवच्च
प्रदेशभेदेनाविरोधात् । स च प्रदेशभेदो मम स्वाभाविकः तव त्वौपाधिक इत्यन्यभेदेवैतत् ॥
तथा च त्वन्मते स्वर्गी ध्वस्त इत्यादाविवेहापि विशेषणभेदविषयैव स्यादिति भावः । द्वितीयं बाधकं निराह -- नापि तार इति ॥
तृतीयं निराह -- तारत्वेति ॥ स किं तारत्वादिरौपाधिको धर्मः ? उत जातिरूपः ? आद्य आह-- यो गकार ॥ इति कालादिभेदेनेति ॥"एकस्यैव वर्णस्य काल 5 भेदेनोच्चारयितृपुरुषभेदेन नासिकादिस्थानभेदेन विरुद्धधर्माध्या 1 सोपपत्तेरिति"तत्वनिर्णयटीकोक्तेरिति भावः ॥
1.न च - मु-च-छ-क-रा. 2.सर्वत्र ऽन्दऽ इत्येवास्ति -छ-क-ग-ख. 3.आदिपदं नास्ति -छ-क-ग-ख. 4.आदिपदं न -छ-ग-ख. 5.आदित्यधिकम् -अ.
वर्णा-नित्वे-प्रज्ञा-विधः) वर्णवादः पु - 407.
-------------------- -------- ---------
न च तारत्वादीनां जातित्वान्न कालादिभेदेनाविरोध इति वाच्यम् । त्वन्मते गत्वादिना संकरात्सावधिकत्वाच्च । न हि जातिः सावधिका । तारेप्यन्यापेक्षया मन्द्रत्वस्य मन्द्रेप्यन्यापेक्षया तारत्वस्य सत्वेन तुल्यव्यक्तिकत्वाच्च । तारतमत्वादेरपि पाचकतमत्वादिवदतिशयविशिष्टौपाधिकधर्मत्वात् ॥
न च गत्वादिव्याप्यतारत्वादीनां नानात्वादसंकरः । सर्वत्राप्येवं सुपरिहरत्वेन तस्यादोषत्वापातात् ॥
द्वितीयमाशङ्क्य निराह -- न च तारत्वा 2 दीनामिति ॥ गत्वपरिहारेण तारत्वस्य वर्णान्तरे तारत्वपरिहारेण गत्वस्य मन्दगकारे, तारगकारे च गत्वतारत्वे 3 द्वे अपि स्त इति न जातित्वं तारत्वस्य । एवं मन्दत्वादेरपीति भावः -- सावधैकत्वाच्चेति ॥ तारत्वस्य मन्दापेक्षात्वान्मन्दत्वस्य तारापेक्षत्वादिति भावः ॥ तुल्येति ॥ यान्तस्तारगकारास्तावन्तो मन्दाश्च भवन्तीति गत्वतारत्वमन्दत्वानां घटत्वकरीरत्वकलशत्वानामिव न जातित्वम् । किं तु गत्वादिरेव जातिः । न तु तारत्वादिरिति भावः ॥
ननु तारत्वादेरजातित्वे तारतमत्वादेरपि तथात्वं स्यादित्यतः स्यादेवेत्याह -- तारेति ॥ 4 अतुल्यव्यक्तिकत्वात्तारतमत्वं जातिः स्यादित्यतो वाह -- तरेति ॥ तस्येति ॥ संकरस्य जातिबाधकत्वानापत्तेरित्यर्थः ।
1.सापत्ते-मु. 2.आदिपदं नास्ति -इ-अ. 3.ऽद्वेऽ इति नास्ति -इ. 4.इयमचवतारिका नास्ति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 408.
------------------------ ---------- ----------
अत एव स्वर्णत्वादिव्याप्यघटत्वादिकमपि नाना । घटत्व्स्यावयवसंयोगविशेषरूपसंस्थानविशेषसमानाधिकरणद्रव्यत्वरूपौपाधिकधर्मत्वादिसंभवात् । तारत्वादेर्नानात्वे
ताराकारानुगतप्रत्ययानुपपत्तेश्च ॥
न च भिन्नानामपि जातीनां तारशब्दप्रवृत्तिनिमित्तत्वेनानुगमादेकाकारप्रत्ययः । अगृहीतसमयस्य बालस्यापि ताराकारानुगतप्रत्ययात् ॥
न च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदक 1 जितित्वेनानुगमः । आवश्यकेनोक्तप्रतिबन्धकत्वेनैव शब्दप्रवृत्तिव्यवहारयोरुपपत्तौ जातिकल्पनावैयर्थ्यात् ॥
नन्वेवं नानात्वेन सांकर्यस्यापरिहचार्यत्वे स्वर्णघटे घटत्वं जातिर्न स्यात् । नानात्वेनैव तत्र जातिसांकर्यस्य परिहार्यत्वादित्यत आह -- अत एवेति ॥ तत्र घटत्वं जातिरेव नेत्याह -- घटत्वस्येति । ताराकारेति ॥ अयं तारो ऽयं तारो ऽयं तारो ऽयमपि तार इत्येवं ताराकारेत्यर्थः -- अगृहीतेति ॥ तारशब्दनिमित्तत्वमजानतोप्ययं तार इत्यनुगताकारप्रत्यय 2 दर्शनादित्यर्थः ॥
सजातीयेति ॥ गुणव्याप्यजात्या सजातीयेत्यर्थः । पूर्ववत्पदकृत्यं बोध्यम् । उक्तेति ॥ सजातीयसाक्षात्कारप्रतिबन्धकत्वेनेत्यर्थः ॥ शब्देति ॥ तारशब्देत्यर्थः॥
1. जीतिपदं नास्ति - ख. 2. याद - मु.
वर्णा-नित्वे-प्रज्ञा-विधः) वर्णवादः पु - 409.
-------------------- ---------- ----------
न च यदा मन्द्रे बुभुत्सा तदा मन्द्रग्रहरूपकार्यदर्शनेन प्रतिबन्धक 1 त्वाभावात्तारव्यवहारो न स्यात् । प्रतिबन्धकातवच्छेदकविपक्षायान्तु जातिसिद्धिः, जातितो ऽन्यस्यावच्छेदकस्याभावादिति वाच्यम् । त्वन्मतेपि प्रतिबन्धकतावच्छेदकावच्छिन्ने सति मन्द्रग्रहरूपकार्यायोगात् ॥
यदि च बुभुत्सोत्तेजिका तर्हि मन्मतेप्युत्तेजकस्य सत्वेन कार्यसम्भवेपि प्रतिबन्धकस्य सत्वात्तारव्यवहारो 2 युक्तः । तस्मात्प्रत्यभिज्ञायास्तारत्वादिविरुद्धसंसर्गो न बाधकः ॥

उक्तविवक्षायां बाधकमाशङ्क्य निराह -- न चेति ॥ तारशब्दश्रवणदशायामेव बुभुत्सावशान्मन्दशब्दग्रहेण गुणत्वव्याप्यजात्या सजातीयशब्दग्रहाप्रतिबन्धाच्छृयणाणे तारशब्दे तारशब्दव्यवहारो न स्यादित्यर्थः॥
मन्मतेपीति ॥ तारत्वं न जातिः । तेषामनेकत्वेपि सजातीयसाक्षात्कारप्रतिबन्धकत्वेनानुगम इति वादिमते ऽपि बुभुत्सारूपोत्तेजकवशेन मन्दग्रहसम्भवेपि तारव्यवहारः स्यादेव । न ह्युत्तेजकं 3 तत्प्रतिबन्धाभावो मण्यादेः प्रतिबन्धकस्त्वमेव नेत्यस्य कल्पको भवति । तथात्वे ऽतिप्रसङ्गादिति भावः । व्यवहितत्वात्तृतीयपक्षदोषमुक्तमुपसंहरति । तस्मादिति ॥ तारत्वादेरविरोधादिति भावः ॥
1.काभा-ग-ख. 2.रो ऽयुक्तः -छ. 3.ककृतप्रतिबन्धाभावो - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 410.
------------------------ ---------- ---------
नापि शुकशारिकामनुष्यतद्विशेषरूपवक्तृविशेषानुमापकगत्वादिव्याप्यजातिविशेषानुभवो बाधकः । वर्णाश्रवणेपि तत्तद्ध्वनिविशेषणैव तत्तदनुमानदर्शनेन वर्णश्रवणेप्यावश्यकेन ध्वनिविशेषेणैव तदनुछमानात् । अन्यथा यो गकारः
शुकनोच्चारितः न एव मनुष्येणापीत्यादिप्रत्यभिज्ञा न स्यात् । अत एवानुव्यवसायो"ध्वनिविशेषणैव दूरस्थः पुत्रो 1 मयानुमित"इति ॥
न चैवं सति सैवेयं 2 घर्घरी स एवायं ध्वनिरित्यादिप्रत्यभिज्ञया ध्वनिरपि नित्यः स्यादिति मण्युक्तं 3 युक्तम् । ध्वनिवर्णयोर्द्वयोरपि नित्यत्वे द्वयोरपि सदोपलब्धिप्रसङ्गात् । उच्चारणवैयर्थ्याच्च ॥
चतुर्थं पक्षे निराह -- नापि शुकेति ॥ बाधत इति ॥ स एवायं गकार इति प्रत्यभिज्ञाया इत्यर्थः । गकारव्यक्तेरेकत्वे गत्वस्याजातित्वेन तद्व्याप्यजातेरयोगादिति भावः । गकारादिव्यञ्जकध्वनिविशेषणैव वक्तृविशेषानुमानम् । न तु त्वदुक्तजातिविशेषेण । येन प्रत्यभिज्ञा भ्रान्तिर्भवेदित्याह -- वर्णाश्रवण इति ॥
एवं सतीति ॥ स एवायं गकार इत्यादिप्रत्यभिज्ञाय् अभ्रान्तित्व इत्यर्थः । मण्युक्तमिति ॥ शब्दानित्यत्ववादे सिद्धान्ते मण्युक्तमित्यर्थः । प्रत्यभिज्ञाद्वयस्याभ्रान्तित्वायोगादन्यतरभ्रान्तित्वे ऽवश्यंभाविनि ध्वन्यश एव तद्युक्तमिति सयुक्तिमाह -- ध्वनिवर्णयोरिति ॥
1.मयेति नास्ति -क-ग-ख. 2.गूर्जरी-छ. गुर्जरी-क-ग-ख. 3.निरस्तम् -छ.
वर्णा-नित्व-प्रज्ञ-विधः) वर्णवादः पु - 411.
-------------------- -------- ----------
न चोच्चारणस्य व्यञ्जकत्वन्नोक्तदोष इति वाच्यम् । भिन्नदेशत्वात् । उच्चारणं हि वक्तृवक्त्रे । शब्दस्तु श्रोतृश्रोत्रे । भिन्नेन्द्रियग्राह्यत्वाच्च । अत एव नोच्चारणजन्यो वायुर्व्यञ्जकः । अत एवातीन्द्रियस्य व्यञ्जकान्तरस्य कल्पनाप्ययुक्ता । घटादावपि तत्कल्पनाप्रसङ्गात् ॥
तस्माद्वयोरेको नित्यः अन्यस्तु व्यञ्जक इति वक्तव्ये नतावद्ध्वनिरेव नित्यो वर्णस्तु व्यञ्जक इति युक्तम् ।
भिन्नदेशत्वं व्यनक्ति -- उच्चारणं हीति ॥ ध्वनिवर्णयोर्नित्यत्वे विभुद्रव्यतया सर्वगतयोर्निरवयोर्वक्तृनिष्ठेनाप्युच्चारणेनाभिव्यक्तयोः श्रोत्रेण ग्रहणमविरुद्धम् ।
तथाप्य 1 न्वयव्यतिरकेकाभ्यां शब्दस्थले 2 श्रोत्रसंबद्धेनैव व्यञ्जकेनाभिव्यक्तस्य श्रोत्रेण ग्रहणम् । अन्यथैक 3 वक्तृनिष्ठोच्चारणाभिव्यक्तशब्दस्य सर्वैरपि ग्रहणप्रसङ्गादिति भावः -- भिन्नेन्द्रियेति ॥ उच्चारणस्य चाक्षुषत्वाच्छब्दस्य श्रावणप्रसङ्गादिति भावः ॥
यद्यपि गोघृतादेः कुङ्कुमगन्धादेश्च भिन्नेन्द्रियग्राह्यत्वेपि अस्ति 4 व्यञ्जकव्यङ्ग्यभावः । तथाप्यन्वयव्यतिरेकाभ्यां शब्दस्थले एकेन्द्रियग्राह्ययोरेव तथात्वावगतेरिति भावः । घृतादावपि प्रतिनियतव्यञ्जकव्यङ्ग्य 5 वादे वक्ष्यमाणदिशा घृतादिगतगन्धादिरेवाभिव्यञ्जक इति 6 भावः । अन्ये त्वेकेन्द्रियग्राह्यत्वं वा एकेन्द्रियग्राह्यगुणकत्वं वा व्यञ्जकत्वे तन्त्रमित्याहुः ॥
अत एवेति ॥ वायोरतीन्द्रियत्वेन श्रोत्रेन्द्रियग्राह्यत्वादिति भावः -- अत एवेति॥ तद्ग्राकेन्द्रियग्राह्यस्यैव तद्व्यञ्जकत्वादित्यर्थः --तदेवमिति ॥
1.अन्वयव्यतिरेकाभ्यां शब्दस्थले इति नास्ति -अ-इ. 2.श्रोत्रृसम्बन्धेनैव -इ. 3.वक्तृपदं नास्ति -अ. 4.व्यङ्गव्यञ्जक -इ. 5.त्वया-इ. 6.वा - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 412.
----------------------- ----------- --------
भेर्यादौ वर्णाभावेपि ध्वनिग्रहात् । तस्मात्परिशेषाद्वर्ण एव नित्यो धन्विस्तु व्यञ्जक इति युक्तम् । ध्वन्यभावे वर्णाग्रहात् ॥
1 तदेवमुपपत्तिविरोधादापणे ध्वनिरुत्पन्नः स च शान्ति इति ध्वनित्वेनैवोत्पत्याद्यनुभवविरोधाद्वर्णप्रत्यभिज्ञाय"यावद्ब्रह्मविष्ठितं तावतीवागि"त्यादिश्रुत्यनुगृहीतत्वाच्च सैवेयं 2 घर्घरीत्यादेरेव भ्रान्तित्वादिकं युक्तम् ॥
तदेवमुक्तरीत्या बाधकाभावेपि वर्मे 3 सोयमिति व्यपदेश एव न तु प्रतीतिरिति तदपलापे वा,
तस्मादेवं ध्वनिवर्मयोरित्यादिनोक्तरीत्येर्थः । 4 तत्तस्मादित्यस्य विवरणं उपपत्तीत्यादि । तावती वागिति ॥ ताववत्कालिनो वर्ण इत्यर्थः ॥
वागित्यस्य टीकायां वेदरूपा वागिति व्याख्यानेपि सजातीयानुपूर्वोकत्वेनैव तावत्कालत्वस्य वाच्यत्वेन मुख्यार्थ 5 लाभाय वर्मरूपार्थान्तरमुपेत्य वा
वेदरूपवाचस्तावत्कालीनत्वस्य 6 वर्णानां तावत्कालीनत्वाभावे ऽयोगादर्थलब्धमुपेत्य वा श्रुत्यगृहितत्वाच्चेत्युक्तम् । अत एव टीकायां तावती वागिति वर्णानां व्यापकत्वस्याभ्युपगतत्वेनेत्यप्युक्तमित्यदोषेः ॥
एवं प्रत्यभिज्ञाया अनन्यविषयत्वं प्रसक्तबाधकनिरासेनाभ्रान्तित्वं च समर्थ्योपसंहरन् परपक्षे बाधकोक्त्याप्युक्तं समर्थ्यते -- तदेवमित्यादिना -- अन्यत्प्रमाणस्तीत्यन्तेन -- उक्तेति ॥"न च भेदधीर्बाधिके"त्यादिनोक्तरीत्येत्यर्थः -- तदपलापे वेति ॥
1.तस्मात् -छ-क. 2.गूर्जरी-छ-क-ग-गुर्जरी-खर्. 3.णः सो-क. 4.तत्पदं नास्ति -अ - इर्. 5.थत्व -अ. 6.त्वाभावे.
वर्णा-नित्वे-प्रज्ञा-भङ्गः) वर्णवादः पु - 413.
---------------------- --------- ----------
1 तदनपलापेपि 2 तस्याः पुरोवृत्तिगकारे गत्वेनोपस्थितगकाराभेदविषयत्वेनाभिज्ञात्वे वा, प्रत्यभिज्ञात्वेपि साक्षात्परंपरया 3 जात्यभेदविषयत्वे वा, व्यक्त्यभेदविषयत्वेपि तस्याः भ्रान्तित्वे वा, तत्तद्वादिभिस्तत्तद्वस्तुनः स्थायित्वेन प्रमाणत्वेनाङ्गीकृताया अपि स एवा 4 हमित्यादिप्रत्यभिज्ञाया अपलापादिप्रसङ्गेन कस्यापि स्थायि 5 त्वं न सिद्ध्येदिति क्षणिकवादः स्यात् । न हि स्थायित्वे प्रत्यभिज्ञातो ऽन्यत्प्रमाणमस्ति॥
तदेतदभिप्रेत्योक्तं भगवत्पादैः ।"न च सादृश्यात्प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् ।
"न च तानेव शालीनि"त्यादिनोक्तरीत्या प्रतीत्यपलापे वेत्यर्थः ।"तस्या"इत्यतः पूर्वमप्युक्तरीत्येत्यनुषञ्जनीयम् ।"न चेयं प्रत्यभिज्ञे"त्यादिनोक्तरीत्येति तत्रार्थः । एवमग्रेप्युक्तरीत्येत्यनुवर्त्य यथायोगमर्थो योज्यः ॥

सप्तम्यन्तोक्तापादकचचुष्टयेप्यनिष्टयेप्यनिष्टापादनामाह -- तत्तद्वादिभिरिति ॥ सर्वक्षणिकत्वं वदद्भिरपि बौद्धैः
"आकाशो द्वौ विनाशौ न नित्यं त्रयमसंस्कृतम्"
इत्युक्तत्वेनाशस्य बुद्धिपूर्वविनाशाबुद्धिपूर्वविनाशयोश्च नित्यत्वोपगमेन
तेषामपीदमापादनं सममिति सूचनाय -- तत्तद्वादिभिस्तत्तद्वस्तुन इत्युक्तम् । अपलापादीत्यादपदेन प्रागुक्तापादक 6 त्रयग्रहः -- तदेतदिति ॥ व्यपदेशादिपक्षचतुष्टयमपि नेत्येतत्तत्वनिर्णया उक्तमित्यर्थः ॥
1.प्रतीत्यनपला-क-ख. 2.अनन्तरं"साक्षात्परंपरे"त्याद्येवास्ति -छ. 3.राजा-क. 4.वायमि -ग. 5.अत्र सर्वत्र ऽपिऽ इत्येवास्ति -क. 6ऽत्रयऽ इति नास्ति - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 414.
----------------------- ----------- ----------
सोयं देवदत्त इत्यादेरपि तथात्वा 1 पत्ते"रिति । अत्र प्रत्यभिज्ञा भ्रान्तिरित्यस्य समस्तपदत्वेन व्यपदेशमात्रत्व 2 पक्षे तस्मिन्व्यपदेशे प्रत्यभिज्ञात्वभ्रान्तिरिति, पुरोवृत्तिनस्तदभेदविषयकाभिज्ञात्वपक्षे तस्यास्तत्का 3 लीनावच्छिन्नाभेदविषकप्रत्यभिज्ञात्वभ्रान्तिरिति, जात्यभेदविषयकप्रत्यभिज्ञात्वपक्षे तस्यां व्यक्त्यभेदविषयकप्रत्यभिज्ञात्वभ्रान्तिरिति, व्यस्तपदत्वेन व्यक्त्यभेदाविषया प्रत्यभिज्ञा भ्रान्तिरिति पक्षे व्यक्त्यभेदविषयापि प्रत्यभिज्ञा भ्रान्तिरेव न तु 4 प्रमेति, चार्थो द्रष्टव्यः ॥
टीकायां चतुर्थपक्षनिरासपरत्वेन व्याख्यानेपि बह्वर्थकत्वान्मूलग्रन्थस्य स्वोक्तपक्षचतुष्टयनिरासमपि मूलारूढं दर्शयति -- अत्रे 6 ति ॥ मूलवाक्य इत्यर्थः -- समस्तेति ॥ चतुर्थपक्ष एव भिन्नपदत्वात्तदन्यपक्षत्रयेपि भावप्रधाननिर्देशेन प्रत्यभिज्ञात्वेन भ्रान्तिः प्रत्यभिज्ञाभ्रान्तिरिति समासं प्राप्तपदत्वेन हेतुनाव्यस्तपदत्वेन हेतुनेत्यर्थो द्रष्टव्य इत्यन्वयः ।"अर्थो द्रष्टव्यः"इति पदद्वयं । पूर्वत्र प्रत्येकं इतिशब्दत्रयान्तेपि व्यपदेशमात्रपक्ष इत्यर्थो द्रष्टव्य इत्यादिरूपेणान्वेतव्यम् ॥
1.त्वापादादिति -ग. 2.ऽमात्रम्ऽ-ततः ऽजात्यभेदऽ इत्यादि ऽभ्रान्तिरितिऽ इत्यन्तं, ततः व्यपदेशे प्रत्यभिज्ञात्वभ्रान्तिरितिऽ इत्यारभ्य, ऽतत्कालावच्छिन्नाभेदविषयकप्रत्यभिज्ञात्वभ्रान्तिरितिऽ इति पङ्क्तिः, ततः
ऽव्यस्तपदत्वेनऽ इत्यादि च वर्तते -ग. 3.लावच्छिन्नाभेद -छ-ख. 4.भ्रम इति -छ. 5.वा-ग. 6.ऽचऽ इत्यधिकम् - अ.
वर्णा-नित्वे-प्रज्ञा-भङ्गः) वर्णवादः पु - 415.
--------------------- -------- ---------
एतेन ऽप्रत्यभिज्ञानन्तरमुत्पत्यादिप्रत्ययानां तदनन्तरं च प्रत्यभिज्ञाया दर्शनोभयाबाधायोत्पत्यादिधीर्व्यक्तिविषयिणी अभेदधीस्तु जातिविषया ; यद्वोत्पत्यादिप्रत्ययानामनेकत्वात्तद्विरुद्धैका प्रत्यभिज्ञा भ्रान्तिः । बहुबाधस्यान्याय्यत्वात्"इति 1 मण्युक्तं निरस्तम् । प्रत्यभिज्ञाया विशेष्यात्मकव्यक्त्यभेदविषत्वेनोत्पत्यादिप्रत्ययस्य च विशिष्टविषयत्वेनोभयप्रामाण्यस्योक्तत्वात् । प्रत्यभिज्ञा व्यक्त्यभेदविषिया, उत्पत्यादिधीस्ति ध्वनिविषयेत्यपि सुवचत्वाच्च ॥
किं चोत्पत्तिधीः संमर्दे ऽपगते ऽवकाशो 2 जात इत्याकाशोत्पत्तिधीवदभिव्यक्तिविषास्ति । त्वन्मते बाधलागवोक्तिश्चायुक्ता । त्वदभिमतानां अयं शुकोत्पन्नो गकारः, अयं शुकोच्चारितो गकारो ---
मण्युक्तमन्यदपि निराह-- एतेनेति ॥ उत्पत्यादीत्यादिपदेन विनाशतारमन्दत्वादिप्रत्ययग्रहः -- उक्तत्वादिति ॥"न च भेदधीर्बाधिके"त्यादिग्रन्थेनोक्तत्वादित्यर्थः ।
ननूत्पन्नो गकारो नष्टो गकार इति प्रतीतेः कथं ध्वनिविषयतेत्यत आह - किं चेति ॥ बहुबाधस्यान्याय्यत्वादित्युक्तिं च निराह -- त्वन्मत इति ॥ त्वदभिमताना मित्यस्य 3 प्रत्ययानामिति षष्ट्यन्तेनान्वयः । सर्वलोकसिद्धानामित्यस्य वक्ष्यमाणषष्ठ्यन्ताभ्यामन्वयः ॥
1.मण्युक्तमिति नास्ति -ख. 2.त्पत्तिधीवत् इत्यस्ति -ग. 3.मानानां - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 416.
----------------------- ------------- ---------
1 नष्ट इत्यादीनामुत्पत्यादिसाक्षात्काररूपप्रत्ययानां ; सर्वलोकसिद्धानां 2
शुकोच्चारितो गकारो ऽयं वर्तते श्रोत्रे शुकगकार इत्याद्यभिज्ञनां ; यः पूर्वं गकारः श्रुतः स एवेदानीमपि, यो ऽन्यत्र स एवात्रापि, यश्चैत्रोच्चारितः स एव मैत्रोच्चारितः, एकोच्चारिते 4 पि यः प्राच्येन श्रुतः स एव प्रतिच्येनापि, यो निकटस्थेन श्रुतः स एव दूरस्थेनापीत्यादिप्रत्यभिज्ञानां च ; बाध 5 कत्वेन त्वन्मत एव बहुबाधात् ॥
न हि त्वत्पक्षे शुकोत्पन्नस्येदन्त्वेन साक्षात्क्रियमाणत्वेन 6 वर्तमानत्वेन श्रोत्रस्थत्वेन च सामानाधिकरण्यम् । न वा एकोच्चारितेपि कदंब 7 गोलकन्यायपक्षे प्राच्यप्रतीच्ययोरेकत्वम् ॥
ननूक्तत्रिरूपप्रतीतीनां कुतो बाधो न्यायमत इत्यत आह -- न हीति ॥ शब्दोत्पत्तिदेशात्कदंबगोलकन्यायेन शब्दानां दशस्वपि दिक्षु दशधा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण कर्णदेशप्राप्त्युपगमेन कर्णदेशसंबद्धस्य शुकमुखोत्पन्नशब्दजातीयत्वेन साक्षात्तदुत्पन्नत्वाभावात् । एवं तत्तद्दिगवस्थितपुषैःश्रूयमाणस्यापि दिगन्तरस्थितपुरुषान्तरश्रुतशब्दजातीयत्वेन साक्षात्तदभेदाभावादिति भावः ॥
1.न सः -ग. 2.अस्य पूर्वान्यय रेखाद्वयेन सूचितः -छ. 3.ऽअयंऽ इति नास्ति -छ-क-ग-ख. 4.तः-छ-क. 5.धेन -छ-क-ग. 6.ऽनष्टत्वेनऽ इत्यधिकम् -च-क-ग-ख. ऽवर्तमानत्वेनऽ इति नास्ति -छ. 7.मुकुल- ख.
वर्णा-नित्वे-प्रज्ञा-भङ्गः) वर्णवादः पु - 417.
---------------------- -------- -----------
यद्यपि वीचीतरङ्गन्यायपक्षे तयोरैक्यम् । तथापि निकट 1 दूरस्थयोरैक्यं नास्त्येव । तस्माद्बहूनामबाधायोत्पत्यादिधीरेव भ्रान्तिरस्तु ॥
ननूत्पत्यादिचधीर्न तावत्स्मर्यमाणारोपः । सदृशादर्शनात् । गृह्यमाणारोपत्वे रक्तः स्फटिक इत्यादाविवोपाधिर्वाच्यः । स च न तावत्कुङ्कुमारुणा तरुणीतिवदानुभविकः । गकारो 2 स्तीत्यादावुपाधेर्ध्वनेरननुभवात् । नाप्ययो दहतीतिवदौ 3 पपत्तिकः ।
ननु तटाकादिमध्ये पाषाणाद्यभिघाताद्दशदिक्सम्बन्धिन्य एकैका एव वीत्यस्तरङ्गाश्च जायन्त इति न्यायेन दशदिक्संबन्ध्येकैकशब्दपरंपरोत्पत्तिपक्षे प्राच्यदिशब्दस्यैक्यमेवेति न तत्प्रत्यभिज्ञाबाध इत्याशङ्क्य निराह -- यद्यपीति ॥ वीचीनाम सूक्ष्मरूपस्स्त्रीतरङ्गः । तरङ्गस्तु स्थूलः -- निकटेति ॥ शब्दोत्पत्तिदेशनिकटस्थदूरस्थयोरित्यर्थः ॥

उत्पत्यादिधियो भ्रान्तित्पमयुक्तमिति मण्युक्तरीत्या शङ्कते -- नन्विति ॥ सदृशेति ॥ शुक्ताविदं रूप्यमित्यारोपे शुक्तिसदृशस्य रजतस्येवेह -- वर्णसदृशस्योत्पत्यादिमतो ऽभावदित्यर्थः । आनुभाविक इति ॥ कुङ्कुमेनारुणा न स्वत इति कुङ्कुमस्योपाधित्वमुभूयमानमित्यानुभाविकः । कुङ्कुमरूप उपाधिः । एवं गकारो ध्वन्युत्पन्नो न 4 स्वत इत्यनुभवाभावादित्यर्थः । औपपत्तिक इति ॥ उपपत्तिसिद्ध इत्यर्थः । उपाधिरित्यनुषङ्गः । वह्निधर्मस्य दग्धृत्वस्यायस्यारोपाद्वह्निरूपोपाधिनैवायो दग्धृ न तु स्वत इत्यनुभवः । तत्रायसि वह्नित्वेन वह्नेरननुभवात् । किन्तु वह्नसम्बन्धे सति दग्धृत्वमन्यथा तु नेत्यन्वयव्यतिरेकगम्यं वह्नेरुपाधित्वमित्यौपपत्तिक इत्युक्तम् ॥
1.स्थद् -च-छ-ग-ख दूरस्थनिकटस्थयो - क. 2.गकारो नास्ती -छ-क-ग. 3.पाधिकः - छ. 4.स्वरूपतः -- अ-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 418.
----------------------- ------------ --------
तत्रान्वयव्यतिरेकवतोग्नेरिवेह तद्वतः कस्यचिदभावादिति चेन्न । इहापि ध्वनेः सत्वात् ॥
तत्रोग्नेरग्नित्वेनाननुभवेप्यारोप्येण दग्धृत्वेनानुभवोस्तीति चेदिहापि ध्वनेर्ध्वनित्वनाननुभवेप्यारोप्येणोत्पन्नत्वादिनानुभवोस्तीति समम् ॥
न च प्रत्यभिज्ञारोप्ये ऐक्यसाक्षात्कारे सति कथं तद्विरुद्धोत्पत्यादिभ्रम इति वाच्यम् । उत्पत्यादेरैक्याभावानात्मकत्वेन साक्षादविरोधात् । ऐक्यव्यापकाभावप्रतियोगित्वरूपे विरोधे सत्यपि तदग्रहदशायामारोपसम्भवात् । तद्ग्रहदशायां चारोपाभावस्येष्टत्वात् ॥
यद्यपि मणौ"कृपाणे मुखदीर्घत्वमौपपत्तिकं कृपाणान्वयव्यतिरेकानुविधानात्"इत्युक्तम् । तथापि तत्रानुभाविकत्वमेव कथञ्चिद्वक्तुं शक्यम् । कुपाणत्वेन तस्यानुभवादित्यरुचिं मन्वानः अयो दहतित्युदाहरदित्यदोषः ॥
तद्वतः अन्वयव्यतिरेकवतः । उत्पत्यादिधर्मकस्येत्यर्थः । विशेषदर्शनसत्वेनारोपाचसम्भवमाशङ्क्य निराह -- न च प्रत्यभिज्ञेति ॥ किं
साक्षादारोप्याभावावगाहित्वेन प्रत्यभिज्ञा विरोधिनी उतारोप्याभावं प्रति व्याप्यविषकतया । आद्य आह -- उत्पत्यादेरिति ॥ अन्त्य आह -- ऐक्यस्येति ॥ प्रतियोगित्वेति ॥ उत्पत्यादेरित्यनुषङ्गः -- विरोध इति॥ प्रत्यभिज्ञया सहेत्यर्थः -- तदग्रहेति ॥ उक्तरूपप्रतियोगित्वाग्रहेत्यर्थः --
वर्णानां नित्यत्वे अनुमानानि ) वर्णवादः पु - 419.
--------------------------- -------- ----------
तस्मात्प्रत्यभिज्ञाबाधितानि शब्दानित्यत्वानुमानानि ॥
वर्णा 1 नित्यत्वे प्रत्यभिज्ञाविरोधः

11.25

तस्मादिति ॥ प्रत्यभिज्ञा यागकारादिव्यक्त्यैक्यादन्यविषयकत्वभ्रान्तित्वयोरयोगादित्यर्थः ॥
वर्णानामनित्यत्वे प्रत्यभिज्ञाविरोधः

11.26

सत्प्रतिपक्षाणि च । तथाहि । शब्दत्वं नित्यवृत्ति द्रव्यत्वव्याप्यजातिमदसमवेताद्विष्ठवृत्तित्वात् आत्मत्वत् (1) ।
प्रत्यभिज्ञादोषयोर्बाधप्रतिपक्षयोः प्रबलं बाधकं पूर्वमुक्त्वा प्रतिपक्षदोषं चाह -- सत्प्रतिपक्षाणि चेति ॥ शब्दानित्यत्वानुमानानीत्यनुषङ्गः । शब्दो नित्य इत्येव प्रतिज्ञोक्तौ द्वितीयादिकतिपयहेत्वसिद्धिः । ध्वन्यंशे बाधश्च । अतः शब्दत्वं नित्यवृत्तीति प्रतिज्ञा 2 य द्वितीयादिहेत्वनुगमाय तु वर्णत्वमित्येव न कृतम् । नित्यवृत्तित्वं च जगदाधारताप्रयोजकसंबन्धभिन्नसबन्धेनेति ज्ञेयम् । स च समन्धो न्यायमते समवायः । सिद्धान्ते स्वरूपसम्बन्धः । तेन कालवृत्तित्वमादाय न सिद्धनाधनतावकाशः । ध्वन्यंशे बाधाद्वर्णवृत्तित्वेन साध्यपर्यवसा 3 नमिति
भावः -- द्रव्यत्वेति ॥ द्रव्यत्वव्याप्यजातयः पृथिवीत्वजलत्वादयः ।
1.नामनि-ग. 2.ज्ञा-अ. 3.नं, ध्वन्यनित्यताया ध्वनिवर्णयोरित्यादिना प्रागुपपादनादिति भावः इत्यस्ति - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 420.
------------------------ ---------- -------
घ्राणभिन्नबहिरिन्द्रियव्यवस्थापकतावच्छेदकत्वात् रूपत्ववत् (2) ।
तद्वत्सु पृथिव्यादिष्वसमवेतं य 1 दद्विष्ठं अव्यासज्यवृत्ति तद्ववृत्तित्वादित्यर्थः । शब्दस्तु तादृशपृथिव्यप्तेजोवाय्वात्मनःस्वसमवेतो ऽद्विष्ठश्चेति तद्वृत्तिशब्दत्वे हेतुसत्वमिति भावः । एते च हेतवः परीत्यैव । परसिद्धैर्दूषणमित्याचार्योक्तेः । अत एव सत्प्रतिपक्षाणीत्युपक्रमः । अन्यथा नित्यत्वे मानं त्विति ब्रूयात् । सिद्धान्ते ऽनुगतजातेमदसमवेतत्वाभावात् । अत एव सुधायां प्रकृतिनये"गगनादेश्च सत्वत्व"मित्यत्र पृथिव्यादिगुणत्वेनापि शब्दस्योत्पत्तरुक्ता । पञ्चीकरणप्रक्रियामविवक्षित्वा जातिपदस्य सदृशधर्मपरत्वमुपेत्य स्वरीत्यापि वा । तेन मन्मत इत्यग्रिमग्रन्थाविरोध इत्याहुः । विशेषणकृत्यमग्रे स्फुटम् -- आत्मत्ववदिति ॥ तच्च 3 क्वाप्यसमवेताद्विष्ठात्मवृत्तित्वाद्धेतुसाध्ययोः सत्वं स्पष्ठम् । न्यायमते विभुत्वेनात्मनो ऽवृत्तित्वात् ॥
घ्राणेन ॥ घ्राणभिन्नं यद्बहिरिन्द्रियं श्रोत्ररूपं तदस्त्वित्वावधारक तानियामकत्वादित्यर्थः । शब्दज्ञानं हि कार्यं स्वकारणभूतं श्रोत्राख्यमिन्द्रियस्वरूपमनुमापयति । अकारणकस्यानित्यज्ञानस्यानुदयात् । अन्यस्य चक्षुरादेः शब्दज्ञाने करणत्वायोगात् । शब्दस्य तादृशेन्द्रियव्यवस्थापकतायां शब्दत्वस्यावच्छकत्वादिति भावः । चक्षुरिन्द्रियादिव्यस्थापके 2 रूपत्वरसत्वादौ हेत्वनुगमाय बहिरिन्द्रियेति समान्योक्तिः । न तु श्रोत्रेति विशिष्य -- रूपत्ववदिति ॥ रूपत्वरसत्वस्पर्शत्ववदित्यर्थः।
1.यद्द्विष्ठं अव्यासज्यवृत्ति तद्वृत्तित्वाभावादित्यर्थः - अ. 2.कतावच्छेदके - मु.
3.तस्य - च.
वनां-नित्वे-ऽनुनि.) वर्णवादः पु - 421.
----------------- -------- -------
आत्मत्वमूर्तत्वसमानाधिकरणाद्विष्ठवृत्तित्वात् कालत्ववत् (3) । स्वाश्रयभिन्नविशेषगुणासमानाधिकरणप्रत्यक्षवृत्तित्वादात्मत्ववत् (4) । पृथिवीवृत्यवृत्तित्वे आत्मवृत्यवृत्तित्वे च सति सत्तासाक्षाव्द्याप्यसाक्षाव्द्याप्यत्वात् जलत्ववत् (5) ।
बहिरन्द्रियव्यवस्थापकातवच्छेदकानां रूपरसगन्धस्पर्शशब्दत्वानां एकस्य पक्षत्वेपि गन्धस्य पृथिवीमात्रगुणत्वेन
पार्थिवपरमाणुषु गुणानां पाकजत्वेनानित्यतायां 1 गन्धस्य नित्यावृत्तिरूपसाध्याभावेपि जलपरमाण्वादिगतरूपसस्पर्शानामपाकजत्वेन रूपत्वादित्रयस्य नित्य 2 वृत्तित्वादाधिक्यदोषनिरासाय रूपत्ववदित्ये वोक्तम् -- आत्मत्वेति ॥ आत्मत्वमूर्तत्वाभ्यामसमानाधिकरणं यद 3 द्विष्ठं तन्निष्ठत्वादित्यर्थः । मूर्तत्वं नाम इयत्तावच्छिन्नपरिमाणयोगित्वम् । पृथिव्यप्तेजोवायपुमनसां धर्मः । पक्षदृष्टान्तभूतयोः शब्दत्वकालयोस्तादृशशब्दकालनिष्ठात्कालस्य नित्यत्वाच्च हेतुसाध्यानुगम इति भावः ॥
स्वेति ॥ स्वस्य शब्दत्वस्याश्रयः शब्दः, तद्भिन्नविशेषगुणो रूपादिः, तदसमानाधिकरणम् प्रत्यक्षम् च तत्, शब्द एव, तद्वृत्तित्वादि 4 त्यर्थः । दृष्टान्ते स्वस्यात्मत्वस्य आश्रयः आत्मा । तदतिरिक्तविशेषगुणेनासमानाधिकरणं प्रत्यक्षं च अवृत्तिभूतमात्माख्यं वस्तु तद्वृत्तत्वादिति हेत्वनुगमो ध्येयः । स्वशब्दस्य समभिव्याहृतपरत्वात् । शब्दत्वमात्रपरत्वेप्यदोषात् -- पृथिवीवृत्ती रूपादिः । आत्मवृत्तिर्ज्ञ्नादिः । तदुछभयावृत्तित्वे सति सत्तासाक्षाद्वाप्यं पक्षे गुणत्वम् । दृष्टान्ते च द्रव्यत्वम् । तेन साक्षाव्द्याप्यं शब्दत्वं जलत्वं चेति पक्षदृष्टान्तयोर्हेत्वनुगमः ।
1.तया-इ. 2.वृत्तिपदं न -मु. 3.द्द्विष्ठं - अ. 4.ऽति हेत्वनुगमो ध्येयःऽ इत्यस्ति. ऽदृष्टान्तेऽ इत्यादिपङ्क्तिर्नास्ति -अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 422.
----------------------- ------------ ---------
व्योंमेतरावृत्तिजातिमद्वृत्तित्वादात्मत्वत् । (6) स कलशब्दवृत्तित्वात्सत्तावत् (7) । श्रोत्रं नित्यवृत्तिसत्ताव्याप्यव्याप्यजातिग्रहकम् अपार्थिवेन्द्रियत्वाच्चक्षुर्वत् (8) । वर्णो नित्यो ध्वनिशब्दत्वव्याप्यभिन्नत्वे सति श्रावणत्वाच्छब्दत्ववत् (9) इत्याद्यनुमानैः प्रतिरोधात् ॥
अत्राद्ये हेतौ कालाकाशगतद्वित्वनिष्ठद्वित्वत्वे ऽव्यभिचारायाद्विष्ठेत्युक्तम् ।
दृष्टान्ते साध्यानुमश्च जलपरमाणुवृत्तित्वेन ज्ञेयः । साक्षाव्द्याप्यत्वं नाम व्याप्याव्याप्यत्वे सति व्याप्यत्वम् । गुणत्वद्रव्यत्वयोः सत्ताजातेश्च मध्ये तथा गुणद्रव्यत्वयोः शब्दत्वजलत्वयोर्मध्ये च व्याप्यधर्मान्तरस्याभावात् ॥
व्योमेति ॥ व्योमेतरस्मिन्नविद्यमानो यो जातिमान् शब्दः आत्मा च तद्वृत्तित्वाच्छब्दत्वस्यात्मत्वस्य चेति पक्षदृष्टान्तयोर्हेत्वनुगतिः ॥
श्रोत्रमिति पक्षः ॥ नित्यवृत्तिवृत्तिर्यो सत्ताव्याप्यगुणत्वप्याप्यशब्दरूपा जातिः तद्गाहकत्वेन पक्षे, दृष्टान्ते च तादृशरूपत्वग्राहकत्वेन साध्यानुगमः । रूपत्वस्यापि नित्यं यज्जलपरमाण्वादिरूपं तद्वृत्तित्वात् -- अपार्थिवेति ॥ परमते घ्राणस्यैव पार्थिवत्वेन तदन्येषामपार्थिवत्वान्नासिद्ध्यादिः ॥
ध्वनीति ॥ ध्वनिश्च शब्दत्वव्याप्यं तारत्वादिकं च ताभ्यां भिन्नत्वे सतीत्यर्थः -- प्रतिरोधादिति ॥ सत्प्रतिपक्षाणीत्यन्वयः -- द्वित्वत्व इति ॥ अनुमानोपनीतकालाकाशाद्यनोचरमानसापेक्षाबुद्धिजन्यस्य कालाकाशोभयगकद्वित्वस्य ------
वनां-नित्वे-ऽनुनि) वर्णवादः पु - 423.
---------------- ------- ----------
। 1 गन्धत्वदुःखत्वादावव्यभिचारायासमवेतेत्युक्तम् । असमवेतवृत्तित्वस्य प्रतिवादिनं प्रत्यसिद्धि 2 निरासाय द्रव्यत्वव्याप्यजातिमदित्युक्तम् ॥
द्वितीये गन्धत्वे ऽव्यभिचाराय घ्राणभिन्नेति ।

-- द्रव्यत्वव्याप्यजातिमत्सु पृथिव्यप्तेजोवाय्वात्ममनः स्वसमवेतत्वेन द्वित्वत्वे तादृशद्वित्ववृत्तित्वहेतुसत्वेपि नित्यवृत्तित्वाभावाद्व्यभिचारनिरासाया 3 द्विष्ठेत्युक्तमित्यर्थः । तर्ह्य 4 द्विष्ठवृत्तित्वादित्येवास्त्वित्यत आह -- गन्धत्वेति ॥ गन्धत्वादेः पृथिव्यात्मादिसमवेतगन्धादिवृत्तित्वादव्यभिचार इत्यर्थः । रूपत्वादिकं तु नित्यवृत्तीति गन्धत्वेत्युक्तम् । पार्थिवगुणानां पाकजत्वेन गन्धो न नित्य इति भावः ॥
तर्ह्यसमवेता 5 द्विष्ठेत्येवास्त्वित्यत आह -- असमवेतेति ॥ प्रतिवादिनं प्रतीति ॥ तार्किकं प्रतीत्यर्थः । सत्प्रतिपक्षानुमानप्रयोक्तृदशायां सिद्धान्तिनः स्थापनावादित्वेन परस्यैव प्रतिवादित्वात् -- असिद्धिनिसायेति ॥ न चासिद्धिनिरासकं व्यर्थम् । व्याप्ति 6 पक्षधर्मताया अप्यनुमित्यङ्गत्वेन तत्संपादकस्यापि सार्थक्यात् ।"यन्निष्ठा यन्निरूपिता व्याप्तिर्येन विशेषणेन विना न परिच्छद्यते तद्विशेषणमर्थवदिति"न्यायेन विशिष्टहेतुनिष्ठव्याप्तेरुक्तविशेषणेन विना गृहीतुमशक्यत्वेन व्याप्तिग्रहौपयिकत्वाच्चेति भावः ॥
गन्धत्व इति ॥ पृथिवीगुणस्य पाकजत्वेन गन्धत्वे नित्यवृत्तित्वरूपसाध्याभावेपि घ्राणरूपबहिरिन्द्रियव्यवस्थापकतावच्छेदकत्वाद्घ्राणभिन्नेत्युक्तानां न दोष इत्यर्थः -- दुखत्वेति ॥
अयं ग्रन्थः नास्ति - क. 2.वारणाय-छ. 3.यद्वि-अ. 4.र्हिद्वि-अ. 5. तद्वि -अ. 6.ऽतत्ऽ इत्यधिकं - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 424.
------------------------ ------------ --------
दुःखत्वादावव्यभिचाराय बहिरिति चोक्तम् ॥
तृतीयेप्यद्विष्ठपदस्थाद्यहेताविव प्रयोजनं द्रष्टव्यम् । दुःखत्वादौ 1 वेगत्वादौ चाव्यभिचारायात्मत्वमूर्तत्वासमानाधिकरणेत्युक्तम् ॥
चतुर्थे गन्धत्वे दुःखत्वादौ चाव्यभिचाराय विशेषगुणासमानाधिकरणेत्युक्तम् । विशेषणगुणासमानाधिकरणमनोगतवेगवर्तिनि वेगत्वे ऽव्यभिचाराय प्रत्यक्षेत्युक्तम् । मनोगतवे 2 गस्त्वप्रत्यक्षः । तावत्युक्ते गकारस्यापि
ककाररूपविशेषगुणसमानाधिकरणत्वात्परं प्रत्यसिद्धिः । तदर्थं स्वाश्रयभिन्नेत्युक्तम् ।
तस्यान्तरीन्द्रिय व्यवस्थापकतावच्छेदकत्वादिति भावः । आत्मत्वमूर्तत्वान्यतरासमानाधिकरणाद्विष्ठवृत्तित्वादित्युक्तावाह -- दुःखत्वादाविति ॥ मूर्तत्वासमानाधिकरणदुःखादिनिष्ठदुःखत्वादौ नित्यवृत्तित्वाभावेन तत्रा 3 व्यभिचार आत्मत्वासमानाधिकरणेत्यद्विष्ठविशेषणम् । आत्मत्वासमानाधिकरणं यदद्विष्ठं तद्वृत्तित्वादित्येवोक्तौ पृथिव्यप्तेजोवायुमनोधर्मवेगरूपगुणस्यात्मत्वासमानाधिकरणेत्यद्विष्ठविशेषणमित्यर्थः ॥
प्रत्यक्षवृत्तित्वादित्येवोक्तौ दोषमाह -- दुःखत्वादौ चेति ॥ तर्हि प्रत्यक्षेत्यस्य बाह्यप्रत्यक्षेत्यर्थं मत्वोक्तम् -- गन्धत्वेति ॥ परं प्रतीति ॥
1.ऽवेगत्वादाऽ विति नास्ति -छ. वेगवत्वादौ -ग. 2.वेगपदं नास्ति -छ. 3.त्र व्यभिचारवारणाय - इ. 4.वृत्तित्याधिकं - इ.
वनां-नित्वे-ऽनुनि) वर्णवादः पु - 425.
---------------- ---------- --------
एवं च 1 ककारस्यापि शब्दत्वाश्रयत्वेन तद्भिन्नत्वाभावान्नासिद्धिः ॥
पञ्चमे गन्धत्वादावव्यभिचाराय पृथिवीवृत्त्यवृत्तित्वेन सतीत्युक्तम् । दुःखत्वादावव्यभिचारायात्मवृत्यवृत्तित्वे सतीत्युक्तम् । प्रभात्वदिवव्यभिचाराय स 2 मेत्याद्युक्तम् ॥
एवं च सत्तासाक्षाव्द्याप्यं । 3 द्रव्यत्वं प्रति तेजस्त्वमेव साक्षाव्द्याप्यम् न तु प्रभात्वादिकमिति न व्यभिचारः । शब्दत्वं तु मन्मते सत्तासाक्षाव्द्याप्यं । द्रव्यत्वं प्रति परमते च गुणत्वं प्रतिसाक्षाव्द्याप्यमिति नासिद्धिः ॥
षष्ठे ध्वनिप्रागभावत्वे ऽव्यभिचाराय जातिमदित्युक्तम् । गन्धत्वादावव्यभिचाराय व्योमेतरावृत्तीत्युक्तम ॥
तार्किकं प्रतीत्यर्थः -- नासिद्धिरिति ॥ असिद्धिवारकस्यापि सार्थक्यं पूर्ववत् ॥
आत्मेत्याद्युक्तौ दोषमाह -- गन्धत्वादाविति ॥ व्योमेतरा वृत्तिवस्तुवृत्तित्वादित्येवोक्तौ दोषमाह -- ध्वनिप्रागभावत्व इति ॥
ननु सप्तते सकलवृत्तित्वादित्येवोक्तौ प्रमेयत्वादौ कवलान्वयिनि नित्यवृत्ति 4 साध्यस्यापि सत्वेन व्यभिचाराभवाच्छब्देति व्यर्थम् । स्वरूपासिद्धिवारकत्वेपि व्यर्थत्वादित्यत ईश्वरवादौक्तदिशा व्याप्त्याश्रयाणामनेकत्वसंपादकत्वेन सार्थक्यादिति भावेनाह -- सप्तम इति ॥
1.गकार -छ-क. 2.त्तेत्या-छ-क-ग-ख. 3.अयं ग्रन्थः नास्ति -छ-क. 4.त्वसा-अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 426.
----------------------- ----------- --------
सप्तमे शब्दपदमकेवलान्वयिनो गुणत्वादेरपि संग्राहकत्वेन विकासकत्वान्न व्यर्थम् ॥ 1 अष्टमे साध्ये नित्यवृत्तिसत्ताद्रव्यत्वयोः सत्तागुणत्वयोर्वा ग्राहकत्वेनार्थान्तरमिति शङ्कानिरासाय 2 सत्ताव्याप्यव्याप्येत्युक्तम् । । हतोर् घाणे ऽव्यभिचारायापार्थिवेत्युक्तम् ॥
3 नवमे ध्वनौ शब्दत्वव्याप्ये तारत्वादौ चाव्यभिचाराय ध्वनिशब्दत्वव्याप्यभिन्नेत्युक्तम् ।
अकेवलान्वयिन इति ॥ शब्दनिष्ठस्येत्यपि ग्राह्यम् । न केवलं केवलान्वयिनः प्रमेयत्वादेरपीत्यर्थः । आकाशसमवेतत्वादिरादिपदार्थः ॥
अष्टम इति ॥ अपार्थिवेन्द्रियत्वादिति हेतौ यत्साध्यं नित्यवृत्तीत्यादि तस्मिन्नित्यर्थः -- नित्यवृत्तिसत्ताद्रव्यत्वयोरिति ॥ नित्यवृत्तिसत्ताजातिग्राहकमित्युक्ते शब्दगतसत्ताग्राहकत्वेनार्थान्तरम् । शब्दस्यानित्यत्वेप्याकाशादिनित्यवृत्तित्वात्सत्तायाः । अतो नित्यवृत्तिसत्ताव्याप्यजातिग्राहकमिति ॥ तावत्युक्ते शब्दो द्रव्यमिति मते द्रव्यत्वस्य, गुण इति मते गुणत्वस्य ग्राहकत्वेनार्थान्तरम् । अतः सत्ताव्याप्यव्याप्तेत्युक्तमित्यर्थः । सिद्धसाधनताव्यदासाय शब्दस्य नित्यत्व सिद्धये नित्यवृत्तीति जातिविशेषणमिति स्पष्टमिति भावः ॥
नवम इति ॥ ध्वनिशब्दत्वव्याप्यभिन्नत्वे सति श्रावणत्वादित्यत्र ध्वनिपदस्य कृत्यं ध्वनाविति ॥ ध्वनिभिन्नत्वे सति श्रावणत्वादित्येवोक्तौ दोषः शब्दत्वव्याप्यतारत्वादाविति ॥
1.अयं ग्रन्थः लुप्तः -छ. 2.सत्तेत्यु-ग. 3.चरमे -छ.
वनां-नित्वे-ऽनुनि) वर्णवादः पु - 427.
---------------- --------- ----------
अत्र विपक्षे प्रत्यभिज्ञानुपपत्ति 1 गौरवादिति बाधकानि । केचित्तु श्रोत्रं नित्यद्रव्यग्राहकम् निरवयेन्द्रियत्वात् मनोवत् इत्याहुः ॥
वर्णानां नित्यत्वेनुऽमानानि

11.26

ध्विशब्दत्वप्याप्याभ्यां भिन्नत्वे सतीत्युक्तमित्यर्थः । श्रवणत्वादिति तु घटादावव्यभिचारायेति व्यक्तमिति भावः -- कल्पनागौरवादीति ॥ विवरिष्यते चैतदुत्तरभङ्गे व्यक्त्यनन्त्यादिकल्पना वीचितरङ्गादिन्यायेन पूर्वशब्दस्योत्तरशब्दान्तरजनकत्वमुत्तरशब्दस्य पूर्वपूर्वशब्दनाशकत्वमन्त्योपान्त्योरन्योन्यनाशकत्वमित्युत्तरत्र 3 वक्ष्यमाणगौरवमित्यर्थः । आदिपदेन बहुबाधादिग्रहः-- नित्यद्रव्येति ॥ शब्दत्वादिग्राहकत्वेनार्थान्तरपरिहाराय द्रव्यपदम् । एवं च शब्दस्य द्रव्यत्वं नित्यत्वं चादाय साध्यं पर्यवस्यति । व्योमादिनित्यद्रव्यग्राहकत्वेन पर्यवसानस्य बाधितत्वात् । इन्द्रियत्वमात्रस्य चक्षुरादौ व्यभिचारान्निरवयवेत्युक्तिः -- मनोवदिति ॥ तस्यात्मग्रहकत्वादिति भावः ॥
अत्रारुचिबीजं तु, आत्मनो मानसत्वे कदाचिदरमानहं वेत्यादिसन्देहापातेन सुदृढनिर्णयरूपसाक्षिवेद्यत्वादात्मनः साध्यवैकल्यं दृष्टान्तस्य वस्तुमात्रस्येश्वरवादोक्तरीत्या संयोगित्वयुक्त्या सावयवत्वेन निरवयवत्वासिद्धेरित्यादि ध्येयम् ।
वर्णानित्यत्वे ऽनुमानानि

11.27

1. कल्पनेत्यधिकं - ग - ख - रा. 2. भङ्गे इत्यधिकम् - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 428.
----------------------- ------------ ----------
ननु वर्णानां नित्यत्वे सर्वदोपलब्धिः स्यात् । न चोच्चारणजन्यस्य ध्वनिरूपव्यञ्जकस्य कादाचित्कत्वान्न दोष इति वाच्यम । तस्य हि व्यञ्जकत्वं न तावदावारणापसारणवदिन्द्रियसन्निधा 1 पकत्वेन । श्रोत्रगुणत्वपक्षे विभुत्वपक्षे च वर्णानां सर्वदेन्दियसंबन्धात् । नापि चक्षुरादावञ्जनादोरिव क्षोत्रे संस्काराधायकतया । संस्कृतेन श्रोत्रेण चक्षुषेव विविध्य स्वसंबद्धसर्ववर्णसमूहालम्बनस्यैकस्य ज्ञानस्योत्पत्यापातादिति चेन्न । त्वन्मते वर्णोत्पादकानामिव मन्मते तव्द्यञ्जकानामपि नियतत्वात् ॥
"अत आकाशगुणे शब्दे व्यज्यमाना वर्णादय"इति तत्वनिर्णयवाक्यस्य टीकायां शङ्कितं वर्णनित्यत्वबाधकं मण्याद्युक्तमाशङ्कते -- नन्विति ॥ श्रोत्रगुणत्वपक्ष इति ॥ परिमाणवन्नि 2 त्यशब्देन सर्वदा श्रोत्रस्य सम्बन्धादित्यर्थः । बुभुत्सायां 3 नियामकत्वमाशङ्क्योक्तं -- चक्षुषेवेति --
"सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रकाशयेन ।
घटायोन्मीलितं चक्षुः पटं न हि न बुध्यते ॥"
इति प्राचीनोक्तेरिति भावः - त्वन्मत इति ॥ यथैकवर्णोत्पादके 4 नैव न सर्ववर्णोत्पत्तिः, तथैकवर्णव्यञ्जकेनैव न सर्ववर्णव्यक्तिरिति न सर्वोपलम्भ इत्यर्थः ॥ वर्णानित्यत्वावादे पूर्वपक्षे मणिकृताशङ्क्य निस्तमप्यनुमानं दोषान्तरविवक्षया शङ्कते -- नन्विति ॥ प्रतिनियतेति ॥
1.धयक - क-ख. 2.नित्यवादं न -अ. 3.यानि- इ. 4.नेनै - अ.
वर्णानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वम् ) वर्णवादः पु - 429.
------------------------------------ ------- ---------
ननु वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्याः, एकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वाद्घटगतैकत्व 1 परिमाण 2 वत् । 3 अत्र च साध्ये व्यञ्जकशब्देन 4 । विषयसन्निकर्षातिरिक्तो ज्ञानहेतुर्विवक्षित इति न बाधः ।
हेतौ भिन्नेन्द्रियग्राह्यरूपरसादौ व्यभिचारनिरासाय समानेन्द्रियेति विशेषणम् ।
अत्र प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं परस्परव्यभिचारिव्यञ्जकव्यङ्ग्यत्वं दोषाभावे परस्पराविषयक साक्षात्कारविषयत्वमिति यावत् । तेनैकत्र द्वित्वभ्रमजनकेन पिरमाणग्राहिणा परिमाणभ्रमजनकेनैकत्वग्राहिणा च न व्यभिचार इति व्याचक्षते -- एकेति ॥ कवर्माद्ये 5 कावच्छेदकश्रोत्ररूपसमानदेशत्वे सति श्रोत्रेन्द्रियग्राह्यत्वाद्वर्णानां पक्षे हेतुसत्वं ध्येयम् । एकावच्छेदकदेशतः कालतश्चेत्यग्रे व्यक्तम् । अन्यूनानतिरिक्तदेशकालत्वे सतीति पदद्वयतात्पर्यमित्येके -- घट गतेति ॥ घटगतैकत्वपरिमाणयोरेकघटत्वावच्छेदेन समानदेशत्वं समानेन्द्रियचक्षुर्ग्राह्यत्वमिति हेत्वनुगमः । परिमाणव्यञ्जकालोकव्यङ्ग्यत्वादेकत्वस्य प्रतिनियतव्यञ्जकव्यङ्ग्यत्वाभावरूपसाध्यानुमगम इति भावः । ननु व्यञ्जकपदेन सन्निकर्षस्यापि ग्रहणे समवायस्यैकत्वेपि तत्तद्वर्णनिरूपितश्रोत्रसमवायस्य नि 6 यतत्त्वादभावसाधने बाधो दृष्टान्ते
साध्यवैकल्यं चेत्यत आह -- अत्र च साध्य इति ॥ न बाध इत्युपलक्षणम् । दृष्टान्ते साध्यवैकल्यं न नेत्यपि ध्येयम् ॥
सत्यन्तमात्रं हेतुरस्त्वित्यत आह -- हेताविति ॥ रूपादेरालोकलवणादिभिन्नव्यञ्जकव्यङ्ग्यत्वादिति भावः । समानदेशत्वे सतीत्यस्य कृत्यमभिमतं मण्युक्तं व्यनक्ति -- एकेनेति ॥
1.सख्यापरि -छ. 2.णादि-छ. 3.सन्निकर्षातिरिक्तत्वविवक्षया न बाधः इत्यस्ति -छ. 4.एतावन्नास्ति -ग. 5.एकपदं न -मु. 6.त्यत्वात् -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 430.
----------------------- ------------ ----------
1 एकेन श्येन 2 चरणावच्छेदेन । वर्तमानयोर्भिन्नसंयोगव्यङ्ग्योः 3 श्येनस्य स्थाणुतदवयवा 4 भ्यां
संयोगयोर्व्यभिचारनिरासाय समानदेशत्वे सतीति विशेषण् । इह च समानदेशत्वमनतिरिक्तदेशत्वं विवक्षितम् । तेनोक्तयोः
संयोगयोरकस्मिन् श्येने वृत्तावपि स्थाणुसंयोगस्यावयवसंयोगानाश्रये स्थाणावयवसंयोगस्य च स्थाणुसंयोगानाश्रये ऽवयवे वृत्यातिरिक्तदेशत्वान्न व्यभिचारः । अत एव -
"प्रदीपे व्यज्यते जातिर्न तु नीरजनीलिभे
त्युक्तत्वादुकत्पलत्वव्यञ्जकप्रदीपव्यङ्ग्ये नैल्ये न व्यभिचारः ।
साध्याभावोपपादनायोक्तं भिन्नसंयोगिव्यङ्ग्ययोरिति । कारणाकारणसंयोगात्कार्याकार्यसंयोग इति संयोगजसंयोगपक्षे स्थाणुश्येनसंयोगस्थाने स्थाण्ववयवसंयोगस्यापि सत्वात् स्थाणुतदयवाभ्यां संयोगयोरित्युक्तम् । तथाच कथं न व्यभिचार इत्यत आह -- इह चेति ॥
अन्यत्रापि व्यभिचारनिरासः फलमित्यत आह --- अत एवेति ॥ समादेशत्वे सतीत्य 5 स्यैवं विवक्षाकरणादेवेत्यर्थः -- 6 प्रदीप इति ॥ प्रदीपे सत्येवेत्यर्थः।
जातिरुत्पलत्वम् । न तु व्यज्यत इत्यन्वयः । नीरजनीलिमा तु तस्मिन्सत्येन व्यज्यत इत्युक्तत्वात्प्राचीनैरित्यर्थः -- अतिरिक्तेति ॥
1.एकेनेति नास्ति- छ. 2.ने पादाव -छ. 3.श्येनस्येति नास्ति -छ. 4.वसं-छ. 5.त्यन्तस्यैवं -इ. 6.इत्युक्तात्वात् इतिपर्यन्तं लोपः - इ- अ.
वनां-प्रत-व्यङ्क-व्यन्त्वम् ) वर्णवादः पु - 431.
----------------------- ---------- ----------
उत्पलत्वस्यातिरिक्तदेशवृत्तित्वात् । कालरूपावच्छेदकभेदेनैकघटनिष्ठयो रूपतद्ध्वंयोर्व्यभिचारनिरासायैकावच्छेदेनेति विशेषणम् । एकावच्छेदश्च न केवलं कालतः । किं तु देशतोपि । तेनावयवद्वयवृत्योरवयवद्वयारब्धयोरवयविसंयोगयोर्व्यभिचारो निरस्तः । अवयविनो व्याप्यवृत्तित्वेन अवयवसंयोगस्य चाव्याप्यवृत्तित्वेन देशतो ऽवच्छेदकभदात् । अत्र च हेतुमत्सु संख्यादि 1 सामान्यगुणेषु द्रव्यग्रहणयोग्यतान्तर्गतयोग्यताकत्वस्य द्रव्यग्राहक 2 बहिरिन्द्रियग्राह्यत्वस्य च सत्वान्न व्यभिचारशङ्का । न चोक्तहेतुनैव प्रतिनियतोत्पादकाभावोपि साध्यः ।
रक्तोत्पलेपि सत्वादिति भावः -- कालरूपेति ॥ कालाख्येत्यर्थः -- अवयवीति ॥ अवयवी च संयोगश्चेति द्वन्द्वः । तन्तुद्वयनिष्ठस्य पटरूपावयविनः तन्तुद्वयसंयोगस्य च यथाक्रममालोकेन तन्तुद्वयेन च व्यङ्ग्यत्वात्साध्याभावेपि हेतुरिति तत्र नेत्याह -- अवयविन इति ॥ अवच्छेदकेति ॥ व्यक्त्यंशावच्छेदेन संयोगस्य, सर्वावयवावच्छेदेनावयविनो वृत्तेरिति भावः ॥
नन्वेवमपि वङ्ख्यापरिमाणपृथक्त्वेषु एकावच्छेदेन समादेशत्वे सति समानेन्द्रियग्राह्यत्वहेतोः सत्वाद्व्यभिचार इत्यतः साध्यस्यापि सत्वान्न दोष इत्याह -- अत्र हेतुमस्त्विति ॥ भिन्नहेत्विति ॥ वेगस्य कर्मजन्यत्वात्कर्मणो नोदनादिजन्यत्वादिति भावः -- तथापीति ॥
1.सामान्यपदं न - क. 2.यावदिन्द्रि - ग -ख.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 432.
----------------------- ---------- ----------

भिन्नहेतुजन्ययोर्वेगर्मणोर्व्यभिचारादिति चेन्मैवम् । तथापि त्वचा ग्राह्ययोर्घटगतस्पर्शपृथक्त्वयोर्व्यभिचारात् । तत्र पृथक्त्वस्य स्पर्शव्यञ्जकेना विधिना व्यङ्ग्यत्वात् ॥
न च समानेन्द्रियग्राह्यपदेन परस्पराग्राहकेन्द्रियाग्राह्यत्वं विवक्षितम्, एवं च न व्यभिचारः ; स्पर्शस्य पृथक्त्वग्राहकत्वगिन्द्रियमात्रग्राह्यत्वेन तदग्राहकाग्राह्यत्वेपि पृथक्त्वस्य स्पर्शग्राहकचक्षुर्ग्राह्यतया तदग्राह्यत्वाभावादिति वाच्यम् । भिन्नपुरुषनिष्ठापेक्षाबुद्धिभ्यां जन्ययोर्व्यङ्ग्ययोश्चैकदेशकालयोत्द्वित्वयोर्व्यभिचारात्।
उक्तस्थलेषु व्यभिचाराभावेत्यर्थः । हेतुसत्वायोक्तं -त्वचा ग्राह्ययोरिति ॥ सत्यन्ताशसत्वं तु व्यक्तम् । साध्य 1 सत्वं व्यनक्ति-- तत्रेति ॥ अवधिनेति ॥ अयमस्मात्पृथगिति प्रतीत्या पञ्चम्यन्तनिर्दिष्यावधि 2 पदार्थेनेत्यर्थः । तावता कथं न व्यभिचार इत्यत आह -- स्पर्शस्येति॥ भिन्नेति ॥ यत्र घटपटस्थले चैत्रनिष्ठापेत्राबुद्ध्या मैत्रानिष्ठापेत्राबुद्ध्या च द्वित्वद्वयमुपपन्नं तत्र द्वित्वद्वये एकावच्छेदेन समानदेशत्वे सति परस्पराग्राहकेन्द्रियाग्राह्यत्वरूपहेतोः सत्वात्
द्वित्वत्वावच्छिन्नद्वित्वग्राहकेन्दियस्येकत्वेन नानात्वाभावादित्यर्थः । साध्यसत्व नेति भावेनोक्तं व्यङ्ग्योश्चेति ॥ उक्तरूपबुद्धिभ्यां व्यङ्ग्ययोश्चेत्यर्थः॥
1. साध्या - अ. 2. शब्दा - अ.
वनां-प्रत-व्यङ्क-व्यन्त्वम्) वर्णवादः पु - 433.
--------------------- ---------- ---------
त्वयापेक्षाबुद्धिर्व्यञ्जिकेत्यपि स्वीकारात् ॥
न च प्रति 1 नियताप्रतिप 2 त्तिकत्वमपि हेतुविशेषणं विवक्षितम्, द्वित्वे तु प्रतिनियतप्रतिपत्तृके इति वाच्यम् । अवयविव्यञ्जकमात्राव्यङ्ग्येनावयवबहुत्वेनैकत्वव्यञ्जकमात्राव्यङ्ग्येन पृथक्त्वदीर्घत्वादिना च व्यभिचारात् ॥
ननु परस्पर 3 व्यभिचारिव्यञ्जकाव्यङ्ग्यत्वं साध्यम्, एवं च न व्यभिचारः । अवयव्येकत्वव्यञ्जकयोर्बहुत्वपृथक्त्वव्यञ्जकाभ्यां व्यभिचारेपि ----
तद्व्यञ्जकत्वमसिद्धमित्यत आह -- त्वयेति॥ अवयवीति ॥ पटावयवगतबहुत्वस्य पटेन सहैकावच्छेदेन समानदेशत्वे सति समानेन्द्रियरूपहेतुमत्वेपि साध्यवत्वं नेत्युपपादनाय अवयविव्यञ्जकमात्रव्यङ्ग्येने त्युक्तम् । अपेक्षाबुद्ध्यापि व्यङ्ग्यत्वस्वीकारादिति भावः -- एकत्वेत्यादि ॥ अवधिपदर्थेनापि व्यङ्ग्येनेत्यर्थः । हेतुसत्वं तु व्यक्तमिति साध्याभाव एवोपपादितः । 4 तथा चैकत्वदिर्घत्वयोरेकत्वपृथक्त्वयोर्न व्यभिचार इत्यर्थः ॥
कथं न व्यभिचार इत्यत उक्तस्थले साध्यसत्वं व्यनक्ति - अवयवीति ॥ अवयव्येकत्वयोः ये व्यञ्जके तयोरित्यर्थः -- व्यभिचारेपीति ॥ बहुत्वव्यञ्जकापेक्षाबुद्धेरवयविव्यञ्जकत्वाभावात् । तथा पृथक्त्वव्यञ्जकावधेरेकत्वाव्यञ्जकत्वादिति भावः -- व्यभिचारेणेति ॥
1.सर्वत्र प्रतिनीतेत्येवास्ति -ख. 2.कर्तकत्वमपि - छ-क. 3.प्रतिनीतेन्द्रियजन्यग्राह्यत्वं इत्यधिकं -ख. 4.इयं पङ्क्तिर्नास्ति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 434.
----------------------- ------------ ----------
-- बहुत्वपृथक्त्वव्यञ्जकयोरवयव्येकत्वव्यञ्जकाभ्यामव्यभिचारेण परस्परव्यभिचारिव्यञ्जकाव्यङ्ग्यत्वरूपसाध्यस्य सत्वादिति 1 मणावुक्तमिति चेन्न। तथाप्यवयवबहुत्वग्रहव्यतिरेकेणावयविग्रहवदञ्जले ऽवयविग्रहव्यतिरेकेणावय् इ ग्रहव्यतिरेकेणावयवबहुत्वग्रहदर्शनेनानैकान्त्यात् । भिन्नप्रतियोगिव्यङ्ग्ययोर्भूतलगतयोः समवायिनाशजन्ययोर्विरलावयवतया समादेशालोक ---
अववयव्यादेरग्रहे तन्निष्ठबहुत्वाद्यग्रहात् अवयव्यादिव्यञ्जकालोकाद्यव्यभिचार आवश्यक इति भावः -- मणाविति ।
वर्णानित्यत्वावादे पूर्वपक्षे -- अञ्चल इति ॥ वस्त्रान्त्यभाग इत्यर्थः । तथा च परस्परव्यभिचारव्यञ्जकव्यङ्ग्यत्वमेव न तु तदभावरूपसाध्यसत्वमिति व्यभिचार इत्यर्थः ॥
ननु बहुत्वस्य पटावयवैकदेशवृत्तित्वेन पटस्य तदधिकवृत्तित्वात् । बहुत्वस्याशुविनाशिताया पटस्याधिककालत्वाच्च । एकावच्छेदेन समानदेशत्वे सति समानेन्दियग्राह्यत्वरूपहेत्वभावान्नानैकान्त्यमित्यन्यत्र व्यभिचारमाह -- भिन्नेति ॥ साध्याभावोपपादनाय भिन्नेत्यादि । समानदेशतोक्त्यर्थं भूतलगतयोरिति । समवायीत्यादि । ध्वंसयोरित्यन्वयः । प्रतियोगिनोः समादेशत्वे तद्ध्वंसयोरपि तथात्वादिति भावेनाह -- विरवलावयवे 2 ति ॥ पाषाणादिवन्निबिडद्रव्यत्वाभावेन समानदेशे ये आलोकडले तद्धंसयोरित्यर्थः । निर्म 3 लजलान्तरस्थभूतलेप्यालोकोपलम्भादिति भावः ।
1.मणावुक्तमिति नास्ति -छ. 2.वतयेति - इ. 3.विमल - मु.
वनां -प्रत-व्यङ्क-व्यन्त्वम्) वर्णवादः पु - 435.
--------------------- ------- -------
-जलप्रतियोगिकयोरालोकजलध्वंसयोर्ब्राह्मणत्वात्यन्ताभावतव्द्यञ्जकात्यन्ताभावयो-श्च व्यभिचाराच्च । देशशब्देन समवायिविवक्षायामपि वर्णानां नित्यद्रव्यत्ववादिनं 1 मां प्रत्यसिद्धेः ।
घटगतयोरेकत्वैकपृक्त्वयोर्भिन्नव्यक्तिव्यङ्ग्यगोत्वाश्रायत्वादौ च व्यभिचाराच्च । जातिः सर्वगतेति पक्षस्येव प्रामाणिकत्वात् ।
ब्राह्मणत्वात्यन्ताभावतद्व्यञ्जकात्यन्ताभावयोरिति ॥ भिन्नप्रतियोगिव्यङ्ग्ययोर्भूतलगतयोरित्येतदत्राप्यन्वेति । ब्राह्मणत्वं व्यञ्जकं ब्राह्मणमातापितृकत्वादिकम् -- देशशब्देनेति ॥ समानदेशत्वे सतीति हेतुशरीरप्रविष्टदेशशब्देनेत्यर्थः । तथा च हेत्वभावान्न तत्र व्यभिचार इति भावः। नन्वेकावच्छेदेन समादेशत्वे सति समानेन्द्रियग्राह्यत्वाभावादिति हेत्वर्थोस्त्वित्यत आह -- घटगतयोरिति ॥ एकपृथक्त्वस्यावधिव्यङ्ग्यत्वादेकत्वस्य तदभावाद्भि न्नव्यङ्ग्यत्वेन साध्यासत्वेप्युक्तहेतुसत्वादिति भावः । अवध्यनभिव्यङ्ग्यत्वेनापि हेतुर्विशेष्यत इत्यत आह -- भिन्नेत्यादि ॥
ननु कथं गोत्वाश्वत्वादौ हेतुसत्वम् । समादेशत्वाभावादित्यत आह -- जातिः सर्वगतेतीति ॥ गोत्वस्य देशादिव्यवहितानेकगोपिण्डगतत्वपक्षे मघ्यगताश्वादिपिण्डैरसम्बन्धायोगादश्वादावपि सम्बन्धेन तत्रापि वृत्तेरङ्गीकारस्य युक्तिसिद्धत्वात् । अश्वादौ गोत्वाद्यनुपलम्भस्य गोव्यक्तिरूपव्यञ्जकाभावेनोपपत्तेः । एवमश्वत्वादिजातिर्गवादिपिण्डसम्बन्धेति जातेः सर्वगतत्वात्समानदेशत्वमिति भावः ॥
1. मां इति नास्ति - छ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 436.
------------------------ ------------ -----------
वर्णाः परस्परव्यभिचारिप्रमापकप्रमाप्याः आश्रयेण सहैकेन्द्रिय 1 ग्राह्यत्वात् गन्धरसवदित्यनेन सत्प्रतिपक्षता च ।
उक्तं हि तत्वनिर्णयटीकायं"गोत्वाश्वत्वादीनां प्रतिनियतव्यक्ति 2 व्याप्यत्वस्य परैरपि स्वीकृतत्वात्, गोत्वादीनां
व्यक्तिसर्वगतत्वेन समानदेशत्वं नास्तीति चेन्न । प्रत्यासत्तेरवर्जनीयत्वात् । समवायाभावस्य वर्णष्वपि सत्वा"दित्यादि ॥
नन्वितरनिरूपणानधीननिरूपणत्वे सतीत्यपि हेतुर्विशेष्यते ।

पूर्वोक्तव्यभिचारस्थलानि सर्वाण्यप्यन्यनिरूपणाधीननिरूपणान्येव, अतो हेत्वभावान्न व्यभिचार इति 3 पूर्वपक्षे मण्युक्तमेव प्रतिपक्षदोषं चाह -- वर्णा इति ॥ परस्परव्यभिचारिणः प्रमापकाः ध्वनयस्तत्प्रमा 4 प्यत्वेन साध्यसिद्धिः। आश्रये 5 णेति ॥ शब्दस्येकेन्द्रियग्राह्यत्वेपि तार्किकमते वर्णाश्रये 6 ण गगनेन सहैकेन्द्रियग्राह्यत्वाद्गगनस्यातीन्द्रियत्वात् आश्रयग्राहकेन्द्रियाग्राह्यत्वादिति फलितार्थत्वान्नासिद्धिः ॥
न चैवमसिद्धिवारकत्वात्सहेत्यन्तं व्यर्थम्, तद्विनाकृतस्यैव व्याप्यत्वादिति वाच्यम् । असिद्धिवारकस्यापि
व्यभिचारवारकस्येव सार्थक्यादित्युक्तत्वात् । अखण्डाभावे ऽवैयर्थ्या 7 च्च । शरीरा 9 जन्यत्ववत् ॥
न च व्द्यणुकादौ व्यभिचार इति वाच्यम् । प्रत्यक्षत्वे सतीति हेतुविशेषणादित्येके । आश्रयाग्राहकेन्द्रियग्रह्यत्वादित्यर्थ इत्यन्ये । गन्धेति । गन्धसरयोर्घ्राणरसनग्राह्यत्वात्तदाश्रयस्य चक्षुरादिग्राह्यत्वाद्भिन्न --
1.याग्रा -छ-क-ग-ख. 2.व्यङ्ग्यत्वस्य -इ. 3.त्यतः पू -मु-इ. 4.णत्वे-अ. व्याप्यत्वे-इ. 5.ययोरि -अ. 6.यणेन-अर्. 7.थ्य च -इ-अ. 8.रज-अ-इ.
वनां-प्रत-व्यङ्क-व्यन्त्वम्) वर्णवादः पु - 437.
--------------------- ---------- ----------
द्रव्यग्रहणयोग्यतान्तर्गतयोग्यताकत्वं मूर्तवृत्तित्वं चोपाधिश्च ॥
किं चैवं सति वर्णाः परस्परं व्यभिचार्युत्पादकोत्पाद्या न, अपाजकत्वे सति भूतविशेषगुणत्वात्, जलगतरूपरसवदित्याद्यनुमानोत्पादकानियमोपि किं न साध्यते । जन्यजलगतरूपरसादीनां कारणगुणपूर्वकत्वे 1 न तदुत्पादकानां परस्परव्यभिचाराभावात् ।
-- प्रमाकप्रमा 2 प्यत्वाच्च हेतुसाध्ययोरनुगमो व्यक्तः । सत्प्रतिपक्षता चेत्युपलक्षणम् । न्यायमते वर्णानां क्रमिकोत्पादित्वेनाव्याप्यवृत्तित्वेन च तुल्यदेशकालत्वाभावात् । 3 एकावच्छेदेनेत्यादिहेतोरसिद्धिः । किञ्च तत्तद्वर्णमात्रविषयकसाक्षात्कारसम्भवाद्बाधश्चेत्यपि ध्येयम् ॥
एकावच्छेदेनेति हेतावुपाधी 4 चाह -- द्रव्येति ॥ यत्र
घटगतैकत्वपरिमाणयोरेकव्यञ्जकव्यङ्ग्यत्वं तत्र द्रव्यग्रहणेत्याद्युपाधी स्त इति साध्यव्यापकम् । साधनवति पक्षे वर्णे द्रव्यग्रहणेत्याद्युक्तोपाधी नस्त इति साधनाव्यापकत्वं च व्यक्तमिति भावः ॥
प्रागुक्तहेतोरनैकान्त्योक्तेर्हेत्वन्तरमाह -- अपाकजत्वे सतीति ॥ गुणत्वादित्युक्तौ भिन्नो 5 त्पादकोत्पाद्ये घटादिगतसङ्ख्यापरिमाणादिसामान्यगुणे व्यभिचाराद्वि - शेषेति ॥ आत्मगुणेषु भिन्नो 6 त्पादकोत्पाद्येषु ज्ञानादिष्वव्यभिचाराय भूतेति ॥ पृथिवीगतरूपादिष्वव्यभिचाराय सत्यन्तम् ॥
दृष्टान्ते तु साध्यानुगतिं दर्शयति ॥ जन्येति ॥ समवायि 7 कारणसमवायिकारणमात्रप्रत्यासन्नगुणासमवायिकारणकत्वं कारणगुणपूर्वकत्वं नाम ।
1.त्वे तदु- च-क. 2.व्याप्यत्वा-अ. 3.इतः ऽध्येयंऽ इत्यन्तं नास्ति-इ. 4.धी-रा-अ. 5.उत्पादकपदं न -इ. 6.उत्पादकपदं न -इ. 7.अत्र सर्वत्र दीर्घ एवास्ति - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 438.
----------------------- ------------ ----------
यदि फलबलाच्छब्दे 1 उत्पादकनैयत्यं तर्हि तत एव व्यञ्जकनैयत्यमप्यस्ति ॥
किञ्चोत्पत्तिपक्षे कदम्बगोलकन्यायेन लाघवप्रत्यभिज्ञाभ्यामुगृहितेन वीचीतरङ्गन्यायेन 2 वा प्रतिपुरुषं प्रत्युच्चारणं
क्षणमात्रस्थितिकवर्णधारायास्तत्प्रागभावानां तद्ध्वंसानामन्यत्रादृष्टस्य पूर्वपूर्ववर्णे उत्तरोत्तरवर्णोत्पादकत्वस्य, उत्तरोत्तरवर्णे च पूर्वपूर्ववर्णनाशकत्वस्य, अन्त्योपासन्त्यवर्णयोश्च सुन्दोपसुन्दन्यायेनान्योन्यं, अन्त्योपान्त्यवर्णयोश्च सुन्दोपसुन्दन्यायेनान्योन्यं बध्यघटकभावस्य, अन्त्यशब्दे तु स्वोत्पत्तिचरमकारणस्योपान्त्यशब्दस्यैव स्वनाशचरमकारणत्वेन स्वोत्पत्यव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपबौद्धाङ्गीकृक्षणकत्वस्य 3 च कल्प 4 नमित्यतिगौरवम् ॥
तथा च जलसमवायिकारणगतरूपरसादीनां परस्परव्यभिचारे कार्ये 5 कुले
रूपादयो न स्युरिति परस्परव्यभिचार्युत्पाद्यत्वा 6 भावोस्तीति भावः ॥ फलेति ॥ एकवर्णोत्पादकेन 7
तन्मात्रोत्पादकत्वरूपफलबलादित्यर्थः । तत एवेति ॥ एकवर्णोपलम्भरूपफलबलादेवेत्यर्थः ॥
विपक्षे कल्पनागौरवाच्च वर्णानां नित्यत्वमुपेत्य प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमुपेयमिति भावेन कल्पनागौरवादिति पूर्वोक्तं व्यनक्ति ॥ किञ्चेत्यादिनातिगौरवमित्यन्तेन ॥
1.तदु-ग. 2.ऽवाऽ इति नास्ति-मु. 3.त्वं च -ख. 4.ल्प्यं-खर्. 5.यजलरूपादयो -इ. 6.त्वान्नास्तीति भावः -इ. 7.के त -अ.
वनां-प्रत-व्यङ्क-व्यन्त्वम्) वर्णवादः पु - 439.
--------------------- ---------- -------
न चेदं गौरवं फवमुखम् । फलस्याद्याप्यसिद्धेः । वर्णस्थले ध्वनिस्तु त्ययापि स्वीकार्य एव । दूरस्थस्य ध्वनिमात्रं मया श्रुतं न तु वर्ण इत्यनुभवात् । शब्दत्वं सजातीयव्यञ्जकव्यङ्ग्यवृत्तिबहिरिन्द्रियव्यवस्थापकवृत्तिजातित्वात् रूपत्ववदित्यनुमानाच्च ।
लाघवेति ॥ दशसु दिक्षु दशविधशब्दोत्पत्यङ्गीकारादप्येकैकस्यैव गकारादेः दशदिक्संबन्धिनः कल्पनस्यैव लघुत्वाल्लाघवयुक्त्या प्राच्यप्रतीच्ययोरेकत्वप्रत्यभिज्ञया चानुगृहीतेनेत्यर्थः । षष्ठ्यन्तानां कल्पनमित्यनेनान्वयः । फलमुखमिति ॥ वर्णोत्पत्तिलक्षणफलमेव मुखमुपस्थितिजनकं यस्य तत्फलमुखं तेनेत्यर्थः । असिद्धेरिति ॥ येन गौरवं न दोषायेति स्यादिति भावः ॥
ननु वर्णनित्यत्वपक्षे व्यञ्जकध्वनि वर्णभिन्नः कल्पनीयः,तस्योत्पत्तिस्थानात्कर्णदेशपर्यन्तं शब्दान्तरोत्पादकत्व 1 माशुतरविनाशित्वमित्यादिकल्पनीयमित्यत आह ॥ वर्णस्थल इति ॥"दूराद्वर्णा 2 ग्रहणेपि ॥ ध्वनिग्रहणादि"ति टीकोक्तमाह ॥ दूरस्थस्येति । टीकोक्तेरुपलक्षणत्वं मत्वा ध्वनिसत्वेनुमानं चाह ॥ शब्दत्वमिति ॥
3 यद्वा वायुविशेषासंयोग एव वर्णव्यञ्जक इति पक्षं निरसितुमाह ॥ शब्दत्वं
इति ॥ सजातीयं यत्र 4 व्यञ्जकध्वनिलक्षणमेव तव्द्यङ्ग्यवृत्तीत्यर्थः । जातित्वमात्रस्य घटत्वादौ व्यभिचारादिन्द्रियेत्यादि । तावन्मात्रस्य ज्ञानेच्छात्ववादावपि सत्वाद्बहिरित्युक्तम् । प्रमेयत्वादावव्यभिचाराय जातित्वादिति ॥ न च ध्वनित्ये व्यभिचारः । तारत्वादिना सांकर्येण तस्याजातित्वादित्याहुः । वर्णानामेवेन्द्रियव्यवस्थापकत्वं न ध्वनेरित्यन्ये ॥
1.दशकत्वमित्यधिकम्-इर्. 2.णग्रह- मु-अ. 3.यद्वेत्यादि नास्ति - इ. 4.यव्द्यञ्जक -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 440.
----------------------- ------------ ---------
दृष्टं हि घटरूपकुङ्कुमगन्धादेरालोकरूपघृतगन्धादिव्यङ्ग्यत्वम् ॥
न च पूर्वपूर्ववर्णस्योत्तरोत्तरवर्णव्यञ्जकत्वेन वा वर्णस्यैव ध्वनिव्यञ्जकत्वेन वार्थान्तरमिति वाच्यम् । आदावेव श्रोत्रोत्पन्नं वर्णं प्रति 1 पूर्ववर्णाभावात् । 2 भेर्यादिध्वनिस्थले वर्णाननुभवाच्च ॥

तस्माव्द्यञ्जकानां प्रतिनियत्वान्न सर्वदोषलब्धिप्रसङ्गः तदुक्तं भगवत्पादैः"अत आकाशगुणे शब्दे व्यज्यमानां वर्णो 3 दय"
इति ॥
4 वर्णानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वम्

11.27

रूपादैरालोकादिव्यङ्ग्यत्वात्साध्यवैकल्यमाशङ्क्य रूपत्वादौ साध्यानुगतिं 5 व्यनक्ति दृष्टं हीति ॥ शङ्कितद्वयमपि निराह ॥ आदावेवेति ॥ भेर्यादीति च ॥ तदुक्तमिति ॥ प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं वर्णानामित्येतत्तत्वानिर्णया उक्तमित्यर्थः ॥ अत इति ॥ प्रत्यभिज्ञाबलादित्यर्थः । आदिपदेन वर्णधर्मग्रहः॥
वर्णानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वम्

11.28

1.पूर्वपूर्वेत्यस्ति-च. 2.इतः ऽतदुक्तंऽ इति पर्यन्तं नास्ति-रार्. 3.णा इति -छ-क-रा. 4.अत्र भङ्गविभागो न दृश्यते -छ-रा. वर्णानामिति नास्ति-ख. 5.मं व्य - इ.
वर्णानां नित्यत्वेपि क्रमोपपादनम् वर्णवादः पु - 441.
------------------------------ ------- ---------
न च नित्यत्वे कालादिकृतक्रमाभावादुच्चारणक्रमस्य च मौनिश्लोकादावभावादभिव्यक्तिक्रमस्य च 1 लिप्यादिदर्शनजनितसमूहालम्बनस्तमृतिविषयवर्णेध्वभावात् क्रमहीनवर्णमात्रस्य च राजाजारेत्यादौ भिन्नार्थबोधकत्वायोगात् घसमानकालीनप्रागभावप्रतियोगित्वं टस्य टसमानकालीध्वंसप्रतियोगित्वं 2 च घस्य क्रमो वाच्य इति वर्णनित्यत्वे क्रमानुभवो बाधक इति वाच्यम् । यत्र मौनिश्लोकादौ वर्णोत्पत्तिरेव न यत्र च घटेति वक्तव्ये विपरीत एवोत्पत्तिक्रमः तत्र त्वदुक्तस्यापि क्रमस्याभावात् ।
तार्किककदेशमतं वर्णोत्पत्तिसाधनमाशङ्क्य निराह । न चेत्यादिना ॥ यद्यपीदं मणावेव"यत्तु श्रोत्रानुविधानात्पदं श्रुणोमीत्यबाधितानुव्यवसाया"दित्यादिनाशङ्क्य निरस्तम् । तथापि दोषान्तरविवक्षया शिष्यव्युत्पादनाय च पुनरत्रोपन्यास इत्यदोषः । नित्यत्वे विभुत्वे च वर्णानामिति योज्यम् । प्रतिपदादितिथ्यादिनामिव कालकृतपौर्वापर्यस्य, मालाभूतबला 3 कानामिव देशकृतपौर्वापर्यस्य चाभावादित्यर्थः । समूहानम्बनेति ॥ तत्रापि घटाद्यर्थदीदर्शनेन घटाद्यानुपूर्व्या वाच्यत्वादिति भावः ॥
मास्तु क्रमः वर्णानामेवास्तु पदत्वमित्यत आह ॥ क्रमहीनेति ॥ अभिव्यक्तिक्रम एव वर्णानां पदे क्रम इति भावेन तत्रोक्तदोषं प्रतिबन्द्या परिजिहीर्षुः परोक्तक्रमदषं तावदाह ॥ यत्रेति ॥ उत्पत्तिरेव नेति ॥ वर्णानामुच्चारणजन्यत्वात्तत्र च तदभावादिति भावः ।
1.लिप्यादिक्रमस्येत्यप्यस्ति - ख. 2.च इति नास्ति-छ-रा. ऽवाऽ इत्यस्ति -ग-ख. 3.हका -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 442.
------------------------ ---------- ---------
दृश्यते च टघेत्युक्तेः प्रामादिकत्वं जानतो व्युत्पन्नस्यार्थधीः ॥
यदि कालान्तरीयोत्पत्तिक्रमानुसन्धानात्तत्रार्थधीस्तर्हि समूहालम्बन 1 स्मृतिस्थले ऽपि कालान्तरीयाभिव्यक्तिक्रमानुसन्धानादर्थधीरिति समम् ॥
न चैवं पदादिभावस्याभिव्यक्तिघटितत्वे इदमेकं पदमित्यादिप्रतीतिः श्रावणी न स्यात् । पदाद्युपाधेरभिव्यक्तेरश्रावणत्वादिति वाच्यम् । मनसोपनीतस्याभिव्यक्तिक्रमस्य श्रावणत्वोपपत्तेः ॥
तथाच तत्र प्रागभावादिप्रतियोगित्वमप्रामाणिकमिति 2 क्रमः । विपरीतक्रमस्थले तु व्यक्तम् ॥
ननु विपरीतक्रमस्थले घटानुपूर्व्येव नास्ति कथमव्याप्तिरित्यस्तत्र घटार्थबोधरूपकार्यबलेन घटानुपूर्वस्तीति वाच्यमिति
भावेनाह ॥ दृश्यते चेति ॥ इति सममिति ॥ तथा च घटाकाराभिव्यक्तिसमानकालीनप्रागभावप्रतियोग्यभिव्यक्तित्वं टस्य टाकाराभिव्यक्तसमानकालीनध्वंसप्रतियोग्यभिव्यक्ति 3 कत्वं घकारस्येत्यादिरूपेण घटाद्यानुपूर्वी सम्भवत्येव ॥
न च समूहालम्बनस्थले घटाद्यर्थधीदर्शनेन तत्र घटाद्यानुपूर्व्यामव्याप्तिरिति वाच्यम् । तत्रापि स्मृतकालान्तर्यो 4 क्तरूपानुपूर्व्या एवार्थधीजनकत्वेनादोषत्वादिति भावः ॥
अभिव्यक्तेरित्युपलक्षणम् । कालस्येत्यपि 5 ज्ञेयम् । मनसेति ॥
1.स्मृतिपदं न -क. 2.न इत्यधिकं-इ. 3.मिवक्रमः - अ. 3.पूर्व इत्यधिकं-इ. 4.रोक्ति-इ. 5.ध्ये-इ.
वनां-नित्वेपि-क्रपा-दनं) वर्णवादः पु - 443.
----------------------- -------- --------
तस्माद्वर्णानां नित्यत्वेन तदनित्यत्वरूपस्य बाधकस्याभावान्नित्य एव वेदः ॥
अभ्युपेत्य चेदमु 1 दितं वर्णाननित्यत्वं वेदनित्यत्वबाधकमिति । वस्तुतस्तु वर्णानामनित्यत्वेपि नियतानुपूर्वीकत्वरूपस्य नित्यत्वस्य न हानिः । 2 वर्णानित्यत्वोक्तिस्तु वस्तुस्थिति प्रदर्शनार्था । उक्तं हि सुधायां,"वस्तुतत्वविचारकं प्रति 3 वर्णानां कूटस्थनित्यत्वमुपपादित"मिति ॥
वर्णानां नित्यत्वम् 4

11.28

पररीत्या ध्येयम् । अभिर्व्यक्तेर्ज्ञानत्वेन तस्य परमते मानसत्वात् । कालस्यचानुमानिकत्वात् । सिद्धान्ते तु साक्षिणेति ध्येयम् । ज्ञानसामान्यसामग्रीमादायानुपनीतोपि कालो भासत इति कैश्चिदङ्गीकाराक्तालो नोक्त इत्याहुः ॥
"ननु तथापि वर्णसमुदायरूपस्य वेदस्य न नित्यत्वमित्या"दिनोक्तचोद्यनिरासमुपसंहरति ॥ तस्मादिति ॥ उक्तं हीति ॥"प्रत्यक्षः कस्यचिद्धर्म"इत्येतत्पद्यव्याख्यावसाने वर्णनित्यत्वस्य वेदनित्यत्वानुपयोग मुक्त्वा तर्हि तत्वनिर्णयवर्णनित्यत्वं किमर्थ 5 मित्यतः तत्कथनस्य कृत्यमुक्तं सुधायामित्यर्थः ॥
वर्णानां नित्यत्वेपि क्रमोपपादनम्

11.29

वर्णनित्यत्वादः 6
1.मुक्तं -ग. 2.वर्णेत्यादिग्रन्थः नास्ति-क. 3.तु इत्यधिकं-ग. 4.त्वेपि क्रमोपपादनं -च-मु. 5.मुक्त मित्यधिकम् -मु. 6.समाप्त इत्यधिकं - मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 444.
----------------------- ----------- ----------
यच्चोच्ये । आकाशात्मकश्रोत्रेणा वर्णाः समवायेन सम्बन्धेन गृह्यन्त इति तन्न । वर्णानां नित्यविभुद्रव्यत्वात्समवाये मानाभावाच्च ॥
1 ननु यद्यपि समवाये प्रत्यक्षं न प्रमाणम् ।
न"न्वाकाशगुणे शब्दे व्यज्यमाना वर्णादय"इति ध्वनेरे वाकाशगणुत्वोक्तिरयुक्ता । वर्णानामप्याकाशगुणत्वात् । अन्यथा श्रोत्रेण सह सम्बन्धायोगेन वर्णग्रहणानुपपत्तेः । आकाशगुणत्वेत्वाकाशात्मकश्रोत्रेण तद्गु 2 णस्य वर्णस्य समवायेन ग्रहणोपपत्तेरित्यतः संयोगसमबन्धेनैव तद्ग्रह इति भावेन"समवायाभ्युपगमाच्चेति"सूत्रदूषितं समवायं निरसितुमाह ॥ यच्चेति ॥ नित्यविभुद्रव्यत्वादिति ॥ अन्य 3 थानुविधानाभावादिना घटादेरिव
द्रव्यत्वस्य पूर्वोक्तदिशा नित्यत्वस्य. काश्यां श्रुत एव गकारोत्रापि श्रूयत इति प्रत्यभिज्ञानात्तावती वागिति श्रुतेर्विभुत्वस्य, च सिद्धेर्गुणत्वे मानाभावाच्चेत्यर्थः॥
न च शब्दो गुणः सामान्यवत्वे सत्यस्मदादिबाह्ये 4 न्दियग्राह्यत्वाद्रूपवदित्यनुमानं गुणत्वे मानमिति वाच्यम् । ध्वनिशब्देन
सिद्धसाधनत्वात् । वर्णात्मक इत्युक्तावपि हेतोरप्रयोजकत्वात् । घटादीनामेकेन्द्रिया 5 ग्राह्यत्वेप्यात्मनस्तथात्ववद्द्रव्यस्यैव सतो बाह्येकेन्द्रियग्राह्यत्वेपि विरोधाभावात् । निरवयवद्रव्यत्वे बाह्येन्द्रियग्राह्यत्व 6 विरोध इति चेत् । निरवयद्रव्यत्वस्यात्मन इन्द्रियग्राह्यत्ववत् बाह्येन्द्रियग्राह्यत्वेप बाधकाभावेन व्यात्पिनिश्चयादिति सुधायामेव व्यक्तत्वादिति भावः । यद्यपीत्यस्य तथापीति वक्ष्यमाणेनान्वयो ध्येयः॥
1.ऽननुऽ इति नास्ति - छ-मु-रा. 2.द्ग्रहण- इ. 3.न्यानुवि -मु. 4.ह्येकेन्द्रि - मु-इ. 5.यग्रा -अ. 6.त्वं वि - इ.
समावाये प्रमाणभङ्गः) समवायवादः पु - 445.
--------------------- ----------- -------
इमौ संयुक्तावित्यादिवदीमौ समवेताविति वानयोः समवाय इति वा अननुभावात् । समवायं जानामीत्यननुव्यवसायाच्च । रूपी घट इत्यादेश्चाभाववद्भूतलमित्यादिवदुपपत्तेः ॥
एतेनायं तन्तुपसम्बन्धप्रत्ययश्याक्षुषः चक्षुरन्वयव्यतिरेकानुविधायित्वात् घटप्रत्ययवदिति समवाय 2 प्रत्यक्षत्वसाधनमप्यपास्तम् । उपादनोपादेयाभेदवादे आश्रयासिद्धेः।
समवायवादे पूर्वपक्षे मण्युक्तदिशा निराह ॥ इमाविति ॥ अननुभवो ऽसिद्ध इत्यत आह ॥ समवायं जानामीति ॥
यद्वा समवायो हि विशेषणत्वेन वा विशेष्यत्वेन वा अयं घटैतिवदसमवाय इति 3 समवायत्वरूपस्वरूपेण वा संसर्गविधया वा भासेत । तत्राद्यं 4 आह ॥ इमाविति ॥ द्वितीय 5 आह ॥ अनयोरिति ॥ तृतीय 6 आह ॥ समववायमिति ॥ तथा च समवायत्वेन समवाय 7 प्रत्यक्षमसिद्धमिति भावः ।
चतुर्थ 8 आह॥ रूपीति ॥ संसर्गविधयैव प्रतीयमानसम्बन्धस्याभावभूतलसम्बन्धवत् समवायभिन्नसम्बन्धत्वेनाप्युपपत्या समवायत्वासिद्धेरित्यर्थः । ज्ञान 10 मिष्टमित्यादिप्रत्यय आदिपदार्थः । सम्बन्धप्रत्यय इति ॥ तन्तुषु पट इति संसर्गविधया तन्तुपटसम्बन्धविषयकः प्रत्यय इत्यर्थः । विशेषणत्वादिना तत्प्रत्ययस्यासिद्धेरुक्तत्वाद्वक्ष्यमाणार्थान्तरानवकाशाच्च । स्व 11 रीत्याह । उपादानेति॥ पररीत्याह -- तद्भेदेति ॥
1.संयोग इतिवदनयोः -ग. 2.यस्य -ग-ख. 3.ऽअयंऽ इत्यादि नास्ति -इ. 4.द्यमा-अ. 5.यमा-अ. 6.यमा-अ. 7.यः प्रत्यक्षसिद्ध इति भावः इत्यस्ति-इर्. 8.थमा-अ. 9.षयतयैव-इ. 10.तमि-मु. ननिष्ठ-इ. 11.मतरि -मु- इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 446.
------------------------ ------------ ---------
तद्भेदवादेपि घटाभावभूतलयोरिवेहापि स्वरूपसम्बन्धस्य चाक्षुषत्वेनार्थान्तरात् ॥ एतेन रूपी घट इति धीर्विशेषणविशेष्यसंबन्धविषया विशिष्टधीत्वात् दण्डीति धीवत् ; इह तन्तुषु पट इत्यादिरिहप्रत्ययः आधाराधेयसम्बन्धनिमित्तकः अबाधितेहप्रत्ययत्वात् । इह 1 कुण्डे बदरमिति धीवत् ; जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धनियतः भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात् सघटं भूतलमितिव्यवहारवत् ;
समवायसाधकप्राचीनानुमानान्याशङ्क्य मण्युक्तदोषोक्त्या निराह ॥ एतेनेत्यादिना ॥ भूतले ऽभावप्रत्यवदन्यथोपपत्तिकथनेनेत्यर्थः । अपास्तमित्यन्वयः । भ्रमे व्यभिचारनिरासायाबाधितेति हेतुविशेषणोक्तिः । जात्यादीति ॥ ब्राह्यणोयं, शुक्लः पटः ; चलति गौः, विशिष्टः परमाणुरित्यादिजातिगुणक्रियाविशेषष्टव्यवहार इत्यर्थः । सम्बन्धनियत इति ॥ स्वविषयसम्बन्धव्याप्त इत्यर्थः । तेन श्रोत्रादिसंबन्धनैयत्येन नार्थान्तरम् । जातिरित्याद्यविशिष्टव्यवहारे अव्यभिचाराय विशिष्टेति हेतुविशेषणम् । इदं रूप्यमित्यादिबाधितसम्बन्दकविशिष्टव्यवहारे ऽव्यभिचारायाबाधितेति ।
अभाववद्भूतलमित्यादिभावाभावगोचरतादृशव्यवहारे ऽव्यभिचाराय भावमात्रेति ॥ सघटमिति ॥ संयोगस्तत्र सम्बन्ध इति
भावः ॥
1.तु इत्यधिकम् - ग.
सये-प्रम-भङ्गः) समवायवादः पु - 447.
-------------- ----------- ----------
एते तन्तवः एतत्पटचसंबद्धाः एतदाश्रयत्वात् भूतलवत् ; भूतलरूपादयो भूतलसम्बद्धाः भूतलविशेषणत्वात् घटवदित्याद्यनुमानम 1 पास्तम् । 2 अयं संयोगः एतदन्यसंयोत्वरहितसम्बन्धान्यः मेयत्वादि 3 त्यादि तु स्वव्याहतम् ।
भूतलवदिति ॥ संयोगसम्बन्धेन पटाश्रयभूतलवदित्यर्थः पक्षे 4 संयोगस्य बाधात्समवाय एव सिध्यतीति भावः । रूपवद्भूतलमिति प्रतीतिमनुरुध्याह ॥ भूतलविशेषणत्वादिति ॥
यद्वा भूतलिविशेषणत्वादित्यस्य भूतलाश्रितत्वादित्यर्थः अत एव घटवदित्युक्तिः । अन्यथा घटवद्भूतलमिति प्रतीयमानघटवदिति व्याख्येयम् ॥
स्वरूपसम्बन्धेनार्थान्तरादिति ॥ न च स्वरूपाणामनेकत्वेन गौरवापत्तेः ईश्वरानुमाने कर्तेकत्ववल्लाघवादेकः समवाय एव सिध्यतीति वाच्यम् । तथात्वे अभाववद्भूतलं ज्ञातो घटः इष्टो घट इत्यादावपि तादृशसंबन्धाङ्गीकारापत्तेः । तत्र तादृशसम्बन्धस्य बाधात्स्वरूपाणामनेकत्वेपि कॢप्तत्वेन गौरवस्यादोषत्वात् । स्वरूपसम्बन्धेनैव विशिष्टप्रत्ययाद्युपपत्तेर्नैकसम्बन्धकल्पनेति चेत् । समं प्रकृतेपि । विवरिष्यते चैतदग्रे नापि गुणक्रियेत्यादिमण्युक्तानुमानान्त 5 रखण्डनप्रस्ताव इति भावः । पक्षभूतसंयोगपरामर्शः । एतदन्यो यः संयोगः 6 एतदन्यसंयोगः स्तम्भ---
1.अपि इत्यधिकम्-क. 2.भगवतेति नास्ति -च-ग-ख. 3.घटवत् इत्यधिकम् -ख. 4.च इति नास्ति -इ. 5.अन्तरपदं नास्ति-इ. 6.एतदन्यसंयोग इति नास्ति-मु-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 448.

------------------------ ------------ ---------
रूपादिरिन्द्रियसंबद्धः प्रत्यक्षत्वात् घटवदित्यत्र तु अभावादाविव संयुक्तविशेषणतादिरूपसम्बन्धेनार्थान्तरम् ॥
--कुम्भा 1 दिसंयोगस्तस्य भावः एतदन्यसंयोगत्वम् । तद्रहितो यः सम्बन्धः पक्षीकृतसंयोगस्तदन्यः कश्चित्सम्बन्धश्च भवति । तथा च पक्षे पक्षीकृतसंयोगान्यत्वस्य बाधात् अपूर्वसम्बन्धान्तरादन्यत्वमादाय 2 साध्यपर्यवसानमिति समवायसिद्धिः । दृष्टान्ते च घटादौ पक्षभूतसंयोगरूपसंम्बन्धान्यत्वेन साध्यानुगमो बोध्य इत्यादि तु विशिष्टव्यतिरेक्य 3 नुमानमित्यर्थः ॥ स्वव्याहतमिति ॥ अद्या 4 पि समवायरूपसम्बन्धान्तरस्यासिद्ध्या तदादाय साध्यपर्यवसाने बाधात्स्वान्यत्वेनैव साध्यपर्यवसानं वाच्यम् । तव्द्याहतमित्यर्थः ॥
यद्वा एवमेव संयोगसमवायविशेषावपि पक्षीकृत्य एतदन्यसंयोगसमवायित्वरहित 5 सम्बन्धान्यः मेयत्वाद्घटवत्, अयं घटः एतदन्यघटत्वरहितघटान्यः मेयत्वात्पटवदित्यादिप्रयोगस्यापि संभवेन संयोगसमवायान्यसम्बन्धः अपूर्वघटादिश्च सिध्येदिति स्वव्याहतमित्यर्थः ॥
अन्ये त्वित्यादिना मण्युक्तमेवाशङ्क्य निराह ॥ रूपादिरिति ॥ क्रियाजात्यादिरादिशब्दार्थः । प्रत्यक्षत्वात्प्रत्यक्षविषयत्वादित्यर्थ) । अत्र संयोगबाधे इन्द्रियसम्बन्धघटकतया समवायसिद्धे 6 रिति भावः । अभावादाविति ॥ यथा अभाववद्भूतलमिति गृह्यमाणे घटाभावादिः चक्षुः संयुक्तभूतलविशेषणतया त्वन्मते गृह्यते यथा च घटादौ रूपादिसमवायः चक्षुःसंयुक्तघटादिविशेषण 7 तया गृह्यते 8 अभावसमवायाभ्यां चक्षुः 9 समवायादेरभावात् । एवमेव रूपादिरप्यस्तु । तथा च समवायासिद्ध्यार्थान्तरमित्यर्थः ॥
1.भयोः सं-मु-इ. 2.संसाध्य-अ. 3.कानु-इ. 4.आद्येपि-इ. 4.तः स -इ. 6.द्धिरि-अ. 7.षतया-इ. 8.त्वन्मत इत्यधिकं-मु-इ. 9.षः संयोगा -अ.
सये-प्रण-भङ्गः) समवायवादः पु - 449.
--------------- ------------ ----------
तथापि मण्युक्तं गुण्यादिना सह गुणक्रियाजातिविशिष्टयथार्थबुद्ध्यः सम्बन्धभिन्नसम्बन्धविषयाः निर्वि 1 कल्पकभावमात्रविषयकविशिष्टबुद्धित्वात् इतरनिरूपणानिरूप्यविशिष्टबुद्धित्वाद्वा दण्डीतिबुद्धिवदित्यनुमान 2 मिति । तन्न । काले घटरूपमित्यादिप्रतीतौ व्यभिचारात् ।
नव्यास्त्वित्यादिनोक्तमाह-- तथापि मण्युक्तमिति ॥ गुण्यादिनेति ॥ क्रियावदा 3 दिरादिपदार्थः । भ्रमबुद्धिषु बाधवारणाय यथार्थेति ॥ आरोपितसम्बन्धविषयत्वेनार्थान्तरवारणाय वा यथार्थेत्युक्तिः । गुणगुण्यादिसमूहालम्बने बाधनिरासाय -- विशिष्टेति ॥ विशेषण 4 त्वावगाहीत्यर्थः । स्वरूपसम्बन्धेनार्थान्तरवारणाय साध्ये सम्बन्धिभिन्नेत्युक्तिः । आद्ये हेतौ निर्विकल्पकादावव्यभिचाराय विशिष्टेति विशेषणम् । अभाववद्भूतलमिति बुद्धावव्यभिचाराया भावमात्रविषयकेति ॥ ज्ञातो घट इत्यादिबुद्धावव्यभिचाराय निर्विकल्पकेति भावविशेषणम् । इतरेति ॥ इतरनिरूपणेनानिरूप्यः 5 विशेष्यविशेषणविषयकबुद्धित्वादित्यर्थः । अभाववद्भूतलं ज्ञातो घट इत्यादिबुद्धावव्यभिचाराय इतरनिरूपणानिरूप्येति । निरूपणं नाम ज्ञानमभिलपनं वा ॥ इत्यादीति ॥ इदानीमाकाशः वीणायां शब्द इत्यादिप्रतीतिरादिपदार्थः । व्यभिचारादिति ॥
द्वयोरपि हेत्वोरिति भावः ॥
1.षयकबु-ग. 2.नं मानमिति इत्यस्ति -च-क-ग-रा. 3.आदिपदं न -मु. 4.षत्वा-इ. 5.प्यविशे-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 450.
------------------------ ------------ -----------
त्वन्मते घटगतस्य रूपस्य कालेन सह सम्बन्धिभिन्नसम्बन्धाभावात् ॥
तदुक्तं भगवता सूत्रकृता ।"समवायाभ्युपगमाच्च साम्यादनवस्थितेः" ।रिति ।
उक्तप्रतीतौ साध्याभावं व्यनक्ति-- त्वन्मत इति ॥ स्वमते कालेन सह सर्वस्य
वस्तुमात्रस्य संयोगे बाधकाभावात् त्वन्मत इत्युक्तिः । संयोगस्य सम्बन्धिना भिन्नाभिन्नत्वेन भिन्नत्वस्यापि सत्वात् ॥
ननु बुद्धित्वादित्यस्य प्रत्यक्षत्वादित्यर्थ इति चेत् तथापि तादृशोपनातप्रत्यक्षबुद्धौ व्यभिचारात् ॥
न च लौकिकप्रत्यक्षबुद्धित्वादिति तदर्थ इति वाच्यम् । सुरभिचन्दनमित्याद्यलौकिकविशिष्टबुद्धौ भागसिद्धेः । तदन्यविशिष्टबुद्धिपक्षीकारे चार्थान्तरता । विशिष्टबुद्धिमात्रस्याव तादृशसम्बन्धविषयकत्वे विवादात् । एवं सति निर्विषयकेति विशेषणवैयर्थ्यापत्तेश्च । ज्ञातो घट इत्यादिबुद्धावुपनीतज्ञानादिविशिष्टबुद्धेरलौकिकत्वादेव व्यभिचाराप्रसक्तेः ॥
न च ज्ञानसत्ववेलायामात्मा ज्ञान इति वर्तमानविशिष्टा 1 त्मबुद्धौ दोषवशात्समवायसम्बन्धाभा 2 नेन विषयविषयिभावमात्रभानं तत्राव्यभिचाराय निर्विषयकेत्युक्तिरिति वाच्यम् । एवमपि रूपं समवेतमित्यादि समवायविशिष्टबुद्धौ त्वन्मते व्यभिचारापरिहारात् ॥
न च समवायासिद्धिदशायां तत्प्रतिसा 3 धनं नेति वाच्यम् । आपाततः प्रतीतेः सम्बन्धे व्यभिचारं पश्यतो व्याप्तिग्रहवैमुख्येन तद्ग्रहसंभवादिति वक्ष्यमाणदोषात् । वस्तुगत्या व्यभिचारजन्यानुमितेर्भ्रमत्वावश्यंभावाच्च । विषयाबाधस्याद्याप्यसिद्ध्या विषयाबाधात् प्रमात्वमित्यस्याप्ययोगाच्चेति भावः ॥ तदुक्तमिति ॥
1.आत्मपदं न - मु - इ. 2.वेन - अ. 3.संधा - मु. । 2-2-13. ब्र.सू.
सये-प्रण-भङ्गः) समवायवादः पु - 451.
--------------- ----------- --------
हेतोः पक्षसपक्षयोरिव काले घटरूपमितिप्रतीतिरूपविवक्षेपि सत्वसाम्यात्साध्येनैव सम्बन्ध इति व्यवस्थित्यभावा 1 दित्यर्थः ॥
किञ्च समवायसिद्ध्यनन्तरमपि समवायेतरसम्बन्धिभिन्नसम्बन्धविषया इत्यपि सुसाधम्, एवं तत्सिद्ध्यनन्तरं तदुभयेतरसम्बन्धिभिन्नसम्बन्धविषया इत्यपि सुसाधम् 2, एवं तत्सिद्ध्यनन्तरं तन्त्रितयेतरसम्बन्धिभिन्नसम्बन्धविषया इत्यपि सुसाधमिति सम्बन्धानन्यप्रसङ्गः ॥
एतदप्युक्त"मनवस्थितेरि"ति 1 साध्ये सम्बन्धिभिन्नेतिवत्सम्बन्धिसमवायाभिन्नेत्यपि विशेष्टुं शक्यत्वसाम्यात्सम्बन्धानन्त्यप्रसङ्गादित्यर्थः ॥
समवायसाधकहेतोरनेकान्त्यमित्ये 3 तत् समयपादे वैशेषिकाधिकरणे उक्तमित्यर्थः॥
ननु कथमेषोर्थः सूत्राक्षराल्लब्ध इत्यतः पूर्वभागस्य समवायाभ्युपगमाच्च वैशिषिकमतमसमञ्जसमितिव्यक्तमित्युपेत्य सुधाद्यनुक्तमुत्तरांशस्यार्थान्तरं स्वयं व्यनक्ति-- हेतोरिति ॥ सूत्रस्य विश्वतोमुखत्वान्नानेकार्थत्वं दोषः, प्रत्युत गुण एवेति भावः । बुद्धिपदं लौकिकप्रत्यक्षपरमतो न दोष इत्यतो दोषान्तरं तर्कपराहतिमनुमानस्याह -- किञ्चेति ॥ समवायसिद्ध्यसिद्भिभ्यां तर्कपराहतेपहतिरिति त्वापातत इत्यादि ग्रन्थेन निरसिष्यत इति भावः । समवायेतरेति ॥ सम्बन्धविशेषणम् ।

1.वप्रसङ्गादि - क-ग. 2.ऽततःऽ इति सम्बन्धानन्त्येऽ त्येवास्ति. पुनः एवमित्यादि नास्ति -च-क-रा. आदितः एवमित्याद्यपि नास्ति-ग. 3.वसम-अ.
न्यायदीपुयततर्कताण्डवम् (प्र.परिच्छेदः पु - 452.
------------------------ ------------ ----------
अपि च त्वदभिमते पटस्तन्तुसमवेत इति विशिष्टज्ञाने व्यभिचारः । 1 तन्तुपटयोरिव समवायिसमवाययोरपि सम्बन्धान्तरङ्गीकारे त्वनवस्था । न च समवायस्य सिद्धौ व्यभिचारः किं करिष्यति असिद्धौ 2 क्वानैकान्त्यमिति वाच्यम् । आपाततः प्रतीते सम्बन्धे व्यभिचारं पश्यतः व्याप्तिग्रहे वैमुख्येन तद्ग्रहासम्भवात् । अन्यथा तव 3 निर्विकल्पकसाध्यके 4 विशिष्टप्रत्ययत्वादिति हेतौ विशिष्टपदं व्यर्थं स्यात् 5 ।
समवायानन्त्येति ॥ द्वित्वसमवायासिद्ध्यनन्तरमपि तद्भिन्नेत्यपि सुवचत्वादिति भावः ॥
सुधोक्तं व्यभिचारमेवाह -- अपि चेति ॥ तन्तुसमवायविशेषण
कपटविशेष्यकज्ञान इत्यर्थः । सुधोक्तं एव शङ्कोत्तर आह -- न चेत्यादिना ॥ समवायस्यान्यनिरूपणनिरूप्यत्वाद्धेतावन्यनिरूपणानिरूप्येत्युक्तत्वात् न व्यभिचार इति चेत् । 6 आद्यहेत्वभिप्रायेणैव 7 तद्ग्रन्तप्रवृत्तेः । अत एव सुधोक्तव्यभिचारस्य पश्चादुक्तिः । व्यर्थमिति ॥ जात्यादिविशिष्टप्रत्ययो विशेषणज्ञानजन्यः विशिष्टप्रत्ययत्वादित्यत्र विशिष्टपदस्य निर्विकल्पके व्यभिचारवारणार्थत्वात् । तत्रापि विर्विकल्पकस्य सिद्धौ व्यभिचारः किं करिष्यति, असिद्धौ तु क्वानैकान्यमिति सुवचत्वादिति भावः । प्रथमपक्षवदिति । काले घटरूपमिति प्रतीतिरूपेतिपदस्थाने पटस्तन्तुसमवेत इति विशिष्टज्ञानरूपेति बोध्यम् ।
1.अनन्तरं नचेत्याद्येवास्ति-ग. 2.ऽतुऽ इत्यधिकम्-क-ग. 3.वापि-च-क-ग. 4.धके-च-क-ग-रा. 5.एतदप्युक्तमनवस्थितेरिति अर्थस्तु प्रथमपक्षत्वद्रष्टव्यः किञ्च-च-ग-रा. 6.न। इत्यधिकम्-मु. 7.तत्-इ.
सये-प्रण-भङ्गः) समवायवादः पु - 453.
---------------- ------------ -----------
किञ्चाभाववद्भूतलमित्यभाविशिष्टबुद्धिवत् ज्ञातो घट इष्टो घट इति सविषयकज्ञानादिविशिष्टबुद्धिवच्च गुणादिविशिष्टबुद्धेरपि स्वरूपसम्बन्धेनैवोपपत्या अप्रयोजकत्वम् ॥
अन्यथा हि ज्ञानेच्छाद्वेषकृतीनां स्वविषयैः सह विशिष्टसत्यबुद्धयः, ---
सुधायां तु अनवस्थितेरिति सूत्र 1 मस्मिन्पक्षे कथं इत्थम् । यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते तदानवस्थिति"रिति योजितम् ॥
हेतुद्वयस्याप्यप्रयोजकत्वं क्रमाद्दृष्टान्तोक्तिपूर्वकमाह -- किञ्चेति ॥ गुणादिविशिष्टबुद्धेरपीत्यापिपद 2 स्य भावमात्रविषयकत्वेपि इतरनिरूपणानिरूप्यविशिष्टबुद्धित्वेपीत्यर्थः । अनुकूलतर्कादेरभावादिति भावः॥
अनुकूलतर्कादेरभावेप्यभावादि 3 विशिष्टबुद्धिव्यावर्तकविशेषणायुक्तहेतुमात्रेणोक्तरूपसाध्यसाधनं चेत्तर्हि
गुणादिविशिष्टबुद्धिव्यावर्तकविशेषणयुक्तहेतुमात्रेणाप्यभावादुक्तरूपसाध्यसिद्ध्यापातेन गुणादिविशिष्टबुद्धौ स्वरूपसम्बन्धोन्यत्राभावादिविशिष्टबुद्धावतिरिक्तसम्बन्ध इति स्यादित्याह -- अन्यथेति ॥ अभावादिविशिष्टबुद्धिव्यावर्तकविशेषणयुक्तहेतुमात्रेणोक्तरूपसाध्यसिद्धावित्यर्थः । वैपरीत्यं स्यादित्यन्वयः । वैपरीत्यं व्यनक्ति -- ज्ञानेति ॥ ज्ञातो घटः, दृष्टो घटः, द्विष्टः, कृत, इति ज्ञानादिविशेषणकघटविशेष्यकयथार्थबुद्धय इत्यर्थः । आरोपितसम्बन्धविषयकत्वेनार्थान्तरवारणाय सत्येत्युक्तिः ॥
अभावविशिष्टबुद्धी 4 नामविशिष्टबुद्धिसाधारण्येनापि पक्षनिर्देशमाह -- असंयुक्तेति ॥
1.अस्मिन्पक्षे इति नास्ति - इ. 2.दभा-मु. दस्वभा-अ. 3.ऽभावःऽ इत्यारभ्य एतत्पर्यन्तं नास्ति -इ. 4.अभावविशिष्टबुद्धिनामविशिष्टबुद्धिसाधार इत्यस्ति-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 454.
----------------------- ---------- ----------
असंयुक्तयुतसिद्धानां परस्परं विशिष्टसत्यबुद्धयो वा, सम्बन्धिभिन्नसम्बन्धविषयाः युतसिद्धविषयकविशिष्टबुद्धित्वात् दण्डीति बुद्धिवदित्यनु 1 मानेन युतसिद्धानां 2 ज्ञानादीनां स्वविषयैः सह दण्डस्य पुरुषेणेव सम्बन्धिभिन्नसम्बन्धः ; अयुतसिद्धानां गुणादीनां तु गुण्यादिभिः सहाभावस्य भूतलेनेव स्वरूपसम्बन्ध इति विपरीतं स्यात् ॥
एवमसंयुक्तविषयकसत्यविशिष्टबुद्धयः सम्बन्धिभिन्नसम्बन्धविषयाः विशिष्टबुद्धित्वात् दण्डीति बुद्धिवदित्य 3 नुमानेन गुणादीनां गुण्यादिभिर्ज्ञानादीनां ज्ञेयादिभिरभावस्य चाधिकरणेन सह दण्डस्य पुरुषेणेव सम्बन्धिभिन्नसम्बन्धः सिद्ध्येत् ।
परस्परविशिष्टेति ॥ अभाववद्भूतलं डित्थोयं ज्ञातो घट इत्यादिविशिष्टयथार्थचबुद्धयो वेत्यर्थः । ज्ञानादीनामिति ॥ ज्ञानेच्छाद्वेषकृत्यभावनाम्नामित्यर्थः । स्वविषयैरिति ॥ ज्ञानाद्यपेक्षयोक्तम् । अभावादेस्तु स्वविशेष्येण सहेति ज्ञेयम् ॥
एवं वैपरीत्यमापाद्य सर्वत्रैकरूपलक्षणमतिप्रसङ्गान्तरमाह -- एवमिति ॥ अन्यथेत्यनुकर्षः । यथा वैपरीत्यं तथा हतौ विशेषमात्रानुपादानेन सर्वत्रैकरूप्यमपि स्यादित्येवंशब्दार्थः । हेतोरप्रयोजकत्वं निरस्य फलितमाह -- एवं चेति 4 ॥
1.त्यनेन-च-क-ग-रा. 2.गुणादीनां इत्यद्येवास्ति. ऽज्ञानादीनांऽ इत्यादि नास्ति-क. 3.नेन-च-क-ग-रा. 4.हेतोरित्यादि नास्ति-मु.इ.
सये-प्रण-भङ्गः) समवायवादः पु - 455.
---------------- ----------- -------
एवं च सम्बन्धिभिन्नसम्बन्धविषयत्वे विशिष्टबुद्धित्वस्यैव तन्त्रतया लाघवे 1 नैकरूप्यं च भवति ॥
एतदप्युक्त"मनस्थिते"रिति । युतसिद्धत्वसाम्येति ज्ञानादीनां स्वविषये सह स्वरूपसम्बन्धः चैत्र 2 दण्डयोस्तु संयोगः ; एवमयुतसिद्धत्वसाम्येति भूतलाभावयोः स्वरूपसम्बन्धः गुणगुण्यादेः समवाय ; इत्यादित्वदुक्तव्यवस्थितिभङ्गादित्यर्थः ॥
नापि गुणक्रियाजाति विशिष्टसत्यचबुद्धयः विशेषणसम्बन्धविषयाः विशिष्टबुद्धित्वात् दण्डीति बुद्धिवत् । ज्ञातो घट इत्यादिबुद्धिरपि स्वरूपसम्बन्धविषयेति न व्यभिचारः । न चात्रापि तेनैवार्थान्तरं स्वरूपाणामनन्ततया गौरवेण लाघवादेकस्यैव सम्बन्धस्य सिद्धेरिति वाच्यम् । समवायस्वरूस्य च तद्गतसम्बन्धत्वस्य कल्पनादपि धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायेन सिद्धानां गुणादिस्वरूपाणां भूतलघटाभावादौ कॢप्तस्य सम्बन्धत्वरूपधर्ममात्रस्य कल्पने लाघवात् ॥
उच्यत इत्यादिना मणुकृता सिद्धान्तितमनुमानान्तरं च निराह -- नापीति ॥ पूर्ववदेव सत्यपदकृत्यं बोध्यम् । तदुक्तरीत्यैव परिष्करोति -- ज्ञात इत्यादिना ॥ एकस्येति ॥ सकर्तृत्वानुमाने एकस्य कर्तृरिवेति भावः । 4 अन्यथोपपत्तावपि लाघवतर्कानुरसणे 5 प्रतिबन्दीरूपातिप्रसङ्गं चाह - अन्यथेति ॥ मात्रपदं प्रागभावादिसर्वाभावपरम् ॥

1.वमैक-च-क-ग-रा. 2.विषययोस्तु -क. 3.सत्यविशिष्टबुद्धयः -- च. 4.ऽएकस्येतिऽ इत्यादि नास्ति -- इ. 5.णप्र - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 456.
------------------------ ----------- ----------
अन्यथा अभावमात्रविशिष्टसत्यबुद्धिं पक्षीकृत्य सम्बन्धविषयत्वसाधने लाघवादभावमात्रानुगत एको नित्यः संबन्धः सिध्येत् ॥
1 एवमभाववयविगुणक्रियाजातिविशिष्टसत्यबुद्धिं ज्ञातो घट इत्यादिबुद्धिं च पक्षीकृत्य सम्बन्धविषयत्वसाधने लाघवादभावे गुणगुण्यादौ ज्ञा 2 नेच्छादौ चैको नित्यः सम्बन्धः सिद्ध्येत् ॥
एतदप्युक्त"मानवस्थिते"रिति । लाधवतर्कानुग्रहस्य धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायस्य च साम्येति अभावादौ स्वरूपसंबन्धः गुणादौ तु तदन्य इति व्यवस्थित्ययोगादित्यर्थः ।
नन्वत्र विशिष्टबुद्धित्वं वा सविकल्पकबुद्धित्वं वा द्वयोरपि सम्बन्ध 3 विषयबुद्धिपर्यवसानेन साध्याविशेष इति चेन्न विशेषणधीजन्यबुद्धित्वं वा अविशिष्ट 4 बुद्धित्वमित्युपपत्तेः । अन्यथा तव प्रयोगेप्यस्य दोषः सा 5 मान्यात् । विशेषणधीजन्यत्वस्या 6 विशिष्टो व्याप्यवृत्तिधीजनकत्वस्य 7 च बुद्धेः सम्बन्ध 8 विषयकत्वज्ञानं विना दुर्ज्ञानत्वं चेत्तवाप्येव दोषः समान एव । विशेषण 9 ताबुद्धिगोचरबुद्धित्वेन तद्ग्रहे च उपजीव्यत्वेन तस्यैव हेतुत्वमस्त्वित्येतदपि समानमिति भावः ॥
1.इतः ऽ एतदप्युक्तमिति पर्यन्तं नास्ति -गृ-रा. 2.नज्ञेयादौ च -च-क-. 3.न्धि-इ. 4.वावृत्तिबुद्धिजनकबुद्धित्वं वा विशिष्ट इत्यधिकम्-इ. 5.साम्यात्-इ. 6त्वमपि-अ. 7.त्वं च -अ. 8.न्धापि-इ. 9.णगोचर-इ.
सये-प्रण-भङ्गः) समवायवादः पु - 457.
---------------- ------------- -----------
ननु तथात्वे पटाभाववति घटवति 1 घटाभावधीः स्यात् । अभावमात्रे वैशिष्ट्यस्यैकत्वात् । एवं घटादेः स्वविष 2 यकज्ञानादिना नित्यसम्बन्धवत्वे आत्मत्वं स्यादिति चेत् । तर्हि तवापि स्पर्शवति रूपाभाववति वायौ रूपधीः स्यात् । समवायस्यैकत्वात् । एवं घटादेरप्यात्मत्वं स्यात् । घटत्वसमवायस्यैव ज्ञानसमवायत्वादिति समम् ॥
यदि च वायौ रूपसमवायस्य सत्वेपि रूपेण सह विशेषणताविशेषरूप 3 सम्बन्धाभावात् रूपाप्रतीतिः । तर्हि भूतले घटसत्वकाले घटाभाववैशिष्ट्यस्य सत्वेपि घटाभावेन सह विशेषणता ----
प्रतिबन्दिरूपेणाभावादिविशिष्टबुद्धावप्येकनित्यकनित्यसम्बन्धापादनमयुक्तम् । तत्र बाधकसत्वादिति भावेन मण्युक्तमेव बाधकमाश्कते -- नन्विति ॥ तथात्वे ॥ अभावादावेकनित्यसम्बन्धसत्वे इत्यर्थः । घटाभावसम्बन्धसत्वोपपादनायोक्तम् पटाभाववतीति ॥ तादृशस्थले घटाभावबुद्धेरति 4 रिक्तेष्टत्वनिरासायोक्तं घटवतीति ॥ आत्मत्वं स्यादिति ॥ आत्मनीवेति भावः । अतः समवायत्याग एव युक्त इति भावेन प्रतिबन्द्या समाधत्ते --- तर्हि तवापीति ॥ गुणादावेकनित्यसम्बन्धवादिनोपीत्यर्थः ॥
"वायौ रूपसमवाये सत्यपि रूपात्यन्ताभावोस्ति । न घटे । कथमेवम् । अधिकरणस्वभावादबाधितरूपनिरूपप्रतीतेश्चेते"मण्युक्तमाशङ्क्य निराह -- ननु रूपसमवायवत्यपीति ॥ अयोग्यत्वरूपाधिकरणस्वभावादित्यर्थः ।
1.भूतले इत्यधिकम् - मू. 2.यैकज्ञानादिनित्यसम्बन्धित्वे इत्यस्ति -रा. 3.स्वरूपेत्यधिकम् -रा. 4. अतिरिक्तपदं नास्ति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 458.
------------------------ ------------- --------
-- विशेषी 1 भावात् 2 घटाभावाप्रतीतिरिति (तु) समम् ॥
ननु रूपसमवायवत्यपि वायौ रूपाप्रतीतिरधिकरणस्वभावात् । न चात्रतादृशः स्वभावः कल्प्यः । घटापरणानन्तरं तत्रैवं घटाभावप्रतीतेः । वायौ तु न कदापि रूपप्रतीतिरिति चेत् । तर्हि घटे श्यामतादशायां भविष्यद्रक्तरूपसमवायस्य 3
सत्वेन तदा रक्तरूपधीः स्यादिति समम् । न चत्र वाया विवाधिकरणस्वभावः कल्प्यः । तत्रैव कदाचिद्रक्तरूपप्रतीतेः ॥
ननु तदा रक्तरूपाभावात्तदप्रतीतिः । लौकिकप्रत्यक्षे विषयस्यापि हेतुत्वात् । 4 तव तु घटापनयनकाले सतो घटाभावस्य घटोपनयकालेपि सत्वेन तत्प्रतीतिर्दुर्वारा ।
न चात्रेति॥ घटाभावाधिकरणभूतलादावित्यर्थः । तथात्वे वायौ रूपस्येव भूतले घटाभावधीः कदापि न स्यादिति भावेनाह -- घटापरणेति ॥ कदाचिद्रक्तरूपप्रतीतेरिति ॥ वायाविवि तत्राप्ययोग्यतालक्षणाधिकरणस्वभावकल्पने च सा न स्यादिति भावः ॥
ननु आमघटे श्यामतादशायां रक्त 5 रूपधीरुपनीतप्रत्यक्षरूपापाद्यते ऽथलौकिकप्रत्यक्षरूपा । नाद्यः । इष्टापत्तेः । अन्त्ये विषयसत्वस्य तत्र हेतुत्वेन तदभावादेव तत्र रक्तरूपाप्रत्यक्षतोपपत्तेरिति भावेन पक्षधराद्युक्तमाङ्क्य निराह -- नन्वित्यादिना ॥ मयाप्येवं वक्तुं शक्यमित्यत आह-- तव त्विति ॥ अभावविशिष्टबुद्धावप्येकनित्यसम्बन्धवादिन इत्यर्थः । काल इति ॥ कालयोरित्यर्थः ।
1.षरूपसम्बन्धा इत्यधिकम् -रा. 2.इतः ऽ स्वाभावः कल्प्यःऽ इत्यन्तं नास्ति - छ. 3.तदा इत्यधिकम्-मु. 4.तावत् इत्यस्ति-छ-रा-मु. तु इति नास्ति - ग.
सये-प्रण-भङ्गः) समवायवादः पु - 459.
--------------- ---------- ---------
न हि घटसत्वकाले घटाभावो ऽन्यत्र गतः । अमूर्तत्वात् । नापि नष्टः । नित्यत्वादिति चेन्न । मया घटोपनयापनयकाले भूतले घटसंयोगाभावस्योपरयनकाले अभावात् ॥
किञ्च त्वद्रीत्याश्रयणेपि किमत्यन्ताभावस्य धीरापाद्यते उत्पादविनाशशीलस्य तुरीयाभावस्य वा ।
स्वीकृतत्वेनेति ॥"एतद्गटैतद्भूतलसंसर्गाभावस्यापि यथासम्भवं
प्रागभावादिष्वन्तर्भावादिति"तत्वसङ्ख्यानटीकोक्तेः । तथैव वर्धमानाद्युक्तेश्च । विवृतश्चायमर्थो न्यायामृते असतो निषेधप्रतियोगित्वसमर्थनवादे इति भावः ॥
अभावादिति ॥ ननु उपनेष्यमाणघटसंयोगस्य पूर्वं सतो ऽभावस्य प्रागभावत्वेन पश्चात्तदभावेपि प्राक्सतो घटस्यापयनकाले सतो ऽभावस्य घटसंयोगध्वंसरूपत्वेन तस्य घटो 1 पनयकालेपि सत्वात् कथमप्रतीतिरिति चेत् न । प्राचीनघटसंयोगध्वंसमादायेदानीं घटवत्यपि प्रतीत्यापादन इष्टापत्तेः । पूर्वं घटोत्रस्य एवान्यत्रापनीतः पुनरत्रोपनीत इति प्रतीत्यान्यत्र नीत इति प्रतीतेरिव तत्प्रतीतित्वादिति भावः ॥
नन्वस्त्वेवं भूतलघटो नेति धीस्तत्संयोगाभावविषयेति भवदभिमते दोषाभावः, तार्किकमते भट्टादिमते च स्यादेव दोष इत्यत आह -- किञ्चेति ॥ त्वद्री 2 त्येति ॥ मणिकृद्री 3 त्येत्यर्थः ॥
1.घटपदं नास्ति-मु. 2.त्वदीयेति -इ. 3.दीये-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 460.
------------------------ ------------ ---------

नाद्यः । तस्य त्वत्पक्षे घटाकालेपि स्वरूपात्मकप्रत्यासत्या तत्र सत्वेन तत्प्रतीतेर्दुर्वारत्वात् । नान्त्यः । श्यामतादशायां रक्तरूपस्येव घटसत्वकाले --
ननु प्राचीनरीत्यापि इह भूतले घटो नास्तीति तत्संयोगो निषिध्यत इत्युपनोक्तेः उत्पादविनाशशीलोपि प्रागभावादित्रितयान्यश्यतुर्थः कश्चित्संसर्गाभावोस्तीति मतेनाह -- उत्पादविनाशेति ॥ उक्तं च वर्धमानेन"प्रतियोगिभेदेनेव प्रतियोगितावच्छेदकभेदनाप्यभावभेदात् संयुक्तघटाभावोयं विशिष्टान्तराभाववदुत्पादविनाशशीलोन्य एवेति"॥
स्वरूपात्मकेति ॥ एतेन तदानीन्तनयोर्विशिष्टप्रत्ययजननयोग्यत्वाभावात् न स्वरूपप्रत्यासत्तित्वमिति निरस्तम् । द्वयोः स्वरूपसत्वे प्रत्यासत्तित्वं नेत्यस्य निक्तवचनत्वात् ॥
1 यदुक्तं वर्धमानेन घटान्त्यन्ताभावस्य भूतलेन सह तत्संयोगध्वंसादिरेव सम्बन्ध इति न तदा प्रतीत्यापत्तिरिति । तन्न । अभावाधिकरणयोः सम्बन्धान्तरमन्तरेण
तदुपश्लिष्टस्वभावत्वरूपकॢप्तसम्बन्धत्यागेनार्थसंयोगध्वंसादेः सम्बन्धकल्पने घटस्य कपालेष्वत्यन्ताभावः स्यात् । घट 2 भावे त्वाश्रयाश्रयिभावध्वंसादिरूपसम्बन्धाभावादप्रतीत्युपपत्या बाधकाभावात् । तथा च घटाद्य 3 त्यन्ताभावस्याप्याकाशाद्यत्यन्ताभावस्येव केवलान्वयित्वापत्ते 4 रिति भावः ॥
यत्तु तदा रक्तरूपाभावादप्रतीतिरिति पूर्वमुक्तं तन्न । घटे श्यामतादशायां जपाकुसुमे रक्तरूपभावात् । घटो रक्त इति धीरवर्जनीयैव ।
1.त्तूक्तं-मु. 2.कपालेत्वाश्र-इ. 3.आदिपदं न - मु. 4.त्तिरि -अ.
सये-प्रण-भङ्गः) समवायवादः पु - 461.
---------------- ---------- ----------
तुरीयाभावस्य 1 सत्वेन साम्यात् । रक्तरूपस्यापि श्यामतादशायामेव जपाकुसुमादौ सत्वाच्च । इह नास्तीति चेत् 2 । विशेषणे 3 तस्य विशेष्येण संसर्गे च सति विशेष्ये विशेषणाभावस्यासंभवात् । न हि प्रतियोगिनि रूपे 4 प्रतियोगितवाच्छेदक 5 संसर्गे च सति रूपसंसर्गाभावः संभवी ॥
किञ्च रूपसमवायतोपि वायो रूपराहित्यस्वभाववत् प्रतियोगिमदधिकरणस्यापि प्रतियोगिकाले स्वस्मिन् तत्प्रतियोगिकाभाविशिष्टप्रमित्यजनकत्वस्वभावः कल्प्यम् ॥
समवायैकत्वेन श्यामरूपसमवायस्य घटे सत्वे तदानीमेवान्यत्र विद्यमानरक्तरूपसमवायस्यापि सत्वादिति भावेनाह -- रक्तरूपस्यापीति ॥ इहेति ॥ घटे रक्तरूपं नास्तीति चेदित्यर्थः । विशेषण इति ॥ सतीत्यन्वयः । तस्य विशेषणस्य । प्रतियोगितावच्छेदक इति ॥ रूपं न समवेतमित्यत्र संसर्गस्यावच्छेदकत्वादेवमुक्तम् ॥
पूर्वं परीतिमाश्रित्य प्रतिबन्द्या अभावप्रतीत्यापादानमयुक्तमित्युक्तम्, इदानीं भातलाभावयोर्नित्यसम्बन्धसत्वेपि घटदशायामप्रतीत्युपपादकमाह -- किञ्चेति ॥ प्रतियोगिकाल इत्याद्युक्त्या न चात्र तादृशः स्वभावः कल्प्यः घटापरसणान्तरं घटाभावप्रतीतेरित्युक्तदोषोपास्तो ध्येयः ॥
1.स्यास-क-ग-रा. 2.न इत्यधिकम्-रा. 3.णज्ञाने-क. 4.प्ये-क-रा. 5.के-च-ग-रा.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 462.
----------------------- ------------ --------
अपि च यथा तव चत्वरीयाभावगेहस्वरूपयोर्न प्रतियोगिकाले सम्बन्धत्वं तदाभावाप्रतीतेः, किं तु कदातिदेव, तथा घटसत्वकाले वैशिष्ट्यस्य सत्वेपि न तदा तस्य सम्बन्धत्वमिति । न घटवति घटाभावधीप्रसङ्गः ।
ननु अभावस्य स्वाश्रयेण नित्यसम्बन्धश्चेत् ध्वंसस्यापि स्वाश्रयनाशेन घटोन्मज्जनं स्यात् ।
अत्यन्ताभावस्वीकारवादिना त्वया भूतले घटाभावस्य घटदशायां सतोप्यप्रतीतेरुपपादकत्वेन प्रतियोगिदेशान्यदेशत्वं वा तत्संयोगध्वंसादीरूपो वा सम्बन्धो नेत्युच्यते यथा, तथैवात्र नित्यसम्बन्धपक्षेप्यस्तु तथा च घटापसरणानन्तरमभावधीर्न स्यादितिशङ्काशोपीत्याह -- अपि चेति ॥ चत्वरीयः ॥ चत्वरीयः ॥ चत्वरनिष्ठो यो ऽभावः यच्च गृहं तयोर्ये स्वरूपे तयोर्ग्रहे पटदिलक्षणप्रतियोगिकाले सम्बन्धत्वं नास्ति यथा तथा कादाचित्कप्रतीत्यन्यथानुपपत्या प्रकृतेप्यस्तीत्यर्थः ॥
एवमभावविशिष्टबुद्धावप्येको नित्यः कश्चित्सम्बन्धः सिद्धः स्यादित्युक्तप्रतिब्द्या घटदशायामपि घटाभवाधीः 1 स्यादिति मण्याद्युक्तं बाधकं निसत्येदानीं बाधकान्तरम 2 प्याशङ्क्य निराह - नन्वभावस्येत्यादिना ॥
ननु -- आश्रयनाशहेतुककार्यनाशे समवायिकारणनाश एव प्रयोजकः । पटादौ तथा दर्शनात् । एवं च ध्वंसरूपकार्यनाशः स्विरूपितनित्यसम्बन्धयुक्तस्वाश्रयस्य नाशमात्रेण कथं चोद्यते । न हि विशिष्टबुद्धित्वहेतुना 3 विशिष्टभावबुद्धौ सिद्ध्यन् समवायो भवति ।
1.धीपदं न -मु-इ. 2.अपिपदं न -मु-इ. 3.अभावविशिष्टबुद्धौ इत्यस्ति-इ.
सये-प्रण-भङ्गः) समवायवादः पु - 463.
--------------- ------------- ----------
कार्यनाशं प्रति 1 नित्यसम्बन्धत्वकारणनाशरूपं सामान्यमेव तन्त्रम् । न तु तद्विशेषसमवायिनाशः । असति बाधके सामान्यस्य त्यागायोगात् । किञ्च समावायत्वं न जातिः, किं तु वैशिष्ट्यन्यनित्यसम्बन्धत्वमिति कल्पनीयत्वाद्गौरवमिति चेन्न । तथा सति ध्वंसातिरिक्ताभावे वैशिष्ट्यभ्युपगमे बाधकाभावात् । न चैकस्मिन्नभावे स्वरूपसम्बन्धश्चेदभावान्तरेपि तथा । भावेपि ज्ञातो घट इत्यादौ स्वरूपस्य सम्बन्धत्वे रूपे घट इत्यादावपि तथात्वापत्तेः ॥
अयुतसिद्धत्वाभावात् । किं तु तदन्यः कश्चिदेव । तथा च कथमेवमापादनमित्यत आह -- कार्यनाशं प्रति हीति ॥ न केवलं त्यागे कारणाभावो, गौरवं चास्तीत्याह -- किञ्चेति ॥ न जातिरिति ॥ एकव्यक्तित्वादिति भावः । अभावादिविशिष्टबुद्धौ यवद्यैशिष्ट्यं तदन्यनित्यसम्बन्धत्वमित्यर्थः। न चेति ॥ अभावान्तरेपि तथा च चेत्यन्वयः । कुत इत्यत आह -- भावेपीति ॥ तथात्वापत्तेरित्यन्वयः । युतसिद्धत्वायुतसिद्धत्वादिना भावपदार्थेषु वैषम्यं चेदभावेष्वपि कार्यत्वाकार्यत्वादिना वैषम्यमिति समम् ॥
ननु ज्ञानादेर्घटेन नित्यसम्बन्धे सदा घटप्रकाशः स्यादिति चेत् । रूपादेर्घटादिना नित्यसम्बन्धे सदा घटे श्यामरक्तरूपादिधीप्रसङ्गः स्यादिति समम् । श्यामरूपादेः कादाचित्कत्वान्न दोष इति चेत् । ज्ञानादेरपि तथात्वमिति तल्यम्। किं च यथाकथञ्चिद्बाधकवशाद्भावे द्वैरूप्यं चेदभावेप्युक्तादेव बाधकाद्वैरूप्यमस्त्विति सा 2 मान्यमेवेति भावः॥
1.ऽहिऽ इत्यधिकम् - क - ग. 2.म्यमे - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 464.
----------------------- ---------- ---------
किञ्च यदि लाघवान्नित्यसम्बन्धिकारणनाशः कार्यनाशे तन्त्रं ततोपि लाघवान्नित्यसम्बन्धिनाश एव तत्र तन्त्रं स्यात् । न चेष्टापत्तिः । घटनाशेन

पटरूपनाशापत्तेः । भवति हि पटरूपाहेतुरपिघटः पटरूपसमवायी । एवं सम्बन्धस्य नाश्यत्वे सम्बन्धत्वमेव तन्त्रम्, लाघवात् , न तु तद्विशेषः संयोगत्वमिति समवायस्यापि 1 नाशः स्यात् ॥
यदि च समवायरक्षर्थं तत्र कारणत्वादिकं विशेषणं तर्हि वैशिष्ट्यरक्षार्थं वैशिष्ट्यन्यत्वविशेषणमप्यस्तु । साम्यात् ॥
नन्वयुतसिद्धभावमात्रे अस्त्वैकरूप्यं, संसर्गाभावमात्रे नास्त्यैकरूप्यं, ध्वंसातिरिक्ताभाव एव नित्यसम्बन्धोपगमादित्यतो ;
अभावमात्र एवास्तु नित्यसम्बन्धः, न चोक्तदोषः, कार्यनाशं प्रति समवायिकारणनाशस्यैव प्रयोजकत्वाद्गौरवस्य चाकिञ्चित्कारत्वादिति भावेन कार्यनाशं प्रति हीत्यादिनोक्तं निराह -- किञ्चेति ॥ नित्यसम्बन्धीति ॥ नित्यो यः सम्बन्धः तद्युक्त इत्यर्थः । ततोपि लाधवादिति ॥ कारणपदत्यागादिति भावः ॥
कार्यनाशे समवायिनाशस्य तन्त्रत्वमनुक्त्वा नित्यसम्बन्धिनाशस्यैव लाघवेन प्रयोजकत्वस्वीकारेतिप्रसङ्गान्तरं चाह -- एवमिति ॥ लाघमनुसृत्य विशेषत्यागेन सामान्यादेर 3 सति कार्यनाशे नित्यसम्बन्धिनाशवत् सम्बन्धनाशे सम्बन्धत्वमेव तन्त्रं स्यादित्यर्थः । तत्रेति ॥ नाशप्रयोजकसम्बन्धत्वे कारणीभूतसम्बन्धत्वं समवायान्यसम्बन्धत्वमिति विशेषणं यदीत्यर्थः ॥ वैशिष्ट्येति ॥
1.स्य वि -छ-मु. 3. दसति - अ. (दरे सति).
केचित्तु समवायिकारणनाशस्य हेतुत्वकल्पने समवायत्वं न प्रविष्टम् । येन गौरवं स्यात् । किं त्वनतिप्रसक्त 1 मुण्डितसमवाय 2 व्यक्तिमात्रमित्याहुः ॥
एतेनैव सत्यलौकिकप्रत्यक्षजातिगुणक्रियाविशिष्टबुद्धयः विशेषणसम्बन्धनिमित्तकाः सत्यलौकिकप्रत्यक्षविशिष्टबुद्धित्वात् ।
अभावविशिष्टबुद्धिविषयीभूतवैशिष्ट्यान्यसम्बन्धत्वमेव सम्बन्धनाशे 3 तन्त्रमित्यस्तु । एवं चाभावेपि नित्यसम्बन्धः स्यादेवेति भावः ॥
कार्यनाशे समवायनाशो हेतुरित्यत्र किञ्च समवायत्वमित्यादिना यद्गौरवमुक्तं
तदुद्धारं प्रकारान्तरेणाह -- केचित्विति । समवायत्वाप्रवेशेपि संबन्धत्वेनाप्रवेशे किञ्चिद्युक्तकारणनाशस्तन्त्रमित्यपि प्राप्त्यातिप्रसङ्गेन नित्यकारणभूतसम्बन्धवन्नाशस्तन्त्रमित्येव वाच्यत्वात्किमनेनेत्यरुचिबीजमत्रेति ध्येयम् ॥
एवमभावविशिष्ट 4 प्रतिबन्दीदुरुद्धारेत्यभावस्थल इव 5 कॢप्तस्वरूपसम्बन्धेनैव विशिष्टप्रतीत्युपपत्तौ न समवायकल्पनेत्युक्त्वा विशिष्टबुद्धित्वादिति हेतुरप्रयोजक इति निरस्येदानीं"मथवा 6 सम्बन्धविशेषनिमित्तका इति साध्य"मित्यादिना मण्युक्तमनुमानान्तरं चानूद्य निराह -- एतेनेति ॥ स्वरूपसम्बन्धेनैवान्यथोपपत्तिकथनेनेत्यर्थः । निरस्तमित्यन्वयः ॥
1.क्तं - च-ग. 2.यं-च. 3.ऽत्रयेऽ इत्यधिकम् -अ. 4.बुद्धिपदमधिकम् -अ. 5.कॢप्तपदं न-मु. 6.विशेषसंबन्धनिमि- मु-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 466.
----------------------- ------------ ---------
दण्डीति सत्यलौकिकप्रत्यक्षबुद्धिवत् । अत्र च क्षत्यादौ कर् 1 तेव लाघवाद्विशेषणसम्बन्धोपि एक एव सिध्यति । अनुगतकार्यस्यानुगतकारणजन्यत्वात् । स्वरूपसम्बन्धानामननुगतत्वा 2 च्च । अत एव नाप्रयोजकता । सम्बन्धं विनापि विशिष्टबुद्धौ गावाश्वादावपि तत्प्रसङ्गादिति निरस्तम् ।
हतौ च सत्यत्वं विशेषणमिति मण्युक्त्यैव पक्षेपि तदनुमतमितिभावेन सत्यपदम् । तत् कृत्यं पूर्ववत् । मणौ विशिष्टबुद्धय इत्येव पक्षोक्तावप्यत्र पक्षहेतुदृष्टान्तेषु विशिष्टबुद्धिपदं लौकिकप्रत्यक्षपरमिति 3 तट्टीकोक्तेर्लौकिके 4 त्याद्युक्तिः ।अलौकिकप्रत्यक्षे बाधनिरासाय लौकिकेति ॥ अनुमित्यादौ बाधनिरासाय प्रत्यक्षेति ॥ निर्विकल्पके तन्निरासाय विशिष्टपदम् । भ्रमे व्यभिचारवारणाय हतौ सत्यपदम् । साध्यसाधनतावैकल्याय दृष्टान्तविशेषणानि ॥
तावता समवायसिद्धिःकुत इत्यत आह -- अत्र चेति ॥ पक्षधराद्युक्तमाह -- क्षित्यदौ कर्तेवेति॥ अत एवेत्युक्तं हेतूच्छेद(क)बाधकं व्यनक्ति -- सम्बन्धमिति॥
सम्बन्धनिमित्तका इत्यत्र सम्बन्धस्य निमित्तत्वं किं विषयत्वेनाथ समवायत्वेन आद्ये गुणादिस्वरूपाणामेव केन
चिद्धर्मेणानुगतानां तथा हेतुत्वमस्तु । किं समवायेन । अन्त्ये तु समवायत्वं नित्यसम्बन्धत्वं तथा च लाघवेन सम्बन्धत्वेनैव हेतुत्वमस्तु । तच्च स्वरूपसम्बन्धसाधारणमिति तेनानुगतीकृतानां गुणादीनामेव हेतुत्वमस्तु ।
1. त्रैक्यला-क. 2.दनन्तत्वात् -च-क-ग-रा. 3.तत्पदं न-इ. 4.कत्वा-अ.
सये-प्रण-भङ्गः) समवायवादः पु - 467.
---------------- ------------ ---------
अभावादौ कॢप्तेन स्वरूपसम्बन्धत्वेनानुगतीकृतानां गुणादिस्वरूपाणामेवानुगतकार्यहेतुत्वोपपत्तेः । तस्मादभावादाविव गुणादावपि धर्मिकल्पनात इति न्यायसाम्येन स्वरूपमेव सम्बन्धः ॥
यत्तु युतसिद्धसम्बन्धद्वयविषयाणां दण्डादिविशिष्टबुद्धीनामिवायुतसिद्धसम्बन्धिद्वयविषयाणां अवयविगुणक्रियाजातिविशिष्टबुद्धीनामन्योन्यं --
अवच्छेदकलाघवे व्यक्तिगौरवस्यादोषत्वादिति भावेन निराह -- अभावादाविति ॥ आदिपदेन तन्मतचसिद्धसमवायविशिष्टबुद्धिपरिग्रहः ॥
एतच्च सत्यलौकिकजात्यादिविशिष्टप्रत्यक्षत्वं कार्यतावच्छेदकमुपेत्योक्तम् । वस्तुतस्तु तादृशानुमितित्वादिकमिव तादृशप्रत्यक्षत्वमपि नावच्छेदकं मानाभावात् । स्वावच्छिन्नकार्यतानिरूपितानुगतैककारणासिद्ध्या अनित्यप्रमात्वानित्यप्रत्यक्षत्वादेरिव बाधकोपपन्नत्वेनावच्छेदकत्वासंभवाच्च । नच नित्यैकरूपसम्बन्धरूपसमवाय एवानुगतकारणनमितियुक्तम् । अन्योन्याश्रयापत्तेः।
विषयस्य प्रत्यक्षं प्रत्यहेतुत्वस्य प्रामाण्यवादे व्युत्पादनाच्चेति ज्ञेयम् ॥
पक्षधराद्युक्तमनूद्य निराह -- यत्वित्यादिना । अन्योन्यमिति ॥ अवयवावविशिष्टबुद्धेर्गुणादिविशिष्टबुद्ध्या तस्याः जातिविशिष्टबुद्ध्या जातिविशिष्टबुद्धेः गुणविशिष्टबुद्ध्येत्यादिरूपेणान्योन्यं साजात्यमित्यन्वयः ॥
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 468.
----------------------- ---------- --------
-- स्फटतरविवेकप्रकाशराहित्यरूपं साजात्यमन्यविशिष्टबुद्धितो व्यावृत्तमनुभावसिक्षिकम् । तथा च दण्डादिविशिष्टप्रतीतिं प्रति संयोग इव गुणादिविशिष्टप्रत्यक्षप्रतीतिरूपमनुगतकार्यं प्रति निमित्ततया समवायः सिध्यतीति । तन्न ॥
तस्य भेदाविषयत्वेन, 1 स्फटतर 2 प्रकाशसामग्रीराहित्येन वा, त्वदभिमतसमवायनियामकायुतसिद्धविषयत्वेन वा,
तत्स्वरूपमाह -- स्फटतरेति ॥ विवेको भेदः । तद्विषयकत्वराहित्यरूपमित्यर्थः । अवयवावयव्यादेरन्योन्यं
भेदस्याङ्गुलिद्वयवदप्रतीतेरिति भावः । अन्येति ॥ दण्डीकुण्डलीत्यादिविशिष्टबुद्धीनामन्योन्यं साजात्यमि 3 वेहायुतसिद्धविशिष्टबुद्धीनामन्योन्यसाजात्येपि दण्डीत्यादिबुद्धितो व्यावृत्तं तादृशबुद्धावविद्यमानं अनुभवसाक्षिकमस्तीत्यर्थः ॥

तादृशं साजात्यं अन्यतो व्यावृत्तं गुणक्रियादिविष्टबुद्धिगतमनुभवसिद्धमुक्तम् । तत्किं जातिकृतमुत स्फटतरविवेकप्रकाशराहित्यरूपमेव बाधविषयाविशेषकृतं वा। नाद्यः जातित्वे मानाभावात् । तादृशविशिष्टबुद्धित्वस्योपपत्ते 4 रप्रयोजको हेतुरिति भावेन तादृशविशिष्टबुद्धेः अन्यथासिद्धिमाह -- तस्येति ॥ अवयव्यादिविशिष्टबुद्धिगतसाजात्यस्येत्यर्थः । तृतीयं प्रत्याजष्टे -- त्वदिति ॥ त्वदभिमता 5 या 6 समवायनियामकायुतसिद्धि 7 रित्यर्थः ॥
1.ऽवाऽ इत्यधिकम् - च-क-ग. 2.विवेकपदमधिकम्-च-क-ग-रा. 3.इवेति नास्ति -मु-इर्. 4.न प्रयो-इ. 5.तानि-इ.
6.यानि-इ. 7.द्धानि-इ.
सये-प्रण-भङ्गः) समवायवादः पु - 469.
---------------- ------------ ---------
भेदाभेदविषयत्वेन वा, सविशेषाभेदविषयत्वेन वोपपत्तेः ॥
अभावप्रतियोगिनोर्ज्ञानज्ञेयादीनां च विवेकप्रकाशस्य स्फटतया न्यायसाम्येन तत्र
संयो 1 गापत्तेश्च ॥
अभावाधिकरणयोस्तन्मते सुवर्णतदुपष्टम्भकपीतद्रव्ययोश्च विवेकप्रकाशस्यास्फटत्वेन न्यायसाम्येन तत्र समवायापत्तेश्च ॥
युतसिद्धेषु संयोगस्येवायुतसिद्धेषु समवायस्यापि न्यायसाम्येन नानात्वापाताच्च ।
ननु नित्य 2 सम्बन्धसम्बन्धित्वमेवायुतसिद्धि 3 रित्यतो ऽयावद्रव्यभाविगुणक्रियावयव्याद्यभिप्रायेण विषयान्तरमाह -- भेदादेति ॥ यावद्रव्यभाविगुणाद्याशयेनाह -- सविशेषेति ॥
यद्वाद्या विषयोक्तिर्न्योयमतरीत्या द्वितीया मीमांसकरीत्या तृतीयासिद्धान्तरीत्येति 4 ध्येयम् । तन्तुपटादिबुद्धिः कुण्डेबदरादिबुद्धेर्विवक्षणेत्यभेदविषयैवावसीयत इति सुधोक्तेरिति भावः । एवं वदता त्यया स्फटतरविवेकप्रकाशोपेतविशिष्टबुद्धौ संयोग इत्युक्तः स्यात् । तच्चायुक्तमित्याह अभावेति ॥ आदिपदेनेच्छेष्यमाणादेर्ग्रहः । न्यायेति ॥ स्फुटतरविवेकप्रकाशराहित्यस्थले समवाय इति वत् तादृशप्रकाशवद्विशिष्टबुद्धौ दण्डीत्यादिबुद्धाविव समयोगः स्यादित्यर्थः । नानात्वत्वेति ॥
1.गोपप-क. 2.संबन्धपदं नास्ति - इ. 3.द्धत्व-मु-इ. 4.ज्ञे -मु-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 470.
----------------------- ----------- ----------
तस्मान्न समवाये प्रमाणमस्तीति ॥
समवाये प्रमाणभङ्गः

11.29

उक्तप्रकाशराहित्यरूपसाजात्यस्यानुगतस्य दण्डीत्यादिबुद्धौ सत्वेपि तत्र संयोगनानात्ववत् समवायस्यापि नानात्वा 1 पत्तेरित्यर्थः ॥
यत्वाश्रयनाशजन्यकार्यनाशस्थले कार्यनाशं प्रति समवायिरूपाश्रयनाश एव हेतुर्वाच्यो न त्वाश्रयमात्रनाशः । तथात्वे कपालनिष्ठधटध्वंसस्य कपालनाशेनापि नाशप्रसङ्गेन घटोन्मज्जनापत्तेरतः समवायोभ्युपेत्य इति तन्न । समवायत्वं हि नित्यसम्बन्धत्वं न तु जातिरनभ्युपगमात् । तथा च
लाघवात्सम्बन्धिकारणरूपाश्रयनाश एव वा कारणीभूताश्रयनाश एव वाश्रितकार्यनाशहेतुरिति स्वीकृतौ ध्वंसनाशाप्रसक्त्या समवायस्यानुपेयत्वात् ॥
वस्तुतस्तु परिमाणवादे ध्वंसस्य भूतलैदिनिष्ठत्वेन कपालनाशेपि 2 तन्नाशाप्रसक्तेः । अत एव प्राग् भेदाभेदविषयत्वेनेत्याद्युक्तिरिति ॥
समवाये प्रमणभङ्गः

11.30

1.त्वोपपत्ते - इ. 2. अपिपदं न - इ.
समवाये बाधकम्) समवायवादः पु - 471.
----------------- ----------- ---------
किञ्च कालस्य स्वगतेन सङ्ख्यापरिमाणादिना त्वयापि स्वरूपसम्बन्धः स्वीकृत इति किं तत्र समवायेन ॥
यदि च कालस्य तेन सह समवायस्य सत्वान्न स्वरूपसम्बन्धः । तर्हि का 1 लस्य घटेन सह संयोगस्य सत्वात् स्वरूपसम्बन्धो न सिध्येत् । साम्यात् ॥
एवं समवायस्याप्रामाणिकत्वमुक्त्वानुव्यख्यानसुधयोरुक्तमन्यसमवायोपगमे बाधकमाह -- किञ्चेति ॥ 2 यद्वा प्रागुक्तानुमानेषु गुणादिविशिष्टबुद्धिनिमित्तसम्बन्धतया हि समवायसिद्धिरभिमता सा न युक्ता । दद्बुद्धेरन्यथोपपत्तेरिति । चतुर्थान्यथोपपत्तिमाह -- किञ्चेत्यादिना ॥
अथवा --
समवायश्च सम्बन्धो नित्यः स्यादेक एव सः ।
इति नित्यत्वे सति सम्बन्धत्वमिति यत्समवायलक्षणमुक्तं तत्र सम्बन्धत्वं तावदन्यथोपपत्तिचतुष्टयेन निराह -- किञ्चेत्यादिना ॥
तत्रादौ तावत्साम्यादनवस्थितेरिति सूत्रखण्डस्य स्वगतसंख्यादिगुणेन कालस्य पदार्थान्तरेणेव स्वरूपसम्बन्धस्वीकारसाम्यात्समवायस्यानवस्थितेरसत्वापातादित्यर्थमुपेत्याह -- कालस्येति ॥ कालपिरमाणं सदास्तीतिकालस्यैकत्वसंख्या सदास्तीत्यादिप्रतीत्या कालस्य जगदाधारताप्रयोजकत्वेन स्वगतधर्मैरन्यैश्चसर्वैः स्वरूपसम्बन्धः स्वीकृत इति तेनैव सम्बन्धेनैकः कालो परिच्छिन्नपरिमाणः काल इति विशिष्टबुद्ध्युपपत्तौ तत्र समवायस्यावस्थित्यभावः स्यादित्यर्थः ॥
स्वगतसङ्ख्यादिना समवायिसत्वस्येव घटादिद्रव्येण संयोगसत्वस्यापि साम्यादिदानीं घट इत्यादिधीबलेन घटादिना स्वीकृतस्वरूपसम्बन्धस्यावस्थित्यभावापत्तेरित्यर्थान्तरं चोपेत्याह -- यदि चेति॥
तेन स्वगतसङ्ख्यादिना ॥
1.लेन सह घटस्य - च-छ-रा. 2.ऽयद्वा, अथवाऽ इत्याद्यवतारिकाद्वयं नास्ति-इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु -472.
----------------------- ------------ --------
अपि च गुणादेरपि त्वन्मते स्वाभावस्वज्ञानस्वकालैः सह स्वरूपसम्बन्धत्वं तावदस्ति । तत्र गुणादेरभावज्ञानादीन्प्रति स्वरूपसम्बन्धत्वं न प्रतियोगि 1 विषयत्वादिना । अननुगमात् । गौरवाच्च । किन्तु विशेषणत्वेनानुगमाल्लाघवाच्च । विशेषणत्वं च गुणादेर्गुण्यादावपि 2 सममिति गुण्यादावपि गुणादेः स्वरूपसम्बन्धत्वं कॢप्तमेवेति क्व समवायस्यावकाशः ॥
अपि च घटरूपसमावाया इति समूहालम्बनज्ञानात् रूपी घट इत्यादिबुद्धेर्वैलक्षण्यायावश्यमङ्गीकार्येण रूपस्य घटेन सह विशेषणताविशेषणैव विशिष्टबुद्ध्युपपत्तौ किं समवायेन । एवं रसादावपीति न समवायस्यावकाशः ॥
नन्वस्त्वेवं तथापीदानीं घटरूपमित्यादिधीबलाद्घटे रूपादिनैव स्वरूपसम्बन्धः कालस्य नान्येनेत्यत आह -- अपि चेति ॥ 3 यद्वा काले गुणविशिष्टबुद्ध्युपपादकसम्बन्धत्वेन समवायसिद्धावप्यन्यत्र तथात्वेन सिद्धिरस्त्वित्यत आह - अपि चेति ॥ तच्च स्वरूपसम्बन्धत्वमित्यन्वयः । विषयत्वादिनेत्यादिपदेन विशेषणविशेष्यभावग्रहः । अननुगमादिति ॥ स्वभावेन प्रतियोगित्वरूपः, ज्ञानादिना विषयत्वरूपः, कालेन विशेषणत्वादिरित्यननुगमात् अनेककल्पने गौरवाच्चेत्यर्थः ॥
सममिति 4 ॥ एतेन गुणादेर्विशेषणत्वसाम्यात्चसमवायस्यावस्थित्यभावात् इत्यर्थ उक्तो भवति ॥ वैलक्षण्यायेति ॥
1.त्ववि-ग-रा. 2.ऽसममिति गुण्यादावपिऽ इति नास्ति - ग-मु. 3.यद्वे
त्याद्यवतारिका नास्ति -इ. 4.तीति-मु.
समवाये-बाधकम्) समवायवादः पु - 473.
---------------- ---------- ----------
किञ्च समवायस्यापि स्वसम्बन्धिना सह सम्बन्धाङ्गीकारे अनवस्था । तत्र स्वरूपसम्बन्धाङ्गीकारे च गुणादेरेव गुण्यादिना स्वरूपसम्बन्धीस्ति । साम्यात् । किं दूरगमनेन । कालस्य स्वगतसङ्ख्यादिना समवायानुपपत्तिः,
समूहालम्बनेपि घटतद्रूपतत्समावायानां प्रतीतिवद्रूपी घट इति प्रतीतावपि रूपादित्रयस्यैव भाने ऽनुभवसिद्धस्य ततो वैलक्षण्यस्यायोगेन रूपादौ विशेषणत्वादिरेव समूहालम्बने 1 प्रतीतोत्र प्रतीयत इति वाच्यमिति तेनैवोपपत्तौ किं समवायेनेत्यर्थः । एतेनाभावविशिष्टबुद्धिसाम्याद्रूपी घट इत्यादिबुद्धावपि समवायस्यावस्थित्यभाव इत्यर्थः सूत्रांशस्य सूचितः --
"भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्भ्रुव"
मित्यनुव्याख्यानसुधयोरुक्तमाह -- किञ्चेति ॥ सम्बन्धिना 2 गुणगुण्यादिरूपेणेत्यर्थः । 3 समवायस्यावस्थित्यभाव इत्यर्थः । समवायविशिष्टबुद्धिसाम्यात्समवायस्याव 4 स्थित्यभावो गुणादावपीत्यर्थमुपेत्याह -- तत्रेति ॥ समवेतः पट इत्यादिसमवायविशिष्टबुद्धौ प्रतीतसमवायसमवायिनोरित्यर्थः । 5. दूरेति ॥ गुणादिविशिष्टबुद्धौ समवायः, समवायविशिष्टबुद्धौ स्वरूपसम्बन्ध, इत्यभ्युपेत्य किमित्यर्थः । उपपादितबाधकानि बुद्ध्यारोहाय संगृह्याह -- कालस्येति ॥
1.ने ऽप्र इत्यस्ति -इ. 2.गुणपदं नास्ति -इ. 3.ऽभाव इत्यर्थः. इत्यन्तं नास्ति-इ -मु. 4.वगत्य-इ. 5.स्वरूपेति -मु, रूपेति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 474.
----------------------- ----------- -------------
गुणादेः स्वाभावादिनेव गुण्यादिनापि स्वरूपसम्बन्धेनैवोपपत्तिः, समूहालम्बनाद्वैलक्षण्यानुपपत्तिः, अनवस्था चेति बाधकचतुष्यं दुष्परिहरम् ॥
किञ्च समवायस्यैकत्वयुक्तम् । तथाहि । धूमाद्यनुमानेन हि धर्मिमात्रं धर्ममात्रं वा न 1 साध्यम् । तयोः प्रागेव सिद्धत्वात् । अन्यथा आश्रयासिद्ध्यप्रसिद्धविशेषणत्वे स्याताम् । किन्तु तयोः सम्बन्धः । स च क्वचित्संयोगः यथा पर्वताग्र्योः । क्वचित्समवायः यथा रसाद्रूपानुमाने । अग्निसंयोगोपि माहानसादौ सिद्ध इति नानुमासाध्यः । 2 किन्तु पर्वतस्याग्निसंयोगः । तत्र च षष्ठ्यर्थः समवाय एव । न च एक एवेत्यनुमानमात्रं सिद्धसाधनं स्यात् । एवं शब्दमात्रमपि ज्ञानतज्ञापकं स्यात् । तत्रापि पदार्थानां संसर्गाणां च 3 सिद्धत्वात् ।
एवमन्यथोपपत्या समवा 4 यस्य स्वरूपमेव (स्य संबन्धत्वेन सिद्धिं) निरस्येदानीमस्तु नाम गुणगुण्यादौ कश्चनातिरिक्तः सम्बन्धः, तस्यैकत्वं तु न, तथात्वेनुमानशब्दप्रमाणमात्रोच्छेद इति भावेन सुधोक्तं विवृण्वन्नाह -- कञ्चेति ॥ धर्मीति ॥ पर्वतादिमात्रं वह्न्यादिमात्रमित्यर्थः । षष्ठ्यर्थः ॥ पर्वतस्येति षष्ठ्यर्थ इत्यर्थः । स च एक एवेति ॥ रूपी घट
इत्यादिप्रतीतौ सिद्धश्चेत्यापि ध्येयम् ।
1.बो-छ-क-ग-रा. 2.न तु -ग-मु. 3.विशकलितानां इत्यधिकं-च-क-ग-रा. 4ऽवा यस्य सम्बन्धत्वे ऽनुमानेऽ त्यादिरीत्या पङ्क्तिरस्ति-अ.
समवाये-बाधकम्) समवायवादः पु - 475.
---------------- ------------ ----------
तदुक्तमनुव्याख्याने ॥
"भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः । समवायो यदि ह्यस्य चैकत्वात्सिद्धसाधन"मिति ॥

सिद्धसाधनं ज्ञातज्ञापनम् । एव सुखस्यात्मान्तरे सिद्धत्वात्स्वसम्बन्ध एव कृतिसाध्य इति वक्तव्यम् । तच्चाशक्यम् समवायस्यानादित्वेनासाध्यत्वात् । एतदप्युक्तं"समवाय"इत्यादिना । सिद्धसाधनं निष्पन्ननिष्पादनम् ॥
विशकलितानामिति ॥ न च विशिष्टं नान्यत्र सिद्धमिति वाच्यम् । विशिष्टस्य
त्वन्मते पदार्थान्तरत्वाभावाद्घटोस्तीत्यादिवाक्यबोध्यस्य घटतत्सत्तयोः समवायस्यैकत्वेनात्र तस्य ज्ञानतत्वाच्चेति भावः । तदुक्तमिति ॥ वैशेषिकाधिकरणानुव्याख्यान इत्यर्थः ॥
शब्दसाधारण्यलाभार्थमाह -- ज्ञानज्ञापनमिति॥ धूमाद्यनुमामिति शेषः । इति सुदोक्तिरूपलक्षणम् । पर्वते वह्निरस्तीत्यादिशब्दजातमित्यपि ध्येयम् । 1 अत एव सुधायां समवायैकत्वनिरास 2 प्रकरणावसाने आगमापह्नवश्च समवायैक्ये स्यात्पदार्थानां तत्संसर्गाणां 3 सिकतावद्विशकलितानां सिद्धत्वादित्युक्तमिति भावः ॥
समवायो यद्युपेयते तर्ह्यस्यैकत्वात्सिद्धस्यैव साधनमुत्पादनमिति प्राप्तमित्यर्थान्तरं चोत्तरार्धस्योपेत्य समवायस्यैकत्वे बाधकान्तरं चाह -- एवमिति ॥ स्वेति ॥ स्वस्य सुखेन यः समवायस्तस्येत्यर्थः ।
1.ततः ऽइति भावःऽ इत्येवास्ति ऽअत एवेऽ त्यादि नास्ति -इ. 2.प्रपदं नास्ति -मु. 3.ऽसिकतावद्विशकलितानां इति नास्ति -मु.
न्यायदीपयुततर्कताण्वडवम् (प्र.परिच्छेदः पु - 476.
-------------------------- ---------- -------
एवं दुःखास्या 1 त्मान्तरे सत्वेन निवर्तयितुमशक्यत्वात्स्वसम्बन्ध एव निवर्त्य इति वाच्यम् । तच्चाशक्यम् । समवायस्याविनाशित्वात् ॥
अपि चात्माकाशकालादौ रूपरसादिसमवायस्य 2 चलनादिसमवायस्य, घटपटादौ ज्ञानेच्छादिसमवायस्य, पटादौ घटत्वादिसमवायस्य, सुखादौ दुःखा 3 दिसमवायस्य च, सत्वेन सर्वपदार्थेषु सर्वधर्मसम्बन्धस्य साम्यात् सर्वसङ्कररूपाव्यवस्थास्यात् । नन्वात्मादौ रूपादिसमवायस्य सत्वेपि घटादाविव रूपादिना सह विशेषणतावशेषाभावाद्वा ---
सिद्धसाधनमित्युपलक्षणम् । 4 सिद्धस्यैव नित्यस्यैव दुःखादिसम्बन्धस्यावसानमित्यपि ध्येयमिति -- एवं दुःखस्येति ॥ इष्टानिष्टप्राप्तिपरिहारार्थं प्रयत्नाभावापत्तिः समवायैक्ये बाधिकेत्युक्तं भवति ॥
समवायैक 5 त्वदूषणं सूत्रारूढं दर्शयितुं साम्यादानवस्थितेरिति
सूत्रांशस्यार्थान्तरमुपेत्यातिप्रसङ्गान्तरमाह -- अपि चात्मेति ॥ षष्ट्यन्तानां पूर्वपूर्वेणैव सप्तम्यन्तेनान्वयः ॥ सत्वेनेति ॥ सर्वषष्टन्तेन सम्बन्धः । समवायस्यैकत्वपक्ष इतियोज्यम् ॥
यत्तु मणौ"ननु समवायस्यैकत्वे कथं रूपिनिरूपिव्यवस्थे"त्यादिनैतदेन सांकर्यमाशङ्क्याधिकरणस्वाभावादिना समाहितं, तदनूद्य निराह --नन्वात्मादाविति ॥ समवायस्यैकत्वपक्षेमण्याद्युक्तसमाधावतिप्रसङ्गमाह -- किञ्चेवमिति ॥
1.प्या-क. 2.वल-छ-मु. 3.खत्वादि-च-क-ग. 4.ऽसिद्धसाधनं सिद्धस्यैव सुखादेरवसादनमित्यपिऽ इत्यस्ति -मु-इ. 5.क्यदू- इ.
समवाये बाधकम् ) समवायवादः पु - 477.
----------------- ------------- ----------
अधिकरणस्वभावाद्वा आधेयस्वभावा 1 द्वा न शङ्कर इति चेत् । एवं हि तैरेव सर्वव्यवस्थोपपत्तौ किं व्यवस्थित्यहेतुना समवायेन ॥
किञ्चैव सर्वेषामपि वस्तूनां सर्वैः सह एक एव सम्बन्ध इति वा 2 कस्यापि केनापि सह न सम्बन्ध इति वा स्यात् । आद्ये आधारस्य वा आधेयस्य वा सम्बन्धस्य वा स्वभावात् कुत्र चिदसम्बन्धव्यवहार इत द्वितीये आधारस्य वा आधेयस्य वा स्वभावात्कुत्रचित्सम्बन्धव्यवहार इति च सुवचत्वात् ॥
किञ्च 3 संयोगोप्येक एव लाघवात् । व्यवस्था तु स्वाभाववैचित्र्यादिति स्यात् । नाशाद्यनुभवस्तु उभयत्रापि समः । पाकेन श्यामरूपमिव तत्सम्बन्धोपि नाष्टः, रक्तरूपमिव तत्सम्बन्धोप्युत्पन्न इत्यनुभावात् ॥
पक्षद्वयेप्युपपत्तिप्रकारं परोक्तन्यायेनाह -- आद्य इत्यादिना ॥ ननु संयोगस्यैक्ये घटसंयोगो नष्टः पटसंयोग उप्तन्न इति धीः कथमित्यत आह -- नाशादीति ॥ सम इत्युक्तसाम्यं समवायेन व्यनक्ति - पाकेनेति ॥
1.वबलाद्वा - क. 2. एक - क. 3.चैवं - च-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 478.
------------------------ ------------ -----------
न हि सम्बन्धनाशेपि सम्बन्धिनः स्थितिवत् सम्बन्धिनाशेपि सम्बन्धस्थितिः कृत्रचिदृष्टा ॥
एतेनात्मादिनिष्ठे समवाये रूपादिप्रतिसम्बन्धिकत्वस्याभावान्न सङ्कर इति निरस्तम् । आत्मनिष्ठस्य समवायस्य घटादिनिष्ठाद्भेदे अपसिद्धान्तात् । अभेदे घटानिष्ठेपि रूपादिप्रतिसम्बन्धिकत्वाभावापातात् ॥
एतेनैव समवायस्य स्वाभावतः एकत्वेपि औपाधिको भेदोस्ति । रूपसुखाद्युपाधीनां भिन्नत्वादिति निरस्तम् । एवं हि रूपादिः संयोगातिश्चैक एव भेदस्त्वौपाधिक इति स्यात् ॥
अयमनुभवो भ्रमोस्त्वित्यतो बाधकाभावादिति भावेनाह -- न हीति ॥ रूपादिप्रतिसम्बन्धिकत्वस्येति ॥ रूपादिनिरूपितत्वस्येत्यर्थः। रूपादिरिति ॥ रचसगन्धादिरादिपदार्थः । तत्रोपाधैः पटादिराश्रय एव । तथा च घटपटादिगतरूपमेकमेव । भेदार्थं तु घटाद्याश्रयलक्षणोपाधिभेदसत्वाद्युक्तमित्यस्तु इत्यर्थः । संयोगादिरि त्यादिपदेन विभागस्य वा विशेषणविशेष्यभावादिसम्बन्धस्य वा ग्रहः । औपाधिक इति ॥ घटादिस्वरूपनिरूपकभेदनिमित्तक इत्यर्थः । उपाधिशब्दात् तृतीयासमर्थाज्जन्यगम्यार्थे 1 शैषिकेठकि कृते औपाधिकशब्दो 2 निष्पन्नः ॥
औपाधिकमित्युपाधिगम्यमुतोपाधिजन्यमिति कल्पद्वयलाभं हृदि कृत्वा आद्येपि ज्ञानं प्रमा भ्रमो वेति भावेन क्रमेण निराह -- किञ्जौपाधिकत्वमिति ॥
1.वैशे -अ. 2.शब्दनिष्पत्तेः -मु.
समवाये-बाधकम् ) समवायवादः पु - 479.
----------------- ------------- --------
किञ्चौपाधिकत्वं उपाधिज्ञेयत्वं चेत् । ज्ञानस्य प्रमात्वे भेदा 1 सिद्धिः । भ्रमत्वे तु पदार्थानां सङ्करतादवस्थ्यम् ।
उपाधिजन्यत्वं चेत् । सिद्धः समवायस्य सत्यो भेदः । अपसिद्धान्तश्च ॥
तदुक्तमनुव्याख्याने ॥
"उपाधिजन्यं तद्गम्यमिति चौपाधिकमं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्तत"इति ॥
एतेन लाघवतर्कसहकृतेन धर्मिग्राहकानुमानेन समवायस्यैकत्वं नित्यत्वं च सिद्धमितिनिरस्तम् ॥
तदुक्तमिति ॥ वैशेषिकनये । उभयत्रेति ॥ उपाधिना 2 जन्यत्वपक्षे प्रतीयमाणत्वपक्षे चेत्यर्थः । कथमानन्त्यमित्यत उक्तम् -- इतस्त इति ॥ अत्र तत्रेत्यर्थः । नानादेशकालेषु स्थितानामवयवावयव्याद्युपाधीनामनन्तत्वमिति शेषः।
ज्ञनस्य भ्रमत्वपक्षे साङ्कर्यदोषोक्तिस्तु ॥
अविद्यमान एवान्यः समवायोवगम्यते ।
उपाधिना तद्गमकमनुमानं न मा भवेत् ॥
इत्यनुव्याख्यानोक्तमुपलक्षणमिति भावेनेति ज्ञेयम् । अत एव तत्र सुधायां"इत्यादि द्रष्टव्य"मित्युक्तम् ॥

धर्मिग्राहकमानबाधं समवायानन्त्यापादनमित्याश 4 ङ्क्य निराह -- एतेनेति ॥ धर्मीति ॥ सत्यलौकिकप्रत्य 5 क्षजातिगुणक्रियाविशिष्ट 6 बुद्धयोविशेषणसंबन्धनिमित्तकाः, इति प्रागुक्तानुमानेनेत्यर्थः ।
1.दसि-क-ग-रा. 2.धिज-मु. 3.धितम्-मु. 4.ङ्कां नि -इ. 5.क्षे-इ. 6.बुद्धित्वादित्याद्यनुमानैरित्यर्थः । तत्सहकृतेन (यः) विशेषणसंबन्धनिमित्तका इति प्रा -गुक्तानुमानेनेत्यर्थः । उक्तत्वेनेति । इत्यस्ति - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 480.
----------------------- ------------ ---------
एकत्वादौ प्रत्यक्षविरोधस्योक्तत्वेनानुमानस्य तदविरुद्धनानासम्बन्धसानेनं कृतार्थत्वात् ॥
अन्यथा संयोगोपि लाघवतर्कसहकृतेन प्रत्यक्षेण, अभावाधिकरणयोर्ज्ञानज्ञेयादीनां सम्बन्धोपि तत्सहकृतैरुक्तानुमानैरेको नित्यश्च सिध्येत् । द्व्यणुकादीनां सोपादानकत्वसाधने कार्यत्वहेतुनापि तत्सहकृतेन नित्यमेकं उपादानं सिध्येत् ।
लाघवतर्कस्य साम्यात् । ईश्वरानुमानेपि कर्त्रेकत्वसिद्धिर्नेत्युक्तम् ॥
तस्मात्समवायस्य नित्यत्वमेकत्वे 2 वायुक्तम् ॥
उक्तत्वे नेति ॥ नाशाद्यनुभवस्तूभयत्र सम इत्यादिग्रन्थेनेत्यर्थः । उक्तानुमानैरिति । पूर्वत्र समवायानुमानभङ्गे उक्तैर्विशिष्टबुद्धित्वात् 4 तद्विशिष्टविषयकविशिष्टबुद्धित्वादित्याद्यनुमानैरित्यर्थः । तत्सहकृतेन लाधलतर्कसहकृतेनेत्यर्थः ॥
नन्वेवमीश्वरानुमानेपि लाघवतर्केण कर्त्रैक्यसिद्धिर्न स्यादित्यत आह -- ईश्वरेति ॥ उक्तमीश्वरानुमानभङ्ग इत्यर्थः ॥
समवायाभावे मानाभावेदेव समवायसिद्धिरस्त्वित्यत आह -- समवायाभावे त्विति ॥ इत्याद्यनुमानानि प्रमाणानीत्यनेनान्वयः।
1.केन -च-क-ग. 2.चा-च-क-ग. 3.भाव इत्यधिकं -च-ऽभावयोरन्योन्यं संबंऽ इति शोधितमस्ति -क-ग-रा. 4.युतसिद्धविषयविशिष्टबुद्धि -इ.
समवाये-बाधकम्) समवायवादः पु - 481.
----------------- ----------- ----------
समवायाभावे तु अयुतसिद्ध 3 योराधाराधेयभावनिमित्तकसम्बन्धः न सम्बन्धभिन्नः अयुतसिद्धयोरेवान्योन्यं सम्बन्धत्वात् । भूतलघटाभाव सम्बन्धवत्,
अयुतसिद्धौ यौ भावौ अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेत्येवं द्वन्द्वीभूतौ द्वौद्वौ पदार्थौ तयोरित्यर्थः । अत्र सम्बन्ध इत्यस्यैव पक्षत्वे स्वरूपसम्बन्धेन सिद्धसाधनं अतोन्योन्यमित्यन्तम् । कालसम्बन्धेन तद्वारणाय वान्योन्यमित्युक्तिः । न्यायमते जगदाधारताप्रयोजकतया कालस्य सर्वेणापि स्वरूपसम्बन्धोपगमात् । अयुतसिद्धभावयोरपि प्रत्येकं स्वस्वनिष्ठाभावादिना स्वरूपसम्बन्धस्योपगमेन तेन सिद्धसाधनवारणाय वा अवयवावयविनोः प्रत्येकमन्येन संयोगे बाधनिरासाय वान्योन्यमित्युक्तिः । भतलघटाभावयोरन्यसम्बन्धेनार्थान्तरवारणाय भावयोरिति ॥ अपृथक् गृह्यमाणत्वरूपत्वादयुतसिद्धत्वस्य घटपटसंयोगे
बाधनिरासायायुतसिद्धेत्युक्तिः । संयोगस्य परमते सम्बन्धिनात्यन्तं भिन्नत्वम् । सिद्धान्तेपि भिन्नभिन्नत्वात् । अत एव संयोगे व्यभिचारवारणाय हेतावयुतसिद्धयोरित्युक्तिः । अत एवावयवायविनोः प्रत्येकमन्येन सह संयोगे व्यिभिचारवारणायान्योन्यमित्युक्तिः । पक्षे भावपदस्याधिकस्योपादानान्न हेतु 1 तावच्छेदकैक्यनिमित्तसिद्धसाधनत्वं शङ्क्यम् । अभावभूतलयोरयुतसिद्धत्वमसिद्धमिति चेत् न । तस्यापृथग्गृह्यमाणत्वमात्ररूपत्वादन्यस्यानिरूपणात् । नित्यसम्बन्धत्वादेः समवायसिद्ध्युत्तरकालीनत्वात् ॥
अभावव्यावृत्तमन्यदेन किञ्चिदयुकसिद्धत्वमिति वादिनं प्रति प्रयोगान्तरमाह -- संयेगेति ॥
1.पक्षत्यधिकम् - इ.
न्यायदीपयुततर्कताण्डवम् समवायवादः पु - 482.
----------------------- ----------- -----------
संयोगभिन्नः साक्षात्सम्बन्धः न संयोगविशेषणतोभयभिन्नः साक्षात्सम्बन्धत्वात् संयोगवत्, सक्षात्सम्बन्धत्वं संयोगविशेषणतान्यान्यत्वव्याप्यम् साक्षात्सम्बन्धमात्रवृत्तित्वात् संयोगत्ववत्,
सम्बन्ध इत्येवोक्तौ रक्तः स्फटिकः कृष्णं वस्त्रमित्यादौ स्फटिकवस्त्रसंयुक्तजपाकुसुमकर्दमसम्बन्धरक्तिमकालिमादिसम्बन्धे बाधवारणाय साक्षादित्युक्तिः । संयोगनार्थान्तरवारणाय संयोगभिन्न इति 1 । केचिद्विशेषणतारूपसम्बन्धेनार्थान्तरनिरासाय साक्षादित्युक्तिरित्याहुः । न संयोगेति ॥ संयोगविशेषणतान्यतररूप एवेत्यर्थः । तथैवोक्तौ वक्ष्यमाणसाध्यां 2 शे ऽविशेषापत्या नञ्द्वयेनोक्तिः । तत्र सं 3 योगभिन्नत्वाभावेन साध्यपर्यवसाने बाधात् । विशेषणताभिन्नत्वाभावेनैव साध्यपर्यवसानात्संयोगान्यसाक्षात्सम्बन्धस्य विशेषणतारूपत्वस्यैव सिद्धिरिति भावः । हेतौ प्रागुक्तपरम्परासम्बन्धे ऽव्यभिचराराय साक्षादित्युक्तिः ॥
साक्षादिति ॥ प्रागुक्तपरम्परासम्बन्धे बाधनिरासाय साक्षादित्युक्तिः । संयोगेति॥
संयोगविशेषणतान्यतरत्वव्याप्यमित्यस्यार्थनिर्देशः संयोगविशेषणताभ्यामन्यज्जगत् तदन्यत्वं संयोगविशेषणतयोरेव तद्व्याप्यत्वमिति । तथा च संयोगविशेषणतारूपौ द्वावेव सक्षात्सम्बन्धौ सिध्यतो न त्वतिरिक्तः कश्चित्समवाय इति भावः । हतौ साक्षात्पदकृत्यं प्राग्वत् । प्रमेयत्वादावव्यभिचाराय मात्रेत्युक्तिः ॥
1.चेद्विशे-इ. 2.अंशपदं न - मु. 3.संभिन्नत्वा-इ.
निर्विकल्पके प्रमाणभङ्गः ) निर्विकल्पकवादः पु - 483.
-------------------------- -------------- ----------
सम्बन्धत्वं न सम्बन्धिध्वंससमानकालीनसम्बन्धवृत्ति न सम्बन्धि 1 द्वयप्रागभावसमानकालीनसम्बन्धवृत्ति वा सम्बन्धमात्रवृत्तित्वात् संयोगत्ववदित्याद्यनुमानानि प्रमाणानि ॥
समवाये प्रमाणभङ्गः

11.30

एवं सम्बन्धैकत्वविरोध्यनुमानान्युक्त्वा नित्यत्वविरोध्यनुमानमाह -- सम्बन्धत्वमिति ॥ सम्बन्धद्वयमवयवावयव्यादि ।
अनादित्यविरोधिसाध्यान्तरमाह -- न सम्बन्धिद्वयप्रागभावेति ॥ मात्रपदं कृत्यं प्राग्वत् ॥
समवाये बाधकम् ॥
समवायवादः समाप्तः

11.31

यच्चोच्यते -- समवायसम्बन्धेन पूर्वं गत्वादि जातिविषयकं निर्विकल्पकं अनन्तरं जातिविशिष्टगकारविषयकं सविकल्पकमिति । तन्न । निर्विकल्पके मानाभावात्॥
ननु समवायाभावे निर्विकल्पकादिभेदेन प्रत्यक्षप्रमाद्वैविध्यानुपपत्तिः । तस्य समवायरूपवैशिष्ट्य 3 वगाहित्वानवगाहित्वाभ्युपगमेनैव 4 द्वैविध्यस्य वाच्यत्वादित्यतः द्रव्यादिविकल्पानां प्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पकानुपपत्तेरिति पद्धतिवाक्यं विवृण्वानो नास्त्येव निर्विकल्पकं 5
विशिष्टज्ञानं च स्वरूपसम्बन्धावगाहीति भावेनाह -- यच्चेति ॥ समवायेति । वस्तुगत्या समवायसम्बन्धेन स्थिता या
गत्वादिजातिः तद्विषयमित्यर्थः ।
1.द्वयेति नास्ति-च-छ-मु. 2.समवायभङ्गः इत्यधिकम्-क. 3.विषयकत्वे तद्विषयकत्वाभ्यु-अ. 4.एवकारो नास्ति-मु-इ. 5.क- अ.
न्यायदीपयुततर्कताणडवम् (प्र.परिच्छेदः पु - 484.
----------------------- ---------- ---------
ननु यद्यपि निर्विकल्पके न प्रत्यक्षं प्रमाणम् । तस्यातीन्द्रियत्वाभ्युपगमात् । नापि व्यवहारः । तस्य च सविकल्पकसाध्यत्वात् । नापीदं पूर्वं मया 1 संमुग्धेन ज्ञानमित्यनुभवः । तस्याल्पविशेषण 2 ज्ञानेनैवोपपत्तेः । नापि ज्ञानत्वं निष्प्रकारकत्वसमानाधिकरणम् सकलज्ञानवृत्तित्वात् सत्तावत्, चक्षुः चाक्षुषसविकल्पकातिरिक्तज्ञानकरणं ज्ञानकारणत्वाद्धृणवत्यनुमानम् । अप्रयोजकत्वात् ।
3 यद्वा श्रोत्रसन्निकर्षरूपेण समवायसम्बन्धेन जायमानं गत्वादिजातिविषयकं वैशिष्ट्याविषकं ज्ञाननिर्विकल्पकं, तेनैव सन्निकर्षेण पश्चाज्जायमानं जातिविशिष्टज्ञानं सविकल्पकमित्यर्थः ॥
सम्भाविकपक्षान्मण्युक्तखण्डनरीत्या निराकुर्वन्नेव पूर्वपक्षयति -- यद्यपीत्यादिना ॥ तथापीति वक्ष्यमाणेनान्वयः । व्यवहारो गौरित्याद्यभिलप 4 नरूपः ॥ तस्येति ॥ तादृशानुव्यवसायस्येत्यर्थः । सविकल्पकज्ञानत्वे अव्यभिचाराय सकलेति हेतुविशेषणम् । निष्प्रकारकघटादिवृत्तित्वे बाधात्तादृशज्ञानवृत्तित्वेनैव साध्यपर्यवसानमिति भावः 5 ।
1.सांमुग्धे -च-क-ग-रा. 2.णक-ग-रा. 3.यद्वेत्यादिसम्भावितेति पर्यन्तो ग्रन्थः नास्ति-इ. 4. लापादिः -मु-इ. 5.निष्प्रकारकेत्यारभ्य नास्ति-इ.
निर्विकल्पके प्रमाणभङ्गः ) निर्विकल्पकवादः पु - 485.
------------------------- ------------ ---------
अतिप्रससङ्गाच्च । नापि जागराद्यं गौरिति ज्ञानं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् दण्डी पुरुष इति ज्ञानवदित्यनुमानम् । दृष्टान्तस्य साध्यवैकल्यात् । दण्डपुरुषयो 1 रुभयोर्युगपदिन्द्रियसन्निकर्षे असंसर्गाग्रहे च सति विनैव दण्डज्ञानं दण्डीति ज्ञानोत्पादानुभवात् ॥
तथापि"एतज्जन्मनि प्राथमिकं गौरिति प्रत्यक्षं जन्यविशेषणज्ञानजन्यं अन्यविशिष्टज्ञानत्वादनुमितिवत्"इति मण्युक्तमनुमानं मानम् । न च तत्र विशेषणज्ञानं स्मृतिरूपम् । एतज्जन्मनि तेन गोत्वस्याननुभवात् । न चाद्यस्त 2 नपाना---
अतिप्रसङ्गाच्चेति ॥ ज्ञानत्वं घटत्वसमानाधिकरणमिति, तथा चक्षुः चाक्षुषनिर्विकल्पकसविकल्पकातिरिक्तं ज्ञानजनकमित्यपि त्वदुक्तप्रयोगाभ्यां साधयितुं शक्यत्वादिति भावः । गौरिति ॥ ज्ञानमात्रपक्षत्वे द्वितीयादिसविकल्पके प्राथमिकसविकल्पकजन्यत्वेनार्थान्तरनिरासाय जागराद्यमित्युक्तिः । साध्ये ईश्वरज्ञान 3 जन्यत्वेनार्थान्तरवारणाय जन्येति ज्ञानविशेषणम् ॥
मणुकृता सिद्धान्तमुनुमानमाह -- तथाप्येतज्जन्मनीति ॥ एतज्जन्मनीत्यस्य कृत्यग्रे व्यक्तम् । द्वितीयादिज्ञाने प्राथमिकसविकल्पकजन्यत्वेनार्थान्तरनिरासाय प्राथमिकमित्युक्तिः । साध्ये जन्येति सविशेषणमीश्वरज्ञानेनार्थान्तरनिरासाय । हेतौ चाव्यभिचारायेति भावः ॥
मण्युक्तदिशैव परिष्करोति -- न च तत्रेति ॥
1.उभयपदं न - च-क-ग-रा. 2.न्यपा - रा. 3.नाजनकत्वेनार्था - इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 486.
------------------------ ---------- ----------
दाविवात्रा 1 दृष्टमेव जन्मान्तरीयसंस्कारोद्बोधकम् । तद्वदनन्यगतिकत्वाभावात् । अन्यथातिप्रसङ्गात् । तद्वदेव 2 सन्निकर्षेपि प्रथमं गोत्वस्मृत्यापाताच्च । गोत्वसन्निकर्षस्याप्यपेक्षायां तु सन्निकर्षाद्गोत्वानुभव एवोचितः । तस्यानुभव एव हेतुत्वस्य कॢप्तत्वात् । अन्यथा जन्मान्तरानुभूतानां एतज्जन्मनि
इन्द्रियसन्निकृष्टानां नित्यानां वैदिकानां चार्थानां स्मृतिरेव स्यान्न त्वनुभवः । न च गोत्वरूपविशेषणानुभवः सविकल्पकः । तथात्वे तस्यापि विशेषणज्ञानजन्यत्वाविश्यंभावेनानवस्थानात् ॥
तस्मादर्थान्निर्विकल्पकसिद्धिः । न चाप्रयोजको हेतुः । अनुमितिशाब्दज्ञानादौ हि साध्यप्रसिद्धिपदार्थोपस्थित्यादिर्हेतुः ।
तद्विदिति ॥ इह निर्विकल्पकेनाप्युपपत्या जन्मान्तरीयसंस्कारोद्बोधका 3 दृष्टकल्पनानुपपत्तेरिति भावः । अतिप्रसङ्गादिति ॥ सविकल्पकप्रत्यक्षादेरप्येवमपलापप्रसङ्गादि 4 त्यर्थः । तद्वदेवेति ॥ स्तनपानादिवदवेत्यर्थः ॥
नन्वस्तु सन्निकर्षाद्गोत्वानुभवः । स च विशिष्टज्ञानरूप एव सविकल्प 5 कहेतुरस्त्वित्याशङ्क्याह -- न च गोत्वरूपेति ॥ पूर्वपक्षदशायां मण्युक्तमेवानुकूलतर्कमत्राह -- अनुमितीति ॥ आदिपदद्वयेन क्रमादुपमितिवाचकज्ञानयोर्ग्रहः ।
1.त्राप्य -रा. 2.वा-च-क-ग-रा. 3.के ऽह -अ. 4.ति भावः -मु-इ. 5.एतादृशस्थले -ऽकऽ कारो नास्ति -- इ.
निर्वि-कके-प्रण-भङ्गः) निर्विकल्पकवादः पु - 487.
--------------------- ---------------- ----------
साध्यादीनि च विशेषणानि । एवं च यद्विशेषयोः कार्यकारणभावः असति बाधके तत्सामान्ययोरपि स इति न्यायेन साध्यप्रसिद्ध्यादेर्जन्यविशिष्टज्ञानसामान्ये जन्यविशेषणज्ञानत्वेन हेतुत्वसिद्धिरिति । 1 तन्न ॥
अनुमित्यादौ साध्यप्रसिद्ध्यादेरेवाहेतुत्वेन यद्विशेषयोरि 2 तिन्यायानवकाशात् । न हि व्याप्त्यादिज्ञाने सति तद्विलम्बेनानुमित्यादिविलम्बः ॥
यद्विशेष(ण) योरिति ॥ साध्यपसिद्ध्यनुमित्योः पदार्थोपस्थितिशाब्दज्ञानयोः वाचकज्ञानोपमित्योरित्यर्थः ॥
नन्वेवं दण्डघटयोः कार्यकारणभावे यत्सामान्ययोर्द्रव्यमात्र 3 पृथिवीमात्रयोः
कार्यकारणभावः स्यादित्यत आह-- असतिबाधक इति ॥ तत्र व्यभिचारस्यैव बाधकत्वादिह च तदभावादिति भावः । साध्यप्रसिद्ध्यादेरहेतुत्वेनेति ॥ 4 तदहेतुत्वं च द्वितीयतृतीयपरिच्छेदयोर्विवरीष्यत इति भावः ॥
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ।
इत्यनुव्याख्यानोक्तं हृदिकृत्वाह -- न हीति ॥ आदिपदेन शब्दज्ञानसंकेतस्मरणयोः सत्वे इति ग्रहः ॥ तद्विलम्बेन
साध्यप्रसिद्धिपदार्थस्मृतिविवम्बेनेत्यर्थः ।
1.चेन्न-न -मु-द्धेरिति । मैवम् -ग. 2.त्यादि-च-ग. 3.पार्थिव -अ. 4.प्रसिद्धिपदार्थोपस्थित्योरहेतुत्वं च इत्यस्ति - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 488.
----------------------- ----------- -----------

न च व्याप्त्यादिधीरे तेन विना नेति वाच्यम् । एवं हि तस्य हेतुहेतुत्वेनान्यथासिद्धत्वान्नानुमित्यादिहेतुना ॥
अस्तु वा साध्यप्रसिद्ध्यादिरनुमित्यादिहेतुः । तथाप वह्निमानित्यादिज्ञानं प्रति वह्न्यादिज्ञानस्य न विशेषणज्ञानत्वेनैव कारणता । द्रव्यत्वादिना वह्निज्ञानेपि तदभावात् । नापि विशेषणतावच्छेदकप्रकारकविशेषणज्ञानत्वेन । तेन निर्विकल्पकासिद्धेः । गौरवाच्च। किं तु विशेषणतावच्छेदकप्रकारकज्ञानत्वेन । तथा च न निर्विकल्पकसिद्धिः ॥
ननु -- तत्र विशेषणज्ञानत्वमप्यस्ति । एवं च विशिष्टवैशिष्ट्यावगाहिज्ञानं प्रति विशेषणतावच्छेदक----
ननु सम्बन्धिनो 1 रज्ञाने तन्निरूपितव्याप्तिशक्त्योर्धीरेव नेत्याशङ्क्य निराह - न चेति ॥
परप्रक्रियामुपेत्यापि निर्विकल्पकासिद्धिमाह -- अस्तु वेति ॥ अस्त्वेवं को दोष इत्यत आह -- तथा च न निर्विकल्पकेति ॥ तस्य निष्प्रकारकत्वेन यद्विशेषन्यायेनापि विशेषणतावच्छेदकप्रकारणज्ञानस्यैव सिद्धिरिति भावः ॥
एवमपि निर्विकल्पकसिद्धिरिति भावेन मण्युक्तमाशङ्क्यते -- ननु तत्रेति ॥
वह्निज्ञानादावित्यर्थः । विशिष्टवैशिष्ट्येति ॥ वह्निमानित्यादिज्ञानमित्यर्थः ।
1. नोज्ञा - इ.
निर्वि-कके-प्रण-भङ्गः) निर्विकल्पकवादः पु - 489.
--------------------- ---------------- ----------
--प्रकारकविशेषणज्ञानत्वेन हतु 1 ता सेत्स्त्यति । यद्विशेषयोरिति न्यायादिति चेत् । 2 एवं ह्यनुमितौ करणविशेषलिङ्गज्ञानस्य हेतुत्वाद्यद्विशेषयोरिति न्यायेन जन्यज्ञानमात्रे करणमात्रज्ञानं हेतुः स्यात् । तथा च प्रत्यक्षेपि चक्षुरादिविषयकमतीन्द्रियं निर्विकल्पक 3 कल्प्यं स्यात् ॥
अपि चैवं प्रत्यक्षविशिष्टज्ञानं प्रति विशेष्यज्ञानस्यापि हेतुना स्यात् । संशयादौ धर्म्यादि ज्ञानस्यानुमित्यदौ पक्षादिज्ञानस्य हेतुत्वेन कॢप्तत्वात् ।
तत्र वह्नित्वविशिष्टवैशिष्ट्यस्य पर्वते भानाद्गोरित्यादि 4 तु विशिष्टज्ञानमात्रमित्यर्थः ॥
अतिप्रसङ्गेन न्यायस्याभासत्वमाह -- एवं 5 हीति ॥ अनुभवबाधपरिहारायाह-- अतीन्द्रियनिर्विकल्पकमिति ॥
अतिप्रसङ्गान्तरोक्त्या यद्विशेषयोरितिन्यायस्याभासतामाह - 6 अपि चैवमिति ॥ यद्विशेषयोरिति न्यायेन विशिष्टज्ञानमात्रं प्रति विशेषणज्ञानत्वेन हेतुत्व इत्यर्थः । कुत इत्यत आह -- संशयादाविति ॥ संशयरूपविशिष्टप्रत्यक्षविशेषं प्रति, तथा इदं रजतमित्यादिविपरीतविशिष्टप्रत्यक्षविशेषं प्रति च धर्मिज्ञानस्याधिष्ठानज्ञानस्य च हेतुत्वमस्ति । अन्यथा कोटिस्मरणस्योत्कटकोटिकसंशयादेश्चानुपपत्तेः । तथा अनुमितौ पक्षज्ञानस्य शाब्दे 7 बोधे च पदार्थज्ञानस्य च हेतुत्वमस्ति । एवं च यद्विशेषयोरिति न्यायेन धर्म्यादिज्ञानसंशयप्रत्यक्षादिरूपज्ञानयोः कार्यकारणभावे तत्सामान्ययोः प्रत्यक्षविशिष्टज्ञानविशेष्यज्ञानयोरपि कार्यकारणभावापत्तिः स्यादित्यर्थः ॥
1.त्वे विशिष्टज्ञानमात्रं प्रति विशेषणज्ञानत्वेन हेतु इत्यधिकम् - च-क-ग-रा. 2.न इत्यधिकं-ग. 3.कं क-ग-रा. 4.दौतु-इ. 5.सतीति-च-छ-ग-रा.
6.एवमित्यारभ्य नास्ति-इ. 7.न्वयेत्यधिकम् - अ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 490.
----------------------- ----------- ----------
न च इष्टापत्तिः दण्डत्वविषयके निर्विकल्पके सामग्रीसत्वेन दण्डस्यापि स्वरूपेण भानादिति वाच्यम् । त्वदनङ्गीकृत 1 विशेष्यज्ञानत्वेन हेतुत्वस्यापादनात् ॥
किं च सामान्यप्रत्यासत्तिर्नेति पक्षे व्याप्तिग्रहकाले अनुभूतो वह्निः पर्वतं प्रति न विशेषणम् । अन्यविशेषणज्ञानस्य हेतुत्वे चातिप्रसङ्गः ॥
इष्टापत्तिं व्यनक्ति--दण्डत्वेति ॥ सामग्रीति ॥ दण्डेन्द्रियसम्प्रयोगादिरूपेत्यर्थः । विशेषणज्ञान 2 स्येव विशेषणज्ञानत्वेन दण्डत्वविशिष्टसविकल्पके दण्डरूपविशेष्यज्ञानस्य हेतुत्वं नानिष्टमिति भावः । विशेष्यज्ञानत्वेनेति ॥ विशेषणज्ञानस्य सत्वेन यथा हेतुत्वं तथेति भावः ॥
यद्विशेषन्यायेनापि न विशेषणज्ञानत्वेन हेतुत्वं कल्पियितुं शक्यम् । येन तद्बलान्निर्विकल्पकत्वसिद्धिरिति भावेनाह -- किञ्चेति ॥ सामान्यप्रत्या 3 सत्तिरस्तीति न्यायमते 4 यो धूमवानसौ वह्निमानिति व्याप्तिग्रहदशायां पर्वतीयवह्नेरपि पर्वतविशेषणतया भानेनोक्तदोषासंभावात् । सामान्यप्रत्यसत्तिर्नेति पक्ष इत्युक्तम् । एतन्मतेनुमानप्रवृत्तेस्तृतीयपरिच्छेदे उपपादयिष्यमाणत्वादिति भावः ॥
1.स्य -क-ग-रा. 2.इव विशेष्यज्ञानत्वेन -इ. स्यैव विशेष्यज्ञानत्वैन -अ. 3.सत्या इत्यधिकम् -अ. 4.योयो-अ.
निर्वि-कके-प्रण-भङ्गः) निर्विकल्पकवादः पु - 491.
--------------------- ---------------- ----------
अपि च त्वयापि घटाभाववद्भूतलमिति ज्ञाने अभावरूपविशेषणस्य संयोक्ताविमौ समवेताविमावित्यादिज्ञाने च संयोगसमवायादिरूपस्य विशेषणस्य, अनुव्यवसाये व्यवसायगतस्य रजतत्वप्रकारकत्व 1 रूपस्य विशेषणस्य, अभावज्ञाने
प्रतियोगित्वा 2 दिरूपस्य विशेषणस्य च, पूर्वमज्ञातस्यैव भानमिति स्वीकृतत्वात्तत्र व्यभिचारः ॥
भूतले अभाव इत्यभावादिविशेष्यकज्ञानानन्तरमेव भूतलमभाववदित्यभाव 3 विशेषणकज्ञानमिति कल्पेन त्वन्योन्याश्रयः । एतत्कल्पनस्य विशिष्टज्ञानविशेषणज्ञानयोः कार्यकारणभावसिद्ध्यधीनत्वात् ॥
एतेनानुगस्य विशेषणज्ञानस्याहेतुत्वे अनुगतं विशिष्टज्ञानरूपं कार्यमाकस्मिकं स्यात् । अन्यस्य तदनुगतस्य हेतोरभावादिति निरस्तम् ।
व्यभिचाररूपबाधकसत्वादसति बाधके यत्सामान्ययोरिति न्यायावतारोप्ययुक्तः । यद्बलाद्विशेषणज्ञानहेतुतासिद्ध्या निर्विकल्पकसिद्धिरिति भावेनानेकस्थलेषु व्यभिचारमाह -- अपि चेति ॥
यत्तु मणावेतदेवाशङ्क्य प्रथमं भूतले घटोनास्तीति बुद्धिरित्यादिना समाधानमुक्तं तदनूद्य निराह -- भूतलेभाव इत्यादिना ॥ अन्योन्याश्रय इत्युक्तं व्यनक्तिः -- एतदिति ॥ प्रथमं विशेष्यत्वेन ज्ञानमिति कल्पनस्येत्यर्थः । विशिष्टज्ञानविशेषणज्ञानयोः कार्यकारणभावे सिद्धे हि व्यभिचारस्य गत्यन्तरकल्पनं सिद्धे च तस्य गत्यन्तरे तयोः कार्यकारणभावसिद्धिरिति भावः॥
1.रूपपदं न -क-ग. 2.भावत्वा-क-ग-रा. 3.वादि-च-ग.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 492.
------------------------ ------------ ---------
व्यभिचारस्योक्तत्वात् । उभयसम्मतादिच्छादिव्यावृत्तादात्ममनोयोगादिरूपज्ञानसामान्यहेतुत एव विशिष्टज्ञानसंभवाच्च ॥
यदि ह्यननुमित्यनुमितिरूपज्ञानद्वयवन्निर्विकल्पकसविकल्पकरूपज्ञानद्वयं प्रामाणिकं स्यात् । तदा ज्ञानसामान्यसामग्रीत एव विशिष्टज्ञानोत्पत्तौ सर्वमपि ज्ञानं सविकल्पकं स्यादिति भयेन विशेषसामग्री कल्प्येत । न च तदस्ति । निर्विकल्पकस्याद्याप्यसिद्ध्या सर्वस्यापि ज्ञानस्य सविकल्पकत्वात् । इदमित्थमिति हि सर्वापि धीः ।
व्यभिचारस्योक्तत्वादिति ॥ तथा चानुगतकारणाभावाद्विशिष्टज्ञानत्वं कार्यतावच्छेदकमेव नेति भावः ॥

तस्य कार्यतावच्छेदकत्वमुपेत्याप्यन्यदेवानुगतकारणमाह -- उभयेति ॥
ननु कथमेतत् निर्विकल्पकसाधारणकारणस्य विशिष्टज्ञानहेतुत्वात् । अन्यथा तदपि विशिष्टज्ञानमापद्येतेत्यत आह ॥ यदि हीति ॥ विशेषेति ॥ विशेषणज्ञानरूपविशेषसामग्रीत्यर्थः । इति हीति ॥ हिशब्देन सर्वानभवसिद्धत्वं सूचयति ॥
ननु निर्वकल्पकस्यातीन्द्रियत्वादेव नानुभव इत्यत आह -- अन्यथेति ॥
---------------------------------------------------------------------------निर्वि-कके-प्रण-भङ्गः) निर्विकल्पकवादः पु - 493.
---------------------- ---------------- ---------
अन्यथा निष्प्रकारकधीवन्निर्विषयापि धीः स्यात्। इच्छापि काचिन्निष्प्रकारिकातीन्द्रिया च स्यात् । एवं द्वेषोपि ॥
एतेनैव व्यभिचारेण रूप्यादिस्मृतेर्भ्रमे विशेषणज्ञानत्वेन कारणत्वं कॢप्तमतोन्यत्रापि विशिष्टज्ञाने तत्करणमिति निरस्तम् । आवश्यक विशेषणसन्निकर्षत्वेनैव तस्य तत्र हेतुत्वात् । भ्रमं प्रति विशेष्यज्ञानस्यापिहेतुतायाः कॢप्तत्वेन अन्यत्रापि विशिष्टज्ञाने तस्यापि हेतुत्वापत्तेश्च ॥
ननु -- विशेषञ्ज्ञानस्याजनकत्वे कथं विशेषणस्यैव प्रकारत्वमिति नियमः । सन्निकर्षस्य विशेष्येपि स 1 त्वादिति चेत् । निर्विकल्पकाङ्गीकारेपि कथम् ।
एवं द्वेषोपीति ॥ निष्प्रकरको अतीन्द्रियश्च स्यादित्यर्थः । एतेनैवेति ॥ अव्यभिचारविशिष्टज्ञानान्यथासिद्ध्यतिप्रसङ्गानां कथनेनैवेत्यर्थः । रूप्यादिस्मृतेर्व्यभिचारेणेत्यन्वयः । गृह्यमाणारोपस्थले स्मृतेरभावान्न स्मृतित्वेनारोप्यभूतरूप्यादिज्ञानस्य हेतुता । किं तु विशेषणज्ञानत्वेनेत्यर्थः । कथं तर्हि हेतुतेत्यत आह -- आवश्यकेति ॥ हेतुत्वापत्तेश्चेति ॥ इष्टापत्तिस्तु प्रागेव निरस्तेति भावः ॥
यदपि गोत्वादेः प्रकारत्वनियमान्यथानुपपत्या विशेषणज्ञानहेतुत्व 2 सिद्धिः ।
विशिष्टधीहेतुताविषयत्वस्यैव प्रकारत्वादिति तदप्याशङ्क्य निराह -- नन्विति ॥ सन्निकर्षो नियामक इत्यत आह -- सन्निकर्षस्येति ॥
1.मत्वा -च-छ. 2.सिद्धिविशिष्टहेतुधीविषयत्वस्यैव इत्यस्ति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 494.
----------------------- ------------ ---------
त्वन्मते विशेष्येपीन्द्रियसंयोगादिनिर्विकल्पकसामग्र्याः सत्वेन निर्विकल्पकस्य विशेष्येपि सत्वात् । कथं चाभावादिज्ञाने अभावत्वादेः प्रकारत्वम् ॥
किं च फलीभूतज्ञाने यद्विशेषणज्ञाने यद्विशेषणत्वेन भासते तद्विषयकज्ञानेन जन्यं यज्ज्ञानं 1 तत्तत्प्रकारकमिति वा नियमः, यज्ज्ञानजन्यं यज्ज्ञानं 2 तत्तत्प्रकारकमिति वा । नाद्यः । आत्माश्रयात् । नान्त्यः । अनुमित्यादौ व्याप्त्यादेः प्रकारत्वापातात् । तस्मात्वयापि प्रकारत्वनियमो भोजकदृष्टादिभिरेव वाच्यः ।
कथमिति ॥ विशेषण्स्यैव प्रकारत्वनियम इत्यनुषङ्गः । कुत इत्यत आह -- त्वन्मत इति ॥ अभावादिज्ञान इत्यादिपदेन प्राग्व्यवहारस्थलोक्तसंयोगसमवायादिग्रहः । त्वदुक्तरीत्या भूतलं घटाभाव इत्यभावविशेष्यकज्ञानस्य प्राथमिकत्वेष्यभावत्वस्य तत्राज्ञाततस्यैव प्रकारत्वात् । भावस्थल एवायं नियम इत्युक्तावपीमौ संयुक्तौ इत्यादावभावादिति भावः ॥
ननु तर्हि गोत्वादेरिव प्रकारत्वनियमो किं बीजमित्यतस्तत्परमुखेनैव वाचयितुं परोक्तं विशिष्टधीहेतुधीविषयत्वरूपं प्रकारत्वं विकल्प्य निराह -- किञ्चेति ॥ फलभूतज्ञाने विशिष्टज्ञान इत्यर्थः । विशेषणत्वेन प्रकारत्वेनेत्यर्थः । आत्माश्रयादिति ॥ विशेषणत्वेनेत्यस्य प्रकारत्वेनेत्यर्थतया प्रकरत्वज्ञाने प्रकारत्वज्ञानस्यापेक्षितत्वादिति भावः । तस्मादिति ॥ जनकज्ञानविषयत्वस्य प्रकारत्वरूपत्वासंभवादित्यर्थः ।
1.तत् इति नास्ति-च-छ. 2.तदिति नास्ति-च-छ.
निर्वि-कके-प्रण-भङ्गः) निर्विकल्पकवादः पु - 495.
---------------------- ---------------- ----
उक्तेन 1 व्यभिचारेणैव विशिष्टज्ञानं सम्बन्धविषयकं सम्बन्धज्ञाने च सम्बन्धिज्ञानं हेतुः सम्बन्धि च विशेषणमिति निरस्तम् । सम्बन्धिनोर्युगपदिन्द्रियसन्निकर्षे तयोरसंसर्गाग्रहे च ताभ्यां सहैवेन्द्रियसन्निकृष्टसम्बन्धस्यापि धीरित्युक्तत्वाच्च ॥
इयांस्तु भेदः ; सम्बन्धः सम्बन्धिनौ विना न भाति तौ तु तेन विनापि भात इति ॥ किञ्च विशेष्यस्यापि सम्बन्धित्वेन तज्ज्ञानस्यापि हेतुता स्यात् । न च विशेष्यस्य सम्बन्धित्वेपि न 2 प्रतियोगित्वं किं तु विशेषणस्यैवेति तज्ज्ञानमेव हेतुरिति वाच्यम् ।
उक्तेनैवेति ॥ अपि च त्वयापि इत्यादिग्रन्थेनोक्तनेत्यर्थः । अभाववद्भीतलमित्यादौ सम्बन्धिनो ऽभावादेरज्ञानेपि विशिष्टज्ञानोदयेन न तस्य हेतुत्वमिति भावः ॥
दोषान्तरं चाह -- सम्बन्धिनोरिति ॥ उक्तत्वाच्चेति ॥ त्वन्मते विशेष्य्पीत्यादिना ग्रन्थेनोक्तप्रायत्वादित्यर्थः । 3 यद्वा दण्डपुरषयोर्युगपदिन्द्रियसन्निकर्षेत्यादिना ग्रन्थेनोक्त 4 त्वादित्यर्थः । नन्वेवं सम्बन्धिवत्सम्बन्धस्यापिनिरपेक्षधीः स्यादित्यत आह -- इयांस्त्विति ॥ अयं भदौ वस्तुस्वभाव कृत इति भावः ॥
विशेषणस्य प्रतियोगित्वात्तन्निमित्तं विशेषणज्ञानस्य विशिष्टज्ञानहेतुत्वं चेत्तदा दोषमाह -- अभावादिबुद्धाविवेति ॥
1.नैव. 2.तदित्यधिकम् -च-मु. 3.यद्वेत्यादि नास्ति -इ. 4.प्राय -मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 496.
------------------------ ------------ -----------
अभावादिबुद्धाविव प्रतियोगितावच्छेदकप्रकारकज्ञानस्यैव हेतुताया वक्तव्यत्वेन निर्विकल्पकासिद्धेः ॥
किञ्चास्तु विशेषणज्ञानं 1 तथापि न निर्विकल्पकसिद्धिः । तथा हि । न
तावज्जन्यतावच्छेदकम् । स्मृतावतिप्रसक्तेः । न च तत्रापि पूर्वानुभवो विशेषणज्ञानतया संस्कारद्वारा हेतुरिति वाच्यम् । विशेषणज्ञानत्वेन जनकतायां संस्कारस्य द्वारत्वायोगात् । यज्जातीयस्य यं 3 जनयित्वेव यज्जनातीयजनकत्वं स एव हि तत्र 4 व्यापारः । अन्यथा दण्डादिरपि कुलालप्यापारः स्यात् ।
इमौ संयोक्तावित्यादिबुद्धिरादिपदार्थः । व्यवहिते ऽनुभवनाशादाह -- संस्कारद्वारा हेतुरिति ॥ यज्जातीयस्येति । चक्षुरादीन्द्रियजातीयस्य सन्निकर्षं जनयत्वैव चाक्षुषादिसाक्षात्कारजातीयजनकत्वं दृष्टमिति सन्निकर्ष एवेन्द्रियस्य व्यापारः । तथा दण्डजातीयस्य चक्रभ्रमं जनयित्वैव घटजातीयजनकत्वमिति भ्रमिः दण्डस्य व्यापारो दृष्ट इत्यर्थः । कदापि फलोपधानरहितनवस्थदण्डादेर्व्यापारवत्वाय यज्जातीयस्येत्युक्तिः । अन्यथेति ॥ सापेक्षत्वमात्रेण व्यापारत्व इत्यर्थः ॥
नन्वस्त्वेवं व्यापारत्वं तादृशमपि संस्कारस्यास्त्वित्यत आह -- न चात्रेति ॥
1.कारणपदं अधिकम् -च-क-ग-रा. 2.कार्यताव-मु. 3.यज्ज-च. 4.तस्य इत्यधिकम् -च-क-ग-रा.

ननु विशिष्टज्ञानस्योक्तविधया कार्यतावच्छेदकत्वेपि निर्विकल्पकासिद्धिः कुत इत्यत आह -- तथाचेति ॥ जन्यविशिष्टज्ञानत्वस्यानवच्छेदकत्वे सतीत्यर्थः । तत्रेति ॥ स्मरण इत्यर्थः । अननुभूतगोव्यक्तेः प्रथमतो गोत्वविशिष्टज्ञानमपि प्राग्भवीयसंस्कारजन्यस्मरणमस्तु । स्तनपानादाविवेति भावः ॥
ननु स्मरणस्य विशेषणज्ञान 1 जन्यत्वादनवस्थेत्यत आह -- जन्येति ॥ उक्तमिति ॥ स्मृतिवतिप्रसक्तेरित्या 2 दिपूर्वग्रन्थे उक्तमित्यर्थः ॥
स्मृतिव्यावृत्तमेव कार्यतावच्छेदकं स्वयमुपपाद्य स्मृतिसाधारणमेव कार्यतावच्चेदकमस्त्विति मतान्तरमाह -- केचि 3 दिति ॥ इत्याहुरित्यन्वयः ।
1.जन्यपदं न -इ. 2.आदिपदं न -मु-इ. 3.त्त्विति -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 498.
-------------------- -------------- -----------
अस्तु वा स्मृतिसाधारणं जन्यज्ञानत्वमेव कार्यतावच्छेदकम् । तथापि वैशिष्ट्य 1 प्रवेशे गौरवमेव । न चैवमनवस्था । बीजाङ्कुरवत् प्रामाणिकत्वेन वस्त्वनवस्थाया अदोषत्वात् । प्रथमप्रवृत्तेन प्रमाणेन लाघवसहकारिणा जन्यज्ञानपरम्परायामेव विशेषणज्ञानस्य कारणत्वावधारणात् । अन्यथा सामग्री 2 सामग्र्यन्तरसापेक्षेत्यनवस्थापि दोषः स्यात् ॥
न च जन्यस्य सर्वस्यापि ज्ञानस्य विशेषणज्ञान्यत्वे पूर्वपूर्वज्ञानधाराया अविच्छेदे प्रायणाद्यनुपपत्या ज्ञानानवस्थादोषः । एतज्जन्मनि प्राथमिकानुभवे स्मरणं हेतुः।
तत्र च संस्कारद्वारा जन्मान्तरीयानुभवः । तत्रापि 3 पूर्वजन्मान्तररीयानुभव इति स्वीकारे 4 णाविरललग्रज्ञानधाराया अभावेन प्रायणाद्युपपत्तेः ॥
न च पुरुष 5 प्रयोज्यशब्दवृत्तिजातिविशिष्टप्रत्यक्षे विशेषणज्ञानं न स्मृतिरूपं, तस्या जातेः पूर्वमननुभवादिति वाच्यम् ।
नचैवमिति ॥ स्मरणस्यापि जन्यविशेषणज्ञानजन्यत्व इत्यर्थः । प्रामाणिकत्वं व्यनक्ति --प्रथमेति ॥ लाघवेति ॥ वैशिष्ट्यप्रवेशापेक्षाया जन्यज्ञानत्वस्य लाघवादिति भावः ॥ सामग्र्यन्तरेति ॥ स्वजनकसामग्र्यन्तरेत्यर्थः । प्रायणादीति ॥ मरणमूर्च्छादिरित्यर्थः ।
1.ष्ट्याप्र-क-च-छ. 2.ग्र्याः - च. 3.तदित्यधिकम्-ग-मु. 4.रे ऽवि-मु. 5.विशेषेत्यधिकम्-क-ग-रा.
निर्वि-कके-भङ्गः) निर्विकल्पकवादः पु - 499.
----------------- ---------------- --------
शब्दस्य शब्दत्वादिना स्मरणानन्तरं शब्दविशेषणकजातिविशेष्यकज्ञाने जाते पश्चाज्जातिविशेषणकशब्दविशेष्यकज्ञानसम्भवात् । त्वत्पक्षे अभावविशेष्यकज्ञानानन्तरं तद्विशेषणकज्ञानवत् ॥
एवं प्रत्यग्रोत्पन्नरूपादिविशिष्टप्रत्यक्षेपि द्रष्टव्यम् । अन्यथा त्वत्पक्षेपि निर्विकल्पकस्यादृष्टद्वारा जन्यज्ञानजन्यत्वादनवस्था स्थादित्याहुः ॥
निर्विकल्पके प्रमाणभङ्गः

11.31

अदृष्टद्वारा जन्यज्ञानेति ॥ हविरादिगोचरजन्यज्ञानेत्यर्थः ॥
3 आहुरित्यरुचिबीजं तु स्मृतावतिप्रसक्तेरित्यादिना पूर्वोक्तमेव ज्ञेयम् ॥
निर्विकल्पके प्रमाणभङ्गः

11.32

किञ्चातीन्द्रिय 2 ज्ञानोपगमे योग्यानुपलब्धेरभावेन ज्ञानाभावस्य निश्चेतुमशक्यतया अनुपलब्धिलिङ्गजन्या घटाद्यभावधीर्न
स्यात् ॥
निर्विकल्पेके साधकाभावमात्रं न बाधकं चास्तीत्याह -- किञ्चेति ॥ योग्येति ॥ यद्यत्र मयि ज्ञानं स्यादुपलभ्येतेति प्रतियोगिसत्वप्रसञ्जितप्रतियोगित्वरूपमण्युक्योग्यानुपलब्धेरित्यर्थः ॥ लिङ्गजन्यति ॥
1.ऽशब्दविशेष्यकज्ञानान्तरंऽ इत्यिधिकम् -क. 2.प्रमाणो-छ. 3.प्राहु -इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 500.
------------------------ ----------- ----------
न च सविकल्पकाभाव एव निर्विकल्पकाभावे लिङ्गम् । निर्विकल्पके सति सविकल्पकावश्यंभावाभावेन निर्विकल्पकं प्रति सविकल्पकस्या व्यापकत्वात् ॥
अपि च निर्विकल्पकजन्यसविकल्पकोत्पत्तिदशाया 1 मती 2 न्द्रियनिर्वकल्पकसामग्रीसत्वेन सत्प्रतिपक्षवत्सामग्रीद्वयस्य परस्परप्रतिबन्धकमपि ज्ञानं नोत्पद्यत ॥
यद्यपि घटाद्यभावो योग्यानुपलब्धिसहकृतप्रत्यक्षवेद्यस्तथापि क्वचिदन्धकाराद्यावृतस्थले परामर्शेन गृह्यमाणो घटाद्यभावोत्र घटो नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादिति लिङ्गम्य इत्यभ्युपगमात् । ज्ञानाभावज्ञनस्यावश्यकत्वाद्योतनाय लिङ्गजन्या घटाद्यभावधीरित्युक्तम् ॥
न च सविकल्पकाभाव एव घटाद्यभावबुद्धौ लिङ्गमस्तु सविकल्पकस्य योग्यतया तदभावज्ञानसंभवादिति वाच्यम् । उपलब्धिसामान्याभावस्यैवार्थाभावे
लिङ्गत्वादन्यथातिप्रसङ्गादिति भावः ॥
ननु निर्विकल्पकस्यातीन्द्रियत्वेन तदभावस्याप्रत्यक्षत्वेपि तज्ज्ञानमनुमितिरूपमस्तु । सविकल्पकस्य निर्विकल्पव्यापकतया सविकल्पकाभावस्यैव तत्र लिङ्गत्वात्तचस्य च प्रतय्क्षादित्याशङ्क्य निराह -- न चेति ॥ सविकल्पकावश्यंभावावेनेति ॥ निर्विकल्पकमात्रं सविकल्पकं प्रत्यक्षसामग्रीत्वात्कारणान्तराभावादिना तदभावसंभवादिति भावः ॥
बाधकान्तरमाह -- अपि चेति ॥ सविकल्पकदशायां निर्विकल्पकसामग्र्येव नास्ति निर्विकल्पकाभावसहकृतेन्द्रियसंयोगादेरेव निर्विकल्पकसामग्रीत्वादेवं च नोक्तदोष इति भावेनाशङ्क्य निराह -- न च पूर्वेति ॥
1.इतः ऽ न च पूर्वऽ इत्यन्तं नास्ति. अत्र ऽमपि इन्द्रिय सन्निकर्षरूपऽ इत्यस्ति -छ-ग. 2.मपीन्द्रियसन्निकर्षरूपनिर्वि -क-मु-रा.
निर्विकल्पके बाधकम् ) निर्विकल्पकवादः पु - 501.
--------------------- ---------------- ---------
न त पूर्वनिर्विकल्पकमेवोत्तरनिर्विकल्पकप्रतिबन्धकम् । धारावाहिकसाक्षात्कारदर्शनेन त्वत्पक्षेपि प्रत्यक्षस्थले सिद्धेः सिद्ध्यन्तराप्रतिबन्धकत्वात् ॥
न च समूहालम्बन 1 वत् सामग्र्या 2 दार्थसमाजादेकं ज्ञानमस्तीति वाच्यम् । तद्विदिह फलाविरोधाभावात् । न हि संभवत्येवमेव ज्ञानमेकस्मिन्नेव घटे घटत्वप्रकारकं तद 3 प्रकारकं चेति ॥
अपि च दण्डपुरु 4 षोभयसन्निकर्षे सति दण्डदण्डत्वोभयनिर्विकल्पकानन्तरं दण्डे दण्डत्ववैशिष्ट्यज्ञानात्पूर्वं मुण्डितदण्डविशिष्ट 5 पुरुषधीः स्यात् ।
सामग्रीद्वयसत्वेप्यविरोधमाशङ्क्य निराह -- न च समूहेति ॥ तत्तन्द्रियसन्निकर्षरूपानेकसामग्रीसत्वेपि अनेकगोचरमेकं ज्ञानं जायते न तु प्रतिबन्ध एवमस्त्वित्यर्थः । विरोधं व्यनक्ति -- न हीति ॥
ननु स्मृतिसामग्रीतोनुभवसामग्र्या इवानुमितिसामग्रीतः प्रत्यक्षसमामग्र्या इव च निर्विकल्पकस्यैवोत्पत्तिरित्यस्त्वित्यतो दोषान्तरमाह -- अपि चेति ॥ मुत्पिण्डेति
॥ दण्डत्वानुल्लेखिदण्डविशिष्टपुरुषधीरित्यर्थः ।
1.द्वय इत्यधिकम् -- क. 2.दर्थ-च-छ. 3.दाकारकं चेति--च-छ. 4.षयोरिन्द्रियसन्नि-च-ग-मु. 5.पुरुषपदं न - च-ग-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 502.
---------------------- ----------- -----------
सामग्र्याः सत्वात् । न चेष्टापत्तिः । तादृशज्ञानाननुभवात् ॥
न हि दण्डपुरुषसन्निकर्षानन्तरं दण्डे दण्डत्ववैशिष्ट्यज्ञानात्पूर्वं मुण्डितदण्डविशिष्टपुरुषज्ञानमनुभूयते । न चेदमपि
ज्ञानमतीन्द्रियम् । सविकल्पकत्वात् । मम तु इन्द्रियसन्निकर्षादादावेव विशिष्टवैशिष्ट्यज्ञानोत्पत्तेर्नायं प्रसङ्गः ॥
किञ्च दण्डपुरुषसन्निकर्षे 1 तदुभयस्वरूपमात्रविषयकनिर्विकल्पकवत् सम्बन्धस्यापि सन्निकर्षे 2 तत्स्वरूपमात्रविषयकं निर्विकल्पकमपि कस्मान्न स्यात्।
सामग्र्या इति ॥ विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहरुपविशिष्टज्ञानसामग्र्या इत्यर्थः॥
ननु मुण्डितदण्डज्ञानसामग्रीसम्पत्तिवद्दण्डे दण्डत्व 3 वैशिष्ट्यज्ञानसामग्र्यामपि सत्वात् । मुण्डितदण्डविशिष्टज्ञानोत्पत्तिवेलायां दण्डत्ववैशिष्ट्यमपि दण्डे भात्येवेतित्वन्मत 4 वन्न्यायमते 5 विशिष्टवैशिष्ट्यधीरस्त्वित्यत आह -- किञ्च दण्डपुरुषेति ॥ सन्निकर्षेणेति ॥ संयुक्तविशेषणतादिरूपेणेत्यर्थः ॥
ननु सम्बन्धभाने सन्निकर्षमात्रं न हेतुः । किं तु सम्बन्धिज्ञानमपीति चेत् न । सम्बन्धत्वेन सम्बन्धज्ञानस्य तथात्वेपि सम्बन्धस्वरूपज्ञाने तदनपेक्षणात् । अन्यथा सम्बन्धितावच्छेदकसम्बन्धिज्ञानेनैव सम्बन्धज्ञानदर्शनात् । विशिष्टज्ञानेपि सम्बन्धस्याभानापातात् ॥
र्1.षेण-ग-मुर्. 2.षेण-ग-मु. 3.विशिष्टज्ञानसामग्र्या -इ. 4.तं न्या-इ. 5.पि-इ.
निर्वि-कके-बाधकम्) निर्विकल्पकवादः पु - 503.
------------------ ---------------- ---------
अपि चास्य निर्विकल्पकजतीयस्य ज्ञानकार्यं व्यावहारं संस्कारं इच्छादिकं च कदाप्यजनयतो न ज्ञानत्वं युक्तम् । नतरां चास्य स्वषये कदापि संशयाद्यविरोधिनो निश्चयत्वम् । नतमां चास्य स्वविषयसिद्धिमकुर्वतः प्रमात्वम्। न च निर्विकल्पकेन कस्यचिदपि वस्तुतः कदापि सिद्धिर्दृष्टा । न च 1 प्रमाभ्रमविजातीयं ज्ञानमस्ति ॥
अपि चैवं निर्विकल्पकज्ञानं प्रत्यक्षविशेषवत् अनुमितिविशेषोपि स्यात् ।
अभ्युपेत्य वा दोषान्तरमाह -- अपि चास्येति ॥ क्वचित्कार्याजननेपि निर्विकल्पकान्तरे ज्ञानकार्यबलात् निर्विकल्पकमात्रे ज्ञानत्वादिकमविरुद्धमित्यतो ऽस्येत्यस्य विवरणं निर्विकल्पकजातीयस्येति ॥ नतरांनतमां इति चाव्ययमतिशयार्थकम् ॥
सिद्धिमकुर्वत इत्येतव्द्यनक्ति -- न चेति ॥ नन्वीश्वरज्ञानमिव निर्विकल्पकमपि प्रमाभ्रमविजातीयज्ञानमनित्य 2 मित्यत आह -- न चेति ॥ तथात्वे घटादिरपि कुतो न ज्ञानं स्यादिति भावः ॥
यदपि"प्रत्यक्षं द्विविधं निर्विकल्पकं सविकल्पकं चे"ति मण्यादौ प्रत्यक्ष 3 त्वकथनं तदप्ययुक्तमित्याह -- अपि चैवमिति ॥ साक्षात्कारकार्यमकुर्वतोपि प्रत्यक्षज्ञानविशेषत्वेनुमितिकार्यमकुर्वतोप्यनुमितिविशेषत्वं स्यादित्यर्थः ॥
1.भ्र-च -ग. 2.मस्त्वित्य-मु. अनित्यपदमपि नास्ति. 3.द्वैविध्य- इ.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 504.
------------------------ ---------- ----------

निर्विकल्पकाभावे तु ज्ञानत्वाश्रयो न सविकल्पकत्वावच्छिन्निभिन्नः ज्ञानत्वात् दण्डीति ज्ञानवत्, सविकल्पकत्वं 1 ज्ञाननिष्ठात्यन्ताभावा 2 प्रतियोगी सविकल्पकवृत्तित्वात् ज्ञानत्ववत्, 3 ज्ञानत्वात् अनुमितिवत्, अपरोक्षत्वं विशिष्टज्ञानत्वव्याप्यं ज्ञानविभाजकधर्मत्वात् परोक्षत्ववदित्यादिद्रष्टव्यम् ॥
एतदेवाभिप्रेत्योक्तं पद्धतौ"द्रव्यादिविकल्पानां प्रथममेवोत्पत्तौ बाधकाभावेन 4 निर्विकल्पका 5 नुपपत्तेः"इति ।
प्रमाणविरुद्धं च निर्विकल्पकमिति भावेनाह -- निर्विकल्पकाभावे त्विति ॥ इत्यादिद्रष्टव्यमित्युत्तरेणान्वयः । एतेन निर्विकल्पकाभावे मानाभावादेव निर्विकल्पसिद्धिरिति निरस्तम् । सविकल्पकस्यापि सविकल्पकान्तरभिन्नत्वाद्बाधनिरासाय सविकल्पकत्वावच्छिन्नभिन्नेति साध्योक्तिः ।यत्किञ्चित्सविकल्पकत्वे 6 व्यभिचारनिरासाय सकलेति
सविकल्पकविशेषणम्॥
उक्तप्रमेयस्य बाधकाभावेनेत्येतदारूढतां व्यनक्ति-- यद्विशेषेत्यादिना ॥
1.न इत्यधिकम्-मु-रा. 2.व-मु-रा. 3.ऽज्ञानत्वाश्रयोऽ इत्यारभ्य नास्ति-छ-ग. 4.ऽनऽ इत्यधिकम्-च-ग-मु. 5.कोप-च-मु. 6.अव्यभिचाराय -मु-इ.
निर्वि-कके-बाधकम्) निर्विकल्पकवादः पु - 505.
------------------ --------------- ----------
यद्विशेषयोरित्यादिन्यायरूपस्या 1 नुगकारणं विनानुगतकार्यानुत्पत्तिरूपस्य विशेषणस्य पूर्वमभाने विशिष्टज्ञाने प्रकारत्वानुपपत्तिरूपस्य सम्बन्धिज्ञानं विना सम्बन्धज्ञानानुपपत्यादिरूपस्य च विपक्षे बाधकस्योक्तरीत्याभावेनेत्यर्थः ॥
उपलक्षणं चैतत् । प्रत्युत निर्विकल्पकाङ्गीकार एवानुपलब्धिलिङ्गकघटाभावज्ञानानुपपत्तिरूपस्य, निर्विकल्पकत्वप्रसङ्गरूपस्य, मुण्डितदण्डविशिष्टपुरुषज्ञानप्रसङ्गरूपस्य, सम्बन्धांशेपि निर्विकल्पकप्रसङ्गादिरूपस्य, बाधकस्य च सद्भावेनेत्यपि 2 ग्राह्यम् ॥
तस्मात्सर्वमपि ज्ञानं सविकल्पकमेव ।
तदेवं वर्णस्य गुणत्वे उक्तरीत्या ग्रहणासम्भवात् --
उपलक्षणं चैतदिति ॥ बाधकाभावेनेत्येतद्भाधकभावेनेत्यस्याप्युपलक्षणमित्यर्थः । तदेवं व्यनक्ति-- प्रत्युतेति ॥ भङ्गद्वयार्थमुपसंहरति -- तस्मादिति ॥
प्रसक्तानुप्रसक्तप्रमेयोपपादनस्यादिवर्जितैरित्युक्तविशेषणसमर्थनं फलमिति दर्शयन् परिच्छेदार्थमुपसंहरति -- तदेवमिति ॥ उक्तेति ॥
1.अनुगतेत्यारभ्य ऽसंबन्धिऽ इति पर्यन्यो ग्रन्थः नास्ति -ग. 2.द्रष्टव्यम् -च-मु.
न्यायदीपयुततर्कताण्डवम् (प्र.परिच्छेदः पु - 506.
------------------------ ----------- -----------
1 नित्यविभुद्रव्यात्मकवर्णसमुदायात्मकस्य वेदस्यापौरुषेयत्वं युक्तमिति ॥
निर्विकल्पके 2 बाधकम्

11.32

इति श्रीमद्ब्रह्मण्यतीर्थ पूज्यपादानां शिष्येण
व्यासयतिना विरचिते तर्कताण्डवे
प्रथमः परिच्छेदः
समवायरूपप्रत्यासत्तिर्नेत्युक्तरीत्येत्यर्थः । 3 युक्तमिति । तथाचाम्नायैरादिवर्जितैरित्युक्तं साध्विति भावः ॥
निर्विकल्पकवादः

मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc