तन्त्रालोक · अध्याय 30
अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते ।
तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् ॥ 1
प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः ।
स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ 2
यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः ।
स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥ 3
आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये ।
क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥ 4
हं नाले यं तथा रं लं वं धर्मादिचतुष्टये ।
ऋं ॠं ऌं ऌऌं चतुष्के च विपरीतक्रमाद्भवेत् ॥ 5
ओं औं हस्त्रयमित्येतद्विद्यामायाकलात्रये ।
अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥ 6
कादिभान्ताः केसरेषु प्राणो@ष्टस्वरसंयुतः ।
सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥ 7
शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये ।
सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥ 8
पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः ।
संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥ 9
आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् ।
अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥ 10
रतिशेखरमन्त्रो@स्य वक्त्राङ्गं ह्रस्वदीर्घकैः ।
अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥ 11
सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः ।
बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥ 12
क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ ।
तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥ 13
एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता ।
परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥ 14
एष त्र्यर्णोज्झितो@धस्ताद्दीर्घैः षड्भिः स्वरैर्युतः ।
षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥ 15
क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः ।
झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥ 16
एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः ।
मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥ 17
ओंकारो@थ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् ।
गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥ 18
नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् ।
सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥ 19
आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः ।
बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥ 20
पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् ।
द्वितीयस्मिन्पदे@कार एकारस्येह च स्मृतः ॥ 21
ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् ।
हे@ग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् ॥ 22
अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः ।
तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥ 23
एषा परापरादेव्या विद्या श्रीत्रिकशासने ।
पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥ 24
अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् ।
प्रत्येकवर्णगो@प्युक्तः सिद्धयोगीश्वरीमते ॥ 25
देवताचक्रविन्यासः स बहुत्वान्न लिप्यते ।
माया विसर्गिणी हुं फट् चेति मन्त्रो@परात्मकः ॥ 26
परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः ।
सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥ 27
स्वरूपतो विभिन्नापि रचनानेकसङ्कुला ।
जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥ 28
आधाराधेयभावेन अविनाभावयोगतः ।
हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥ 29
भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् ।
दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥ 30
प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् ।
परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥ 31
स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् ।
अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥ 32
शून्यद्वयसमोपेतं पराया हृदयं परम् ।
युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥ 33
अन्ये@प्येकाक्षरा ये तु एकवीरविधानतः ।
गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥ 34
यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः ।
कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥ 35
अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा ।
सकारो दीर्घषट्केन युक्तो@ङ्गान्याननानि तु ॥ 36
स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः ।
ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥ 37
प्रणवश्चामृते तेजोमालिनि स्वाहया सह ।
एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥ 38
वेदवेदनि हूं फट्च प्रणवादियुता शिखा ।
वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥ 39
एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् ।
तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥ 40
नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् ।
तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् ॥ 41
लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः ।
इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥ 42
स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके ।
नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः ॥ 43
अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः ।
जपे होमे तथाप्याये समुच्चाटे@थ शान्तिके ॥ 44
अभिचारे च मन्त्राणां नमस्कारादिजातयः ।
अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥ 45
योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी ।
आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥ 46
जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः ।
अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥ 47
दक्षजानुगतश्चायं सर्वमातृगणार्चितः ।
अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥ 48
सद्भावः परमो ह्येष मातॄणां भैरवस्य च ।
तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥ 49
रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः ।
यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥ 50
यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् ।
अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥ 51
दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ ।
नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥ 52
सर्वयोगिनिचक्राणामधिपो@यमुदाहृतः ।
अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥ 53
महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् ।
नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥ 54
श्रीडामरे महायागे परात्परतरोदिता ।
सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥ 55
अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते ।
शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥ 56
एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् ।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥ 57
द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा ।
कूटाग्नी सविसर्गाश्च पञ्चाप्येते@थ पञ्चसु ॥ 58
व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने ।
छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥ 59
बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् ।
आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥ 60
कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः ।
जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥ 61
कथितं सरहस्यं तु सद्योनिर्वाणकं परम् ।
अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥ 62
शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ।
सर्वेषामेव भूतानां मरणे समुपस्थिते ॥ 63
यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ।
या ज्ञानिनो@पि संपूर्णकृत्यस्यापि श्रुता सती ॥ 64
प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति ।
यामाकर्ण्य महामोहविवशो@पि क्रमाद्गतः ॥ 65
प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् ।
परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥ 66
पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् ।
आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥ 67
गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे ।
जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥ 68
एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् ।
हंस हयग्रीव विभो सदाशिवस्त्वं परो@सि जीवाख्यः ॥ 69
रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम ।
तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥ 70
हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी ।
मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥ 71
कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह ।
आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥ 72
निःश्वासे त्वपशब्दस्य स्थाने@स्त्युप इति ध्वनिः ।
अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥ 73
एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः ।
व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥ 74
प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् ।
आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥ 75
ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य ।
उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥ 76
आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः ।
प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥ 77
आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य ।
धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥ 78
आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः ।
हे ब्रह्मन् हे विष्णो हे रुद्र शिवो@सि वासुदेवस्त्वम् ॥ 79
अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश ।
एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥ 80
सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् ।
पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥ 81
अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म ।
आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥ 82
अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे ।
पुरुषस्त्वं प्रकृतिमयैर्बद्धो@हङ्कारतन्तुना बन्धैः ॥ 83
अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् ।
एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥ 84
ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् ।
आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥ 85
तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् ।
स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥ 86
मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् ।
आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥ 87
मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् ।
आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥ 88
सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः ।
वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥ 89
प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते ।
तारो माया वेदकलो मातृतारो नवात्मकः ॥ 90
इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः ।
बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥ 91
एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः ।
कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नो@पि विशुद्ध्यति ॥ 92
लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी ।
तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥ 93
शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् ।
षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥ 94
अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् ।
हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥ 95
अग्निमण्डलमध्यस्थभैरवानलतापिताः ।
वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥ 96
विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः ।
ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥ 97
प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् ।
प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥ 98
तुलामेलकयोगः श्रीतन्त्रसद्भावशासने ।
य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥ 99
अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः ।
देशकालादिदोषेण न तथाध्यवसायिनाम् ॥ 100
प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता ।
कथ्यते हाटकेशानपातालाधिपचोदिता ॥ 101
श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे ।
वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥ 102
धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः ।
ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥ 103
मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनो@भियोगेन ।
कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥ 104
गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः ।
मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥ 105
एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये ।
बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥ 106
प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् ।
पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥ 107
सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि ।
समस्तबन्धशब्देन सहितं च निकृन्तनि ॥ 108
बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् ।
पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥ 109
खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा ।
अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥ 110
अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् ।
वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तो@र्णत्रयादतः ॥ 111
महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् ।
आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥ 112
षडर्णं पापशब्दादिविमोहनिपदं ततः ।
पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥ 113
पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति ।
तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥ 114
तदनच्कतकारेण सहैकीभावतः पठेत् ।
रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥ 115
मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् ।
अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥ 116
आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् ।
एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥ 117
रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयिते@थ मे ।
पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥ 118
सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा ।
सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥ 119
विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी ।
एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥ 120
यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् ।
अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥ 121
अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः ।
नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥ 122
निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते ।
इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥ 123
मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0