भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह · श्लोक 2-21

2

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥

3

तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥

4

रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश् चतुर्विंशति गुणाः ॥

5

उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥

6

परम् अपरं चेति द्विविधं सामान्यम् ॥

7

नित्यद्रव्यवृत्तयो विशेषास् त्व् अनन्ता एव ॥

8

समवायस् त्व् एक एव ॥

9

अभावश् चतुर्विधः । प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो ऽन्योन्याभावश् चेति ॥

10

गन्धवती पृथिवी । सा द्विविधा नित्यानित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस् त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरम् अस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥

11

शितस्पर्शवत्य आपः । ता द्विविधाः नित्या अनित्याश् च । न्त्याः परमाणुरूपाः । अनित्याः कार्यरूपाः. । पुनस् त्रिविधाः. शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥

12

उष्णस्पर्शवत् तेजः । तद् द्विविधं नित्यम् अनित्यं च । निय्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस् त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरम् आदित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश् चतुर्विधः । भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुर् औदर्यम्. आकरजं सुवर्णादि ॥

13

रूपरहितस्पर्शवान् वायुः । स द्विविधो नित्यो ऽनित्यश् च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस् त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः ॥ शरीरान्तःसंचारी वायुः प्राणः । स चैको ऽप्य् उपाधिभेदात् प्राणापानादिसंज्ञा लभते ॥

14

शब्दगुणम् आकाशम् । तच् चैकं विभु नित्यं च ॥

15

अतीतादिव्यवहारहेतुः कालः । स चैको विभुर् नित्यश् च ॥

16

प्राच्यादिव्यवहारहेतुर् दिक् । सा चैका विभ्वी नित्या च ॥

17

ज्ञानाधिकरणम् आत्मा । स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर् नित्यश् च ॥

18

सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः । तच् च प्रत्यात्मनियतत्वाद् अनन्तं परमाणुरूपं नित्यं च ॥

19

चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच् च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधं पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ॥

20

रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिव्यां षड्विधः । जले मधुर एव ॥

21

घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश् च । पृथिवीमात्रवृत्तिः ।

मूल पाठ: Tarkasaṃgraha · Data entry Takuya Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc