भाषा

ENहिગુ
ग्रंथ पाठ

तन्त्रालोक · अध्याय 31

31.1

अथ मण्डलसद्भावः संक्षेपेणाभिधीयते ।
साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥ 1

31.2

तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः ।
ततो@प्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥ 2

31.3

अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् ।
मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥ 3

31.4

तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये ।
यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥ 4

31.5

अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते ।
मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥ 5

31.6

मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः ।
सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥ 6

31.7

मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् ।
एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥ 7

31.8

सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते ।
यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥ 8

31.9

मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् ।
तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥ 9

31.10

तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् ।
वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥ 10

31.11

भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् ।
ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥ 11

31.12

कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः ।
ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥ 12

31.13

कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः ।
तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥ 13

31.14

कोष्ठकार्धे@परं चेति युग्ममन्तर्मुखं भवेत् ।
ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥ 14

31.15

कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः ।
ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥ 15

31.16

कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् ।
भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥ 16

31.17

तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः ।
कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥ 17

31.18

सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते ।
द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥ 18

31.19

मध्यशृङ्गे@थ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके ।
चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥ 19

31.20

तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा ।
अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥ 20

31.21

एवं द्वितीयपार्श्वे@स्य खण्डेन्दुद्वयवर्तनात् ।
मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥ 21

31.22

सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् ।
पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥ 22

31.23

अवधानेन संग्राह्यमाचार्येणोहवेदिना ।
भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥ 23

31.24

मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः ।
ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥ 24

31.25

ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता ।
द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥ 25

31.26

अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् ।
ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥ 26

31.27

मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा ।
पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥ 27

31.28

त्रित्रिशूले@त्र सप्तारे श्लिष्टमात्रेण मध्यतः ।
पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ 28

31.29

मिश्रितं वाथ संकीर्णं समासव्यासभेदतः ।
ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥ 29

31.30

तत्र दण्डः स्मृतो भागः षडरामलसारकः ।
सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥ 30

31.31

या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी ।
सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥ 31

31.32

अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः ।
ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥ 32

31.33

वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः ।
स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥ 33

31.34

उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् ।
कुटिलो मध्यतः स्पष्टो@धोमुखः पार्श्वगः स्थितः ॥ 34

31.35

उत्तानो@र्धो@समः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा ।
चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥ 35

31.36

अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता ।
तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥ 36

31.37

पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः ।
शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥ 37

31.38

स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः ।
भावाभावविकल्पेन मण्डलानामनन्तता ॥ 38

31.39

ततो रजांसि देयानि यथाशोभानुसारतः ।
सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥ 39

31.40

उत्तमानि रजांसीह देवतात्रययोगतः ।
परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥ 40

31.41

अपरा सा परा काली भीषणा चण्डयोगिनी ।
दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥ 41

31.42

अनर्चिते@प्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः ।
किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥ 42

31.43

शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् ।
या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥ 43

31.44

विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता ।
तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥ 44

31.45

अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः ।
आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥ 45

31.46

तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः ।
तस्मादेनं महायागं महाविभवविस्तरैः ॥ 46

31.47

पूजयेद्भूतिकामो वा मोक्षकामो@पिवा बुधः ।
अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥ 47

31.48

पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति ।
मन्दशक्तिबलाविद्धो@प्येतन्मण्डलपूजनात् ॥ 48

31.49

सततं मासषट्केन त्रिकज्ञानं समश्नुते ।
यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥ 49

31.50

देहान्ते स्याद्भैरवात्मा सिद्धिकामो@थ सिद्ध्यति ।
मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥ 50

31.51

वर्तनां च विजानाति स गुरुस्त्रिकशासने ।
तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥ 51

31.52

अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् ।
तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥ 52

31.53

चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् ।
तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥ 53

31.54

इत्येतत्कथितं गुप्ते षडर्धहृदये परे ।
षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥ 54

31.55

अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् ।
महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥ 55

31.56

द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् ।
कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥ 56

31.57

अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् ।
शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥ 57

31.58

एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति ।
स्थानान्तरे@पि कथितं श्रीसिद्धातन्त्रशासने ॥ 58

31.59

कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु ।
शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥ 59

31.60

अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते ।
सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥ 60

31.61

यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः ।
तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥ 61

31.62

वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् ।
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥ 62

31.63

त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः ।
द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥ 63

31.64

ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा ।
भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥ 64

31.65

तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः ।
जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥ 65

31.66

तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् ।
बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥ 66

31.67

तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् ।
ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥ 67

31.68

द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः ।
एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥ 68

31.69

सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये ।
तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥ 69

31.70

आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् ।
तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥ 70

31.71

तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये ।
क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥ 71

31.72

षड्विस्तृतं चतुर्दीर्घं तदधो@मलसारकम् ।
वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥ 72

31.73

आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् ।
हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥ 73

31.74

द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु ।
एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥ 74

31.75

दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश ।
द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥ 75

31.76

एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् ।
एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥ 76

31.77

यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते ।
तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥ 77

31.78

एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् ।
द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥ 78

31.79

कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः ।
सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥ 79

31.80

दलानि शुक्लवर्णानि प्रतिवारणया सह ।
पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥ 80

31.81

सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् ।
चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥ 81

31.82

दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् ।
रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥ 82

31.83

पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥ 83

31.84

एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् ।
कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥ 84

31.85

विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् ।
श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥ 85

31.86

अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् ।
भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥ 86

31.87

मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ ।
भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥ 87

31.88

तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः ।
चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥ 88

31.89

तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् ।
ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥ 89

31.90

क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः ।
अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥ 90

31.91

भागं भागं गृहीत्वा तु उभयोरथ गोचरात् ।
भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥ 91

31.92

षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् ।
तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥ 92

31.93

मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः ।
सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥ 93

31.94

कर्णिका पीतला रक्तपीतशुक्लं च केसरम् ।
दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥ 94

31.95

शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः ।
शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥ 95

31.96

शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा ।
अस्योर्ध्वे तु परां दक्षे@न्यां वामे चापरां बुधः ॥ 96

31.97

या सा कालान्तका देवी परातीता व्यवस्थिता ।
ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥ 97

31.98

शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् ।
अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥ 98

31.99

भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् ।
चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥ 99

31.100

एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः ।
अथ त्रैशिरसे शूलाब्जविधिर्दृष्टो@भिलिख्यते ॥ 100

31.101

वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः ।
भूमिं रजांसि करणीं खटिकां मूलतो@र्चयेत् ॥ 101

31.102

चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् ।
चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥ 102

31.103

वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः ।
द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥ 103

31.104

दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः ।
ऊर्ध्वे@प्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥ 104

31.105

शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् ।
कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥ 105

31.106

अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः ।
शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥ 106

31.107

वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् ।
द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥ 107

31.108

चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् ।
उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥ 108

31.109

भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् ।
वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥ 109

31.110

यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् ।
मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥ 110

31.111

चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला ।
उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥ 111

31.112

पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते ।
शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥ 112

31.113

अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् ।
चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥ 113

31.114

पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः ।
कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥ 114

31.115

कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् ।
क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥ 115

31.116

चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् ।
विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥ 116

31.117

त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् ।
सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥ 117

31.118

शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् ।
रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥ 118

31.119

शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः ।
तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥ 119

31.120

वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् ।
समन्ततो@थ दिक्षु स्युर्द्वाराणि करमात्रतः ॥ 120

31.121

त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः ।
कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥ 121

31.122

प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् ।
सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥ 122

31.123

रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् ।
अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥ 123

31.124

अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः ।
अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥ 124

31.125

हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे ।
नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥ 125

31.126

शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् ।
उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥ 126

31.127

शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् ।
प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥ 127

31.128

अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् ।
मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥ 128

31.129

तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः ।
समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥ 129

31.130

समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः ।
षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥ 130

31.131

विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे ।
कार्यो@स्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥ 131

31.132

स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः ।
नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥ 132

31.133

शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा ।
एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥ 133

31.134

अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते ।
वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥ 134

31.135

रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् ।
वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥ 135

31.136

रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् ।
मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥ 136

31.137

वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च ।
लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥ 137

31.138

द्वारप्राकारकोणेषु नेत्रानलशरानृतून् ।
नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥ 138

31.139

वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् ।
नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥ 139

31.140

लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् ।
शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥ 140

31.141

नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः ।
स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥ 141

31.142

मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः ।
नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥ 142

31.143

ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् ।
नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥ 143

31.144

वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् ।
वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥ 144

31.145

ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् ।
सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥ 145

31.146

भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् ।
सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥ 146

31.147

दलानि कार्याणि सितैः केसरं रक्तपीतलैः ।
कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥ 147

31.148

व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः ।
पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥ 148

31.149

स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः ।
वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥ 149

31.150

इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् ।
दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥ 150

31.151

नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् ।
ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥ 151

31.152

गदा हेमनिभात्युग्रा नानारत्नविभूषिता ।
शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥ 152

31.153

तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् ।
चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥ 153

31.154

अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् ।
मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥ 154

31.155

श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते ।
हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥ 155

31.156

मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् ।
नवभिः कोष्ठकैर्युक्तं ततो@यं विधिरुच्यते ॥ 156

31.157

मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु ।
अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥ 157

31.158

उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् ।
कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥ 158

31.159

अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥ 159

31.160

शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् ।
अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥ 160

31.161

मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् ।
मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥ 161

31.162

रेखाद्वयं पातयेत यथा शूलं भवत्यपि ।
अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥ 162

31.163

समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु ।
मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥ 163

31.164

इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः ।

मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc