भाषा

ENहिગુ
ग्रंथ पाठ

तन्त्रालोक · अध्याय 32

32.1

अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् । 0ब्
मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले ।
उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥ 1

32.2

बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता ।
विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥ 2

32.3

मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् ।
रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥ 3

32.4

तत्र प्रधानभूता श्रीखेचरी देवतात्मिका ।
निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥ 4

32.5

करङ्किणी क्रोधना च भैरवी लेलिहानिका ।
महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥ 5

32.6

इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते ।
अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥ 6

32.7

तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् ।
श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥ 7

32.8

देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा ।
काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥ 8

32.9

मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥ 9

32.10

तत्र पूर्णेन रूपेण खेचरीमेव वर्णये ।
बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥ 10

32.11

दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् ।
निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥ 11

32.12

एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने ।
ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥ 12

32.13

अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् ।
जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥ 13

32.14

विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् ।
अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥ 14

32.15

जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् ।
त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥ 15

32.16

पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् ।
शून्याशून्यलये कृत्वा एकदण्डे@निलानलौ ॥ 16

32.17

शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते ।
त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥ 17

32.18

आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः ।
शूलं समरसं कृत्वा रसे रस इव स्थितः ॥ 18

32.19

एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये ।
बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥ 19

32.20

खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् ।
त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥ 20

32.21

अवधूतो निराचारो नाहमस्मीति भावयम् ।
मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥ 21

32.22

ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे ।
रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥ 22

32.23

नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् ।
कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ 23

32.24

ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् ।
विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥ 24

32.25

शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः ।
तत्रस्था देवताः सर्वा द्योतयन्त्यो@खिलं जगत् ॥ 25

32.26

कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा ।
अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥ 26

32.27

एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् ।
हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥ 27

32.28

चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः ।
विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥ 28

32.29

एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् ।
जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥ 29

32.30

परदेहेषु चात्मानं परं चात्मशरीरतः ।
पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥ 30

32.31

नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् ।
अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥ 31

32.32

कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् ।
वामो यो@यं जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥ 32

32.33

स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् ।
व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥ 33

32.34

यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् ।
तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥ 34

32.35

चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् ।
मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥ 35

32.36

वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः ।
कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥ 36

32.37

तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते ।
वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥ 37

32.38

ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् ।
गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥ 38

32.39

तत्र तत्पदसंयोगादुन्मीलनविधायिनी ।
यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥ 39

32.40

ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् ।
एष क्रमस्ततो@न्यो@पि व्युत्क्रमः खेचरी परा ॥ 40

32.41

योन्याधारेति विख्याता शूलमूलेति शब्द्यते ।
वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥ 41

32.42

नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् ।
आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥ 42

32.43

नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् ।
बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥ 43

32.44

हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् ।
वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥ 44

32.45

आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् ।
चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥ 45

32.46

भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् ।
पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥ 46

32.47

श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः ।
चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥ 47

32.48

ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे ।
तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥ 48

32.49

भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः ।
मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥ 49

32.50

त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते ।
नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥ 50

32.51

वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् ।
भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥ 51

32.52

मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः ।
मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥ 52

32.53

शरीरं तु समस्तं यत्कूटाक्षरसमाकृति ।
एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥ 53

32.54

सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः ।
पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥ 54

32.55

अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी ।
तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥ 55

32.56

सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता ।
मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥ 56

32.57

शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् ।
समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥ 57

32.58

एषैव शक्तिमुद्रा चेदधोधावितपाणिका ।
दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥ 58

32.59

द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता ।
संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥ 59

32.60

उत्क्रामणी झगित्येव पशूनां पाशकर्तरी ।
श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥ 60

32.61

साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् ।
अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥ 61

32.62

वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी ।
अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥ 62

32.63

एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता ।
श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥ 63

32.64

एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् ।
एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥ 64

32.65

तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् ।
तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥ 65

32.66

यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे ।
विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥ 66

32.67

बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः ।
शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥ 67

32.68

इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः ।

मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc